०३२

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मे ततः परम् ।
वेधसोऽष्टात्रिंशवर्षे कल्पे षष्टेऽष्टमे मनौ ॥१ ॥ ब्रह्मधर्मसमुत्पन्नोऽसुरोऽरिष्टोऽनलादनः ।
ववृधे जातमात्रः स बुभुक्षितोऽतितैजसः ॥२ ॥ अन्यतेजांसि यद्देहे लयं यान्ति समन्ततः ।
अग्नीन् सर्वान् भक्षयति नान्यं भुङ्क्ते हि जन्मतः ॥३ ॥ जलं पृथ्वीं न ग्रसते ग्रसतेऽनलमात्रकम् ।
यत्र यत्राऽनलाः सन्ति वह्नयस्तत्र तत्र सः ॥४ ॥ गत्वा गत्वा प्रसह्याऽग्निं धृत्वा धृत्वाऽत्ति सर्वशः ।
ब्रह्मणो मानसं पुत्रं महाग्निं स त्वभक्षयत् ॥५ ॥ तत्त्रिसुतान् पावकं च पवमानं शुचिं तथा ।
अभक्षयत्तथा पावकात्मजं सहरक्षकम् ॥६ ॥ पवमानात्मजं कव्यवाहनं चाप्यभक्षयत् ।
शुच्यात्मजं हव्यवाहं धृत्वाऽसुरोऽप्यभक्षयत् ॥७ ॥ अग्नेश्चतुर्थं पुत्रं ब्रह्मौदनाग्निमभक्षयत् ।
ब्रह्मौदनाग्निपुत्रं च भरतं चाप्यभक्षयत् ॥८ ॥ तथा भरतपुत्रं च वैश्वानरमभक्षयत् ।
अथाग्नेः पञ्चमं पुत्रमथर्वाणमभक्षयत् ॥९ ॥ अथर्वपुत्रानमृतं दध्यङ्गमङ्गिरं तथा ।
निर्मथ्य चेति चतुरोऽप्यभक्षयत् महाऽसुरः ॥3.32.१० ॥ निर्मथ्यस्य सुतं गार्हपत्यं तथा ह्यभक्षयत् ।
गार्हपत्यसुतौ शंस्यं शुकं तथा ह्यभक्षयत् ॥११ ॥ शंस्यसुतानावसथ्यं सभ्यं चाहवनीयकम् ।
अभक्षयन्महारिष्टानलादो नाम चासुरः ॥१२ ॥ तथा शंस्यसुतानन्यान् नदीषु जातसम्भवान् ।
धिष्णिसञ्ज्ञानपि पुत्रानभक्षयन्महासुरः ॥१३ ॥ ऋतुं प्रवाहणं चाग्नीध्रं सम्राजं कृशानुकम् ।
पारिषदं प्रतल्कं च नभसं च वसुं तथा ॥१ ४॥ अजैकपाद्ं चाहिर्बुध्नं च गृहपतिं तथा ।
अभक्षयच्च होत्रीयं शान्तप्रचेतसं तथा ॥१५॥ विश्वदेवं तथाऽवक्षुमच्छावाकमभक्षयत् ।
उशीरं च कविं पोतमावारिमप्यभक्षयत् ॥१ ६॥ भारिं नैष्ठीयसं चापि व्यरत्निमप्यभक्षयत् ।
मार्जालीयमवत्फूर्जमब्जं च जाठरं तथा ॥१७ ॥ जठरस्य सुतं मन्युमन्तं तथा ह्यभक्षयत् ।
सवर्त्तकं मन्युमज्जं वाडवं चाप्यभक्षयत् ॥१८ ॥ वाडवोत्थं सहरक्षं क्षामं च सहरक्षजम् ।
क्षामात्मजं च क्रव्यादं ह्यभक्षयन्महासुरः ॥१ ९॥ शुचेः पुत्रमारणेयं चापरं चाप्यभक्षयत् ।
आरणेयसुतं चायुं चायुजं महिमानकम् ॥3.32.२० ॥ महिमानसुतं चापि सवनं चाप्यभक्षयत् ।
सवनोत्थं चाद्भुतं च विविधिं चाद्भुतात्मजम् ॥२१ ॥ विविधिजं तथाऽर्कं चाऽप्यभक्षयन्महासुरः ।
अर्कसुतान् वाजसृगमनीकवन्तमित्यपि ॥२२ ॥ यष्टिकृतं रक्षोहं च सुरभिं च वसुं तथा ।
अन्नादं रुक्मराजं चाप्यभक्षयन्महासुरः ॥२३ ॥ एवमन्यान् श्मशानस्थान् महासुरोऽप्यभक्षयत् ।
एवं नारायणीश्रि! वै जगच्चाग्निविवर्जितम् ॥५४॥ दाहशून्यं पाकशून्यं हिमवत् संव्यजायत ।
मृत्यून्मुखं समस्तं वै वीक्ष्य पृथ्वी शुचान्विता ॥२५॥ ययौ सत्यालयं तत्र ब्रह्माणं शरणं गता ।
तुष्टाव परया भक्त्याऽनलरक्षार्थमेव सा ॥२६ ॥ अनलादविनाशार्थं चक्रे वै प्रार्थनां मुहुः ।
ब्रह्मा सस्मार मनसा मां तदा पुरुषोत्तमम् ॥२७ ॥ अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
परब्रह्माऽक्षरातीतं सर्वान्तर्यामिणं हरिम् ॥२८॥ श्रुप्वाऽहं प्रार्थनां लक्ष्मि! प्रत्यक्षो ब्रह्मणोऽभवम् ।
त्वया साकं तदा पद्मे ब्रह्मा पुपूज मां तथा ॥२९॥ त्वां पुपूज पृथिवी साऽऽर्थयद् रक्षार्थमित्यथ ।
असुरस्य विनाशार्थं तदा त्वं तु मदाज्ञया ॥3.32.३०॥ पृथ्वीपुत्री चाभवश्च पार्थिवीश्रीः सुकन्यका ।
त्वां नीत्वा सा ययौ तूर्णं भूलोकं विमलाशया ॥३ १॥ अहं वह्नेः स्वरूपं च धृत्वा ज्वालात्मकोऽभवम् ।
अनलादोऽसुरो मां संवीक्ष्य मेरौ समाऽऽद्रवत् ॥३२॥ भक्षणार्थं चाययौ प्राऽद्रवं चाहं भुवं प्रति ।
यत्र त्वं भूसहिता च प्रतीक्षसे ममाऽऽगमम् ॥३३॥ भानुमत्पर्वतस्यैव गह्वरे तत्र चाऽऽगमम् ।
पश्यन्त्याश्च तव चापि पृथ्व्यास्तत्र महासुरः ॥३४॥ अगिलन्मां महाज्वालामयाऽग्निं परमेश्वरम् ।
अहमन्तर्गतो भूत्वाऽदहं तं वै महासुरम् ॥३५॥ भस्मीभूतं च तं कृत्वा वह्नीनजीवयं पुनः ।
सर्वेऽग्नयस्तदा जीवसहिताश्चेतनाः शुभाः ॥३६॥ यथापूर्वमभवँस्तेऽस्तुवन्मां चाप्यपूजयन् ।
अनादिश्रीवह्निनारायणं मां पुरुषोत्तमम् ॥३७॥ मयाऽऽज्ञप्ता वह्नयस्ते स्वस्वस्थानेषु वै द्रुतम् ।
प्रवृत्ताः स्वस्वकार्येषु सशक्ताश्च समन्विताः ॥३८॥ अथ जगन्ति वै लोकाः प्रजाश्च साऽग्नयोऽभवन् ।
हिमभावो गतस्तेषां सजीवा ह्यभवन् पुनः ॥३९॥ सर्वे ज्ञात्वा मम तत्र प्राकट्यं तु सुरादयः ।
आययुः पूजनार्थं ते व्योमवृष्टिस्ततोऽभवत् ॥3.32.४०॥ चन्दनानां कुसुमानां जयशब्दस्तथाऽभवन् ।
महोत्सवः कृतस्तत्र सर्वदेवादिभिर्मम ॥४१ ॥ पृथ्व्या त्वं चार्पिता मह्यं पार्थिवीश्रीर्विवाहिता ।
आकल्पान्तं स्थितश्चाऽहं त्वया साकं नरायणि ॥४२॥ प्राकट्यं मे कथितं ते लक्ष्मि! स्मर सुखप्रदम् ।
अन्येऽवतारा बहवस्तदा वर्षेऽभवन्मम ॥४३॥ जानाम्येतान् समस्तान् वै नान्यो जानाति कश्चन ।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः प्रजायते ॥४४॥ वह्नेरुपद्रवो न स्याद् रोगाः स्युर्न कदाचन ।
आनन्दं ब्रह्मणो नित्यं लभेदेवाऽत्र पाठकः ॥४५॥ अथाऽन्यच्चापि मे लक्ष्मि! प्राकट्यं च ततः परम् ।
कथयामि समासेन महापुण्यप्रदं शुभम् ॥४६॥ नवत्रिंशे वेधसश्च नागवर्षे पुराऽभवत् ।
षष्ठकल्पे षष्ठमनौ इलोदरो महासुरः ॥४७॥ रसादः सर्वतत्त्वानां रसभक्षक उल्बणः ।
राहोः पुत्रोऽसुरकर्मा स्वर्गभूरसभक्षकः ॥४८॥ स हि पृथ्व्यां समागत्य तपस्तेपेऽतिदारुणम् ।
सहस्रवत्सरान् मेरो तुतोष शङ्करः स्वयम् ॥४९॥ आययौ सन्निधौ तस्योवाच वृणु वरं ततः ।
असुरः संययाचेऽपि सर्वरसप्रभक्षिताम् ॥3.32.५० ॥ तथाऽस्त्विति हरः प्रोक्त्वा तिरोबभूव सत्वरम् ।
असुरः स सदा पार्थिवान् रसान् सलिलस्थितान् ॥५१ ॥ भुङ्क्ते यथेष्टं सततं पुष्टिमेति समन्ततः ।
ततस्तृप्तः पुनर्वर्षसहस्रोर्ध्वं तपः परम् ॥५२॥ चक्रे ब्रह्माणमुद्दिश्याऽवध्यभावार्थमेव सः ।
वाय्वाहारं शुष्कगात्रं वीक्ष्य ब्रह्मा ह्युपाययौ ॥५३॥ उवाच प्रोक्ष्य सलिलैः सजीवीकृत्य तं तदा ।
वरं वृणु यथेष्टं मे प्रसन्नोऽस्मि महासुर ॥५४॥ सोऽपि नेत्रे समुन्मिल्योवाचाऽजेयत्वमुत्तमम् ।
चतुर्दशभुवां वासैर्नाऽहं जय्यो भवामि ह ॥५५॥ तथाऽस्त्विति ब्रह्मवाक्यं प्राप्तवान् स महासुरः ।
ब्रह्माऽप्यदृश्यतां प्राप्य ययौ ततो महासुरः ॥५६॥ बुभुजे बहुशो भोगान्निर्भयो दैवमानुषान् ।
अथापि चिन्तयामास मरणं मे तु नो भवेत् ॥५७॥ ततस्तपः पुनः कार्यं मेरौ वर्षसहस्रकम् ।
विचार्येत्थं चकाराऽपि विष्णुमुद्दिश्य वै तपः ॥५८॥ विष्णुर्वर्षसहस्रान्ते त्वाययौ देवनोदितः ।
प्राह तं ते किमिष्टं वै वृणु विष्णुरहं त्विह ॥५९॥ वरप्रदानकार्याय समायातोऽस्मि मा चिरम् ।
असुरः प्राह यद्येवं मरणं मे न वै भवेत् ॥3.32.६० ॥ तथा वृणोमि विष्णोस्ते वरदानं मयेप्सितम् ।
विष्णुः प्राह जनिर्यस्य मृतिस्तस्य ध्रुवाऽसुर ॥६ १ ॥ पितुस्ते राहुसञ्ज्ञस्य मरणं ध्रुवमेव ह ।
तत्पितुः कश्यपस्यापि तत्पितुश्चापि वै ध्रुवम् ॥६२॥ अमृत्युः कस्यचिन्नास्ति विना श्रीपुरुषोत्तमम् ।
आत्मा नित्यः कर्मभोक्ता वसति देहपञ्जरे ॥६३॥ स च देहाद्विनिर्यातो मृत इत्युपचर्यते ।
देहः षाट्कौशिकश्चास्ति कोशा भूतादिसम्भवाः ॥६४॥ भूतानां परिणामाश्च जायन्ते नित्यमेव ह ।
परिणामा सदाऽनित्यास्ततोऽनित्यं हि वर्ष्म च ॥६५॥ अनित्यस्य न नित्यत्वं वरमन्यं वृणु ध्रुवम् ।
राज्यं स्वर्गं च पातालं चिरञ्जीवित्वमित्यपि ॥६६॥ ददामि तेऽसुर! द्रव्यं स्वर्णरूप्यादि भूतलम् ।
सौर्यं चान्द्रं च माहेन्द्रं पदं कौबेरमित्यपि ॥६७॥ वृणु चान्यत्पदं श्रेष्ठं मा चिरं प्रददामि यत् ।
श्रुत्वैवमाह सर्वादो मा मृत्युर्मे भवेदिह ॥६८॥ त्रिदेवतत्सृष्टिजेभ्यश्चेति वृणोमि देहि मे ।
तथाऽस्त्विति हरिः प्राहाऽदृश्यतां स द्रुतं ययौ ॥६९॥ अथाऽसुरस्तपस्त्यक्त्वा मृत्युभीवर्जितस्तथा ।
देवदैत्यमनुष्याणां भोगान् भुङ्क्ते प्रसह्य सः ॥3.32.७०॥ ब्रह्मणश्चापि विष्णोः सः शिवस्यापि विभूतिकाः ।
सर्वा आहृत्य च बलाद् भुङ्क्ते वरबलैधितः ॥७१ ॥ ह्येकदा स ययौ जित्वा देवान् कैलासमित्यपि ।
शङ्करं प्राह युद्धं मे कैलासं वा प्रदेहि मे ॥७२॥ शम्भुः प्राहार्धमेवैतत् कैलासं तव सर्वथा ।
गृहाणेति तदा सोऽपि चार्धं प्राप्य मुमोद ह ॥७३॥ अथाऽऽययौ सत्यलोकं ब्रह्माणं प्राह मे तव ।
पदं ब्रह्मन् हि सर्वस्वं देहि वा युद्धमेव वा ॥७४॥ ब्रह्मा प्राह गृहाणेदं पारमेष्ठ्यपदार्धकम् ।
लब्ध्वा सोऽपि प्रसन्नोऽभूद् ययौ विष्णुं पयोदधिम् ॥७५॥ प्राह मे श्वेतभूद्वीपं देहि विष्णो सरोषकम् ।
यद्वा युद्धं च मे देहि कुरु यत्ते हि रोचते ॥७६॥ विष्णुः प्राह तु ते दत्तं क्षीराब्ध्यर्धपदं सदा ।
लब्ध्वाऽसुरः प्रसन्नश्च ययौ मेरुं निजालयम् ॥७७॥ अथेयेष शिवां श्रीं च ब्राह्मीं देवीर्महासुरः ।
अर्थयामास ता यावत् तावद्देवा विनाशने ॥७८॥ मतिं चक्रुश्चासुरस्य कौतुकं च व्यधुर्द्रुतम् ।
पिशाचिनीत्रयं तत्तद्रूपधरं हरः स्वयम् ॥७९॥ प्राहिणोत् तं तत इलोदरो जहर्ष मूढधीः ।
पिशाचिन्यो व्रतं चक्रुः सर्वरसप्रभक्षणम् ॥3.32.८०॥ मासमात्रं व्रतं सर्वरसभक्षणनामकम् ।
कृत्वा ततो व्रते पूर्णे भविष्यामः प्रसेवने ॥८१ ॥ उपस्थिता इति श्रुत्वा ज्ञात्वा च मुमुदेऽसुरः ।
समर्थोऽयं सर्वरससञ्चये वर्तते यतः ॥८२॥ पार्थिवान् वै सर्वरसान् जलीयानपि सर्वशः ।
पाकापाककृतान् सर्वानानयामास सत्वरम् ॥८३॥ ददौ ताभ्यस्त्रिवर्गाभ्यः पिशाचिनीभ्य एव च ।
भोजयामास बहुधा पाययामास सर्वशः ॥८४॥ पृथ्वी रसविहीना वै जलं रसविहीनकम् ।
तत्त्वानि यानि रस्यानि तान्यरसानि चाऽभवन् ॥८५॥ रसशून्यं भोजनं च घृतं चामृतमित्यपि ।
हव्यं कव्यं चामिषादि सर्वं रसविहीनकम् ॥८६॥ जातं तेन समस्तं चाऽभोज्यं चापेयमित्यपि ।
क्लेशमाप्ताः प्रजाः सर्वा देवासुरर्षिमानवाः ॥८७॥ परमेशार्पणे चापि नैवेद्ये रसवर्जिता ।
सर्वा जाता ततश्चेशा नादन्ति भोजनं खरम् ॥८८॥ तेऽथ सर्वे मिलित्वा मामाराधयन् सुदुःखिताः ।
इलोदरस्य नाशार्थं तुष्टुवुर्बहुधा तथा ॥८९॥ श्रुत्वाऽहं च परब्रह्म श्रीपतिः पुरुषोत्तमः ।
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ॥3.32.९० ॥ त्वया साकं त्वक्षराद्वै धाम्नो लक्ष्मि! स्वयं हरिः ।
आययौ देवकोटीनामग्रे साक्षाद् बभूव ह ॥९ १ ॥ पूजितश्चार्थितश्चापि निवेदितोऽसुराऽर्दने ।
गतोऽहं मेरुभूभागे यत्राऽसुरः प्रमोदते ॥९२॥ रसरूपोऽभवं तत्र ह्रदो भूत्वा व्यवस्थितः ।
मिष्टः शीतः सुगन्धश्चानन्ददः सुखदः शुभः ॥९३॥ उज्ज्वलः श्वेतपीयूषरूपश्च मादको मृदुः ।
प्रवाहरूपश्चाऽपूर्णो ह्रदोऽभवं तदन्तिके ॥९४॥ पिशाचिन्यस्तिस्र एव वीक्ष्य रसोत्तमं ह्रदम् ।
कथयामासुरेवैनं सोऽपि तूर्णं समाययौ ॥९५॥ पपौ रसं तथा ताश्च पाययामास सोत्सवः ।
पाने तृप्तिर्न चोद्गारो जायते पाति वै मुहुः ॥९६॥ भानं त्यक्त्वा पपौ चाति पपावाकण्ठमेव तु ।
रसोऽहं न भमौ त्वस्योदरे सोऽपि व्यवर्धत ॥९७॥ पीत्वा पीत्वाऽक्षयं सर्वं रसं सोऽभून्महोदरः ।
यावती महिमासिद्धिस्ततस्तावदभून्महान् ॥९८॥ मानोत्तरं गतश्चापि पपौ रसं पुनः पुनः ।
उदरं तस्य वै त्यक्त्वा शक्तिं वै धारणात्मिकाम् ॥९९॥ मध्यनाभिप्रदेशाच्च पाटितं हृदयावधिम् ।
जघनं पाटितं चापि निर्गतोऽहं रसात्मकः ॥3.32.१ ०० ॥ बहिरेवोदरात्तस्य पपात स ममार च ।
अनादिश्रीरसनारायणश्चाहं त्वया सह ॥१०१ ॥ अनादिश्रीरसलक्ष्म्या साकं तत्राऽभवं स्थितः ।
पिशाचिन्यः प्रसन्नाश्च पूजयित्वा हरिं तु माम् ॥१० २॥ ययुः कैलासमेवैताः देवाद्यास्तत्र चाययुः ।
पुष्पवृष्टिं प्रचक्रुश्च तुष्टुवुर्मां रसात्मकम् ॥१ ०३॥ अनादिश्रीरसनारायणं श्रीपुरुषोत्तमम् ।
सर्वदा च निवासार्थमर्थयामासुरीश्वराः ॥१ ०४॥ अहं सदाऽवसं पृथ्व्यां रसपुष्टिप्रवृद्धये ।
मन्वन्तरैकमात्रं मूर्तिमानभवं तदा ॥१ ०५॥ ततो रसात्मको भूत्वाऽऽकल्पं स्थितोऽभवं प्रिये ।
स्मर लक्ष्मि! मम तद्वै प्राकट्यं तद्रसात्मकम् ॥१ ०६॥ अथ देवा ययुः सर्वे नैजान् वासान् दिवादिषु ।
अन्ये तदाऽवतारा मेऽभवँश्चापि सहस्रशः ॥१ ०७॥ अवतारी परब्रह्म रसनारायणोऽभवम् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१ ०८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टात्रिंशे वर्षे अनलादमहासुरविनाशार्थम् अनादिश्रीवह्निनारायणस्य पार्थिवीश्रियासहितस्य, तथा नवत्रिंशे वत्सरे इलोदरस्य रसादस्य महासुरस्य विनाशार्थम् अनादिश्रीरसनारायणस्य श्रीरसलक्ष्म्या सहितस्य च प्राकट्यमित्यादिनिरूपणनामा द्वात्रिंशोऽध्यायः ॥३२ ॥