०५४

श्रीपुरुषोत्तम उवाच-
शृणुनारायणीश्रि त्वं गुरोर्बलं महत्तमम् ।
महापापातिपापानां नाशकं परमोज्ज्वलम् ॥१ ॥ जालन्धरे महापीठे देशे दासक्रियापरम् ।
खशजातिकुटुम्बं वै न्यवसन्मामके पुरे ॥२ ॥ विष्णुदासो हि नाम्नाऽभूत् खशो धर्मपरायणः ।
अनिवेद्य विष्णवे च गुरवेऽप्यनिवेद्य सः ॥३ ॥ नैव भुङ्क्तेऽन्नवस्त्रादि फलं जलाद्यपि क्वचित् ।
विष्णुदासस्य वै तत्र गुरुर्मोक्षपरायणः ॥४ ॥ साधुर्नाम्ना ऋषिधर्मो मोक्षदो भक्तिकारकः ।
नित्यं त्रिषवणस्नायी त्रिकालदेवतार्हणः ॥५ ॥ व्यवस्थापरवृत्तिश्च त्रिगुणक्लेशवर्जितः ।
अयाचितान्नपत्रादिवृत्तिर्दिगम्बरः सदा ॥६ ॥ नदीतीरे कृतावासो वृक्षाऽधो निर्जने स्थितः ।
नित्यं वै भजते नारायणं मां पुरुषोत्तमम् ॥७ ॥ द्वन्द्वसहिष्णुरेवाऽयं रागद्वेषविवर्जितः ।
निरीहोऽप्यतिनिष्कामो वृद्धो दोषविवर्जितः ॥८ ॥ वाक्सिद्धश्चापि मौनी च जयत्येव च मां सदा ।
आर्ताश्चायान्ति चार्तीनां नाशार्थं शरणं यदा ॥९ ॥ आशीर्वादैर्जलदानैः रजोदानैर्व्यपोहति ।
दुःखानि शरणार्थिनां परोपकारभूषणः ॥3.54.१० ॥ लोकाः फलानि वस्त्राणि मिष्टान्नानि धनानि च ।
अग्रे समर्प्य तिष्ठन्ति प्रयान्ति तं प्रपूज्य च ॥११ ॥ साधुर्वस्तूनि नैवाऽयं स्पृशति नापि पश्यति ।
अन्ये तु भिक्षुका यद्वा पशवो वा हरन्ति च ॥१ २॥ निर्मोहो निर्ममश्चाऽयं वर्तते चाप्यमायया ।
एवंविधं गुरुम् ऋषिधर्मं खशो निषेवते ॥१३ ॥ खशपत्नी रामणी च सेवते मार्जनादिभिः ।
पत्रपुष्पाद्यर्पणैश्च पादसंवाहनादिभिः ॥१४॥ खशस्याऽऽसीत् कन्यका च नाम्ना लीलावती शुभा ।
द्वादशाब्दा हि साधोः सा सेवायां वर्तते सदा ॥१५॥ देवार्थं पुष्पवल्लीनां जलसेकादिकर्मणि ।
श्रद्धावती भक्तिमती भक्तानां स्वागतादिषु ॥१६॥ सा चाऽज्ञानवशा कन्या वृक्षेषु जलसेचने ।
बिलवासां मूषिकां सापत्यां ददर्श निर्गताम् ॥१७॥ बालभावेन कन्या सा धृत्वाऽपत्यानि तानि च ।
दूरं गत्वा निचिक्षेप बालान् मातृवियोजितान् ॥१८॥ मूषिका भयमापन्ना तृणपुञ्जान्तरे स्थिता ।
स्वल्पान् बालानाददाना कन्यां शशाप वै तदा ॥१ ९॥ मद्वियुक्ताश्च मे बाला यथा दुःखगतास्तथा ।
भवती पितृमात्रादिवियुक्ता दुःखिनी भव ॥3.54.२०॥ मूषिकायास्तु शापोऽयं दारुणो वै व्यजायत ।
दिनान्तरे च तत्पाकफलं प्राप्तं हि कन्यया ॥२१ ॥ कन्या सायं गुरुं संसेव्य गृहं याति यावता ।
मार्गे म्लेच्छो युवा कश्चित्प्राप्तो जग्राह कन्यकाम् ॥२२॥ रोरूयमाणां शीघ्रं तां निनाय बलवान् वनम् ।
वनाद् वनान्तरं रात्रौ दूरदेशं गतोऽभवत् ॥२३ ॥ म्लेच्छेन स्वगृहे दासी कृता सा कन्यका खशी ।
मद्यं वै पायितं चापि मांसं च भोजितं तथा ॥२४॥ व्यवायितं तथा पापं हिंसादि कारितं मुहुः ।
म्लेच्छकर्म समस्तं वै कारितं तेन कन्यया ॥२५॥ म्लेच्छी सा ह्यबला चाप्यज्ञाताऽरण्यस्य मार्गकम् ।
नैव जानाति वै नित्यं शोचत्येव गृहागमम् ॥२६॥ अथैकदा पुरे म्लेच्छोत्सवोऽभवद् विवाहजः ।
तत्राऽऽययुर्गायिकाश्च गणिकाश्चोत्सवे तदा ॥२७॥ सैषा खशी सुरूपा च गणिकाः समलोकयत् ।
दासीभावेन ताम्बूलं ददाति नर्तनादिषु ॥२८॥ नियोजिता हि म्लेच्छेन गणिकासेवनं व्यधात् ।
गणिका तां समपृच्छत् क्व ते माता पिता सुते ॥२९॥ खशी श्रुत्वा जगादैव सर्वं वृत्तान्तकं निजम् ।
भावं ज्ञात्वा गमनस्य हरणार्थं मनो व्यधात् ॥3.54.३ ० ॥ विश्वासं सम्प्रदायैव सङ्केतं चाऽकरोत् ततः ।
अथ कालान्तरे सङ्केतानुसारेण कन्यकाम् ॥३ १ ॥ म्लेच्छगृहाद्धि निष्कास्याऽप्रापयद् गणिका गृहम् ।
गणिकायाः शुभा दासी ततोऽभवद्धि कन्यका ॥३२॥ व्यवायादौ प्रवृत्ता चाऽभवद्धर्मविवर्जिता ।
महापापातिपापानि करोति गणिकावशा ॥३३॥ अथ कालान्तरे रुग्णाऽभवद्वै गणिका ह्यति ।
उदरेन्द्रियरोगार्ताऽभक्षयच्चौषधान्यपि ॥३४॥ नैवाऽऽरोग्यं लभते वै गणिका सा शुशोच ह ।
कथं रोगो भवेद् दूरं भगन्दरात्मको मम ॥३५॥ दासी खशी तदोवाच गुरुर्मेऽस्ति महान् प्रभुः ।
समर्थो रोगनाशाय वाक्सिद्धिस्तत्र याहि वै ॥३६॥ श्रुत्वैवं गणिका ज्ञात्वा वृत्तान्तं तु गुरोः शुभम् ।
सज्जा बभूव सहसा द्रव्यखशीसमन्विता ॥३७॥ अन्या दासीश्च गणिका भाण्डाँश्च पुरुषानपि ।
आदाय गणिकाऽरण्यमुल्लङ्घ्य यत्र राजते ॥३८॥ साधुस्तत्र नदीतीरे समायाताऽतिभावतः ।
खशी लीलावती चाऽतिप्रसन्नाऽभूद्धृदन्तरे ॥३९॥ साधुं ननाम भावेन प्राप्ता स्वं पितरं यथा ।
गुरुं देवं प्रणम्यैव वृत्तान्तं स्वं न्यवेदयत् ॥3.54.४० ॥ गणिकायाश्च वृत्तान्तं रोगनाशार्थकं ह्यपि ।
न्यवेदयत्ततः साधुः प्राह कर्मफलं तदा ॥४१ ॥ यया यादृक् कृतं पूर्वं तया तादृक् प्रभुज्यते ।
लीलावति! त्वया बाला मूषिकाया वियोजिताः ॥४२॥ वृक्षाणां वारिदानार्थकाले मूषिकया तदा ।
शप्ता त्वं च वियोगेन पित्रोर्दुःखं गता ततः ॥४३॥ गणिकेयं व्यवायेन रोगं भुङ्क्ते निकृष्टकम् ।
किन्तु त्वया मम सेवा कृता पूर्वं फलं हि तत् ॥४४॥ कारयामास मे प्राप्तिं पुनश्चाऽस्या मिषेण वै ।
गणिकेयं चातिथीनां सेवापरायणाऽभवत् ॥४५॥ भक्तायास्तव योगेन मद्योगं समुपागता ।
साधुं नयति सत्सङ्गः कुसङ्गस्तु ह्यसाधुकम् ॥४६॥ दुष्टं कर्म दुःखयति सती सुखयति क्रिया ।
साधुसङ्गस्तु पुण्येन जायते नान्यथा सुते ॥४७॥ तव पापानि सर्वाणि मार्जये म्लेच्छजानि वै ।
गणिकायाश्च पापानि मार्जये चापि पुत्रिके ॥४८॥ ममाऽत्र सन्निधौ वासं पर्णशालां विधाय वै ।
कुर्वन्त्यत्रैव च व्रतं कायशोधार्थमित्यपि ॥४९॥ इत्युक्तास्ताः समस्ताश्च वृक्षाऽधोभूतले शुभाम् ।
पर्णकुटीं विधायैव वासं चक्रुर्हि सन्निधौ ॥3.54.५०॥ एकभुक्तं व्रतं ताभ्यो ददौ च ऋषिधर्मकः ।
पञ्चगव्यं व्रते चाप्यप्राशयद् वै दिनत्रयम् ॥५१॥ ततो मन्त्रान् ददौ लक्ष्मि! ताभ्यः ऋषिवरः शुभान् ।
‘ओं नमः श्रीकृष्णनारायणाय पतये नमः’ ॥५२॥ ‘कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव’ ॥५३॥ ‘शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा’ ।
‘ब्राह्म्यहं श्रीकृष्णनारायणभक्ताऽस्मि शाश्वती ॥५४॥ अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे’ ।
इतिमन्त्रान् ददौ कर्णे हस्ते जलं ददौ तथा ॥५५॥ ‘ओ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
इत्युक्त्वा ऋषिधर्मः स जलं व्यामोचयद् भुवि ॥५६॥ तावत्तत्राऽभवल्लक्ष्मि! महाश्चर्यं च तच्छृणु ।
लीलावत्यास्तथा तासां गणिकानां शरीरतः ॥५७॥ समन्ततो नीलवर्णा निर्ययुः काकपक्षिणः ।
निर्ययुश्च ततो घूकास्ततश्च मशका अपि ॥५८॥ पिशाचाश्च ततश्चापि कद्रूपाः क्रूरविग्रहाः ।
वृक्णाः कृशाः क्षुधिताश्च दुर्बलाः काणखञ्जकाः ॥५९॥ कुष्ठिनश्च जडाश्चान्धा दुर्गन्धा मलसम्भृताः ।
निर्ययुश्च रुधिराढ्याः सर्वाङ्गविषमास्तदा ॥3.54.६०॥ रुरुदुस्ते ऋषिं वीक्ष्य नग्नाः सर्वे निराश्रयाः ।
लीलावती गणिकाद्या आपुश्चाश्चर्यमेव च ॥६१ ॥ तास्तु ऋषिं गुरुं नत्वा पप्रच्छुः के इमे गुरो! ।
गुरुः प्राह सुते! सर्वपापानि सन्ति वः खलु ॥६२॥ मया मन्त्रप्रदानेन निष्कासितानि देहतः ।
काका इमे श्वपचानां सङ्गजानि ह्यघानि वै ॥६३॥ घूकाश्चेमे गणिकात्वे कृतान्यघानि सन्ति वै ।
मशका मद्यपानस्य पापानि सन्ति तानि वै ॥६४॥ पिशाचाश्च भवतीनां मांसाऽशनान्यघानि वै ।
तानि सर्वाणि देहेभ्यो युष्माकं निर्गतानि वै ॥६५॥ रुदन्ति तानि सर्वाणि पश्यन्त्विमानि योषितः ।
पापान्यपि तदा लक्ष्मि! चक्रुर्वै प्रार्थनां मुने ॥६६ ॥ निराधाराणि सर्वाणि वयं सुदुःखितानि ह ।
ऋषे मोक्षं विधेह्यत्र जलदानेन सर्वथा ॥६७॥ श्रुत्वा ऋषिर्निजं पादं दक्षं प्रक्षाल्य तेषु वै ।
अञ्जलिना निचिक्षेप गृहीता बिन्दवश्च तैः ॥६८॥ पीताः सर्वे बिन्दवश्च तृप्तान्यघानि वै तदा ।
एवमृषिः पुनश्चापि चिक्षेपापि जलाञ्जलिम् ॥६९॥ अथ दिव्यस्वरूपास्ते यथा देवास्तथाऽभवन् ।
अथाऽञ्जलिं तृतीयं च चिक्षेप देवतोपरि ॥3.54.७० ॥ तूर्णं त्र्यक्षा गणाः सर्वे बभूवुः शूलधारिणः ।
पापान्यपि पुण्यजना अभवँस्ते सहस्रशः ॥७१ ॥ सर्वे नराकृतयश्च दिव्यरूपधराः शुभाः ।
ऋषेराज्ञां समादाय नत्वा हिमालयं ययुः ॥७२॥ ततो मेरुं ययुः सर्वे पुण्यजना हि तेऽभवन् ।
ख्याता देवगणाः सर्वे साधोरेव प्रतापतः ॥७३॥ अथ पापादिशून्याश्च गणिका देवता यथा ।
अभवन् दिव्यरूपाश्च ताभ्यः पादजलं ददौ ॥७४॥ ऋषेः पादजलं पीत्वा नीरुग्णा गणिकाऽभवत् ।
अन्याश्चापि जलं पीत्वा नष्टसंसारवासनाः ॥७५॥ योगिन्यश्च यथा साध्व्यस्तथा सर्वास्तदाऽभवन् ।
रोगा निर्गत्य तूर्णं वै नत्वा कैलासकं ययुः ॥७६॥ सर्वा दीक्षां जगृहुश्च साध्वीनां गणिका हि ताः ॥ भाण्डाश्च जगृहुर्दीक्षां साधूनां तत्र वै तदा ॥७७॥ ‘हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ।
अनादिश्रीकृष्णनारायणाऽक्षरपते विभो ॥७८॥ इत्येवं भजनं चक्रुस्तत्राश्रमे च संहिताः ।
लीलावत्याः पितरौ च प्राप्य पुत्रीं सुखान्वितौ ॥७९॥ बभूवतुर्हि कमले भक्तौ गुरुप्रतापतः ।
साधुदीक्षां जगृहतुः खशौ तौ तत्र स सद्गुरोः ॥3.54.८०॥ पापनाशात्मिकी वार्ता प्रासरत् सर्वतोदिशि ।
मानवाः पापनाशार्थं चाययुश्चकितास्तदा ॥८ १ ॥ नरानार्यो जगृहुश्च दीक्षां श्रीवैष्णवीम् ऋषेः ।
ताः संविधाय मुक्ताँश्च प्रेषयामास चाऽक्षरम् ॥८२॥ शिष्याश्चापि च शिष्यांश्च प्रेषयामास चाक्षरम् ।
ऋषेः सङ्कल्पमात्रेण विमानानि चिदम्बरात् ॥८३॥ पार्षदैः सहितान्येव विष्णुमूर्तियुतानि वै ।
आगतानि च तान्यारुह्यैव ययुः परं पदम्॥८४॥ वैकुण्ठवासा अभवन् गणिकाद्या गुरोर्बलात् ।
लीलावती तथा तस्याः सख्यः पञ्च तथाऽपराः ॥८५॥ सहस्रशोऽभवन् धाम्नि वैकुण्ठे श्रीहरेर्मम ।
सेयं लीलावती तेऽस्ति काशीराजसुताऽधुना ॥८६॥ भगिनी तव चाऽत्राऽऽस्ते ब्रह्मप्रिया विवाहिता ।
गणिका सा सुशीलाऽऽस्ते सखी तेऽत्र समुद्रजे ॥८७॥ इत्येवं शिवराज्ञीश्रि मम योगेन निर्गुणः ।
ऋषिधर्मो निर्गुणश्च तद्योगेन नराः स्त्रियः ॥८८॥ निर्गुणा एव जायन्ते मुक्ता एव न संशयः ।ऽ
कामात् क्रोधाद् भयाल्लोभान्मा ये याः पर्युपासते ॥८९॥ मद्भक्ताँश्चापि साधूँश्च गुरून् तानुद्धराम्यहम् ।
अपि पापा दुराचारा गुरोर्योगेन पावनाः ॥3.54.९० ॥ जायन्ते धामवासाश्च किमुत व्रतिनां तु मे ।
गुरौ वै कृतसर्वस्वा गुरुतीर्शेनषेविणः ॥९ १॥ गुरौ विश्वासमापन्नाः प्रयान्ति परमं पदम् ।
गुरुर्देवो गुरुः कृष्णो गुरुर्दीक्षा हि पावनी ॥९२॥ गुरुर्व्रतं गुरुर्दानं गुरुर्यस्या मतो हरिः ।
गुरुतीर्थप्रतापेन भवाऽब्धिं सा तरत्यपि ॥९३॥ प्रयाति परमानन्दं धामाऽक्षरं हि शाश्वतम् ।
मम वासमयं दिव्यं सर्वधामपरं प्रियम् ॥९४॥ सर्वतृप्तिप्रदं सर्वकामनापूरकं पदम् ।
न न्यूनं वर्तते तत्राऽश्नुते भोगान् मया सह ॥९५॥ वध्वो वापि विधवा वा ह्यधवा वा निराश्रिताः ।
गुरुतीर्थं परं प्राप्य मुच्यन्ते भवसागरात् ॥९६॥ पठनाच्छ्रवणाच्चाऽस्य स्मरणात् कथनादपि ।
भुक्तिर्मुक्तिर्दिव्यगतिर्धामप्राप्तिः प्रजायते ॥९७॥ सकामानां स्वर्गलब्धिर्निष्कामानां प्रमोक्षणम् ।
मत्कामानां मम प्राप्तिः पुरुषोत्तमशार्ङ्गिणः ॥९८ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे ऋषिधर्ममहर्षेर्योगेन लीलावत्याः सुशीलादीनां च पापानां विगमे ब्रह्मप्रियात्वप्राप्त्यादि-
निरूपणनामा चतुष्पञ्चाशत्तमोऽध्यायः ॥५४ ॥