०२९

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं वेधसो याक्षनामके ।
पञ्चत्रिंशे वत्सरे च कल्पेऽष्टाशीतियुच्छते ॥१ ॥ तृतीये च मनौ जातं प्राकट्यं मे शृणु प्रिये ।
अंशुक्रमथो राजर्षिस्तदासीद् दक्षिणे व्रती ॥२ ॥ मेरोः सन्निहिते देशे नालवेयप्रजाधिपः ।
समस्तस्य नलवस्य भूखण्डस्य नियामकः ॥३ ॥ अन्ये सहस्रभूपाश्च करदास्तस्य चाऽभवन् ।
दानी ध्यानी व्रती भक्तः साधुसेवी श्रवी मखी ॥४ ॥ हरिन्यासी निवेदी च विश्वासी पूजको मम ।
नृपोंऽशुक्रमथो लक्ष्मि महावैष्णवसत्क्रियः ॥५ ॥ यथाऽभवत्तथा तस्य पत्न्योऽपि हरिदीक्षिताः ।
वैष्णव्यः शतसङ्ख्याश्चाऽभवन् हरिपरायणाः ॥६ ॥ दात्र्यो ध्यात्र्यो व्रतिन्यश्च भक्ताः साधुप्रसेविकाः ।
श्रविण्यश्च मखिन्यश्च हरिन्यासिन्य इत्यपि ॥७ ॥ आत्मनिवेदिकाः सर्वा विश्वासिन्यश्च पूजिकाः ।
पातिव्रत्यपराश्चापि मयि सर्वकृतादराः ॥८ ॥ मदर्चायां लग्नचित्ता मत्साधुदिव्यदृष्टिकाः ।
पत्यौ हरौ सत्सु नित्यं समसेवासमादराः ॥९ ॥ राज्ञः पुत्रास्त्रिशतानि पुत्र्यः शतद्वयं तथा ।
पितृवत् मातृवत् सत्सु हरौ सेवापरायणाः ॥3.29.१ ०॥ मनसा वस्तुभिर्देहैः सेवन्ते भगवत्कुलम् ।
सर्वे चासन् दिव्यभावा विदेहाः सिद्धपुङ्गवाः ॥१ १॥ नैषां राज्ये कदाऽप्यासन् नीतयो दुःखविप्लवाः ।
नाऽवग्रहो नातिवृष्टिर्न युद्धं भूमिकम्पनम् ॥१२॥ न शैत्याभिभवश्चौष्ण्योपद्रवोऽपि न वै क्वचित् ।
न रोगाश्चाऽभवन् राष्ट्रे नाऽकालमृत्यवो जनाः ॥१३॥ अन्नवस्त्रादिमोदिन्यः प्रजा भूषामहोत्सवाः ।
परस्परप्रसन्नाऽनुरागिण्यश्च सदाऽभवन् ॥१४॥ परस्परसहायाश्च नित्यमत्पूजनान्विताः ।
मह्यमर्पय्य खादिन्यो भोगिन्योऽर्पय्य मेऽखिलम् ॥१५॥ हृष्टपुष्टा नरा नार्यो द्वेषहिंसादिवर्जिताः ।
न स्तेना न कदर्याश्च राज्ये तेषां तदाऽभवन् ॥१६॥ सर्वरसप्रदा पृथ्वी ऋतवः फलपुष्पदाः ।
वृथा वल्लीविरुधश्चाऽऽस्तम्बात् फलसुमप्रदाः ॥१७॥ असत्यं मानवे नासीत् कापट्यं न प्रजास्वपि ।
तृष्णा नासीद् भोगवृत्तिः सन्तोषः संव्यवर्तत ॥१८॥ देवा महर्षयः सन्तः सिद्धाः साध्व्योऽप्यहर्निशम् ।
यतयो ब्रह्मशीलाश्च भुञ्जतेऽस्य सहस्रशः ॥१९॥ अन्नसत्राणि राज्येषु कृतानि तेन भूभृता ।
भुञ्जते लक्षशो विद्यार्थिनो विद्यार्थकन्यकाः ॥3.29.२०॥ प्रतिखेटं प्रतिग्रामं प्रतिग्रामं प्रतिपत्तनमस्य वै ।
अन्नसत्रेऽतिथयश्च गृह्णन्ति भोजनं वरम् ॥२१ ॥ प्रातर्नित्यं प्रतिग्रामं देवानां सर्वसम्पदाम् ।
पूजनं नृपतेरेव धनादिभिः प्रजायते ॥२२॥ घटिकाकालपर्यन्तं कृत्वा सङ्कीर्तनं हरेः ।
भुञ्जतेऽतिथिवर्गाश्चाऽनाथाद्या अस्य सत्रके ॥२३॥ सायं भजन्ते मां लोका रात्रौ सङ्कीर्तयन्त्यपि ।
दिवा मत्कार्यपरमास्ततः स्वार्थपरा जनाः ॥२४॥ एवंविधाः प्रजास्त्वस्य देहाऽनादरतत्पराः ।
तपस्यो भक्तिमत्यश्च साधुसेवापरायणाः ॥२५॥ साधुरूपो हि भगवान् चेतनोऽत्र क्षितौ सदा ।
कोटिरूपो राजते वै प्रजानां श्रेयसां करः ॥२६॥ साधुरेव हि भगवान् साधुरेव हि तारकः ।
साधुः सद्गतिदाता च साधुमूर्तिः स्वयं प्रभुः ॥२७॥ साधुर्यन्मानवं रूपं दृश्यतेऽस्मत्समं ह्यपि ।
दिव्यं तत् तत्क्रिया दिव्या मोक्षदो भगवान् स्वयम् ॥२८॥ दर्शनं स्पर्शनं पादसंवाहनं प्रसेवनम् ।
भोजनं बहुधा सेवा सर्वं साधोः प्रमुक्तिम् ॥२९॥ साधूनां परिचर्या या सकृद्वा बहुधापि वा ।
पापनाशकरी सर्वा ब्रह्ममुक्तिप्रदायिनी ॥3.29.३० ॥ ये पुत्रा दीक्षिता दिव्या हरेरेव हि वंशिन ।
भवन्ति जन्मभूत्यागास्त एव हरिरूपिणः ॥३१॥ तत्क्रियायां ब्रह्मचर्यं व्रतं दानं च दक्षिणा ।
तपो धर्मो विवेकश्च भक्तिः सर्वं प्रतिष्ठितम् ॥३२॥ साधोर्हस्तौ हरेर्हस्तौ सत्पादौ चरणौ हरेः ।
सतां मुखं कृष्णमुखं त्वक् श्रीहरेः सतां त्वचम् ॥३३॥ नेत्रे द्वे श्रीहरेर्नेत्रे सजिह्वा जिह्विका हरेः ।
सन्मस्तकं हरेर्मूर्धा सन्नासा नासिका हरेः ॥३४॥ सत्कर्णौ श्रीहरेः कर्णौ सद्दन्ता दशना हरेः ।
सतां कण्ठो हरेः कण्ठो हरेर्वक्षः सतामुरः ॥३५॥ सतां तुन्दं हरेस्तुन्दं सत्कटिः श्रीहरेः कटिः ।
सतां दृष्टिर्हरेर्दृष्टिः सतां स्पर्शो हरेर्हि सः ॥३६॥ सतां प्रसन्नता या सा हरेरेव प्रसन्नता ।
सुखं सतां तु सेवोत्थं हरेरेव सुखं मम ॥३७॥ मोदः प्रमोदश्चानन्दश्चोत्सवा ये सतां मताः ।
ते सर्वे श्रीहरेरेव ममानन्दाः पृथङ् न वै ॥३८॥ सतां सन्तोषणं सर्वं मम सन्तोषणं हि तत् ।
सतामिन्द्रियवर्गो यो ममेन्द्रियाणि तानि वै ॥३९॥ सतां बुद्धिर्मम बुद्धिः सन्तोऽहं सर्वदा भुवि ।
अहं सन्तः सदा लोके भवामि बहुरूपवान् ॥3.29.४०॥ अपरिग्रहधर्माणः सन्तो मे ब्रह्ममूर्तयः ।
सतां धर्मार्थकामा ये ते मे सर्वे मताः सदा ॥४१॥ इत्येवं कमले राजा राज्ञ्यश्च निर्मलान्तराः ।
कुमाराश्च कुमार्यश्च प्रजा भृत्यास्तथेतराः ॥४१॥ सर्वे सतां प्रसङ्गैस्ते ह्यासन् मम परायणाः ।
सिद्धयः कल्पलतिकाः कल्पपात्राणि तद्गृहे ।
चिन्तामणय एवापि कामगावः सदाऽवसन् ॥४३॥ लक्षशः साधवश्चापि साध्व्यश्च कृतभक्तयः ।
भजन्ते मामाश्रमस्था निष्कामा मत्परायणाः ॥४४॥ अथ तेषां भक्तिं विलोक्याऽऽत्मनिवेदिताम् ।
कृपयाऽहं तदेयेषोषितं साध्वीसतां गणे ॥४५॥ माधवाख्ये मम मासे राजा चकार कीर्तनम् ।
मासिकं चाऽखण्डितं च त्रिंशद्दिनं मखात्मकम् ॥४६॥ *हरे नारायण विष्णो कृष्ण केशव माधव ।

  • परब्रह्म प्रभो श्रीश पुरुषोत्तम सत्पते *॥४७॥
  • *नमोऽनादिकृष्णनारायणाय परमात्मने ।
  • नमोऽन्तरात्मने साधुस्वरूपायाऽखिलात्मने *॥४८॥
  • *नमः साध्वीस्वरूपाय श्रीकान्ताय सदात्मने ।
  • नमो भक्तिप्रलभ्याय सेवासाध्याय चक्रिणे *॥४९॥
  • *स्वतन्त्रस्त्वं चाऽक्षरेशो वर्तसे मुक्तकोटिषु ।
  • तथाऽत्राऽऽयाहि साक्षाद्वै दिव्यमूर्तिर्यथाऽसि नः *॥3.29.५०॥
  • इत्येवं भजनं चक्रुः राजा प्रजाश्च साधवः ।
    तैः सहाऽयं कीर्तयामि नृत्यामि च हसामि च ॥५१॥ भुञ्जे तिष्ठामि संयामि निषीदामि वदामि च ।
    पिबामि चापि जिघ्रामि रसयामि स्वपिम्यपि ॥५२॥ प्रमोदे चानन्दयामि विहरामि नमामि च ।
    प्रसेवे साधुवेषोऽहं साधुषु तन्मखोत्सवे ॥९३॥ गूढरूपं च मां ते तु नैव जानन्ति माधवम् ।
    साधुं कञ्चित् प्रजानन्ति केचनैव समाजके ॥१४॥ त्व तदाऽभूः सती साध्वी बाला शीलपरायणा ।
    काषायाऽम्बरवेषा च प्रत्यक्षा गूढसद्गुणा ॥५५॥ गूढरूपा गूढचिह्ना साध्वीसेवापरायणा ।
    साध्वीनां मण्डले तत्र व्यचरः समवर्तना ॥५६॥ न ताः साध्व्यः प्रजानन्ति लक्ष्मीं त्वां गोचरामपि ।
    मम माया तथा चास्ते स्वतन्त्राऽऽवरणात्मिका ॥५७॥ अन्नसत्रं मखसत्रं तथा कीर्तनसत्रकम् ।
    माधवान्ते प्रपूर्णं च जातं वै पूर्णचन्द्रके ॥२८॥ दिने सायं कथां चक्रुर्मम माहात्म्यबोधिनीम् ।
    साधवश्चापि सत्यश्च राजा प्रजा महोत्सवे ॥५९॥ मम पूजां ततश्चक्रुर्निशि मूर्तौ सुवस्तुभिः ।
    नीराजनं ततश्चक्रुः पुष्पाञ्जलीर्ददुस्ततः ॥3.29.६०॥ भोजनानि प्रददुश्च ततः सवाद्यनर्तनम् ।
    कीर्तनं तालमानाद्यैः सुस्वरैस्तालिकादिभिः ॥६१ ॥ किङ्किणीघुर्घुरशब्दैश्चक्रुर्जागरणान्विताः ।
    तदाऽहं कीर्तनाऽऽकृष्टः प्राविरासं हि नर्तकः ॥६२॥ नर्तकी त्वं बालिका वै बालोऽहं षोडशाब्दिकः ।
    चतुर्दशाऽऽब्दिकी त्वं च सुवेशाभूषणान्विता ॥६३॥ मायूरपिच्छमुकुटा दिव्यकुण्डलशोभना ।
    नृत्यार्हसर्ववेषाढ्या प्रसन्ना नाट्यकोविदा ॥६४॥ अहं चापि तथारूपः सर्वयोग्यपरिग्रहः ।
    सभायां रङ्गमध्ये चागतोऽलक्ष्यप्रदेशतः ॥६५॥ न वै कैश्चिदहं ज्ञातो ज्ञाता वा च कुतो न्विमौ ।
    चकिता नौ विलोक्याऽऽसन् राजाद्यास्ते सभाजनाः ॥६६ ॥ आवयोर्वै महत्तेजः सभायां प्रासरत्तदा ।
    आनन्दमोदसौख्यानि प्रासरन् वै समाजके ॥६७॥ मिष्टं स्वेष्टं कामितं च महासौख्यं तदाऽभवत् ।
    जनानां त्वावयोर्योगान्नृत्यगीतिप्रतालनैः ॥६८॥ अस्मल्लीनास्तदा सर्वे प्रत्ययैकप्रतानिताः ।
    चाक्षुषमात्रवेगाश्च श्रवणाकृष्टमानसाः ॥६९॥ व्यपश्यन् निर्निमेषा मां त्वां दिव्यां श्रीं श्रियःपतिम् ।
    अनन्तकोटिसूर्याभमसङ्ख्यचन्द्रशोभनाम् ॥3.29.७०॥ मां त्वां व्यलोकयन् लोकाः कृपालुं च कृपान्विताम् ।
    कीर्तनं स्नेहभजनं कारणं सत्प्रसेवनम् ॥७१ ॥ दिव्यभावः सदा सत्सु हेतवो दर्शने हि नौ ।
    अथाऽनृत्यन्त भक्तान्यो भक्ताश्चाकृष्णमानसाः ॥७२॥ परमानन्दमग्नाश्च देहातिभानवर्जिताः ।
    सर्वेषां देहिनां तत्र दर्शनं चावयोः शुभम् ॥७३॥ दिव्यं यथाऽक्षरे धाम्नि तथाऽभवत् क्षणं तदा ।
    अथानन्तरमेवाऽहं तेजस्तिरो व्यधापयम् ॥७४॥ आकृष्टा वृत्तयस्तेषां स्वास्थ्यमाप्ता यथेन्द्रियम् ।
    ततो नौ निजतुल्यौ ते व्यलोकयन्तुपस्थितौ ॥७५॥ विनिवृत्ता द्रुतं नृत्याद् गायनात् कीर्तनादपि ।
    महाश्चर्यभरा नेमुर्दण्डवत्त्वां च मां जनाः ॥७६॥ ददुर्मुख्यासनं स्वर्णसिंहासनं नृपादयः ।
    आवां सिंहासनस्थौ च पुऽपूजुस्ते कृतादराः ॥७७॥ चन्दनैरक्षतैश्चापि पुष्पैर्हारैः सुगन्धिभिः ।
    राजाद्या रत्नहारैश्च सौवर्णरशनादिभिः ॥७८॥ मुकुटाद्यैश्च भूषाभिर्धूपैनैंवेद्याभोजनैः ।
    मिष्टपानैश्च ताम्बूलैर्नीराजनेन संस्तवैः ॥७९॥ नमस्कारैश्च ते सर्वे दण्डवद्भिः पुनः पुनः ।
    जयशब्दैर्हर्षनादैर्वेत्रधृग्घोषणैस्तथा ॥3.29.८०॥ सर्वे प्रसादयामासुरत्यर्थं त्वां च मां तदा ।
    तुष्टुवुः परया प्रीत्या ज्ञात्वा वै परमेश्वरम् ॥८ १ ॥ साधव ऊचुः-
    यत्र क्वापि भवेज्जन्म पश्चात्पुण्यप्रतापतः ।
    भवच्छरणमापन्नाः पुत्राः स्मो भगवँस्तव ॥८२॥ अच्युतो वै पिता यस्य ते त्वच्युता भवन्ति वै ।
    वयं चाऽच्युततां प्राप्ताः कृपैषा श्रीहरे तव ॥८३॥ सुपुत्रेषु च दिव्येषु कृपया त्वं समागतः ।
    स्नेहपात्राणि संवीक्ष्य प्रत्यक्षः सा कृपाऽपरा ॥८४॥ अथाऽतोऽपि सदा सत्सु वासो यथा तनौ तथा ।
    सतां मध्ये वस कृष्ण कृपेयं पारमार्थिकी ॥८५॥ यथा धाम्नि तथा सत्सु मण्डलेषु निवासनम् ।
    सदा साधुस्वरूपेण करोतु परमां कृपाम् ॥८६॥ साध्व्य ऊचुः-
    मातर्लक्ष्मि महामातस्त्वा वयं शरणागताः ।
    मोक्षार्थिन्यो ब्रह्मसाध्व्यो भवत्याः पुत्रिका वयम् ॥८७॥ मातृवात्सल्यमत्यन्तं सुतासु तु निसर्गजम् ।
    तत्पुरस्कृत्य जननि ददासि दर्शनं हि नः ॥८८॥ अबलानां बलोपेतं भाग्यमद्य प्रवर्तते ।
    दिव्यतां प्राप्य ते योगान्मुक्ततां याम एव ह ॥८९॥ करुणा तेऽप्यतुल्याऽस्ति यत्साध्वीषु विभावनम् ।
    तत्रापि चातिकारुण्यं यदि वासं प्ररोचयेः ॥3.29.९०॥ प्रार्थनामुररीकृत्य यथेष्टं प्रकरोत्विह ।
    अनादिश्रीकृष्णनारायणाज्ञयाऽक्षरेश्वरि ॥९१ ॥ राज्ञी प्रोवाच-
    धन्याहं मम पुत्र्यश्च पुत्रा राज्यं नृपस्तथा ।
    प्रजा धन्या मम लक्ष्मि यदत्र दर्शनं तव ॥९२॥ कुरु वासं सदा चाऽत्र तव सर्व भवत्यपि ।
    दास्यहं सर्वदा तेऽस्मि वस लक्ष्मि कृपां कुरु ॥९३॥ संसारे लाभ एवाऽत्र प्राप्तः साध्वीसमागमः ।
    भवत्या दर्शनं साक्षात् स एवानन्यलाभकः ॥९४॥ राजोवाच–
    कुलं राज्यं धनं वंशः सर्वं कृष्ण भवत्कृते ।
    मयाऽर्पितं कृतं कृत्स्नं त्वदात्मकं त्वदर्थकम् ॥९५॥ कृपेयं दर्शनं साक्षात्तवाऽत्र सत्समागमात् ।
    प्राप्तव्यं सर्वमेवाऽद्य प्राप्तं चात्यन्तिकं फलम् ॥९६॥ सर्वदा वस मे गेहे कृपां कृत्वा परेश्वर ।
    इत्युक्त्वा प्रणनामैव पवात पादयोर्नृपः ॥९७॥ तथास्त्वोमिति तं चोक्त्वा न्यवसं साधुमण्डले ।
    अनादिश्रीसाधुनारायणः साकं त्वया प्रिये! ॥९८॥ आकल्पान्तं ततः साध्वीनारायण्याऽवसं क्षितौ ।
    स्मर त्वां मां तथा सर्वं चावतारान् परानपि ॥९९॥ पठनाच्छ्रवणाच्चापि स्मरणान्मुक्तिमाव्रजेत्॥ प्राकट्यं मे तवोक्तं वै मोक्षदं कृपयाऽन्वितम् ॥3.29.१ ००॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चत्रिंशद्वत्सरेंऽशुक्रमथनृपतेर्भक्त्याऽनादिश्रीसाधुनारायणस्य साध्वीनारायण्या लक्ष्म्या सह प्राकट्यमित्यादिनिरूपणनामा नवविंशतितमोऽध्यायः ॥२९ ॥