श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि! यत्कृत्वाऽऽत्मा विशुद्ध्यति ।
वधूट्यः सर्वथा शुद्धिं प्राप्य प्रेयुः परं पदम् ॥१ ॥
गुरुं ब्रह्मस्वरूपं वै विद्याच्छ्रीपरमेश्वरम् ।
गुर्वी लक्ष्मीस्वरूपां च विद्यात् सेवेत तां वधूः ॥२ ॥
मानावमानौ द्वावेतौ तौ बोध्यौ वै विषाऽमृते ।
अवमानोऽमृतं तत्र सम्मानो विषमेव यत् ॥३ ॥
गुरोर्मानं विधातव्यं स्वस्या अमानमेव तु ।
या वधूर्वर्तते नित्यं निर्माना मानदा तदा ॥४ ॥
सा लभेत सदा मानं मान्या भवति योषिताम् ।
सेवया वशमायाति सिंहोऽपि च ग्रहोऽपि च ॥५ ॥
सेवावृत्तिर्गुरूणां हि वशकर्त्री वधूकृते ।
पुत्र्या वध्वा च किङ्कर्या दास्या च भृत्ययाऽपि च ॥६ ॥
समाश्रितयाऽऽगन्तुकया सेवया साध्यतेऽखिलम् ।
राज्ञी गुर्वी शिक्षिका वा देवी गौः राक्षसी च वा ॥७ ॥
सेवया स्वाधीनभावा जायते श्रीः सती रमा ।
गुरुसेवा महच्छस्त्रं वशकार्ये सहायदम् ॥८ ॥
तस्मादाचारवध्वा वै श्वश्रूः सेवा ह्यमानया ।
पत्युः सेवा देवसेवा श्वश्र्वाश्चाज्ञाप्रपालनम् ॥९ ॥
गृहसेवाऽपत्यसेवा वध्वाः पञ्चव्रतानि वै ।
अक्रोधो गुरुशुश्रूषा शौचं वृद्धाभिसेवनम् ॥3.53.१०॥
पत्यर्थं चापि सर्वस्वं वध्वास्ते नियमा मताः ।
वध्वा गृहक्रिया यज्ञश्चातिथ्यर्हा सुरार्चनम् ॥११ ॥
कान्तप्रसन्नताभक्तिः सन्ध्या श्वश्रूप्रसन्नता ।
स्नानं तु पतिसेवात्म यमाः धर्मार्थसाधकाः ॥१ २॥
सदाचाररता शान्ता स्वधर्मपरिपालिका ।
सर्वान् लोकान् विनिर्जित्य ब्रह्मलोकं प्रयाति सा ॥१३॥
गुरूपदेशयुक्तानां वृद्धानां क्रमवर्तिनाम् ।
अभ्युत्थानादिकं सर्वं प्रणामं वन्दनं चरेत् ॥१४॥
अष्टाङ्गैर्वा च पञ्चागैः प्रणिपातेन पादयोः ।
त्रिःप्रदक्षिणयोगेन वन्द्या गुर्वी सतीव्रता ॥१५॥
ज्येष्ठा सर्वा वन्दनीया वृद्धा वन्द्या पुनः पुनः ।
आज्ञाभङ्गं न कुर्वीत यदीच्छेत् सिद्धिमात्मनः ॥१६॥
दुष्टायोगगुहारण्यं क्षुद्रमन्त्रोपसेवनम् ।
विषग्रहविडम्बादीन् वर्जयेत् सर्वयत्नतः ॥१७॥
कैतवं वित्तशाठ्यं च पैशुन्यं वर्जयेत् सती ।
अतिहास्यमतिमानं लीलां लज्जाविवर्जिताम् ॥१८॥
स्वेच्छाविहारमेतान् वै वर्जयेद् गुरुसन्निधौ ।
तद्वाक्यप्रतिकूलं चाप्ययुक्तं चापि नो वदेत् ॥१ ९॥
अनिष्टं न स्मरेत् क्वापि कलहं न स्मरेत् क्वचित् ।
आक्रोशं न प्रकुर्वीत वैमनस्यं न चाचरेत् ॥3.53.२० ॥
रसपात्राणि सर्वाणि पाकपात्राणि वै पदा ।
भोज्यपात्राणि वस्त्राणि न स्पृशेन्नापसारयेत् ॥२१ ॥
यज्ञपात्राणि पूजाया द्रव्यपात्राणि वै तथा ।
पवित्रयोग्यपात्राणि गृहवस्तूनि यानि च ॥२२॥
मार्जनीं चुल्लिकां वह्निं फलशाकानि यानि च ।
पेयपात्राणि सर्वाणि शृङ्गारस्य द्रवाणि च ॥२३॥
पुस्तकादीनि दर्भांश्च पुष्पपात्राणि कज्जलम् ।
हेतीन् भूषाश्चाम्बराणि प्रसाधनानि यानि च ॥२४॥
भक्ष्यभोज्यानि लेह्यानि चारनालानि यानि च ।
वेशवारादिपात्राणि काष्ठाद्यासनकानि च ॥२५॥
वधूः पदा स्पृशेन्नैव पदा नैवाऽपसारयेत् ।
देवद्रोहं गुरुद्रोहं श्वश्र्वादिद्रोहमित्यपि ॥२६॥
ग्रामद्रोहं सतां द्रोहं नैव कुर्यात् कदाचन ।
उद्धृताऽनुष्णफेनाभिः पूताभिर्वस्त्रचक्षुषा ॥२७॥
अद्भिः समाचरेत् सर्वं वर्जयेत् कलुषोदकम् ।
गन्धवर्णरसैर्दुष्टमशुचिस्थानसंस्थितम् ॥२८ ॥
पङ्काऽश्मदूषितं चैव सामुद्रं पल्वलोदकम् ।
सशैवालं तथाऽन्यैर्वा दोषैर्दुष्टं विवर्जयेत् ॥२९ ॥
जलाहरणपात्रे वा हण्डे गर्गरिकामुखे ।
क्षिप्त्वाऽञ्जलिं मुखं पादौ क्षालयेन्न कदाचन ॥3.53.३० ॥
उद्धृत्याऽधिकवार्यूर्ध्वं चोच्छिष्टं न क्रियात्तथा ।
मुखे स्पृष्टं पानपात्रं जलपात्रे न मज्जयेत् ॥३१ ॥
अप्रक्षाल्य करौ भोज्यवस्त्वादीनि स्पृशेन्न वै ।
परिवेषणकार्यादि कुर्यान्नाऽक्षालितैः करैः ॥३ २॥
पाककार्यम्ं नैव कुर्यादशुद्धिवस्त्रधारिणी ।
अग्निना च रसानां च शुद्धिं कुर्यात् सदा वधूः ॥३३ ॥
तृणकाष्ठादिवस्तूनां दृष्ट्या च क्षरणेन च ।
जलस्याऽभ्युक्षणेनाऽपि शुद्धिं कुर्यात् वधूः सदा ॥३४॥
मुशलोलूखलस्यापि शुद्धिं कुर्याद्धि वारिणा ।
वस्त्रादिना मार्जनेन शृङ्गाऽस्थिदारुशोधनम् ॥३५॥
द्रव्याणां संहतानां तु शोधनं प्रोक्षणेन वै ।
अभुक्तराशिधान्यानां त्वेकदेशादिदूषणे ॥३६ ॥
तावन्मात्रं समुद्धृत्य प्रोक्षयेद्वै कुशाम्भसा ।
शाकमूलफलादीनां क्षालनेन हि शोधनम् ॥३७॥
स्निग्धानां मार्जनेनैव रूक्षाणां तु जलादिना ।
मार्जनेन गृहशुद्धिमुल्लेखनेन वा तथा ॥३८ ॥
लेपनेन क्वचिद् वारिप्रोक्षणेन च वायुना ।
गोनिवासेन शुद्धिं च धरायाः संविधाऽऽचरेत् ॥३९ ॥
भूमिस्थमुदकं शुद्धं निर्मलं मेध्यगन्धितम् ।
वत्सः शुचिः प्रस्रवणे दोहने प्रसवेऽपि च ॥3.53.४० ॥
फलपाते तु शकुनिः रतौ भार्यामुखं शुचि ।
पण्यं प्रसारितं शुद्धं वायुना किरणेन च ॥४ १ ॥
शुचिराकरजं सर्वं श्वमुखं च मृगगृहे ।
छाया च विप्रुषो विप्राः सन्तः साध्व्यश्च मक्षिकाः ॥४२॥
रजो भूर्वायुरग्निश्च बालं मेध्यानि स्पर्शने ।
मैथुने च मलत्यागे ह्यमेध्यस्पर्शने तथा ॥४३ ॥
रजस्वलादिस्पर्शे च स्नानाच्छुद्धिरुदाहृता ।
वैद्यो विशसिता शुद्धो भृत्यः शुद्धः सदा मतः ॥४४॥
गृहस्य पशवो बालाः पक्षिणश्च गृहाङ्गणम् ।
चत्वरो वेदिका वृक्षाः कपाटं छत्रमित्यपि ॥४५ ॥
दोला खष्ट्वा गेन्दुकादि शकटं मार्जनी तथा ।
पेषणी पट्टिका सोपानानि कीलकमित्यपि ॥४६॥
शृङ्खला पशुरज्ज्वश्च जलरज्जुश्च नाडिकाः ।
हण्डाधानी यष्टिका मत्सरदानी च पुत्तली ॥४७॥
लेखिनी पुस्तिका दीपः प्रतिमा व्यजनस्तथा ।
भूषापात्रं वस्त्रपेटी घृततैलादिपात्रकम् ॥४८॥
गवाक्षं चन्द्रशाला च धनधानी नृपस्तथा ।
साधुर्यतिर्ब्रह्मचारी गुरुः शुद्धाश्च गौः सदा ॥४९॥
वायुना चातपेनापि स्वभावेन हि पावनाः ।
दीक्षिताः कथकाश्चापि कर्मठाः पावनाः सदा ॥3.53.५०॥
खले धान्यं सदा शुद्धं समाजे मानवास्तथा ।
उत्सवे च स्त्रियः शुद्धाः कन्याः शुद्धाः सदा मता ॥५१ ॥
नैष्ठिकानां नृपाणां च राज्ञीनां गुरुयोषिताम् ।
मण्डलीनां नृत्यगीतकर्त्रीणां दासयोषिताम् ॥५२॥
बालरक्षाप्रकर्त्रीणां सैरन्ध्रीवारयोषिताम् ।
शुद्धिर्वै सर्वदा बोध्या नाट्यवाद्यज्ञयोषिताम् ॥५३॥
सत्ये युगे सदा नार्यः शुद्धाश्चार्तववर्जिताः ।
युगान्तरेषु मासान्ते राजस्वल्येन पाविताः ॥२४॥
शुद्ध्यन्ति सर्वदा नार्यः स्नानेन च व्रतेन च ।
रजस्वला स्पृशेन्नैव रजस्वलां हि यत्नतः ॥५५॥
दिने चतुर्थके स्नात्वा पतिं देवं हि सेवयेत् ।
चतुर्थ्यां सेवने रात्रौ त्वल्पायुः सम्प्रसूयते ॥५६॥
विद्याहीनं दरिद्रं च पित्रसन्तोषकारकम् ।
पञ्चम्यां सेवने कन्यां षष्ठ्यां पुत्रं प्रसूयते ॥५७॥
सप्तम्यां सेवने कन्यामष्टम्यां सूयते सुतम् ।
नवम्यां सेवने कन्यां दशम्यां पण्डितं सुतम् ॥५८॥
एकादश्यां सुतां द्वादश्यां धर्मवत्सुतं शुभम् ।
त्रयोदश्यां जडां कन्यां चतुर्दश्यां सुतं वरम् ॥५९॥
पञ्चदश्यां धर्मिकन्यां षोडश्यां ज्ञानपारगम् ।
प्रसूयते ततः शुद्धाः भूत्वा सेवेत वै पतिम् ॥3.53.६०॥
राजस्वल्ये तु चाण्डालं मलिनं सूयते सदा ।
पतितीर्थप्रतापेन प्रजा शुद्धा भवेत् स्त्रियाः ॥६१ ॥
यादृशं पतितीर्थं स्यात् प्रजा भवति तादृशी ।
क्षेत्रं चापि भवेद् दुष्टं दुष्टा प्रजा प्रजायते ॥६२॥
मनःशुद्धिर्यादृशी स्यात्प्रजा भवति तादृशी ।
तत्त्वशुद्धिर्यादृशी वै तात्त्विकी शुद्धिरेव सा ॥६३॥
शुद्धिः स्वयं शुद्धिरूपा वर्तते शुद्धपात्रके ।
अशुद्धे पात्रके शुद्धिः शुद्धित्वं प्रजहाति वै ॥६४॥
अपात्रे खलु संस्काराः संस्कारत्वं जहत्यपि ।
पार्थिवे वर्ष्मणि देवा देवत्वं च जहत्यपि ॥६५॥
निकृष्टस्य गृहे सत्याः सतीत्वं वै विलीयते ।
आसुराणां गृहे देव्या देवीत्वं नश्यति ध्रुवम् ॥६६॥
कौलिकस्य गृहे राज्ञ्या राज्ञीत्वं नैव तिष्ठति ।
वध्वा परगृहे नैव पातिव्रत्यं प्ररक्ष्यते ॥६७॥
गणिकाया गृहे नैजे सतीत्वं नैव तिष्ठति ।
नास्तिक्या भक्तिमत्त्वं च भक्ताया नास्तिकत्वकम् ॥६८॥
नैव तिष्ठति वै क्वापि तस्मात् पतिप्रिया भवेत् ।
पतिव्रता भवेद् ब्रह्मप्रिया भवेद्धरिप्रिया ॥६९॥
नारायणप्रिया नारी सत्सङ्गिनी भवेत् सदा ।
साधुप्रिया भवेन्मोक्षे न त्वसाधुप्रिया क्वचित् ॥3.53.७०॥
धर्मप्रिया भवेन्नित्यं नाऽधर्मादिप्रिया भवेत् ।
व्रतप्रिया भवेत् साध्वी नाऽनाचारप्रिया भवेत् ॥७१॥
देवप्रिया भवेद् देवी नाऽसुराणां प्रिया भवेत् ।
शीलप्रिया भवेच्छश्वन्न त्वशीलप्रिया भवेत् ॥७२॥
शौचप्रिया भवेन्नित्यं न त्वशौचरतिर्भवेत् ।
तपःप्रिया भवेद्दान्ता न त्वतपःप्रिया भवेत् ॥७३॥
हरिप्रिया भवेन्नित्यं न तु हारिप्रिया भवेत् ।
ब्रह्मप्रिया भवेन्नित्यं भ्रमप्रिया न वै भवेत् ॥७४॥
कृष्णप्रिया भवेन्नित्यं चात्मप्रिया तथा भवेत् ।
मुक्तिप्रिया भवेन्नित्यं भुक्तिप्रिया न वै भवेत् ॥७५॥
विभुप्रिया भवेन्नित्यं चाऽल्पप्रिया न वै भवेत् ।
देहिप्रिया भवेन्नित्यं देहप्रिया न वै भवेत् ॥७६॥
परप्रिया भवेन्नित्यं नाऽपरस्य प्रिया भवेत् ।
परपुंसः प्रिया स्याच्च नाऽपरस्य प्रिया क्वचित् ॥७७॥
परः पुमान् हरिः कृष्णो नारायणः परेश्वरः ।
अनादिश्रीकृष्णनारायणस्तस्य प्रिया भवेत् ॥७८॥
पतिर्नारायणः साक्षात् तस्य प्रिया सदा भवेत् ।
आत्मनैव प्रिया स्याद्वै नैव देहादिभिः क्वचित् ॥७९॥
सैषा ब्राह्मी स्थितिर्लक्ष्मि ब्रह्मप्रियाविभाविनी ।
ब्राह्मी शुद्धिश्चेयमेव तां प्राप्य मयि मोदते ॥3.53.८०॥
वध्वा वधूदशायां सा प्रापणीया विवर्धिनी ।
हरेर्योगस्य सेवायाः प्रदायिनी प्रमोक्षिणी ॥८१ ॥
अशुद्धो देह एवाऽसाविन्द्रियाणि तथा च वै ।
इन्द्रियार्था अशुद्धाश्च मायिका मोहमात्रकाः ॥८२॥
वृत्तयोऽपि तथा बोध्या अशुद्धा वै तदुत्थिताः ।
भोगाश्चापि तथा बोध्या फलं चाशुद्धमेव च ॥८३।
वासनाऽपि ह्यशुद्धा च तृष्णेहाश्च तथाविधाः ।
प्रवृत्तयश्च कार्याणि ह्यशुद्धानि भवन्ति वै ॥८४॥
गुणाश्चापि तथा नित्यमशुद्धा निरयप्रदाः ।
अशुद्धं सर्वमेवैतत् का शुद्धिस्तत्र लभ्यते ॥८५॥
शुद्धश्चैकः स्वयमात्मा परमात्मसमन्वितः ।
परमात्मगतां दिव्यां शुद्धिमिच्छेत् समर्पणैः ॥८६॥
यथा स्वर्णस्य योगेन पित्तलं स्वर्णसदृशम् ।
स्वर्णमूल्येन राजेत पित्तदेहोऽपि वै तथा ॥८७॥
हरेर्योगेन सौवर्णो हिरण्मयः पुमान् भवेत् ।
इन्द्रियाणि समस्तानि चेन्द्रवारुणिकारसैः ॥८८॥
मिश्रितानि हरौ तानि त्वर्पितानि मधूनि वै ।
प्रजायन्ते हि दिव्यानि शाश्वतिकानि पद्मजे ॥८९॥
शाश्वतं स्वरूपं नैजं कृष्णयोगेन बुद्ध्यते ।
शाश्वतानन्दमग्नत्वं कृष्णकान्तेन लभ्यते ॥3.53.९०॥
मायापुत्राः पुरा लक्ष्मि वेधसा वै त्रयोदश ।
आकूतयः पञ्च पञ्च चितयो मन इत्यपि ॥९१॥
अहङ्कारस्तथा बुद्धिः प्रेरिता वै प्रजेप्सया ।
सर्वे चाऽदृश्यदेहास्ते ह्युक्ताः सृजत वै प्रजाः ॥९२॥
ततस्ते नाऽभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः ।
त्यक्त्वा चाऽऽज्ञां निजं कर्म दोषं दृष्ट्वा हि कर्मसु ॥९३॥
जुगुप्सन्तश्च कर्माणि व्यरमन्त हि सृष्टितः ।
अर्थं धर्मं च कामं च हित्वा ते निष्क्रियाः खलु ॥९४॥
अजन्म काङ्क्षमाणास्ते चाऽप्रवृत्ताः व्यवस्थिताः ।
तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः ॥९५॥
प्राह तान् वै मया यूयं प्रजासर्गे नियोजिताः ।
प्रसूयध्वं यजध्वं चेत्युक्ता मया पुरा ततः ॥९६॥
मम वाक्यमनादृत्य सन्ततिं नाभ्यनन्दथ ।
तस्माद् यूयं कर्मशीला भवथेति सदा शपे ॥९७॥
इति शप्ता ब्रह्मणा ते कर्मशीलास्ततोऽभवन् ।
त्रयोदशैव ते नैजे व्यापारे विपुले सदा ॥९८॥
प्रवर्तन्ते दिवारात्रौ निवर्तन्ते न वै क्वचित् ।
जया नाम सुरास्ते वै सर्वे भिन्नप्रवृत्तयः ॥९९॥
त एव तुषिता बोध्याः सत्यास्त एव सन्ति च ।
हरयश्चापि वैकुण्ठाः साध्या आदित्यका अपि ॥3.53.१० ०॥
तान् सदा चाऽर्पयेल्लक्ष्मि! नारायणे परेश्वरे ।
मयि तेन हि चादित्या मोक्षदाः सम्भवन्ति ते ॥१०१ ॥
गुर्वर्पणं हि देवानां क्रियाणां कारयेत् सती ।
वृत्तीनां चापि तेषां च व्यापाराणां समर्पणम् ॥१ ०२॥
गुरौ मयि प्रकर्तव्यं तेन दिव्या भवन्ति ते ।
ब्रह्मधामप्रदाः सर्वे रहस्यं कथितं तव ॥१०३ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः वधूगीतायां गुरुरहस्यसदाचारकथननामा त्रिपञ्चाशत्तमोऽध्यायः ॥५३ ॥