०५७

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सर्ववैदिकसारकम् ।
सर्वसाधनसाध्यो वै भजनीयः परेश्वर ॥१ ॥ दानैस्तीर्थैस्तपोभिश्चाऽध्वरैः परोपकार्यकैः ।
रञ्जनीयः परमात्मा साधनीयो नरायणः ॥२ ॥ षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।
कृष्णनारायणभक्तचरणे संवसन्ति हि ॥३ ॥ प्रायश्चित्तान्यशेषाणि तपांसि च व्रतानि च ।
यानि तेषां समस्तानां कृष्णानुस्मरणं परम् ॥४ ॥ पापदहनवाञ्च्छानां जनानां योषितां तथा ।
प्रायश्चित्तं तु परमं श्रीहरेः स्मरणं मम ॥५॥ मुहूर्तमपि यद्ध्यानं श्रीहरेः परमात्मानः ।
स्वर्गदं तद् भवत्येव नित्यध्यानं तु मोक्षदम् ॥६ ॥ जाग्रत्स्वप्नसुषुप्तेषु नारायणपरायणाः ।
येषां यासां वृत्तयश्च तास्ते मुक्ता न संशयः ॥७ ॥ उत्तिष्ठन् निपतन् गच्छन् प्रलपन् विविशंस्तथा ।
भुञ्जन् पिबँश्च मां कृष्णं यः स्मरेन्मुक्त एव सः ॥८ ॥ स्वे स्वे कर्मणि सर्वत्र वृत्तिः कार्याऽच्युताश्रया ।
तेन कर्म हि तत्सर्वं निर्गुणं मोक्षदं भवेत् ॥९ ॥ ध्यानं धर्मः परः प्रोक्तस्तपः परं व्रतं परम् ।
शौचं परं हरेर्ध्यानं ध्यानमग्नस्ततो भवेत् ॥3.57.१० ॥ नास्ति विष्णोः परं ध्येयं गेयं प्राप्यं परं ततः ।
तस्माद् विष्णोर्हरेः कार्यं ध्यानं प्रचिन्तनं हृदि ॥११ ॥ यद् दुर्लभं परं चास्ते मनसो नापि गोचरम् ।
तदप्यत्र हरिर्ध्यातः प्रसन्नः सन् ददाति वै ॥१२॥ प्रमादादपि कृष्णस्य ध्यानं स्मृतिर्नमस्कृतिः ।
कृता सती परब्रह्मपदं ददाति शाश्वतम् ॥१३॥ ध्यानेन सदृशं चान्यन्नास्ति वै पापशोधकम् ।
आगामिदेहबीजस्य दाहकं स्मरणं हरेः ॥१४॥ विनिष्पन्ना ध्यानसिद्धिः समाधिं चादधाति वै ॥ हरौ समाधिमापन्नो मोक्षमत्र समश्नुते ॥१५॥ निजचित्ते स्थिते विष्णौ भक्तानां किल्बिषाणि वै ।
दह्यन्ति मूलतश्चात्मा मुक्तब्रह्म प्रजायते ॥१६॥ अग्नियोगात् कनकं वै निर्मलं सम्प्रजायते ।
हरेर्योगाद्धि भक्तात्मा ब्रह्मधामा प्रजायते ॥१७॥ गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु ।
यत्पापं लीनतां याति स्मृते नश्यति तद्धरौ ॥१८॥ प्राणायामसहस्रैस्तु यत्पापं लीयते हि तत् ।
ध्यानेन क्षणमात्रेण हरेर्ध्यातुर्विनश्यति ॥१९॥ पापं कालस्तथा माया चान्तको यमसेवकाः ।
मृत्युश्चापि न तस्यास्ति यस्यास्ति पुरुषोत्तमः ॥3.57.२०॥ सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।
शकुनं लग्नमेतद्वै शुभं यत्र स्मृतो हरिः ॥२ १ ॥ सा हानिः स च रोगोऽस्ति सैव क्षतिर्दरिद्रता ।
यत्र क्षणे गृहे कृष्णो हरिः स्मृतो न केशवः ॥२२॥ यस्य गेहे हरिश्चास्ते तस्य सत्ययुगः सदा ।
यस्य नास्ति हरिर्गेहे तस्य चान्ये युगा गृहे ॥२३॥ हृदये यस्य नो कृष्णश्चिन्तने नो हरिस्तथा ।
प्रतिमा न गृहे यस्य श्मशानं मानसं गृहम् ॥२४॥ यस्याऽग्रतस्तथा पृष्ठे चान्तरे करणेषु च ।
गोविन्दः सम्प्रभात्येवाऽक्षरं धामाऽभितोऽस्य वै ॥२५॥ वासुदेवे मनो यस्य पानभोजनकर्मसु ।
अक्षरं धाम तस्यास्ति दृढं गम्यं हि शाश्वतम् ॥२६॥ गार्हस्थ्यकर्मकर्ताऽपि व्यवहारावृतोऽपि च ।
छिनत्ति पौरुषीं मायां केशवार्पिततत्क्रियः ॥२७॥ विघ्ना दूरं प्रयान्त्येव कालः शिखां त्यजत्यपि ।
मृत्युर्दृष्टिं न चायाति श्रीहरौ हृदयस्थिते ॥२८॥ ध्यायेन्नारायणं विष्णुं कृष्णं तं सर्वकर्मसु ।
लाभस्तस्य जयस्तस्य यद्धृदिस्थो जनार्दनः ॥२९॥ कीटपक्षिगणानां श्रीहरेः प्रसन्नतायुजाम् ।
ब्रह्मलोकगतिश्चास्ति किं पुनः सेविनां हरेः ॥3.57.३०॥ नारायणतरुच्छाया नातिशीता न तापदा ।
याम्यद्वारप्रशमनी सेवनीया सुखार्थिभिः ॥३ १॥ वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
न विस्मरेद्धरिं यो वै सिद्धयोगी मतो हि सः ॥३२॥ ध्येयः सदा गुरौ मूर्तौ साध्व्या कान्ते रवौ हरिः ।
युवा भूषाम्बरधारी कोटिकामाऽतिसुन्दरः ॥३३॥ नहि ध्यानेन सदृशं पवित्रं पापनाशकम् ।
श्वपचोऽपि भवेच्छुद्धः श्वपचाऽन्नाद इत्यपि ॥३४॥ विष्णुभक्तिर्यस्य जीवे विष्णुर्यदात्मनि स्थितः ।
स तारयति संसाराच्छरणागतकोटिकान् ॥३५॥ तज्ज्ञानं यत्र लक्ष्मीशः सा कथा यत्र माधवः ।
तत्कर्म यत्केशवार्थे सा सेवा या श्रियः पतेः ॥३६॥ सा जिह्वा या हरिं स्तौति तच्चित्तं चिन्तयेत्प्रभुम् ।
तौ करौ यौ हरेः सेवापरायणौ सतां तथा ॥३७॥ मस्तकस्य फलं कृष्णप्रणामो धीफलं स्मृतिः ।
हरेः पूजा पाणिफलं मनःफलं मतिर्हरौ ॥१८॥ वचःफलं हरे स्तोत्रं चक्षुःफलं दृशिर्हरेः ।
त्वक्फलं स्पर्शनं विष्णोर्देहफलं प्रसेवनम् ॥३९॥ सर्वार्पणं फलं स्मृद्धेर्मोक्षः फलं तु जीविनः ।
लोकालोकसमो राशिः पापस्यापि विनश्यति ॥3.57.४०॥ श्रीहरेः स्मरणादेव पुण्यात्मा जायते जनः ।
यत्किञ्चित्कुरुते कर्म साध्वसाधु शुभाशुभम् ॥४१॥ कामिकं चाकामिकं वा स्वार्थं परार्थमित्यपि ।
सर्वं नारायणे न्यस्य कर्ता तस्य न लिप्यते ॥४२॥ राष्ट्रस्य शरणं राजा पितरो बालकस्य च ।
धर्मस्तु सर्वमर्त्यानां सर्वेषां शरणं हरिः ॥४३॥ ये नमन्ति स्मरन्तीशं पूजयन्ति च मां सदा ।
त एव तीर्थरूपा मेऽभिन्ना मोक्षप्रदायकाः ॥४४॥ शूद्रं वा भगवद्भक्तं निषादं श्वपचं च वा ।
गणिकां घातकं वापि श्रेष्ठं मन्ये हि पद्मजे ॥४५॥ आदीप्तं पर्वतं दृष्ट्वा पलायन्ते मृगादयः ।
मया दीप्तं जनं दृष्ट्वा पलायन्तेऽघराशयः ॥४६॥ यस्य यावाँस्तु विश्वासस्तस्य सिद्धिर्हि तावती ।
अनुग्रहो विशेषोऽत्राऽसीमफलप्रदो भवेत् ॥४७॥ प्रसन्नताया नान्तोऽस्ति फलान्तोऽपि न विद्यते ।
तत्र यावच्च यावाँश्च नियमो नास्ति वै हरौ ॥४८॥ प्रसन्नो भगवान् सम्राट् जलमात्रेण तुष्यति ।
ददात्यमृतसामुद्रं स्वामी कः स्वामिनोऽस्ति वै ॥४९॥ राज्ञे तु चूम्बनं दत्वा लभतेऽर्धासनं सखी ।
हरये वै तथा दत्वा लभते मेऽक्षरं पदम् ॥3.57.५० ॥ एवं नारायणीश्रि! त्वं सर्ववधूभिरीश्वरी ।
समर्पिताऽसि सहिता सोऽहं सा त्वं हरिः स्वयम् ॥५१॥ हरिकृष्णप्रसादेन यदि कश्चिद् भजत्यपि ।
न निस्तरति संसारं देवानामपि दुस्तरम् ॥५२॥ ध्यायेदाराधयेद् विष्णुं सदा निजात्मसंस्थितम् ।
अनादिश्रीकृष्णप्रभुं तेन मुच्येत बन्धनात् ॥५३॥ सर्वदेहिविधातारं सर्वज्ञानमनोरतिम् ।
सर्वगं सद्गुरुं विष्णुं सदा ध्यायन् प्रमुच्यते ॥५४॥ धामातीतं धामसंस्थं सर्वावतारकारणम् ।
अवतारिस्वरूपं मां ध्यायन् शीघ्रं प्रमुच्यते ॥५५॥ कृष्णमनादिकृष्णं च नारायणं नरायणम् ।
वासुदेवाद्यात्मकं मां ध्यायन् शीघ्रं प्रमुच्यते ॥५६॥ भूमानं प्रकृतेः पारं पूरुषं पुरुषोत्तमम् ।
सर्वेश्वरेश्वरं कान्तं मां ध्यायन् सम्प्रमुच्यते ॥५७॥ हिरण्मयं महाविष्णुं वैराजं विष्णुमित्यपि ।
अन्तरात्मस्वरूपं मां ध्यायन् सद्यः प्रमुच्यते ॥५८॥ मुक्तैर्मुक्तानिकाभिश्चेश्वरैरीश्वरिकादिभिः ।
अवतारैः सुरैश्चापि ध्यातं ध्यात्वा प्रमुच्यते ॥५९॥ संसारबन्धनान्मुक्तिमिच्छन् यः कोऽपि देहवान् ।
स्तुत्वा ध्यात्वा पूजयित्वा मां हरिं सम्प्रमुच्यते ॥3.57.६ ०॥ लक्ष्मि! नित्यं बलं प्राप्यं मम सर्वावतारिणः ।
अक्षरेशं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥६ १ ॥ शङ्खचक्रगदापद्मधारिणं परमेश्वरम् ।
अन्तःस्थितं प्रपन्नाऽस्मि किं मां मृत्यु करिष्यति ॥६२॥ मीनशूलध्वजधनुःस्वस्तिचक्रशरान्वितम् ।
श्रीवत्साङ्कं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६३॥ कम्भराश्रीसुतं कृष्णनारायणं प्रियं पतिम् ।
गोपालजं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६४॥ ब्रह्मप्रियापतिं हरिप्रियापतिं सतीपतिम् ।
श्रीपतिं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६५॥ राधारमापतिं लक्ष्मीरमापद्मावतीपतिम् ।
माणिकीशं प्रप्रन्नाऽस्मि किं मां मृत्युः करिष्यति ॥६६॥ कमलादुःखहालक्ष्मीपतिं नारायणीपतिम् ।
शिवजेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६७॥ दिव्यादेवीपतिं कीरापतिं कामोदकापतिम् ।
सुशीलेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६८॥ लीलावतीखशीनाथं हुण्डिकागणिकापतिम् ।
हंसिकेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६९॥ अशोकसुन्दरीनाथं विकलेन्दुमतीपतिम् ।
भिल्लीशं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥3.57.७०॥ रक्षाप्रज्ञाशमीश्रद्धानाथं मुक्तपतिं हरिम् ।
मम कान्तं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७१॥ कृष्णं रामं रामकृष्णं नारसिंहं जनार्दनम् ।
राजराजं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७२॥ वाराहं वामनं विष्णुं माधवं केशवं पतिम् ।
कान्तकान्तं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७३॥ कपिलं च हरिं वासुदेवं जनार्दनं शिवम् ।
अक्षरेशं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७४॥ अनन्तशिरसं कृष्णं सनातनं परं पतिम् ।
ब्रह्मयोनिं प्रपन्नाऽस्मि किं मे मृत्युः करिष्यति ॥७५॥ प्रेमरसं हरेर्नित्यं पिबामि पार्श्ववर्तिनी ।
हरेः पादं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७६॥ हरेस्ताम्बूलजं मिष्टं रसं सुगन्धसम्भृतम् ।
पिबामि तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७७॥ अमृताख्यं प्रसादं च नित्यमास्वादयामि च ।
ओष्ठरसं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७८॥ श्रीहरेः शयनं प्राप्ता महानन्दं वहामि च ।
आन्तरस्थं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७९॥ आक्षरं बलमाप्ताऽस्मि नित्यं सुखं गताऽस्मि च ।
एकात्मानं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥3.57.८ ०॥ तादात्म्यसुखमापन्ना रहस्यानन्दभोगिनी ।
तद्भावं च प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८१॥ मृत्योः पिता महाकालो येन सृष्टोऽस्मि यद्वशः ।
तं प्रभुं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८२॥ इत्येवं श्रीहरेर्मे वै मदमाप्ता प्रिया मम ।
निर्भया सेवते मां चाश्नुते सर्वं सुखं मम ॥८३॥ सा धन्या सा सफलार्था सा च सर्वसुखस्थिता ।
सफलं जीवितं तस्याः स्तौति या पुरुषोत्तमम् ॥८४॥ ओं नमोऽक्षरवासाय मुक्तसेव्याय ते नमः ।
ओं नमश्चेश्वरेशायाऽवतारेशाय ते नमः ॥८५॥ ओं नमो मुक्तपतये सतां च पतये नमः ।
ओं नमोऽक्षरपतये मुक्तानीपतये नमः ॥८६॥ नमस्ते परमानन्द नमस्ते परमाऽक्षर ।
नमस्ते नित्यसर्वज्ञ नमस्ते ज्ञानमुक्तिद ॥८७॥ नमस्ते चात्मवासाय नमस्ते पुरुषोत्तम ।
सर्वान्तरात्मरूपाय नारायणाय ते नमः ॥८८॥ नमस्ते कम्भरापुत्र गोपालजाय ते नमः ।
नमस्ते श्रीपते कृष्णनारायण च ते नमः ॥८९॥ नमस्ते कुङ्कुमवापीनिवासायाऽब्धिशायिने ।
ब्रह्मप्रियाधिपतये हरिप्रियाप्रियाय च ॥3.57.९०॥ जय सत्यजगत्साक्षिन् जय सर्वपुमर्थद् ।
जय वेदान्तवेद्यस्त्वं जय कान्त मनोहर ॥९ १ ॥ जय सूक्ष्मचिदानन्द जय चित्तनिरञ्जन ।
जय नाथ जय सर्व जय शान्तसनातन ॥९२॥ त्वं गुरुस्त्वं हरे कान्तत्वं स्वामी त्वं ममाधिपः ।
धर्मज्ञानादयस्त्वं मे त्वं मे विष्णुः प्रमोक्षदः ॥९३॥ त्वं प्रभुस्त्वं समुद्धर्ता त्वं पाता त्वं प्रलुम्पकः ।
त्वं श्रीः पुष्टिस्त्वं च लक्ष्मीस्त्वं प्रभा त्वं च माणिकी ॥९४॥ त्वं क्षेत्रज्ञः परेशश्च त्वं यज्ञस्त्वं हुताशनः ।
तव रूपमिदं सर्वं परब्रह्म त्वमीश्वरः ॥९५॥ अवतारात्मकमूर्तिं ते भजन्ति दिवौकसः ।
भजने पूजने पाने भोजने पुरुषोत्तम ॥९६॥ क्षन्तुमर्हसि देवेश यत्कृतं न कृतं मया ।
न शक्नोमि सदा कर्तुं पूजां सम्यक् क्षमस्व माम् ॥९७॥ यत् कृतं जपहोमादि ह्यसाध्यं पुरुषोत्तम ।
न्यूनं पूर्णं मम मत्वा निजां मां स्वीकुरु प्रभो ॥९८॥ दिवारात्रौ च सन्ध्यायां सर्वावस्थासु मे प्रभो ।
अचला वै त्वयि भक्तिस्तवाङ्घ्रियुगले स्थितिः ॥९९॥ इति स्तोत्रेण मां नाथं भक्त्येडिष्व नरायणि ।
यदिच्छसि ममानन्दं भज भक्त्या जगद्गुरुम् ॥3.57.१० ०॥ प्रातर्जपेदिदं स्तोत्रं स्मरन्तं पुरुषोत्तमम् ।
स्वर्गं मोक्षं सम्पदं च सर्वान् कामानवाप्नुयात् ॥१०१ ॥ पुत्रार्थी लभते पुत्रान् बद्धो मुच्येत बन्धनात् ।
कन्यार्थिनी लभेत् कन्यां कन्या शुभं पतिं लभेत् ॥१ ०२॥ रोगाद् विमुच्यते रोगी निर्धनो लभते धनम् ।
जातिस्मरत्वं मेधावी विद्यार्थी ज्ञानमर्जयेत् ॥१ ०३॥ जघन्यश्चापि मूर्धन्यस्त्वसाधुः साधुसत्तमः ।
शठोऽपि सत्यवाक् स्याच्च यः स्तौति पुरुषोत्तमम् ॥१ ०४॥ सर्वधर्मबहिष्कृता अपि ते साधवो मताः ।
येषां प्रवर्तनं सर्वं हरिमुद्दिश्य जायते ॥१ ०५॥ नाऽऽशौचं विद्यते तस्या यस्या भक्तिः परेश्वरे ।
मनो वाग् वर्ष्म सर्वस्वं मया क्षिप्तौ हरौ त्विह ॥१ ०६॥ आराध्य सर्वदा कृष्णनारायणं सुखप्रदम् ।
नरो नारी च वा षण्ढः प्राप्नोतीह सुवाञ्छितम् ॥१ ०७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादिप्रदर्शननामा सप्तपञ्चाशत्तमोऽध्यायः ॥५७ ॥