श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि! ततोऽजस्य गायत्रीवत्सरे पुनः ।
आद्ये वाराहकल्पे च मनौ च प्रथमे मम ॥१ ॥
अनादिश्रीकृष्णनारायणस्य परमात्मनः ।
इदानीं वर्तमानस्य शिवराज्ञीश्रिया त्वया ॥२ ॥
सह मेऽत्राऽस्ति वै प्राकट्यं क्षेत्रेऽक्षरसञ्ज्ञके ।
अश्वपट्टसरस्तीरे कुङ्कुमवापिकान्तिके ॥३ ॥
महालक्ष्मीकम्भराश्रीगृहे सर्वार्थपूरिते ।
श्रीमद्गोपालकृष्णाख्यजनकाद् वै सुराष्ट्रके ॥४ ॥
कोट्यर्बुदाऽब्जकन्यानां मनःपूरणहेतवे ।
धर्मसंरक्षणार्थाय कृपया त्वागतस्य मे ॥५ ॥
पित्रोस्तपोभिरुग्रैश्चाऽऽकृष्टस्याऽक्षरवासिनः ।
प्राकट्यं मेऽत्र सञ्जातं त्वं मयाऽत्र निजीकृता ॥६ ॥
कोट्यर्बुदाऽब्जकन्याभिः साकं नारायणि प्रिये ।
अथापि सम्भविष्यामि कल्पे कल्पे पुनः पुनः ॥७ ॥
त्वयैव साकं कमले क्षेत्रे लोमशवासिते ।
ममाऽवतारा बहवो मत्स्यवाराहकच्छपाः ॥८ ॥
कपिलसिंहतुरगा हंसवामननारदाः ।
वासुदेवहरिदत्तात्रेयपर्शुधरर्षभाः ॥९ ॥
पृथुयज्ञकुमाराद्या व्यासरामाधिराजकाः ।
धन्वन्तरिबुद्धकृष्णकल्किमोहनिकास्तथा ॥3.38.१ ०॥
हरिकृष्णनरनारायणकृष्णनरायणाः ।
सहस्रशो भविष्यन्ति कार्यवशात् क्षितौ दिवि ॥१ १॥
युगे युगेऽवतारा मे व्यासाश्चापि युगे युगे ।
भविष्यन्ति यथाधर्मस्थापका धर्मबोधकाः ॥१२॥
भविष्यति शिखायुक्तः श्वेतकृष्णायनो मुनिः ।
श्वेतव्यासः कथावक्ता संहिताया भविष्यति ॥१३॥
अवतारोऽद्य मे साध्यो विष्णुर्नारायणः प्रभुः ।
ब्रह्मलोकनमस्कार्यो धर्मवक्ता भविष्यति ॥१४॥
एवमन्येऽपि वै व्यासा ममांऽशा धर्मबोधकाः ।
सत्यभार्गवसवितृवसिष्ठाऽरुणिसृञ्जयाः ॥१५॥
ऋतञ्जयभरद्वाजतृणबिन्दुद्विपायनाः ।
प्रभुर्वल्लभसौरेयदेवानीकऋतम्भराः ॥१६॥
वारेयकमहाविद्यविभावसुसमाश्रवाः ।
धारीणकसुकौक्षेयवार्षधारवनव्रताः ॥१७॥
भविष्यन्ति ममांशास्ते विद्याप्राकट्यकारिणः ।
कालदैर्घ्येण सङ्ख्यातुं चान्येन नैव शक्यते ॥१८॥
कोटिः कोटिसहस्राणामतीता वै स्वम्भुवाम् ।
कोट्यः कोटिसहस्राणां भविष्यन्ति पुनः पुनः ॥१९॥
अर्थादसङ्ख्यास्ते सर्वे सृष्टिपाः कालभक्षणाः ।
अकालभक्षणा नारायणाः श्रियो मदात्मकाः ॥3.38.२०॥
नित्यमुक्तास्तथा याश्च मुच्यन्ते मुक्तकोटयः ।
अकालभक्षाः सर्वे ते धामधामनिवासिनः ॥२१॥
इत्येतत् कथितं लक्ष्मि! सर्वं पृष्टं यथायथम् ।
अवतारी स्वयं प्रकाशितोऽहं कथितो मया ॥२२॥
सुखं लभ निजं लक्ष्मि! ममाऽवतारिणः सदा ।
अथाऽन्यच्चापीष्टतमं परिपृच्छ नरायणि! ॥२३॥
श्रीशिवराज्ञीश्रीरुवाच-
तृप्ताऽहं पूर्वरूपाणि ज्ञात्वा कान्तमुखान्मम ।
प्राणेशाय नमस्तेऽस्तु पुरुरूपाय शार्ङ्गिणे ॥२४॥
रौद्रीरमणीनाथश्रीद्युनारायण ते नमः ।
मैरवीधृतियुङमेरुनारायणाय ते नमः ॥२५॥
सौरीशातनीयविष्णुनारायणाय ते नमः ।
चान्द्रीकौमुदीशदेवनारायणाय ते नमः ॥२६॥
भूयसीदक्षिणाश्रीशयञ्त्रयण ते नमः ।
वैष्णवीश्रीश ते ब्रह्मनारायण नमोऽस्तु च ॥२७॥
देववीथीश्रीश आदित्यनरायण ते नमः ।
आनन्तीश्रीश ते गरुत्मन्नारायण ते नमः ॥२८॥
आर्षीपद्मेश ते आर्षनारायणाय ते नमः ।
ज्योत्स्नाश्रीश्वर ते प्राज्ञनारायण नमोऽस्तु ते ॥२९॥
शार्दूलिकाश्रीश वीरनारायणाय ते नमः ।
सरोभद्राश्रीश भद्रनारायणाय ते नमः ॥3.38.३० ॥
सर्भद्राश्रीश हरिनारायण नमोऽस्तु ते ।
स्वतन्त्राश्रीपते बीजनारायण नमोऽस्तु ते ॥३ १॥
जयालक्ष्मीपते वरनारायण नमोऽस्तु ते ।
सुदर्शनीश्रीश स्त्रीपुन्नारायण नमोऽस्तु ते ॥३२॥
जलनारायणीश्रीश जलन्रयण ते नमः ।
स्वधाजश्रीश ते शीलनारायण नमो नमः ॥३३॥
पुण्डरीकश्रीश वार्धिनारायण नमोऽस्तु ते ।
माक्षिकीश्रीश ते चतुर्मुखनारायण नमः ॥३४॥
कृपावतीश्रीश कृपनारायण नमोऽस्तु ते ।
रत्ननारायणीश्रीश तीर्थन्रयण ते नमः ॥३५॥
भक्तिश्रीकान्त ते जीवनारायण नमो नमः ।
अर्धश्रीश्वर तेऽर्धश्रीपतिनारायण नमः ॥३६॥
अर्धोर्ध्वश्रीश्वर तेऽर्धपितृनारायण नमः ।
पिप्पलश्रीपते प्लक्षनारायण च ते नमः ॥३७॥
पीठिकाश्रीश ते शालपुंस्त्वनारायण नमः ।
वटश्रीकान्त ते श्यामनारायण नमो नमः ॥३८॥
राजराज्ञीश्रीश राजनारायण च ते नमः ।
नैष्ठिकीश्रीश ते ब्रह्मचारिन्रयण ते नमः ॥३९॥
शिवनारायणीश्रीश शिवन्रयण ते नमः ।
स्तनकीश्रीपते स्वर्णनारायण च ते नमः ॥3.38.४०॥
स्वामिनीश्रीपते स्वामिनारायण च ते नमः ।
निर्वाणीश्रीश सावननारायण च ते नमः ॥४१॥
साध्वीनारायणीश ते साधुनारायण नमः ।
कुम्भिकाश्रीश ते भक्तनारायण नमो नमः ॥४२॥
मेधावतीश्रीश ते च मेधनारायण नमः ।
पार्थिवीश्रीश ते वह्निनारायण नमो नमः ॥४३॥
रसनारायणीश्रीश रसन्रयण ते नमः ।
सुधाक्षिणीश्रीश चक्रनारायण नमोऽस्तु ते ॥४४॥
विजयाश्रीपते सत्यनारायण च ते नमः ।
हिरण्याश्रीपते हिरण्यनारायण ते नमः ॥४५॥
नैष्किञ्चनीश्रीश नैरञ्जनिन्रयण ते नमः ।
कल्याणीश्रीपते पुण्यनारायण च ते नमः ॥४६॥
रूक्मवतीश्रीश बृहद्ब्रह्मनारायण नमः ।
सुविद्याश्रीपते गुरुनारायण च ते नमः ॥४७॥
आचार्याणीश्रीश आचार्यनारायण ते नमः ।
वैद्युतीश्रीश ते विद्युन्नारायण नमो नमः ॥४८॥
माधवीश्रीपते मधुनारायण च ते नमः ।
धेनुमतीश्रीश नाथनारायण नमोऽस्तु ते ॥४९॥
विश्वीश्रीश विभुनारायण ते च नमो नमः ।
मुक्तिश्रीश ते मोक्षनारायण नमो नमः ॥3.38.५०॥
शिवराज्ञीश्रीश कृष्णनारायणाय ते नमः ।
लक्ष्मीनाथश्रीपते ते कमलाकान्त ते नमः ॥५१॥
पद्मापते रमाकान्त नारायणीश ते नमः ।
इन्दिराकान्त च हिरण्मयीप्राणपते नम ॥५२॥
महालक्ष्मीपते कृष्णापते ईश्वरीश नमः ।
हरिणीकान्त परमेश्वरीपते च ते नमः ॥५३॥
द्रव्यापते च पुरुषोत्तमीपते च ते नमः ।
वैष्णवीश च सम्पद्रूपाधीश च ते नमः ॥५४॥
भगवतीश च हरिदासीश्वर च ते नमः ।
हरिप्रियेश वैकुण्ठिकेश ब्राह्मीश ते नमः ॥५५॥
समृद्धीश्वर शालग्रामीकान्त च ते नमः ।
धनत्रयोदशीकान्त चक्रिणीनाथ ते नमः ॥५६॥
पद्मिनीस्वामिने बिन्द्वीपतये ते नमो नमः ।
अब्धिजेशाय च स्वर्णरूपिणीकान्त ते नमः ॥५७॥
गोशकृद्वासिनीस्वामिन् ब्रह्महृत्स्थेश ते नमः ।
धनेश्वरीश्वर ऋतम्भराय ते नमो नमः ॥५८॥
प्लक्षवासेश्वरीशाय मायेशाय च ते नमः ।
मातृकेश्वर चाऽमायेश्वर सतीश ते नमः ॥५९॥
स्वामिनीनाथ ते ब्रह्मशक्तिकान्त च ते नमः ।
आत्मात्मिकेशाऽन्तरात्मिकेश रमेश ते नमः ॥3.38.६० ॥
सत्त्वप्रकर्षिणीकान्त पञ्चलेश च ते नमः ।
चञ्चद्रूपेश्वरश्रीवत्सेश ऐन्द्रीश ते नमः ॥६ १ ॥
जयन्तीश च ते मण्डलात्मिकेश्वर ते नमः ।
सर्वतोभद्रिकास्वामिन् पद्मशिलेश ते नमः ॥६२॥
आक्षरीश च प्रज्ञेश श्राङ्गारिकेश ते नमः ।
भाग्यरूपेश सिद्धीशाऽवतारिणीपते नमः ॥६३॥
शान्तानाथ परेशांऽशेश्वर कलेश ते नमः ।
विभवीश्वर भूम्नीश धामिनीकान्त ते नमः ॥६४॥
अर्चास्वामिन् जननीश कारिणीवर ते नमः ।
देवीश्वरीश्वरीश्वर मुक्तानिकापते नमः ॥६५॥
प्रपोषिकेश च परब्रह्मपत्नीपते नमः ।
अनादिनीपते मम पते वृन्दापते नमः ॥६६॥
तुलसीकान्त ते चापि भार्गवीपतये नमः ।
अनादिश्रीकृष्णनारायणपत्नीश ते नमः ॥६७॥
अन्नादिनीपते वैभवेश्वरीशाय ते नमः ।
सम्पत्तीश च वासुदेवीश्वर च ते नमः ॥६८॥
कार्ष्णीस्वामिन् हंसिकेश माणिकीकान्त ते नमः ।
पद्मावतीपते राधापते गोपीपते नमः ॥६९॥
पार्षदानीपते पद्मालयापते च ते नमः ।
आजानुबाहवीशाय यान्त्रिकीशाय ते नमः ॥3.38.७०॥
सौराष्ट्रीशाय ते चाजनाभीश्वराय ते नमः ।
देविकापतये षष्ठीमनसापतये नमः ॥७ १ ॥
दीपावलीस्वामिने ते तलाजापतये नमः ।
कामधेनवीकान्ताय आर्जन्तीस्वामिने नमः ॥७२॥
क्रोधनास्वामिने ते च गह्वरास्वामिने नमः ।
सूचीकान्ताय च वनदेवीश्वराय ते नमः ॥७३॥
दामनीस्वामिने कङ्कातालीनाथाय ते नमः ।
पितृकन्यास्वामिने ते दासीश्वराय ते नमः ॥७४॥
रासातलीस्वामिने ते वासन्तीपतये नमः ।
सालमालीश्वर मातृकेश्वराय च ते नमः ॥७५॥
स्वास्तिकीनाथ नागेशीश्वराय ते नमो नमः ।
शावदीनीस्वामिने ते ऐन्द्रजालीश ते नमः ॥७६॥
सरस्वतीस्वामिने ते विद्याकान्ताय ते नमः ।
लक्ष्मणीपतये भूगर्भीयानाथाय ते नमः ॥७७॥
नाडिकापतये वैश्वावासवीपतये नमः ।
जुम्मासेम्लीस्वामिने से सान्तपनीश ते नमः ॥७८॥
सौरतीस्वामिने महाबालेश्वरीश ते नमः ।
ऐलवीलाधीश दाक्षजवङ्गरीश ते नमः ॥७९॥
औष्णालयीनाथ प्राजाकीयेश्वर नमोऽस्तु ते ।
पैत्रीनाथाय ते सेविकेश्वराय च ते नमः ॥3.38.८०॥
प्राचीनीपतये नृपीपतये ते नमो नमः ।
पैशङ्गीपतये सान्तारणीनाथाय ते नमः ॥८१ ॥
शैबीश्वराय ते थार्कूटस्थीश्वराय ते नमः ।
वैरजारीस्वामिने ते शाक्त्यक्षिणीश ते नमः ॥८२॥
पिशाचिनीश्वर कालिमाशीनाथाय ते नमः ।
औरलकेतवीस्वामिन् क्राथकीश च ते नमः ॥८३॥
पार्थवीराजिकेशाय चौष्ट्रालीशाय ते नमः ।
हङ्कारीपतये जयकाष्ठलीपतये नमः ॥८४॥
तीराणीपतये चाल्वीनारीशाय च ते नमः ।
वार्धिकापतयेऽनाथानाथाय ते नमो नमः ॥८५॥
राजपुत्रीश्वर प्रकीर्णिकाकान्तेश ते नमः ।
आल्पकेतवीकान्ताय जयकार्ष्णीश्वराय च ॥८६॥
पारीशानीस्वामिने ते चैन्दुरायीश ते नमः ।
मौद्राण्डीपतये गण्डात्मजानाथाय ते नमः ॥८७॥
लैनोर्णीस्वामिने बार्हच्छरीश्वराय ते नमः ।
बाललीनीस्वामिने ते वारसैंहीश ते नमः ॥८८॥
रायगामलिकाकान्त स्तोकहोमीश ते नमः ।
फैनतान्तवीनाथाय काष्ठयानीश ते नमः ॥८९॥
कोलकीशाय च दैनमानीशाय च ते नमः ।
रायकिन्नटिकास्वामिन् रायकोटीश्वरीश ते ॥3.38.९०॥
राणजितीस्वामिने ते वाकक्षिकेश ते नमः ।
मारीशीपतये बालेश्वरीश्वराय ते नमः ॥९१ ॥
लाम्बरीस्वामिने रायनवार्कीपतये नमः ।
हुण्डिशास्वामिने कूपेशिकाधिपतये नमः ॥९२॥
कालीमाण्डीस्वामिने ते जेलेशीपतये नमः ।
पारावारीस्वामिने ते कोटिश्वरीश ते नमः ॥९३॥
सातीशिकास्वामिने ते कार्कशिनीश ते नमः ।
आण्डजारीश ते बाल्यराजसीपतये नमः ॥९४॥
सौमनिकापतये ते गावाक्षीपतये नमः ।
पाराङ्वृत्तीश सुमणीश्वरीनाथ च ते नमः ॥९५॥
ऐशानपानीपतये रायपानीभृते नमः ।
मङ्गलापतयेऽमृतापतये ते नमो नमः ॥९६॥
प्रेमादिपतये राज्ञीपतये ते नमः ।
कौबेरीपतये चापि माहेन्द्रीपतये नमो नमः ॥९७॥
यमीश्वराय च नमो वायवीशाय ते नमः ।
वैश्वकर्मीस्वामिने ते वार्क्षीनाथाय ते नमः ॥९८॥
रौद्रीशाय च ते वह्निपुत्रीश्वराय ते नमः ।
श्रावणीस्वामिने ते खानिजीनाथाय वै नमः ॥९९॥
सांवत्सरीस्वामिने ते गोपिकेशाय ते नमः ।
प्राचीनीपतये ते च पिशङ्गीपतये नमः ॥3.38.१० ०॥
राशियानीस्वामिने ते रोमायनीश ते नमः ।
पारशीपतये ते च धैवरीपतये नमः ॥१०१ ॥
किन्नरीस्वामिनेऽमरीकान्ताय ते नमो नमः ।
गौरीशाय परीशायाऽऽब्रिक्तीशाय च ते नमः ॥१ ०२॥
हारितीशाय पातालीश्वराय ते नमो नमः ।
स्वार्गिणीशायाऽप्सरःकान्ताय ते च नमो नमः ॥१ ०३॥
ब्रह्मसरःपतये ते गायिकापतये नमः ।
विद्युन्मणिस्वामिने ते कुशलेशाय ते नमः ॥१ ०४॥
भौमीश्वराय च तुभ्यं दानवीशाय ते नमः ।
शक्तिनाथाय च कशीराज्ञीशाय नमो नमः ॥१ ०५॥
धेनुपालीस्वामिने ते सखीश्वराय ते नमः ।,
राजराजेश्वरीशाय लीलेश्वराय ते नमः ॥१ ०६॥
विभूतीशाय च दिव्यसिद्धीश्वराय ते नमः ।
अशनापतये विश्वापतये ते नमो नमः ॥१ ०७॥
श्रीधराय भगवतीस्वामिने ते नमो नमः ।
महामायाधिपतये प्रकृतीशाय ते नमः ॥१ ०८॥
न्यासिनीपतये साध्वीपतये ते नमो नमः ।
पतिव्रतास्वामिने ते दीक्षाधिपतये नमः ॥१ ०९॥
प्रपत्तिपतये राधेशाय प्रियाभृते नमः ।
वैराजीशाय च भूतीश्वराय ते नमो नमः ॥3.38.११० ॥
सृष्टीशाय विनष्टीशाय पुष्टीशाय ते नमः ।
गीतेश्वराय उपनिषदीश्वराय ते नमः ॥१११ ॥
श्रुतीश्वराय च पराविद्येश्वराय ते नमः ।
गायत्रीशाय नमस्ते शारदेशाय ते नमः ॥१ १२॥
शाब्दीशाय नमस्तुभ्यमेकादशीश ते नमः ।
द्वादशीशाय च नमो जयन्तीशाय ते नमः ॥१ १३॥
भावनेशाय च मुक्तीशाय तुभ्यं नमो नमः ।
सेवानाथाय ते चाराधनाकान्ताय .ते नमः ॥१ १४॥
गङ्गानाथाय च मोक्षपुरीनाथाय ते नमः ।
साङ्ख्ययोगिनीश्वराय नैष्ठकीपतये नमः ॥१ १५॥
त्यागिनीपतये चार्याधीशाय च ते नमः
योगिनीपतये वीतराणीशाय ते नमः ॥१ १६॥
नागवल्लीस्वामिने ते पूगीश्वराय ते नमः ।
रतिनाथाय सुरभिस्वामिने ते नमो नमः ॥११ ७॥
निर्वृत्तीशाय सन्ध्याऽधिपतये ते नमो नमः ।
मोहिनीशाय च विद्याध्रीशाय ते नमो नमः ॥११८ ॥
किम्पुरुषीस्वामिने ते कृषीश्वराय ते नमः ।
आबीश्वराय च मृदीश्वराय ते नमो नमः ॥११ ९॥
भूपतये ललितास्वामिने ते च नमो नमः ।
कुङ्कुमवापीश संहितानाथाय नमो नमः ॥3.38.१२० ॥
गुर्वीश्वराय च मुद्रिकेश्वराय च ते नमः ।
अरणीशाय च काशीश्वराय ते नमो नमः ॥१२१ ॥
तपस्विनीस्वामिने ते सैरन्ध्रीशाय ते नमः ।
धात्रीशाय च नमो नागरीशाय ते नमः ॥१ २२॥
परिव्राजिकाकान्तायाऽऽर्यसूरिणीश्वराय च ।
रमेशाय तथा रामेशाय ते च नमो नमः ॥१२३ ॥
स्तुतीशायाऽऽरार्तिकेशाय पूजेशाय ते नमः ।
अम्बिकेशाय च नभोवाणीश्वराय ते नमः ॥१ २४॥
बुद्धीश्वराय च स्तनश्रीश्वराय च ते नमः ।
प्रतिमाश्रीपतयेऽव्यक्तेशाय च ते नमः ॥१ २५॥
रसाधिपतये सुधापतये ते नमो नमः ।
पुण्याधिपतये मिष्टापतये ते नमो नमः ॥१ २६॥
पाकिनीशाय धान्याधिपतये ते नमो नमः ।
आज्ञानाथाय च मुमुक्षापतये च ते नमः ॥१ २७॥
विरजेशाय च चन्द्रकालेशाय च ते नमः ।
सुशीलापतये कदम्बमालेशाय ते नमः ॥१ २८॥
पारिजाताऽधिपतये कालिकापतये नमः ।
दुर्गानाथाय चाधिपतये ते नमो नमः ॥१ २०९॥
नन्दिनीशाय च पट्टाङ्गनेशाय च ते नमः ।
सरयूस्वामिने सात्त्वतीशाय ते नमो नमः ॥3.38.१३० ॥
साकेतापतये सुदक्षिणाधिपतये नमः ।
करीषिणीस्वामिने ते हरिणीपतये नमः ॥१३१ ॥
धरणीस्वामिने लीलास्वामिने ते नमो नमः ।
सत्यानाथाय पाञ्चालीपतये ते नमो नमः ॥१३२ ॥
प्रदीपापतये भागिरथीकान्ताय ते नमः ।
कनकास्वामिने चैरावतीनाथाय ते नमः ॥१३३ ॥
सरोजिनीस्वामिने ते कान्ताकान्ताय ते नमः ।
गोमतीपतये रेवास्वामिने ते नमो नमः ॥१ ३४॥
विशालाक्षिस्वामिने ते स्वर्णरेखेश ते नमः ।
रेवतीस्वामिने ऋक्स्वामिने ते च नमो नमः ॥१३५॥
वैकुण्ठापतये ब्रह्मसतीकान्ताय ते नमः ।
ईशावास्यास्वामिने ते स्मृतिकान्ताय ते नमः ॥१३६॥
कन्याकान्ताय च भद्राकान्ताय ते नमो नमः ।
ओजस्वतीस्वामिने ते सत्ताकान्ताय ते नमः ॥१३७॥
विष्णुगर्भाधिपतये वैराज्ञीपतये नमः ।
देवीश्वराय च प्रधानास्वामिने नमो नमः ॥१३८॥
वरणीपतये गोलोकीश्वराय ते नमः ।
बदरीशाय च श्वेतानाथाय ते नमो नमः ॥१३९॥
पावनीपतये चाऽव्याकृतिकान्ताय ते नमः ।
धात्रीशाय च ज्योत्स्नास्वामिने ते नमो नमः ॥3.38.१४० ॥
वीर्याकान्ताय महतीनाथाय ते नमो नमः ।
ओषधिपतयेऽजापतये ते च नमो नमः ॥१४१ ॥
विश्वम्भरास्वामिने ते चान्नपूर्णाभृते नमः ।
विभावरीस्वामिने ते दक्षिणापतये नमः ॥१४२॥
आहुतीशाय च सनातनीश्वराय ते नमः ।
अञ्जनीशाय च गण्डकीश्वराय च ते नमः ॥१४३॥
ते सीतेशाय शबरीपतये पिङ्गलाभृते ।
प्रेयसीपतये चापि श्रेयसीपतये नमः ॥१४४॥
मालावतीस्वामिने ते द्वारिकेशाय ते नमः ।
सिंहवतीस्वामिने ते त्रिस्पृशास्वामिने नमः ॥१४५॥
पक्षवर्धिनीनाथायोन्मिलनीस्वामिने नमः ।
उत्पत्तिस्वामिने मोक्षदाकान्ताय च ते नमः ॥१४६॥
सफलास्वामिने पुत्रप्रदानाथाय ते नमः ।
षट्तिलास्वामिने जयास्वामिने ते नमो नमः ॥१४७॥
विजयास्वामिने चामलकीनाथाय ते नमः ।
पापमोचनीनाथाय कामदेशाय ते नमः ॥१४८॥
वरूथिनीस्वामिने ते मोहिनीस्वामिने नमः ।
अपरास्वामिने ते च निर्जलास्वामिने नमः ॥१४९॥
योगिनीस्वामिने त्वे च शयनीस्वामिने नमः ।
कामिकास्वामिने ते च पुत्रदास्वामिने नमः ॥3.38.१५०॥
अजानाथाय पद्मानाथायेन्दिराभृते नमः ।
पाशाङ्कुशाधिनाथाय रमानाथाय ते नमः ॥१५१ ॥
प्रबोधिनीश्वरायाऽपि कमलेशाय ते नमः ।
धामदेशाय च कपिलेशाय ते नमो नमः ॥१५२॥
शलभेशाय च चन्द्रभागेशाय च ते नमः ।
कुमुद्वतीस्वामिने ते नित्यानाथाय ते नमः ॥१५३॥
चन्द्रकान्ताय पद्माक्षीस्वामिने ते नमो नमः ।
कान्तिमतीस्वामिने ते हृषीकेशाय ते नमः ॥१५४॥
अपराजितानाथाय पद्मवतीश ते नमः ।
सुनन्दास्वामिने धीपतये ते च नमो नमः ॥१५५॥
नन्दानाथाय च त्रयीस्वामिने ते नमो नमः ।
क्षेमङ्करीस्वामिने ते सुन्दरीपतये नमः ॥१५६॥
सुभगास्वामिने सुलक्षणानाथाय ते नमः ।
कूर्मीनाथाय च मत्स्यीनाथाय ते नमो नमः ॥१५७॥
अश्विनीस्वामिने हंसीस्वामिने ते नमो नमः ।
सौभाग्यसुन्दरीशाय कल्किनीस्वामिने नमः ॥१५८॥
दुःखहाश्रीस्वामिने ते वञ्जुलीस्वामिने नमः ।
रात्रीश्वराय नमोऽधवेश्वराय नमो नमः ॥१५९॥
क्षीरोदतनयेशाय घण्टिकापतये नमः ।
नीराजनाधिनाथाय घटिकास्वामिने नमः ॥3.38.१६०॥
वसुमत्यधिनाथाय ऋतम्भराभृते नमः ।
राध्यासापतये दिव्यारुणानाथाय ते नमः ॥१६ १॥
वम्रीनाथाय च ज्योष्ट्रीनाथाय ते नमो नमः ।
सुदुघास्वामिने कैदारिकानाथाय ते नमः ॥१६२॥
जालन्धरीस्वामिने ते शङ्खचूडीभृते नमः ।
मालतीस्वामिने बर्बरिकानाथाय ते नमः ॥१६३॥
वेदवतीस्वामिने ते पद्मिनीस्वामिने नमः ।
वृन्दावनीस्वामिने ते कंवतीस्वामिने नमः ।
पीवरीस्वामिने मरुपत्नीनाथाय ते नमः ॥१६४॥
तीर्थवल्लीस्वामिने ते तीर्थश्रीस्वामिने नमः ।
तिलोत्तमास्वामिने ते रूपवतीभृते नमः ॥१६५॥
वेदमातृवरायाऽपि गायत्रीपतये नमः ।
सरमेशाय च पैप्पलादीश्वराय ते नमः ॥१६६॥
उपलेशाय धरणिजेशाय ते नमो नमः ।
धरेशाय नमस्तुभ्यं माटुलीशाय ते नमः ॥१६७॥
पिङ्गलीशाय च मृगीशाय ते च नमो नमः ।
गौरस्वरूपिणीशाय नीतीश्वराय ते नमः ॥१६८॥
बुद्धीश्वराय च नमः सक्रियेशाय ते नमः ।
तुष्टीशाय नमस्तुभ्यं कामनेशाय ते नमः ॥१६९॥
वेदिकेशाय च नमश्चाज्याहुतिभृते नमः ।
पत्नीशालाधिपतये चितिनाथाय ते नमः ॥3.38.१७०॥
इध्मानाथाय च नम उद्गीतिपतये नमः ।
धृतीशाय नमो वेलास्वामिने च नमो नमः ॥१७१॥
धूमोर्णापतये ते च काष्ठाधीशाय ते नमः ।
वधूनाथाय च लतानाथाय ते नमो नमः ॥१७२॥
नदीनाथाय च नमः पताकापतये नमः ।
भोगिनीपतये नमो रसिकापतये नमः ॥१७३ ॥
चिदानन्दीस्वामिने ते मृत्युलक्ष्मीभृते नमः ।
सुश्रुतिपतये विजयन्तीश्वराय ते नमः ॥१७४॥
सुकन्यापतये नमश्चाऽलसापतये नमः ।
श्रीछायास्वामिने चित्रलेखानाथाय ते नमः ॥१७५॥
नवरङ्गाधिपतये किंशुकीस्वामिने नमः ।
कल्पलताधिनाथाय बकुलापतये नमः ॥१७६॥
चित्रवतीस्वामिने ते चारुपद्माभृते नमः ।
सुवर्णमुखरीशाय मालावतीभृते नमः ॥१७७॥
वीराधिपतये प्रभावतीनाथाय ते नमः ।
श्रीमतीस्वामिने पण्यास्वामिने ते नमो नमः ॥१७८॥
नागलक्ष्मीस्वामिने ते ज्योतिष्मतीभृते नमः ।
उद्योगिनीस्वामिने ते पूर्णानाथाय ते नमः ॥१७९॥
सिद्धेश्वरीस्वामिने ते कृतिकान्ताय ते नमः ।
कवितास्वामिने ग्रन्थिवरात्मने नमो नमः ॥3.38.१८० ॥
तालिकास्वामिने चापि सङ्गीतिस्वामिने नमः ।
प्रहारिणीपतये ते मानिनीस्वामिने नमः ॥१८१ ॥
जरत्कार्वीस्वामिने ते स्वस्तिनाथाय ते नमः ।
क्षमानाथाय च नमः प्रतिष्ठापतये नमः ॥१८२॥
लज्जानाथाय च नमः पिपासापतये नमः ।
दाहिकास्वामिने श्रद्धास्वामिने ते नमो नमः ॥१८३॥
मैथिलीयूथनाथाय कौशलास्वामिने नमः ।
निकुञ्जकान्तानाथाय शय्याकान्ताय ते नमः ॥१८४॥
पुरन्ध्रीकुलकान्ताय किरातीस्वामिने नमः ।
पुलिन्दीस्वामिने सिंहलद्वीपस्त्रीभृते नमः ॥१८५॥
दैशिकीस्वामिने नमो विदैशिकीभृते नमः ।
क्रतुकानकीनाथायाऽजितपत्स्त्रीभृते नमः ॥१८६॥
श्रीलोकाद्रिप्रियेशाय देवतेशाय ते नमः ।
सामुद्रिकास्वामिने ते पार्थिवीस्वामिने नमः ॥१८७॥
उर्वशीव्रातनाथाय सुतलीस्वामिने नमः ।
त्रिवेणीप्राणनाथाय शबरीशाय ते नमः ॥१८८॥
पम्पावराय च राजेश्वरीशाय च ते नमः ।
लम्बाननाधिनाथाय चाजामुखीश्वराय च ॥१८९॥
कन्याकुमारिकेशाय गोपकन्याभृते नमः ।
रैवतीस्वामिने नमो गौ लीस्वामिने नमः ॥3.38.१९०॥
जीवन्तीपतये लावण्यवतीपतये नमः ।
मालिनीप्राणनाथाय कुब्जिकास्वामिने नमः ॥१ ९१॥
यवनीस्वामिने मृगावतीनाथाय ते नमः ।
कान्तिमतीस्वामिने ते जरद्गौरीश्वराय च ॥१ ९२॥
सुमित्रास्वामिने सुतानाथाय ते नमो नमः ।
विन्ध्यावलीस्वामिने ते पौण्यनैधेयिकाभृते ॥१ ९३॥
वर्धिनीस्वामिने वैश्वावसवीशाय ते नमः ।
कुलादेवीस्वामिने ते रासेश्वरीभृते नमः ॥१ ९४॥
राजवतीस्वामिने सीमन्तिनीशाय ते नमः ।
सामवतीस्वामिने ते चाऽऽनर्तीशारदाभृते ॥१ ९५॥
महानन्दास्वामिने बन्दुलानाथाय ते नमः ।
मनोरमाधिनाथाय शुचिष्मतीभृते नमः ॥१ ९६॥
अर्चिष्मतीस्वामिने सुशीलाविप्राभृते नमः ।
कलावतीस्वामिने ते लीलावतीभृते नमः ॥१ ९७॥
रत्नावलीस्वामिने ते शशिलेखाभृते नमः ।
अनङ्गलेखापतये चित्रलेखाभृते नमः ॥१९८॥
दिव्यार्षीस्वामिने चापि सुरसास्वामिने नमः ।
वर्षाभ्वीस्वामिने पारावतीनाथाय ते नमः ॥१ ९९॥
प्रभावतीस्वामिने ते नर्मदास्वामिने नमः ।
रोहिणीशाय कुमुदाकान्ताय ते नमो नमः ॥3.38.२००॥
पुरुहूतापतये च शर्मवतीभृते नमः ।
सुधाम्नीस्वामिने ते च माधवी स्वामिने नमः ॥२० १ ॥
कुन्ददन्तीस्वामिने ते कदम्बमालिकाभृते ।
शाण्डिलीस्वामिने मधुविद्याभृते च ते नमः ॥२०२॥
अश्वमुखीस्वामिने ते गजमुखीश्वराय च ।
अम्बेश्वराय च वृद्धेश्वराय ते नमो नमः ॥२०३॥
कुङ्कुमवापीनाथाय हिङ्गलाजीश्वराय च ।
कामाक्षीस्वामिने ते च मीनाक्षीशाय ते नमः ॥२०४॥
दमयन्तीस्वामिने ते भद्रिकास्वामिने नमः ।
प्रीतिकर्णोत्पलेशाय दीर्धिकेशाय ते नमः ॥२०५॥
फलवतीस्वामिने ते ह्यमानाथाय ते नमः ।
गोभिलास्वामिने गोपसुतानाथाय ते नमः ॥२०६ ॥
उदुम्बुरीस्वामिने तेऽष्टषष्टिस्वामिने नमः ।
रत्नवतीस्वामिने ते शुभाक्षीस्वामिने नमः ॥२०७॥
देवलीलास्वामिने ते देवनदीश्वराय च ।
बहुचराधिनाथाय हिङ्गुलाजाभृते नमः ॥२०८॥
ब्रह्ममोहिनीनाथायाऽनुवृत्तिस्वामिने नमः ।
विशालापतये पराविद्याधिपतये नमः ॥२०९॥
देवतापतये चित्याकुतिस्वामिन्नमोऽस्तु ते ।
पुरीनाथाय कमलेश्वरीशाय नमो नमः ॥3.38.२१ ०॥
प्राचीनाथाय च ऋषितोयानाथाय ते नमः ।
गौतमीशाय च वपुष्मतीशाय च ते नमः ।२१ १ ॥
मणिकर्णाधिनाथाय श्रीमातृस्वामिने नमः ।
नमः पार्थाधिपतये माहिष्मतीभृते नमः ॥२१ २॥
भिल्लिकास्वामिने तुभ्यं सौराष्ट्रीशीभृते नमः ।
व्याघ्रीशाय नमस्तुभ्यं चिल्लीनाथाय ते नमः ॥२ १३ ॥
तिथिनाथायाऽऽभिचारिणीश्वराय च ते नमः ।
निषादीस्वामिने व्यालीस्वामिने ते नमो नमः ॥२ १४॥
चतुर्भुजाधिनाथाय हर्षसिद्धिभृते नमः ।
सारिकापतये विश्वरूपानाथाय ते नमः ॥२१५॥
शृगालीपतये ते च मयूरीशाय ते नमः ।
मङ्गलास्वामिने शैलीकन्यकास्वामिने नमः ॥२१६ ॥
नालमेधीस्वामिने ते भक्तानाथाय ते नमः ।
विमलास्वामिने चापि लम्बिकास्वामिने नमः ॥२१७॥
मरीचिकाधिनाथाय वेदीनाथाय ते नमः ।
गुण्डिचाधिप्रणाथाय भक्तीश्वराय ते नमः ॥२१८॥
रोहिणीशाय च कामदुघेशाय च ते नमः ।
रतीश्वराय च पृथ्वीश्वराय ते नमो नमः ॥२१ ९॥
सञ्ज्ञेश्वराय च देविकेश्वराय च ते नमः ।
विभावर्यधिनाथाय मूर्तिकान्ताय ते नमः ॥3.38.२२०॥
रुक्मिणीस्वामिने प्रेमसखीकान्ताय ते नमः ।
गोदावरीस्वामिने ते कपिलास्वामिने नमः ॥२२१ ॥
स्वर्णगौरीस्वामिने ते रम्भानाथाय ते नमः ।
शीतलास्वामिने चम्पास्वामिने ते नमो नमः ॥२२२॥
साध्यानाथाय धन्याधिस्वामिने ते नमो नमः ।
पुष्पाकान्ताय च कोकिलाकान्ताय नमो नमः ॥२२३ ॥
पूर्णिमाधिपतये ते मञ्जरीशाय ते नमः ।
गालवीशाय च याज्ञसेनीशाय च ते नमः ॥२२४॥
श्रीमतीस्वामिने लीलावतीनाथाय ते नमः ।
कदलीस्वामिने कालिन्दीश्वराय च ते नमः ॥२२५॥
हैमीश्वराय च महावेदीश्वराय ते नमः ।
खनीश्वराय च सनातनीश्वराय ते नमः ॥२२६॥
श्यामानाथाय च सर्वेशनीशाय च ते नमः ।
तपस्विनीस्वामिने ते गायिकास्वामिने नमः ॥२२७॥
कल्पपुत्तलिकेशाय ईशिकास्वामिने नमः ।
लाजाधिपतये प्रेङ्खानाथाय ते नमो नमः ॥२२८॥
नमः श्रीमङ्गलागौरीस्वामिने ते नमो नमः ।
क्रोधनापतये ते च श्रीवल्लीस्वामिने नमः ॥२२९॥
वीरकन्याधिपतये रणचण्डीश्वराय च ।
गरुत्मतीस्वामिने ते भीरुलक्ष्मीश ते नमः ॥3.38.२३ ०॥
बालाहकीस्वामिने ते सुसहास्वामिने नमः ।
किरणास्वामिने द्युतिस्वामिने ते नमो नमः ॥२३ १॥
नूत्नकुमारिकास्वामिनाथाय ते नमो नमः ।
शत्रुञ्जयीस्वामिने ते काललक्ष्मीश्वराय च ॥२३२॥
श्रावणीपतये सांवत्सरीकान्ताय ते नमः ।
कालकन्याधिपतये वह्निजास्वामिने नमः ॥२३३॥
प्रैतीनाथाय पित्रीस्वामिने ते च नमो नमः ।
दर्व्यादिस्वामिने राशिकन्याकान्ताय ते नमः ॥२३४॥
आनन्दिनीस्वामिने ते महाब्राह्मीश ते नमः ।
शान्तिनाथाय च परधाम्नीशाय च ते नमः ॥२३५॥
प्रधानापतये चापि प्राह्लादीपतये नमः ।
विभूषापतये कलिकाद्याधिपतये नमः ॥२३६॥
दैत्यानिकाधिनाथाय सुनन्दिनीभृते नमः ।
भोगिनीस्वामिने महाकालीनाथाय ते नमः ॥२३७॥
केसरिपृष्ठगाभृते तपतीस्वामिने नमः ।
सौदाम्नीपतये हरिजिह्वाधिपतये नमः ॥२३८॥
दृषद्वतीप्रकान्ताय कृत्तिकास्वामिने नमः ।
करञ्जनिलयानाथात्मने ते च नमो नमः ॥२३९॥
लोहितायनिकानाथात्मने ते च नमो नमः ।
नाट्यनटीस्वामिने ते नारीश्वराय ते नमः ॥3.38.२४०॥
कथानाथाय च सञ्जीवनीनाथाय ते नमः ।
राणिकापतयेऽमरपुत्रिकापतये नमः ॥२४१॥
धन्येश्वरीस्वामिने ते सतीशास्वामिने नमः ।
देवानिकीस्वामिने ते कृष्णिकास्वामिने नमः ॥२४२॥
कुशानाथाय तेऽनरण्यसुतेशाय ते नमः ।
परानाथाय च हृच्छायिनीनाथाय ते नमः ॥२४३ ॥
पट्टकन्यास्वामिने ते कृतमालाभृते नमः ।
माऽजाम्बिकाधिनाथाय जलनारीभृते नमः ॥२४४॥
विद्यास्नातास्वामिने ते सुषुम्णास्वामिने नमः ।
इडानाथाय च नमः पिङ्गलापतये नमः ॥२४५॥
यशस्विनीस्वामिने ते विश्वोदराभृते नमः ।
पयस्विनीस्वामिने ते तेजस्विनीभृते नमः ॥२४६॥
नमः पुरीतत्पतये गान्धारीपतये नमः ।
अरजास्वामिने चित्राङ्गदानाथाय ते नमः ॥२४७॥
दैत्यनारीप्रणाथाय श्वेतानाथाय ते नमः ।
रक्तानाथाय च पीतानाथाय ते नमो नमः ॥२४८॥
नीलानाथाय च नमो जयश्रीपतये नमः ।
सेवादेवीश्वरायोर्ध्वरेतसीपतये नमः ॥२४९॥
आरवीस्वामिनेऽनाथास्वामिने ते नमो नमः ।
गोपदेवीस्वामिने ते मेरुकोटीश्वराय च ॥3.38.२५० ॥
कल्पपावटिकेशाय कुलपूज्याभृते नमः ।
नमः किशोरीस्वामिने सुकृतिस्वामिने नमः ॥२५ १ ॥
राथीतरीस्वामिने च धामकन्याभृते नमः ।
ऋषिपत्नीस्वामिने ते त्यागिनीस्वामिने नमः ॥२५२॥
मनुकन्याधिपतये भक्तकन्याभृते नमः ।
सुराणीपतये ते चाऽसुराणीपतये नमः ॥२५३॥
धनालसाधिपतये त्र्यष्टकार्वीभृते नमः ।
द्युमतीपतये ते च साङ्ख्यसतीश ते नमः ॥२५४॥
शीलवतीस्वामिने ते भीमाश्रीपतये नमः ।
कृष्णानाथाय च तुङ्गभद्रानाथाय ते नमः ॥२५५॥
ऐलविलाधिनाथाय सह्यद्विजीभृते नमः ।
दुग्धानाथाय जीवन्तीस्वामिने ते नमो नमः ॥२५६॥
महामारीस्वामिने ह्रस्वबद्रीश ते नमः ।
ब्रह्मयोषित्पतये ते धीनाथाय ते नमः ॥२५७॥
सुनन्दापतये नमो लविङ्गास्वामिने नमः ।
चक्रवाकीस्वामिने ते मार्जारीशाय ते नमः ॥२५८॥
जानकीपतये काञ्चनीगङ्गापतये नमः ।
चन्द्रावतीस्वामिने चेरावतीस्वामिने नमः ॥२५९॥
शालावतीस्वामिने ते हराङ्गिकाभृते नमः ।
मीनकङ्ग्वधिनाथाय ब्रह्मपुत्रीभृते नमः ॥3.38.२६०॥
शिक्षाङ्गापतये नमो मौक्तिकापतये नमः ।
पन्नामीपतये मणिवर्णानाथाय ते नमः ॥२६१ ॥
नारायणीस्वामिने ते मेनकाङ्गाभृते नमः ।
अङ्गशिवाङ्गिकाभृते लवहिताभृते नमः ॥२६२॥
लाटिशापतये नमः कानिशापतये नमः ।
मापीङ्गापतये नमः सीक्याङ्गापतये नमः ॥२६३॥
अङ्गस्वाङ्गाधिनाथाय तारिमापतये नमः ।
अङ्गहास्वामिने पर्णवर्णानाथाय ते नमः ॥२६४॥
मन्नाम्निस्वामिने देववर्णानाथाय ते नमः ।
रङ्गवर्णास्वामिने ते शरभीपतये नमः ॥२६४६॥
तरलिकाधिनाथाय कुमुदास्वामिने नमः ।
देववरूथिनीशाय शूरदेवीश्वराय च ॥२६६॥
पिशाचीशतनाथाय दीक्षितास्वामिने नमः ।
त्रिनेत्रिकाधिकान्ताय चोरुलास्वामिने नमः ॥२६७॥
जगतीस्वामिने पाटलिकानाथाय ते नमः ।
ध्वजानाथाय च योनिभूते तुभ्यं नमो नमः ॥२६८॥
शिलानाथाय च यशोवत्यादिस्वामिने नमः ।
मेखलास्वामिने चाधिदेवतास्वामिने नमः ॥२६ ९॥
प्रोक्षणीस्वामिने तुरीदेवीनाथाय ते नमः ।
भुवनेशीस्वामिने ते गङ्गापुत्रीश ते नमः ॥3.38.२७०॥
वल्गुप्रभृतिनाथाय चेन्दिरास्वामिने नमः ।
आम्रजान्यादिनाथाय वामदेवीसुताभृते ॥२७१॥
अमरीस्वामिने मास्वामिने तुभ्यं नमो नमः ।
निर्गुणापतये सर्वापतये ते नमो नमः ॥२७२॥
काश्यपीपतये कुण्डलिनीनाथाय ते नमः ।
आपस्तम्बादिपतये निजाकान्ताय ते नमः ॥२७३॥
मत्कुञ्जेशाय च आमजनायाः पतये नमः ।
अकान्तकान्ताकान्ताय मम कान्ताय ते नमः ॥२७४॥
श्रीरङ्गायाऽशोकसुन्दरीश्रीकान्ताय ते नमः ।
द्वादशोत्तरसाहस्रयुगलात्माभिधाय ते ॥२७५॥
विशिष्टस्वामिने स्वीयास्वामिने ते नमो नमः ।
शिवराज्ञीलक्ष्मीशाय नारायणीशाय नमः ॥२७६॥
दयाजयारमाहैमीमनूर्जालाडकीभृते ।
मालतीसुगुणाहंसीकस्तूरीपतये नमः ॥२७७॥
मुक्ताभुक्ताधिनाथाय रक्तारिक्ताभृते नमः ।
स्मृत्वा सर्वाणि रूपाणि मद्युक्तानि प्रभोस्तव ।
भवाम्यतीव मुदिता युगलानि सुखानि च ॥२७८॥
अन्यान्यपि त्वसङ्ख्यानि स्मर्यन्ते कृपया तव ।
अन्यानन्दं समाप्तास्मि भूयः कान्ताय ते नमः ॥२७९॥
अथाऽन्यानि चरित्राणि भक्तानां त्वद्गतात्मनाम् ।
मोक्षार्थानि वृषार्थानि श्रोतुमिच्छामि तद्रसा ॥3.38.२८०॥
एतद् युगलश्रीकान्तस्तोत्रं नामसहस्रकम् ।
द्वादशोत्तरनामाढ्यं चतुःपुमर्थदं परम् ॥२८ १॥
सौभाग्यदं वंशदं च लक्ष्मीदं सम्पदां प्रदम् ।
राज्यदं स्वर्गदं सर्वभोग्यदं स्वेष्टदं परम् ॥२८२॥
सिद्धिदं पुण्यदं मूर्तौ समाधिदं च पावनम् ।
पापहं मृत्युहं विघ्ननाशकं दुःखनाशकम् ॥२८३॥
दिव्यभावप्रदं परामुक्तिभूप्रापकं शुभम् ।
अलभ्यदं तथाऽऽरोग्यप्रदं स्मृद्धिप्रदं सदा ॥२८४॥
पठतां शृण्वतां सर्वनामार्थस्मरतां तथा ।
नरनारीसमस्तानां सर्ववाञ्च्छाप्रपूरकम् ॥२८५॥
साक्षान्मन्मुखतो जातं लक्ष्मीजं श्रीप्रदं हरे ।
लक्ष्मीरहं स्तवरूपा स्तवपात्रं भवान् पतिः ॥२८६॥
आवयोः स्तावकानां चावयोस्तुल्यत्वमस्त्विति ।
अनादिश्रीकृष्णनारायण नमोऽन्तरात्मने ॥२८७॥
सर्वाभ्यस्तव योषाभ्यो नमो भूयो नमो नमः ।
वद मेऽन्यचरित्राणि त्वयि स्नेहकराणि वै ॥२८८॥
पुरुषोत्तमभावस्योद्भावकानि शुभानि च ।
नरनारायणाद्यास्तेऽवताराः सन्ति ये भुवि ॥२८९॥
तव बोधं प्रकुर्वन्ति कया रीत्याऽवतारिणः ।
वद मे तत् कृपासिन्धो यदि लोकोपकारकम् ॥3.38.२९०॥
विनाऽवतारिविज्ञानं नोपासनोत्तमा भवेत् ।
तस्मात् कथय मे कान्त! कान्तायै कृपया प्रभो ॥२९ १ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः त्रिपञ्चाशत्तमे वत्सरेऽनादिश्रीकृष्णनारायणस्य श्रीशिवराज्ञीश्रीसहितस्य प्राकट्यं, युगलस्य द्वादशोत्तरशताधिकसाहस्रनामस्तोत्रमित्यादिनिरूपणनामाष्टात्रिंशोऽध्यायः ॥३८ ॥