०४८

श्रीनारायणीश्रीरुवाच-
यथा तुष्यति भगवान् परमेशः परात्परः ।
तन्ममाऽऽख्याहि सर्वज्ञ कान्त कारुण्यवारिधे ॥१ ॥ श्रीपुरुषोत्तम उवाच-
नारायणं परं कान्तं सच्चिदानन्दविग्रहम् ।
भज सर्वात्मना कान्ते! मां यद्यानन्दमिच्छसि ॥२ ॥ रिपवस्तां न हिंसन्ति न बाधन्ते ग्रहादयः ।
राक्षसाश्चापि नेक्षन्ते नारीं विष्णुपरायणाम् ॥३ ॥ भक्तिर्दृढा भवेद् यस्याः परेशे परमात्मनि ।
तस्याः श्रेयांसि सिद्ध्यन्ति भक्तियुक्ताऽधिका ततः ॥४ ॥ पादौ तौ सफलौ तस्या यौ विष्णुगृहगामिनौ ।
तौ करौ सफलौ तस्या मम पूजापरौ तु यौ ॥५ ॥ ते नेत्रे सफले तस्याः पश्यतो ये श्रियः पतिम् ।
सा जिह्वा मङ्गला तस्या हरेर्नामपरा तु या ॥६ ॥ ते श्रौत्रे सफले तस्याः श्रीकथासारग्राहके ।
सा त्वग् वै पावनी तस्या या हरिस्पर्शवेदिनी ॥७ ॥ रसना सा रसवती यया प्राप्तो हरेः रसः ।
घ्राणं पुण्यं हि तस्यास्तद् यच्छ्रीमद्गन्धवेदि वै ॥८ ॥ सा कटिर्या तु हर्यर्थं गुप्तं हर्यर्थमेव च ।
वक्षश्चाप्यपि हर्यर्थं गण्डौ हर्यर्थमेव यौ ॥९ ॥ कपोलं चापि हर्यर्थं हर्यर्थं जघनं तथा ।
सक्थिनी चापि हर्यर्थं जङ्घे हर्यर्थमेव च ॥3.48.१० ॥ औष्ठौ चापि तु हर्यर्थं केशा हर्यर्थमेव च ।
शयनं चापि हर्यर्थं जागरणं हरेः कृते ॥१ १॥ यस्या रमणं हर्यर्थं विलासोऽपि हरेः कृते ।
हावा भावाश्च हर्यर्थं नृत्यं हर्यर्थमित्यपि ॥१ २॥ गायनं हसनं चापि दृष्टिर्हर्यर्थमेव या ।
मानसं चिन्तनं चापि बुद्धिर्हर्यर्थमेव या ॥१ ३॥ अहम्भावोऽपि हर्यर्थं क्रिया हर्यर्थमेव च ।
शृङ्गारोऽस्याश्च हर्यर्थं रूपं हर्यर्थमेव च ॥१४॥ अलङ्काराश्च हर्यर्थं भूषा हर्यर्थमेव च ।
कज्जलं चन्दनं तैलं हर्यर्थं कबरी तथा ॥१५॥ धम्मिलाश्चापि हर्यर्थं पुष्टिर्हर्यर्थमेव च ।
व्रतं शीलं तथा शुद्धिः स्नानं हर्यर्थमेव च ॥१६॥ संस्काराश्चापि हर्यर्थं तानं हर्यर्थमेव च ।
भानं लज्जा प्रमोदश्च प्रीतिर्हर्यर्थमेव च ॥१७॥ सौकुमार्यं च माधुर्यं दीप्तिर्हर्यर्थमेव या ।
प्रसाधनं च हर्यर्थं प्रोत्साहोऽपि हरेः कृते ॥१८॥ उत्सवाश्चापि हर्यर्थं शोभा हर्यर्थमेव च ।
उपार्जनं व्ययश्चापि यत्नो हर्यर्थमेव च ॥१९॥ सुखं रतिर्महानन्दः सर्वं हर्यर्थमेव च ।
गृहं क्षेत्रं सम्पदश्च सर्वं हर्यर्थमेव च ॥3.48.२० ॥ सुताः पुत्र्यश्च गावश्च हर्यर्थं वाजिनस्तथा ।
गजा यानविमानानि यस्या हर्यर्थमेव च ॥२१ ॥ वाटिका सस्यसम्पच्चोपस्कराश्च हरेः कृते ।
निमेषं श्वासरक्षा च चेतनोऽपि हरेः कृते ॥२२॥ गुणभावाश्च हर्यर्थं भावनाऽपि हरेः कृते ।
उत्थानमुदयश्चापि विरामोऽपि हरेः कृते ॥२३॥ अनावरणभावश्च हृदयं च हरेः कृते ।
गोप्यं मन्त्रो रहस्यं च सर्वं यस्या हरेः कृते ॥२४॥ कलाः शिक्षाऽभ्यसनं च रागः शान्तिर्हरेः कृते ।
आरम्भाश्च प्रपूर्तिश्च पाचनं च हरेः कृते ॥२५॥ भ्रमणं व्यवहारश्च स्फुर्तिश्चास्या हरेः कृते ।
लोभः कामश्च सङ्कल्पश्चोत्सवश्च हरेः कृते ॥२६॥ यज्ञा दानं भजनं च धर्मश्चास्या हरेः कृते ।
पुष्पशय्या उरःशय्या चोर्ध्वशय्या हरेः कृते ॥२७॥ मण्डपो मण्डपी रासो लीला लौल्यं हरेः कृते ।
भ्रमणं हरणं चापि वर्तनं च हरेः कृते ॥२८॥ लेखनं खेलनं चापि कौशल्यं च हरेः कृते ।
चातुर्यं चापि चापल्यं दिव्यताऽपि हरेः कृते ॥२९॥ अप्यङ्गानां मोडनं च स्वेदश्चोत्तेजनं तथा ।
राजसो वेग एवापि सर्वं हर्यर्थमेव च ॥3.48.३०॥ भोजनं पानमुद्गारो धातुलाभो हरेः कृते ।
समयश्चापि सङ्केतो वाटश्चापि हरेः कृते ॥३१ ॥ मार्गणं चाऽन्वेषणं च प्रतीक्षणं हरेः कृते ।
आनन्देच्छा हरेरेव हर्यर्थं चान्तरं स्थलम् ॥३२॥ अन्तर्बहिर्हरिर्यस्याः स्नेहमूर्तिर्हरेर्हि सा ।
सत्यसारमिदं सर्वं न कान्तः केशवात्परः ॥३३॥ असारे खलु संसारे सारः कान्तो हरिर्महान् ।
संसारपाशाः सुदृढा अभक्ताया भवन्ति ते ॥३४॥ भक्तायास्ते गुणदा वै विपाशाश्च भवन्ति वै ।
आनन्दमतुलं मे च वशीकृत्वा समर्जयेत् ॥३५॥ स्थानं रूपं तथाऽऽनन्दः सुखं वक्तुं न शक्यते ।
निर्देष्टुं चापि च द्रष्टुं शक्यते नाऽकृतात्मभिः ॥३६॥ सर्वोपाधिविनिर्मुक्तश्चानन्दोऽतिशयो हरेः ।
परब्रह्ममयं भुक्त्वाऽऽनन्दं ब्राह्मी भवेत् सती ॥३७॥ तत्कथायां च रमते सत्कथां च करोति या ।
सत्सङ्गो नित्यमेवाऽस्याः प्रीतो भवामि पद्मजे ॥३८॥ नामसङ्कीर्तनं मे च क्षुत्तृट्प्रस्खलनादिषु ।
करोति सततं या तु तस्याः प्रीतो भवामि वै ॥३९॥ या तु वधूः पतिप्राणा पतिपूजापरायणा ।
तस्यास्तुष्टः सदा चास्मि ददामि स्वपदं प्रियम् ॥3.48.४०॥ असूयारहिता या तु तथाऽहङ्कारवर्जिता ।
दासीभावपरा साध्वी तस्यास्तुष्यामि सर्वथा ॥४१॥ तस्माद् ब्रह्मप्रियाः सर्वा हरिप्रिया मदात्मिकाः ।
भजताऽत्र हरिं कान्तं मां प्रियं कृष्णवल्लभम् ॥४२॥ शरीरं मृत्युवासं वै हासवासं हि कर्मिणाम् ।
जीवितं चञ्चलं विद्युल्लोलाश्च सम्पदस्तथा ॥४३॥ राजादिभिर्धनं बाध्यं स्मृद्धयः क्षणभङ्गुराः ।
निद्राढ्यं चायुषार्धं चोपार्जनार्थं तथाऽर्धकम् ॥४४॥ भोगार्थं च तदर्धं तु बाल्यं सौषुप्तमित्यपि ।
विचार्येति सती कुर्याद् वयस्येव ममाऽर्चनम् ॥४५॥ वपुर्विनाशनिलयं चापदां परमं पदम् ।
अकस्माद् भिन्नमार्गं च तेन भक्तिं प्रसाधयेत् ॥४६॥ असारभूते संसारे सारे मयि समर्पणम् ।
सर्वात्मना प्रकुर्याद्वै ज्ञात्वा नारी प्रमोक्षणम् ॥४७॥ देहयोगनिवृत्त्यर्थं सद्य एव नरायणम् ।
अनादिश्रीकृष्णनारायणं भजेत मां सती ॥४८॥ कोटिजन्मसहस्रेषु स्थावरादिषु योषितः ।
सम्भ्रान्तायाः कथञ्चिद्वै मानुष्यं समुपस्थितम् ॥४९॥ तत्र दानं चार्चनं च जन्मान्तरतपःफलम् ।
भक्तिश्चाशीर्वादफलं सेवा सौभाग्यमित्यपि ॥3.48.५०॥ मानुष्यं दुर्लभं प्राप्य या हरिं नार्चयेत् सती ।
मूर्खी सैव जडबुद्धिर्नारी पुनर्भविष्यति ॥५ १ ॥ तस्याश्चातीव मूर्खाया विवेकः किं करिष्यति।
आराधितो हरिः कृष्णो ददात्यभिमतं फलम् ॥५२॥ चण्डालो वा निकृष्टो वा मलिनः पापवानपि ।
गणिका वा शीलहीना व्यवायादिपरायणा ॥५३॥ अशुद्धा वा सूतिका वा विष्णुभक्ता द्विजाधिका ।
विष्णुभक्तिविहीना तु द्विजाऽपि श्वपची च वा ॥५४॥ तस्माद्धरिं प्रसेव्यैव तोषयेत्परमेश्वरम् ।
मयि तुष्टेऽखिलं तुष्टं सर्वात्माऽहं यतोऽस्मि च ॥५५॥ हस्तिपदे सर्वपदं गगने सार्वभौतिकम् ।
अनादिश्रीहरौ तद्वन्मयि सर्वं प्रतिष्ठितम् ॥५६॥ जन्ममृत्यू प्रान्तभागौ तन्नाशो मम सेवया ।
ध्यातः स्मृतः पूजितो वा प्रणतो वोद्धराम्यहम् ॥५७॥ संसारपाशविच्छेदं करोमि कृपया सदा ।
मन्नामोच्चारणादेव महापातकनाशनम् ॥५८॥ मन्मूर्तेः स्मरणादेव ब्रह्मभावो भवेदपि ।
मत्सतीसेवया मोक्षगामित्वं स्याद् द्रुतं प्रिये ॥५९॥ नीयमाना यमभटैरशक्ता स्वविमोचने ।
अपुण्याऽपि स्मरेन्मां च तामुद्धरामि कष्टतः ॥3.48.६०॥ विद्राव्य याम्यदूताँश्च नयामि मत्पदं प्रियाम् ।
स्मरन्ती मां शरणाप्तामबलां दीनमानसाम् ॥६१ ॥ अनाथां परवशगां पुण्यपुञ्जविवर्जिताम् ।
आलम्बवर्जितां निराधारामुद्धारयाम्यहम् ॥६२॥ यावन्नेन्द्रियवैकल्यं यावद्व्याधिर्न बाधते ।
तावत् प्रसेव्य मां साध्वी मुक्तिमार्गं हि क्लृप्तयेत् ॥६३॥ कृष्णः सर्वात्मना पूज्यो ध्येयश्च माधवः सदा ।
हरिः सेव्यः सदा साध्व्या प्रसादनीयः केशवः ॥६४॥ अनाराध्य जगन्नाथं ब्रह्मप्रियान्तरस्थितम् ।
परमानन्दलाभो न संसेव्य तं सुखं व्रजेत् ॥६५॥ अच्युताऽनन्तगोविन्दकृष्णमाधवकेशव ।
अनादिश्रीकृष्णनारायण दामोदर प्रभो ॥६६॥ हरे कृष्ण विभो राम नारायण नरायण ।
ऋषीकेशाऽक्षरातीत परब्रह्म परेश्वर ॥६७॥ पुरुषोत्तम मुक्तेश ब्रह्मेश च जनार्दन ।
भगवन् व्यापक स्वामिन्नुच्चारयेत् सती सदा ॥६८॥ एवं मां भजमानाया दूरे नाऽहं वसामि वै ।
सा मय्यहं च तस्यां च वर्तामि सर्वदा प्रिये ॥६९॥ नारायण जगन्नाथ कम्भरात्मज कामद ।
गोपालकृष्णतनय वासुदेव जनार्दन ॥3.48.७०॥ कान्त दान्त महानन्दप्रद श्रीपरमेश्वर ।
सतीनाथ सतान्नाथेतीरयन्ति मुहुर्हि याः ॥७१ ॥ तासां पूजां प्रकुर्वन्ति ब्रह्माद्या अपि देवताः ।
वन्दितास्ता भवन्त्येव सर्वत्र कमला यथा ॥७२॥ यत्प्रभावं न जानन्ति या मायाऽऽवृतमानसाः ।
हृत्पद्मस्थं नं जानन्ति तासां हानिर्महत्तमा ॥७३॥ हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः ।
नाऽऽत्मगुणैर्न तपसा भक्त्या तुष्येज्जनार्दनः ॥७४॥ सेवया चातितुष्येच्च पूजया स्मरणेन च ।
आत्माऽर्पणेन तुष्येच्च तोषयन्तु ततः प्रियाः ॥७५॥ पुत्रमित्रस्मृद्धयश्च बह्व्यो भवन्ति सम्पदः ।
हरिपूजारतानां वै दुर्लभाः सन्ति ता नहि ॥७६॥ इहाऽमुत्र सुखवाञ्च्छावती सम्पूजयेद्धरिम् ।
अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ॥७७॥ न नमेद्विष्णवे यस्या मस्तकं, मोक्षदायिने ।
कर्मणां भेदिने तस्या देहो बोध्योऽघशेवधिः ॥७८॥ हरिभक्तियुतो देहो दिव्यो बोध्यः स्त्रिया अपि ।
श्रेष्ठा भक्त्या भवन्त्येव भक्तिहीना कनिष्ठिकाः ॥७९॥ पूजनीयास्ततो लक्ष्मि योषितो भक्तिसम्भृताः ।
सम्मार्जनादिभिर्यास्तु मम शुश्रूषणे रताः ॥3.48.८ ०॥ सतां समागमकर्त्र्यस्ता यान्ति परमं पदम् ।
हरिधर्मरताः शान्ता हरिपादाब्जसेविकाः ॥८ १ ॥ हरिकार्यपराः कृष्णकृष्णरटनतत्पराः ।
रोमरोमसु कृष्णस्य प्रेमनिस्यन्दराजिताः ॥८२॥ अहं कृष्णाऽप्यहं कृष्णा चेष्टा एवं समाश्रिताः ।
गृहाण वंशीं कुञ्जे च समायाहीति शब्दिताः ॥८३ ॥ एकान्तं त्वं गृहाणाऽत्र रहस्यं मे प्रदेहि च ।
प्रेमरसं महानन्दं मां प्रपायय कुञ्जगाम् ॥८४॥ अन्तर्भावरसं कृष्ण सङ्गमोत्थं प्रपायय ।
तादात्म्यस्नेहमापन्नां कुरु स्पष्टां च किङ्करीम् ॥८५॥ अङ्कदासीं रायनस्य सखीं विधेहि माधव ।
निर्जनस्य सरसश्च विधेहि पद्मिनीं प्रभो ॥८६॥ पयःफेननिभरात्रेर्विधेहि शारदीं विभो ।
वसन्तस्य च वल्लीषु विधेहि कोकिलां हरे ॥८७॥ शैत्यर्तोर्मां कृपां कृत्वा कम्बलिनीं विधेहि च ।
सर्वयज्ञस्य कार्यस्य वेदीं विधेहि मां त्विह ॥८८॥ विश्रान्त्यर्थं कृपासिन्धो तूलिकां मां विधत्स्व नु ।
अग्नितप्तस्य कान्तस्य शीतां कान्तां विभावय ॥८९॥ निरालम्बसमाधेश्च ब्रह्मानन्दीं प्रियां कुरु ।
मायायुक्तस्य कृष्णस्य मुक्तानिकां पुजस्व माम् ॥3.48.९०॥ सर्वाकृष्टस्य चित्तस्य मग्नस्थलीं विधापय ।
प्रेमप्रवाहसरितां सामुद्रिकीं निभालय ॥९१ ॥ अमानोद्गतमोदस्य भिन्नमूर्तिं स्वकां कुरु ।
समरस्मरयुक्तस्य वाहिनीं तव मां कुरु ॥९२॥ कौस्तुभस्य वियुक्तस्याऽऽसनीभूतं च हृत् कुरु ।
प्रेमबिम्बाधरस्यात्राऽऽधारलतां सुयोजय ॥९३॥ पद्मपत्रायतनेत्रे नेत्रयोर्बिम्बके कुरु ।
पूर्णाऽमावार्धितुल्यायाः कौमुदीशो भवाऽत्र मे ॥९४॥ साध्व्या स्वामी चकोरायाश्चन्द्रः कृष्णो भवाऽत्र मे ।
शलभायाश्चाऽनलश्च तिम्याः कण्टरसो भव ॥९५॥ चातक्यास्तु स्वातिवर्षा मयूर्या जलदो भव ।
नववध्वा वरश्रेष्ठ कृष्णनारायणो भव ॥९६ ॥ विरहाग्निप्रदावाया योगिवारिप्रदो भव ।
भवाब्धिगर्तमग्नायाः करग्राहो हरिर्भव ॥९७॥ नेत्रे हृदि च मनसि चेतने निहितो भव ।
सर्वेन्द्रियेषु सुखदश्चान्तरेषु स्थिरो भव ॥९८॥ आनखशिखमासाद्य यावान् यावत्सु मे वस ।
इत्येवं शिवराज्ञीश्रि! मयि तादात्म्ययोजनम् ॥९९॥ यायाद् या सा ब्रह्मप्रिया हरिप्रिया भवेदिह ।
पठनाच्छ्रवणादस्य राधालक्ष्मीसमा भवेत् ॥3.48.१० ०॥ मम तादात्म्ययोगोऽयं कल्पभक्त्या भवेन्ननु ।
नरो नारी च सम्पाद्य मदात्मकत्वमाव्रजेत् ॥१०१ ॥ अपात्रं भक्तिहीनं वै नाऽयं पचति तस्य वै ।
वधूगीतां पुरा श्रुत्वा सदाचारपरा भवेत् ॥१ ०२॥ सती भूत्वा निर्गुणं च भक्तियोगं ततश्चरेत् ।
पुरुषोत्तमयोगं च प्रपात्य तन्मयी भवेत् ॥१० ३॥ ततः साक्षात् परब्रह्मयोगयुक्ता भवेद् ध्रुवा ।
तया तादात्म्ययोगोऽयं प्राप्यते मत्कृपावशात् ॥१ ०४॥ सर्वा वध्वो भवन्त्येवं परिपूर्णतमे मयि ।
लोकनार्यस्तथा भूत्वा भविष्यन्ति मदात्मिकाः ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने अक्षरातीततादात्म्ययोगनिरूपणनामाऽष्टचत्वारिंशोऽध्यायः ॥४८ ॥