०६६

श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि! चैकोऽहं बहुधाऽपि च ।
नामरूपविभेदेन युगभेदेन वै तथा ॥१ ॥ भक्तभेदेन च कार्यभेदेन सम्भवामि वै ।
प्रत्यात्मनियतश्चाऽस्मि सर्वजन्तुषु सर्वदा ॥२ ॥ मदिच्छा हि महामाया मूलप्रकृतिरेव सा ।
राधा लक्ष्मीर्मम शक्तिद्वयं मदात्मकं हि तत् ॥३ ॥ प्रधानं त्रिगुणं चापि मया तादृग्विधं कृतम् ।
तत्र जीवा अनन्ता वै चेतना निवसन्ति हि ॥४ ॥ प्रधानात् प्रभवन्त्येव भूतानि देहहेतवः ।
देहास्तस्मात्प्रजायन्ते जीवादीनां गृहाणि वै ॥५ ॥ सत्त्वमायामयो विष्णुश्चाहं भवामि पद्मजे ।
रजोमायामयो ब्रह्मा चाहं भवामि पद्मजः ॥६ ॥ तमोमायामयः शम्भुश्चाहं भवामि भालजः ।
तत्र सर्वत्र वै चाहं परमेशो वसामि च ॥७ ॥ अतः सर्वगतश्चाहं त्रिदेवसृष्टिमण्डले ।
अविद्यया न जानन्ति गूढं लोका गुहाशयम् ॥८ ॥ विद्यया वै प्रजानन्ति साधवो यतिसत्तमाः ।
ब्रह्मज्ञानं हि सा विद्यापरा यत्र ममाश्रयः ॥९ ॥ वेदावसानमेवैतद् यत्राऽहं वर्णितः प्रिये ।
आत्मना चाप्यते ब्रह्म परं विभु सनातनम् ॥3.66.१ ०॥ मनसा चिन्त्यते ब्रह्म चक्षुषा दृश्यते तथा ।
देहेनाऽऽश्लिष्यते ब्रह्म कृपया प्राप्यते हरिः ॥१ १॥ शुद्धेन मनसा युक्तात्मना संसेव्यते हरिः ।
मनसा बन्धुना ग्राह्यं परब्रह्म सनातनम् ॥१२॥ मनसा बन्धुना त्याज्यं मायायाः पटलं खलु ।
मनसा बन्धुना जीवास्तीर्यन्ते ब्रह्मयोगिना ॥१३॥ मनसा शत्रुणा जीवाः पात्यन्ते विषयार्थिना ।
दिव्येन मनसा ध्यात्वा श्रीपतिं मां परेश्वरम् ॥१४॥ दिव्यां क्रियां प्रकुर्वन् वै कुर्वन्नपि न लिप्यते ।
पद्मपत्रं यथा नीरगतं वार्भिर्न लिप्यते ॥१५॥ मनो मायागतं चापि मद्योगि लिप्यते न वै ।
यदा ब्रह्मरसं वेत्ति तदाऽन्यल्लवणायते ॥१६॥ यदा भक्तिरसं वेत्ति तदान्यद् गरलायते ।
यदा सेवारसं वेत्ति राज्यं तस्य मलायते ॥१७॥ यदा प्रेमरसं वेत्ति सर्वमन्यद् घृणायते ।
यदा मूल्यं मम वेत्ति सर्वं वै कच्चरायते ॥१८॥ यदाऽऽनन्दाशनं वेत्ति मुक्त्याद्यस्य न रोचते ।
ममाऽऽनन्दप्रवाहस्थं चान्यद्वेत्ति न वै यदा ॥१ ९॥ तदा प्रवाहभावेन द्रवतामेति मानसम् ।
द्रवभक्त्या प्राप्य मां तादात्म्ययोगमृच्छति ॥3.66.२० ॥ गुरोर्योगाच्छास्त्रयोगाज्ज्ञानं दिव्यमवाप्यते ।
विज्ञानं चाप्यतेऽभ्यासैस्ततो ज्ञेयमवाप्यते ॥२१ ॥ ज्ञेयोऽहं परमात्मा च श्रीपतिः पुरुषोत्तमः ।
यदा प्राप्तस्तदा शून्यं मायामयं प्रजायते ॥२२॥ भावशुद्धिश्चाग्रपदा मनःशुद्धिस्ततः परा ।
आत्मशुद्धिश्चोर्ध्वपदा ताभिश्चावाप्यते हरिः ॥२३॥ नार्यो बहुविधाः सन्ति ह्याश्लिष्यन्ति च नैकधा ।
यथा भावश्च सम्बन्धस्तथा फलं क्रियादिकम् ॥२४॥ आलिङ्ग्यते निजा कान्ता यथा भावस्तथा फलम् ।
आलिङ्ग्यते हरिर्जीवैर्यथा भावस्तथा फलम् ॥२५॥ सम्प्राप्यते यया बुद्ध्या तथा चावाप्यते फलम् ।
यथा बुद्ध्या हि मामेति तथा ददामि वै फलम् ॥२६ ॥ श्रेष्ठं चात्मानन्दफलं प्राप्तव्यं सेवया सदा ।
प्रसन्नताप्रयोज्यो वै महानन्दा मयाऽर्प्यते ॥२७॥ प्रसन्नताऽनुकूल्येन प्रातिकूल्यविवर्जनात् ।
अशङ्कसेवया भक्त्या प्रसन्नता प्रजायते ॥२८॥ न सा क्रयेण लभ्या वा न वा क्षणादिबुद्धिभिः ।
न वा तात्कालिकी प्राप्या स्वार्थवृत्त्या न लभ्यते ॥२९॥ न मानेन न वै चातुर्येण नैपुण्यकेन न ।
न सा स्वेष्टमनोवृत्त्या किन्तु सर्वार्पणे न सा ॥3.66.३०॥ सर्वाज्ञापालनेनैव दैन्यभावेन लभ्यते ।
कैङ्कर्येण च दास्येन तदीयत्वेन लभ्यते ॥३ १॥ सोऽहं मत्वा मदीय तं तां च वै तादृशीं सतीम् ।
मत्वा प्रसन्नतां कुर्वे प्राप्तो भवामि वै ततः ॥३२॥ येनाऽहमस्मि प्राप्तव्यस्तेन भाव्यं निवेदिना ।
स्वोपानद्धारणे यद्वत् पृथ्वी निष्कण्टका तथा ॥३३॥ स्वस्मिन् दास्येऽर्जिते माया निर्बन्धा दिव्यताप्रदा ।
स्वस्मिन् भृत्येऽर्जिते माया स्वामिताविरहाऽस्य वै ॥३४॥ स्वस्मिन् दैन्येऽर्जिते माया सत्ताशून्याऽस्य सर्वथा ।
स्वस्मिन् सर्वार्पिते प्राप्ते माया निराशतां व्रजेत् ॥३५॥ बुद्धिर्ब्रह्मविधा स्याच्चेन्मायाकार्यं विलीयते ।
मायामयी तु या बुद्धिः सा जगज्जन्मदायिनी ॥३६॥ विषवल्ली दुग्धसिक्ता विषभावं न मुञ्चति ।
बुद्धिरासुरभावा चेदासुरतां न मुञ्चति ॥३७॥ शर्करारसपानोऽपि निम्बः कटुतरो भवेत् ।
तथाऽऽसुरस्वभावो वै मां न कदापि रोचते ॥३८॥ तादृशानां जगज्जानां शास्त्रव्रातो निरर्थकः ।
नैव स्वभावं त्यजति सत्सङ्गं न करोत्यपि ॥३९॥ भक्तिर्न रोचते यस्य स्नेहो नैसर्गिको न च ।
मुमुक्षुता न यस्याऽस्ति नास्तिकत्वं प्रमोदते ॥3.66.४०॥ तस्य शाश्वतमोदाशा व्योमपुष्पायते सदा ।
छित्वा चाम्रद्रुमं कस्मात् फलं पुष्पं समीयते ॥४१ ॥ भित्त्वा भक्तिं च सेवां च कथं सुखमवाप्यते ।
इन्द्रियाणां सुखार्थित्वे वृथा जन्म हि देहिनः ॥४२॥ छित्वा कर्पूरखण्डानि कुतृणानि प्ररक्षति ।
रसपुष्पादिहीनानि वृथा यत्नोऽस्य तत्र वै ॥४३॥ सतां सेवां विनिन्द्यैव दुष्टसेवां करोति च ।
पुण्यकर्मविहीनां वै वृथा यत्नोऽस्य सर्वथा ॥४४॥ स्वर्णस्थाल्यां वृषलेन पच्यते सरमामिषम् ।
नरदेहे तु पापेन पच्यते यमयातना ॥४५॥ जन्मरोगी वृथाजन्मा मायारोगी वृथामनुः ।
वृथाश्रमोऽगृहकोशी वृथामृत्युर्हरिं विना ॥४६॥ वृथा वाचो महामूर्खे चाऽसंयमे वृथौषधम् ।
हरिं विना वृथा यात्रा विड्वाहि जन्म वै वृथा ॥४७॥ सर्वनाथं हरिं त्यक्त्वा वानरं सेवते तु यः ।
तत्तुल्यो देहमात्रस्य पोषको मोक्षवर्जितः ॥४८॥ विना भक्तिं बहुविद्यागमस्यापि फलं नु किम् ।
येनाऽऽत्मशान्तिर्नैवास्ति तस्माच्छान्तिप्रदं भजेत् ॥४९॥ किं तेन लक्ष्मि देहेन चन्दनादिप्रसेविना ।
येन सेवाहरेर्नैव नैव सतां न मोक्षणम् ॥3.66.५० ॥ श्वपचोऽपि यदि भक्तियुतो जन्माऽस्य सार्थकम् ।
विप्रदेहोऽपि निर्भक्तो जन्माऽस्य निरयप्रदम् ॥५१॥ मणिकङ्कणमाबद्ध्वा दर्पणं निष्फलं यथा ।
सतां सत्सङ्गमासाद्य वृथा तदन्यसाधनम् ॥५२॥ दृढाश्रिता न गृह्णन्ति दत्तैश्वर्यं सुरादिभिः ।
दृढभक्ता न गृह्णन्ति दत्तैश्वर्यं हरेरपि ॥५३॥ अनिच्छुकस्य भक्तस्य जयश्चास्ते पदे पदे ।
न तं प्रलोभितुं शक्तः स्वयं नारायणोऽपि वै ॥५४॥ इच्छया बध्यते देही तृष्णया तु विनश्यति ।
द्वाभ्यामूर्ध्वस्थितायाऽत्र दातुं नाऽलं ह्यपि प्रभुः ॥५५॥ नित्यतृप्तस्य शान्तस्य धैर्यं त्याजयितुं ह्यलम् ।
निर्भयस्यापि भक्तस्य कश्चिन्नास्ति जगत्त्रये ॥५६॥ भक्तं चैतादृशं नैजं रञ्जयितुं नरायणः ।
भवाम्यहं दृश्यवच्च येन ध्यातो भवामि च ॥५७॥ अनादिश्रीकृष्णनारायणं ध्यात्वा च मां जनाः ।
साकारं दिव्यरूपं वै शाश्वतं धामगं हि माम् ॥५८॥ असङ्ख्यदेहिनो भक्ता गता मे परमाऽक्षरम् ।
पूजां भक्तिं दिव्यसेवां विधाय भृत्यतां तथा ॥५९॥ दासतां सविधायाऽपि पातिव्रत्यं विधाय च ।
विधाय मम दासीतां गता नार्यो ममाऽक्षरम् ॥3.66.६ ०॥ शून्ये भक्तिर्न भवति भक्तिर्भवति साकृतौ ।
आधाररूपे नाथे श्रीपतौ मयि परेश्वरे ॥६ १ ॥ विधाय प्रेमभक्तिं वै श्रीवन्मां स्वामिनं पतिम् ।
प्रापुः पूर्वतरा नार्यो जारभावमुपाश्रिताः ॥६२॥ किं पुनर्निजयोषाश्च सर्वस्वार्पणसंश्रिताः ।
तस्माल्लक्ष्मि स्वयं स्वामी साकारोऽहं प्रभुः पतिः ॥६३॥ सुखदः शाश्वतानन्दप्रदो भूत्वा नयाम्यपि ।
कासाञ्चिद्दर्शने स्नेहः कासाञ्चित्स्पर्शनेऽधिकः ॥६४॥ कासाञ्चिद्रमणे स्नेहः कासाञ्चित् स्वपनेऽपि च ।
कासाञ्चित्कामसम्भोगे कासाञ्चिद्रासकर्मणि ॥६५॥ कासाञ्चिद् भोजने स्नेहः कासाञ्चित् स्नानकेलिषु ।
कासाञ्चिच्चूम्बनादौ च कासाञ्चित्तु महोत्सवे ॥६६॥ कासाञ्चित्सहवासे च कासाञ्चित् त्ववियोजने ।
कासाञ्चिन्निजशय्यायां कासाञ्चिन्नर्मकर्मसु ॥६७॥ कासाञ्चित्तु रहस्ये वै स्नेहो मयि विभाव्यते ।
तासां सम्पूर्य कामाँश्च नमामि धाम मेऽक्षरम् ॥६८॥ गुणी तां गुणवद्भार्यां मुक्तानिकां विधाय वै ।
नयामि कान्तरूपोऽहं शाश्वतानन्दधाम मे ॥६९॥ सेवारसो हि साकारे लभ्यते सुन्दरीगणैः ।
भक्तैः सेवारसः पूर्णः प्राप्यते मयि धामनि ॥3.66.७०॥ ममैव हि प्रसादेन रोमाञ्चितशरीरिणी ।
नयनानन्दसलिला मुक्तिदासी वधूर्भवेत् ॥७१ ॥ वाण्या गायति मां दासी मनसा मां स्मरत्यपि ।
कर्मणा मां हर्षयति कटिदानार्पणादिभिः ॥७२॥ पूजाजपार्चनसेवापादसम्मर्दनादिभिः ॥ रहस्याऽर्पणभावैश्च लभते शाश्वतं सुखम् ॥७३॥ साकारे मयि भक्ता मे देहभावैः प्रसेवया ।
सर्वेन्द्रियैर्महासौख्यं लभते लोकवत् सखी ॥७४॥ वधूर्भूत्वा वरं कान्तं सेवते मां पतिं प्रभुम् ।
सर्वान् कामान् पूरयामि कामद्वारा हि योषितः ॥७५॥ न मे कामो रतिर्नैव न मे कामसुखं प्रिये ।
पूर्णकामस्य मे रत्या किं कामेन प्रयोजनम् ॥७६॥ सर्वानन्दपरिपूर्णमूर्तेर्मे नास्त्यपूर्णता ।
नेन्द्रियाऽधीनता चापि किं कामेन प्रयोजनम् ॥७७॥ कामो मया कृतः पूर्वः कर्मिणां सुखलब्धये ।
मायामयो हि कामो वै रतिर्मायामयी तथा ॥७८॥ तया तेन न मे कार्यं प्रयोजनं हि मायिकम् ।
किन्तु देहवशा लोका नरा नार्यो निजानिव ॥७९॥ कामान् भावान् कल्पयन्ति मयि पूर्णे सनातने ।
तैस्तैर्भावैस्तथा ताँस्ताः सङ्गृह्य कामभाविताः ॥3.66.८०॥ कामद्वाराऽपि मे योगं दत्वा नयामि धाम मे ।
मोक्षपदं प्रापयामि कामिनामपि सुन्दरीः ॥८ १॥ कृपा मे तादृशी बोध्या संसारो हि तथाविधः ।
ऐन्द्रियिका हि मे भक्ताः सम्मताः सन्ति भूतले ॥८२॥ वैषयिकास्तथा भक्ताः स्थले स्थले वसन्ति वै ।
आत्मिका ब्रह्मभावास्तु क्वचित्सन्ति हि पण्डिताः ॥८३॥ अतो ये मां यथा यान्ति तथा तान् प्राप्य तद्विधः ।
मोक्षयोगं प्रदत्वैवं नयामि धाम मेऽक्षरम् ॥८४॥ प्रायशो योषितां सिद्धिं कर्तुं भवामि कामवान् ।
तासां कामप्रसक्तानां कथमुद्धरणं भवेत् ॥८५॥ तस्माद् दयावशो भूत्वा सेवे कामीव ताः सदा ।
दिव्यरूपा विधायैव नयामि मोक्षमुत्तमम् ॥८६॥ वधूः कन्या युवतीश्च वृद्धा वापि पतिव्रताः ।
नपुंसकी च विधवा सधवा ब्रह्मचारिणी ॥८७॥ यतिनी योगिनी साध्वी सती चार्या विरागिणी ।
सन्यासिनी विचित्ता च तापसी वानप्रस्थिनी ॥८८॥ त्यागिनी साङ्ख्ययोगस्था शक्तिर्वा गणिकाऽपि वा ।
पुंश्चली स्वैरिणी चापि कामिनी कामवर्जिता ॥८९॥ रण्डा षण्ढा रतिशून्या रजःस्था चाऽरजोऽन्विता ।
गौरी वा रोहिणी चापि कुमारिका शवात्मिका ॥3.66.९० ॥ संस्कृता चाऽसंस्कृता वा शुद्धाऽशुद्धा च वर्जिता ।
त्यक्ता मन्त्रवती चापि दीक्षिता वा च न्यक्कृता ॥९१॥ विवासिता वनहारिस्त्री यद्वा श्वपची खसी ।
प्रमदा वा निर्मदा वा व्यभिचारपरायणा ॥९२॥ मुण्डा वा केशिनी वापि दुर्भाग्या सुभगाऽथवा ।
कुब्जा ह्रस्वा सेन्द्रिया वा निरिन्द्रिया ह्युदासिनी ॥९३॥ यादृशी तादृशी वापि सूतिका पाशवी च वा ।
गोधर्मा वा मृगीधर्मा या वा का वा भवत्यपि ॥९४॥ काषाम्बरा वा रक्ता वा विरक्ता हरिदम्बरा ।
ध्वजाम्बरा वा देवी वा दैत्यानी राक्षसी च वा ॥९५॥ दानवी नागिनी नग्ना पक्षिणी जान्तवी च वा ।
वार्क्षी वा वल्लिकाभावा शरभी सिंहिकाऽपि वा ॥९६॥ श्वापदी वा बहुपदी पृष्ठपदी पिशाचिका ।
आर्षी ब्राह्मी पैतृकी वा माता वा क्षेत्ररक्षिका ॥९७॥ पक्षिणी किन्नरी वापि गान्धर्वी नर्तकी च वा ।
वेश्या वापि व्यवायस्था सहस्रलिङ्गिनी च वा ॥९८॥ ईश्वरी वा मानवी वा भूती प्रेती च डाकिनी ।
निकृष्टा पापकर्त्री वा या काचिन्मामुपागता ॥९९॥ यथा भावेन तां लब्ध्वा पावयित्वा नृपीमपि ।
अशुद्धां संस्कृतां कृत्वा नयामि धाम मेऽक्षरम् ॥3.66.१०० ॥ तदर्थं पुंस्वरूपोऽहं भवामि मानवो हरिः ।
समुद्धर्तुं योषितां वै गणाम् कोटिसहस्रशः ॥१०१ ॥ रहस्यं कथितं तेऽत्र लक्ष्मि कामगुणो वृषः ।
मामासाद्य हि धर्मात्मा कामो भवति मोक्षकृत् ॥१ ०२॥ नारीणां योनिसम्बन्धश्चोत्कृष्टस्नेहकारकः ।
तथा कृत्वा नयाम्येव नारीः सर्वा परेऽक्षरे ॥१ ०३॥ श्रुत्वा चापि पठित्वेदं रहस्यं दिव्यताप्रदम् ।
नारायणीयं मोक्षाढ्यं धाम यास्यन्ति मत्पदम् ॥१०४॥ संशयं त्वत्र या नार्यो नरा वा यान्ति तास्तु ते ।
पुण्यं पूर्वं कृतं हित्वा ह्यधो यास्यन्ति दोषिणः ॥१ ०५॥ अपात्राणां संशया वै भवन्ति लोकवादिनाम् ।
मत्पात्राणां संशया नो भवन्ति दिव्यवेदिनाम् ॥१ ०६॥ वधूगीतारहस्यं वै यच्चास्ते हृदये मम ।
वधूमोक्षप्रदं तेऽत्र निःसङ्कोचेन बोधितम् ॥१ ०७॥ वधूमूल्यं ममाऽऽवासादाकृष्टिः प्रियताऽपि च ।
बोद्धव्यं शिष्यते नैवाऽधिकं लोके हि योषिताम् ॥१ ०८॥ कामभावेन युक्तानां मोक्षदोऽहं न संशयः ।
निजधर्मं प्रथमं वै पुरस्कृत्य भजेद्धरिम् ॥१ ०९॥ नारीधर्मो हि रत्याऽस्ति कामधर्मः पुरस्कृतः ।
मद्योगे ब्रह्मचर्यं तत् कामो नार्यां व्रतं परम् ॥3.66.११ ०॥ स्वधर्मे मरणं श्रेयः हरेर्धर्मो हि मोक्षदः ।
स्वधर्मे मोक्षणं स्याद्वै हरेयोगान्न संशयः ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां वधूभक्तिरहस्यनिरूपणनामा षट्षष्टितमोऽध्यायः ॥६६ ॥