०६३

श्रीनारायणीश्रीरुवाच-
के दासा वैष्णवाः कृष्णकान्त प्रिय कृपानिधे ।
के भक्ता कीदृशाश्चापि कीदृशो महिमाऽपि च ॥१ ॥ श्रीपुरुषोत्तम उवाच-
देहसेवाविधातारो मम दासा हि ते मताः ।
रहस्यसेविनः श्रेष्ठा निःशङ्का दिव्यदृष्टयः ॥२ [।
अहं मानुषरूपेण विचरामि जनैः सह ।
जना मां वीक्ष्य लौकीयं सेवन्ते नैव शङ्किताः ॥३ ॥ मन्वते निजवत् कामक्रोधस्वभावसम्भृतम् ।
न मन्वते हि भक्तानां सङ्कल्पपूरकं प्रभुम् ॥४ ॥ सर्वाणि मे चरित्राणि देहजानि शुभानि वै ।
स्मृतान्यपि वीक्षितानि मोक्षदानि न संशयः ॥५ ॥ तत्र संशयकर्तारो न सेवन्ते हि मां खलाः ।
अदिव्यं मां प्रमन्वाना निन्दां कुर्वन्ति मे ततः ॥६ ॥ तेन पापेन निरये तिर्यक्ष्वपि प्रयान्ति च ।
आसुरत्वं न वै तेषां लक्ष्मि क्वचिन्निवर्तते ॥७ ॥ दास्यं हि कठिनं लक्ष्मि महत् सर्वार्पणात्मकम् ।
नरो वा यदि वा नारी देहं दैहिकमर्पयेत् ॥८ ॥ निःशङ्कं चार्पयेत् सर्वं तद्दास्यं चोत्तमोत्तमम् ।
तर्कमूहं संशयं वा न मध्ये कारयेत् क्रियात् ॥९ ॥ धर्मं लज्जां व्यवहारं न मध्ये स्थापयेन्मम ।
नारायणकृतो धर्मो लज्जा नारायणश्रिता ॥3.63.१ ०॥ नारायणव्यवहारो मोक्षदा नेतरे इति ।
मत्वा मम क्रियां सर्वां धर्मात्मिकीं विचिन्तयेत् ॥११ ॥ कामः क्रोधश्च लोभश्च मोहो मदश्च नर्म च ।
अश्लीलं चाऽघटितं च मम दिव्यं हि सर्वथा ॥१२॥ न मे कामो नारकी वै न मे क्रोधो हि घातकी ।
न मे लोभः पापभृच्च न मे मोहो हि वञ्चकः ॥१३ ॥ न मे मदो बन्धकृच्च न मे नर्म वृषोज्झितम् ।
न मेऽश्लीलं क्षुद्रकृच्च न मेऽघटितमस्ति यत् ॥१४॥ सर्वं दिव्यं कृतं मुक्तिप्रदं प्रजायते हि तत् ।
तस्माद् दास्यं हि कठिनं कर्तुं सर्वैर्जनैरिह ॥१५॥ नरा नार्यश्च या दास्यं कर्तुमिच्छन्ति मे सदा ।
तैश्च ताभिः सदा भाव्यमाशङ्कावर्जितैस्तथा ॥१६॥ आशङ्कावर्जिताभिश्च पत्नीभिर्भाव्यमित्यपि ।
लक्ष्मीराधारमाकान्तातुल्याभिर्भाव्यमित्यपि ॥१७॥ ततो दास्यं प्रकर्तव्यं निरावरणमुत्तमम् ।
सर्वं प्रेमभृतं दास्यं शोभते वर्धतेऽत्यति ॥१८॥ भेदभावं विना दास्यं वर्धते नित्यमेव च ।
शङ्का विना परं दास्यं महानन्दप्रदं भवेत् ॥१९॥ परमेशे पतिकृष्णे स्वामिनि परमात्मनि ।
कथं शङ्का कथं प्रातिकूल्यं विवेकिनो भवेत् ॥3.63.२०॥ यत् करोति स्वयं कृष्णो मोक्षदं सर्वमेव तत् ।
यत् करोति स्वयं कृष्णो धर्म एव हि पुण्यकृत् ॥२१॥ तस्माद् दास्यं हि तादात्म्यप्रदं कार्यं सतीजनैः ।
तादात्म्ये चावरणानि भेदकानि प्रिये शृणु ॥२२॥ ऐक्यभावे भेदभावश्चावरणं हि तन्मतम् ।
अहमन्या हरिश्चान्यश्चेति भानं द्वितीयकम् ॥२३॥ आवरणं विघ्नकर्तृ दास्ये क्षतिं करोति तत् ।
अहं नारी नरः कृष्णः परश्च पुरुषो ह्ययम् ॥२४॥ पराऽहं चेति भानं चाऽवरणं तत् तृतीयकम् ।
हरेः पार्श्वे स्थितायाश्च भयमन्यस्य यद् भवेत् ॥२५॥ तदप्यावरणं तुर्यं दास्ये क्षतिं दधाति वै ।
नाऽयं वै समयश्चाऽस्ति पञ्चमावरणं हि तत् ।
नात्र नैव मनो मेऽस्ति षष्ठमावरणं हि तत् ॥२६॥ अर्थार्थित्वं सप्तमं चावरणं चापि विद्यते ।
मानं दास्ये महद्विघ्नं चाष्टमं तद्धि गद्यते ॥२७॥ नवमं स्वार्थसिद्धिश्च रोधिका दास्यकर्मणः ।
दशमं चाऽदिव्यता च रोधिका सेवने सदा ॥२८॥ यथेष्टविनियोगश्च दास्ये भवति पद्मजे ।
स चेन्नास्ति तदा दास्यं चोत्कृष्टं नैव पद्यते ॥२९॥ स्वत्वं दास्यं त्वदीयत्वं तत्परत्वं तदात्मता ।
पञ्चकं दास्यसन्दृब्धं शोभते दास्यमेव तत् ॥3.63.३० ॥ यथा लक्ष्मि तव दास्यं शोभते सर्वमेव ह ।
तथा दास्यं नराणां वा नारीणां शोभते कृतम् ॥३ १॥ भक्तियुक्तं कृतं सर्वं सप्रेम शोभते मयि ।
सर्वावरणवर्ज्यं स शोभते मोदते मयि ॥३२॥ ब्रह्मक्रियारता नित्यं मम सेवापरायणाः ।
शङ्खचक्राद्यङ्किताश्च मोदन्ते मयि वैष्णवाः ॥३३॥ सतां सेवापराश्चापि साध्वीसेवापरास्तथा ।
विष्णुपूजापराश्चापि मोदन्ते मयि वैष्णवाः ॥३४॥ हरेर्दासा हरेश्चापि प्रिया हर्यर्थवर्तिनः ।
सर्वदा मम भक्त्याढ्या मोदन्ते मयि वैष्णवाः ॥३५॥ महोत्साहपराश्चापि महानैवेद्यभोजनाः ।
सर्वप्रसादयोक्तारो मोदन्ते मयि वैष्णवाः ॥३६॥ विष्णोरयं यतश्चास्ते तस्माद्वै वैष्णवो मम ।
नारायणस्य मे चास्ते ततो नारायणीयकः ॥३७॥ सर्वेषामुत्तमो भक्तो नारायणीय एव ह ।
ब्रह्मणोऽयं ब्राह्मभक्तश्चाक्षरस्य तथाऽऽक्षरः ॥३८॥ कृष्णस्याऽयं कार्ष्णभक्तो मोदन्ते मयि वैष्णवाः ।
नारायणीया ब्राह्माश्च तथाऽऽक्षरा ममाऽनुगाः ॥३९॥ ब्रह्मरूपधरा भक्ता ब्राह्मणास्ते प्रकीर्तिताः ।
यतः सकाशात् सञ्जाता ब्राह्मणा वेदपारगाः ॥3.63.४०॥ साधवस्ते सनकाद्या गुरवो ब्राह्मणाः पुरा ।
विप्रादीनां गुरवस्ते साधवो ब्रह्मयोगिनः ॥४१॥ ब्रह्मणा निर्मिताः पूर्वं सनकाद्या हि साधवः ।
ब्रह्मशीला यतयश्च स्कन्दश्च हनुमाँस्तथा ॥४२॥ एवमेते प्रतिसृष्टिसाधवो गुरवः सदा ।
शूद्राणां हि द्विजाः सन्ति गुरवो गृहमेधिनाम् ॥४३॥ द्विजादीनां ब्राह्मणाश्च गुरवो गृहमेधिनः ।
ब्राह्मणानां साधवश्च गुरवो मोक्षदा यतः ॥४४॥ साधवः सर्वतः श्रेष्ठाः सुरर्षिपितृपूजिताः ।
सुरेभ्यः साधवः श्रेष्ठा महर्षिभ्यस्तथोत्तमाः ॥४५॥ पितृभ्यः साधवः श्रेष्ठा भूसुरेभ्यः सदोत्तमाः ।
त्रैलोक्ये नास्ति तच्छ्रैष्ट्यं यच्छ्रैष्ठं सत्सु विद्यते ॥४६॥ सतीतः साधवः श्रेष्ठा यतयो ब्रह्मदर्शनाः ।
गोभ्यश्च साधवः श्रेष्ठा नित्यं ब्रह्मपरायणाः ॥४७॥ भूदेवीतश्चोत्तमाश्च सन्तो वै क्षमयाऽन्विताः ।
मूर्तिभ्यः साधवः श्रेष्ठा ज्ञानदानप्रमोक्षणैः ॥४८॥ देवतायतनेभ्यश्च श्रेष्ठाः सन्तो हि तारकाः ।
पतिव्रताभ्यः श्रेष्ठाश्च सन्तः श्रीपतिसेविनः ॥४९॥ षडङ्गवेदिविप्रेभ्यः श्रेष्ठाः सन्तो हरिप्रियाः ।
वेदेभ्यः साधुवाक्यानि श्रेष्ठानि कृष्णयोजनात् ॥3.63.५० ॥ वेदेभ्यः साधवः श्रेष्ठा वेदाः साधुत्वसंश्रयात् ।
तीर्थेभ्यः साधवः श्रेष्ठाः शीघ्रं पापविनाशनात् ॥५१ ॥ व्रतेभ्यः साधवः श्रेष्ठा यथेष्टाऽनन्तपुण्यदाः ।
पावकात् साधवः श्रेष्ठा मायाकल्मषशोधकाः ॥५२॥ ब्रह्मर्षयोऽपि साधूनां पूजयन्ति पदानि वै ।
ईश्वराः कृष्णरूपाश्च परमेशोऽहमच्युतः ॥५३॥ पूजयामः सतो भक्तान् साधून् सर्वस्वपावनान् ।
सन्तस्ते सद्गुणैश्चाढ्या गुणाढ्याः श्रेष्ठिनो हि ते ॥५४॥ सन्तस्ते ब्रह्मराज्येन राजानश्चक्रवर्तिनः ।
सन्तस्ते ज्ञानभण्डारा विद्वांसो गुरवः पराः ॥५५॥ आचार्याः सन्त एवैते मोक्षदा मन्त्रदास्तथा ।
सन्तस्ते वेदविद्यादिविज्ञास्ते ब्राह्मणोत्तमाः ॥५६ ॥ षट्कर्मनिरताः सन्तो विप्रा एव मता मम ।
लक्ष्मि सन्तो ममात्मानश्चात्माऽहं वै सतां सदा ॥५७॥ सत्यशौचक्षान्तियुक्ता रागद्वेषविवर्जिताः ।
ब्रह्मविद्याविवेकज्ञा वैष्णवाः साधवः पराः ॥५८॥ अग्निहोत्रपराश्चापि नित्यं चातिथिपूजकाः ।
पितृभक्ता मातृभक्ता वैष्णवाः साधवः पराः ॥५९॥ दयाधर्मादिसंयुक्तास्तथा पुण्यपरायणाः ।
शङ्खचक्रादिचिह्नाढ्याः वैष्णवाः साधवः पराः ॥3.63.६ ०॥ कण्ठे माला तौलसेयी धृता यैश्चानने हरिः ।
गीतिः कृष्णस्य कुर्वन्तो वैष्णवाः साधवः पराः ॥६ १ ॥ संहितासु रता नित्यं मखेषु च रतास्तथा ।
सर्वधर्मेष्वादरिणो वैष्णवाः साधवः पराः ॥६२॥ पापात् पापान्मोचयन्ति नैव निन्दन्ति मानवान् ।
देहिनः सुखयन्त्येव वैष्णवाः साधवः पराः ॥६३॥ गोपालकृष्णं श्रीकृष्णं कृष्णनारायणं हि माम् ।
येऽर्चयन्ति प्रतिमां मे वैष्णवाः साधवः पराः ॥६४॥ शालग्रामं पूजयन्ति पूजयन्त्यवतारिणम् ।
अनादिश्रीहरिं मां च वैष्णवाः साधवः पराः ॥६५॥ गोपालोऽयं च कृष्णोऽयं रामादित्योऽयमच्युतः ।
इत्येवं मां पूजयन्ति वैष्णवाः साधवः पराः ॥६६॥ कुङ्कुमवाप्यां रूपं मे यथा च सिद्धपत्तने ।
यथा च गोकुले तद्वद् यथा हिमालयेऽपि च ॥६७॥ यथा च नार्मदे तीरे यथा रूपं धृतं मया ।
तादृग्रूपं पूजयन्ति वैष्णवाः साधवः पराः ॥६८॥ चतुर्भुजां द्विनेत्रां च शङ्खचक्रगदाब्जगाम् ।
पीताम्बरां समुरलीं वनमालादिशोभनाम् ॥६९॥ मुकुटेन युतां रम्यां कौस्तुभोद्भासितां तथा ।
राधारमादिसंयुक्तां सौवर्णीं प्रतिमां मम ॥3.63.७०॥ रौप्यां ताम्रोद्भवां चापि पैत्तलीं मणिजां तथा ।
प्रतिष्ठाप्याऽऽगममन्त्रैर्वेदवाक्यैर्विशेषतः ॥७१॥ षोडशोपचारमन्त्रैः पूजयेयुर्विधानतः ।
प्रेमभक्त्या हृदयेन वैष्णवाः साधवः पराः ॥७२॥ साधवस्ते वैष्णवा वै मन्मयाः पुण्यरूपिणः ।
यथा विष्णुस्तथा सर्वे नाऽन्तरं वर्तते मनाक् ॥७३॥ एवं विज्ञाय राजश्रि साधून् सम्पूजयेत् सदा ।
अहं विष्णुरहं साधुः सती चाहं पतिव्रता ॥७४॥ अहं माता पिता चाहं पतिः साध्वी च योगिनी ।
अहं नारायणः साधुः स्वामी नारायणी त्वहम् ॥७५॥ रुद्रो रुद्रीरजश्चाजी सुरः सुरी भवाम्यहम् ।
सर्वभूतेषु सततं वसामि सम्भवामि च ॥७६॥ पतिकामुकया पूज्यश्चाहं पतिस्वरूपवान् ।
मोक्षकामुकया पूज्यश्चाऽहं श्रीपुरुषोत्तमः ॥७७॥ श्रीनारायणीश्रीरुवाच-
कथं कदा भवान् पूज्यो वस्तुभिः कैश्च केशव ।
विधिना केन भगवन् पतिकामुकया वद ॥७८॥ श्रीपुरुषोत्तम उवाच-
चैत्रमासे शुक्लपक्षे ह्येकादश्यां प्रगे शुभे ।
गत्वाऽऽरामे ग्रहीतव्या दिव्या दमनमञ्जरी ॥७९॥ गुर्वाज्ञया प्रकर्तव्यं पूजनं दमनस्य वै ।
दमने तिष्ठते कामदेवश्च रतिसंयुतः ॥3.63.८०॥ कामदेव नमस्तेऽस्तु त्वं सदा पुरुषोत्तमः ।
हरिं कामं विचिनोमि कृपां कुरु ममोपरि ॥८ १॥ गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ।
अधिवासनपूर्वं च सर्वतोभद्रमण्डले ॥८२॥ स्थापयित्वा हरिं कामं रतिं च दमनद्रुमम् ।
आच्छाद्य श्वेतवस्त्रेण पूजयेत् कन्यका प्रिये ॥८३॥ क्लीं कामदेवाय नमो ह्रीं. रत्यै च नमोनमः ।
पूर्वस्यां ह्रीं च कन्दर्पं पूजयामि निशाऽऽगमे ॥८४॥ गन्धपुष्पाक्षतधूपदीपनैवेद्यकैः शुभैः ।
आरार्त्रिकादिभिर्दैवं पूजयामि पतिं प्रभुम् ॥८५॥ मदनाय नमः प्राच्यां मन्मथाय नमोऽग्निके ।
कन्दर्पाय नमो याम्येऽनङ्गाय नमो नैर्ऋते ॥८६ ॥ वारुण्यां मोहनाय नमः स्मराय नमोऽनिले ।
कौबेर्यामीश्वराय नमः पुष्पबाणायेशान्यां नमः ॥८७॥ सर्वदिक्षु नमस्कृत्य मां कन्या पूजयेत् ततः ।
‘ओं कन्दर्पपुरुषाय विद्महे कामदेवाय धीमहि ।
तन्नोऽनङ्गः प्रचोदयात् ॥८८॥ इति चाष्टोत्तरशतजपान् कुर्याद्धि सन्निधौ ।
‘नमोऽस्तु कामपतये पुष्पशराय ते नमः ॥८९॥ मन्मथायाऽऽनन्ददात्रे नमो रतिकराय ते ।
प्रीतिदाय नमस्तेऽस्तु सर्वबीजाय ते नमः ॥3.63.९०॥ कान्ताय कान्तरूपाय सर्ववासाय ते नमः ।
पुरुषोत्तमरूपायाऽनङ्गदेवाय ते नमः ॥९१॥ अनादिश्रीकृष्णनारायण वाञ्च्छितकामद ।
हृत्स्थान पूरय कामान्मे प्रभो कामेश्वरीप्रिय ॥९२॥ स्तुत्वैवं मञ्जरी वारि दातव्ये मम पादयोः ।
गीतवादित्रनृत्यैश्च कर्तव्यश्चोत्सवो महान् ॥९३॥ जागरणं प्रकुर्याच्च प्रातः स्नात्वाऽर्चयेद्धरिम् ।
गुरुं चापि द्रविणादि वस्त्रालङ्कारभोजनम् ॥९४॥ दानेऽर्पयेद्धि गुरवे सहाऽश्नीयाच्च वैष्णवैः ।
भूमिदानं धेनुदानं महादानं तु भूरिशः ॥९५॥ सर्वदानं तया दत्तं मञ्जर्याः पूजनेन मे ।
गोसहस्रप्रदानस्य फलं दमनकार्चने ॥९६॥ मल्लिकाकुसुमैर्मां या वसन्ते कान्तमुत्तमम् ।
अर्चयेत्परया भक्त्या सा कान्तं लभते ध्रुवम् ॥९७॥ मधुकश्च दमनकश्चातिप्रीतिकरौ हरेः ।
ताभ्यामहं पूजितो द्राक् पतिं ददामि योषिते ॥९८॥ कन्यायै रतिरूपायै प्रसन्नः पुरुषोत्तमः ।
पतिं ददामि तद्योग्यं कान्तं कान्तिनिधिं शुभम् ॥९९॥ कामदेवसमं रम्यं सवयस्कं मदात्मकम् ।
सौम्यशीलं च नीरोगं सम्पद्युक्त गुणाकरम् ॥3.63.१०० ॥ प्रीतिपात्रं प्रेमपात्रं ददामि पतिमुत्तमम् ।
इत्येवं कथितं लक्ष्मि मुक्तिदं भुक्तिदं व्रतम् ॥१० १॥ पूजनं मम लोकेऽत्र भजनं चापि चोत्तमम् ।
गुरुतीर्थं साधुसाध्वीरूपं चापि तथोत्तमम् ॥१ ०२॥ दासदासीवैष्णवादिस्वरूपाणि तथा प्रिये ।
अनावरणसेवा च कथिता मम लब्धये ॥१ ०३॥ पठनाच्छ्रवणाच्चाऽस्य स्मरणात् करणात्तथा ।
अवश्यं फलमाप्नोति भक्ता भक्तो यथोदितम् ॥१ ०४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरयुगसन्ताने वधूगीतायामनावरणसेवादास्यसाघुसाध्वीश्रैष्ठ्यदमनकव्रतादिनिरूपणनामा त्रिषष्टितमोऽध्यायः ॥६३ ॥