०२६

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मे ततः परम् ।
वेधसो मानवाख्ये वै चैकत्रिंशे तु वत्सरे ॥१ ॥ कल्पे तु षट्शते त्रयोदशे मनौ तदा पुरा ।
ब्रह्मणः पृष्ठनिम्नाऽधोभागान्मलिमसोऽसुरः ॥२ ॥ हल्लकाऽऽख्यो बभूवाऽपि शवभक्षो भयङ्करः ।
तपस्तेपे महाघोरं चार्धकल्पं हि दारुणम् ॥३ ॥ ब्रह्मा तुतोष च ततो गोचरोऽस्याऽभवद् भुवि ।
असुरो मृत्तिकाभूतो वल्लीवृक्षाधिरोहितः ॥४ ॥ अस्थिमृदस्तितामात्रो यत्राऽऽसीत् तत्र विश्वसृट् ।
गत्वा जलेनाऽभिषिच्य द्रुमानुत्सार्य पार्श्वतः ॥५ ॥ मृत्तिकाद्रुमूलभागात् हल्लकं चाऽभ्यजीवयत् ।
वल्लीपादशरीरश्च हरिद्वर्णोऽतिदुर्बलः ॥६ ॥ श्मश्रुलो वेधसः पुत्रस्तूत्तस्थौ मूलजालकात् ।
वेधसं जीवयन्तं स्वं वीक्ष्य नेमेऽतिभावतः ॥७ ॥ ययाचेऽपि वरं श्रेष्ठं कालसंहारकारकम् ।
कालं वा कालरूपं वा संहारकं हि देहिनाम् ॥८ ॥ संहारयाम्यहं चैवं वरं देहि पितामह ।
ब्रह्मा प्राह वरश्चाऽयं मे बलादतिरिच्यते ॥९ ॥ नाऽहं दातुं समर्थोऽस्मि कालाधीनोऽस्म्यहं यतः ।
हल्लकस्तु तदा प्राह देहि चेत् तं न चाऽपरम् ॥3.26.१ ०॥ तपः करिष्ये सततं तदर्थं वै पितामह ।
कालं हन्तुं समर्थो वै कश्चिदेव हरिं विना ॥१ १॥ नैवाऽस्ति सृष्टिजो व्यक्तिविशेषोऽपि कथञ्चन ।
अतो हल्लक! यद्वच्मि शृणु ते यदि रोचते ॥१ २॥ कालस्य खलु रूपाणि बहूनि सन्ति सृष्टिषु ।
तेष्वेकस्यैव रूपस्य सकृत् हन्ता भविष्यसि ॥१ ३॥ यदि ते रोचते त्वेतत्तदा गृहाण मे वरम् ।
इत्युक्तो मोहवशगो हल्लको वै तदा वरम् ॥१४॥ जग्राह तत्तपस्त्यक्त्वा ययौ मेरुगुहां प्रति ।
ब्रह्मणो वरदानेन गर्विष्ठो वर्तते सदा ॥१५॥ सुरान् दैत्यान् राक्षसांश्च दानवान् किन्नरादिकान् ।
तामसान् राजसान् देवान् यक्षान् किम्पुरुषादिकान् ॥१ ६॥ गन्धर्वांश्चारणाँश्चापि गणयत्येव नैव सः ।
अवमानं करोत्येव युद्ध्यत्येव स्थले स्थले ॥१ ७॥ ब्रह्मणो वरदानस्याऽनर्थं प्रकाशयत्यपि ।
कालनाशक एवेति निजं प्रख्यापयत्यपि ॥१८॥ स्वर्गे जयं समासाद्य पातालेषु ययौ ततः ।
तत्रापि विजयं प्राप्य लोकालोकं ययौ हि सः ॥१९॥ सर्वत्र विजयं प्राप्य यमलोकं ततो ययौ ।
यमस्तं पूजयामास ज्ञात्वा कालविनाशकम् ॥3.26.२०॥ हल्लकोऽयं ततो ज्ञात्वा निजं विजयिनं परम् ।
ययौ कैलासलोकं स जेतुं रुद्रं शिवं हरम् ॥२ १ ॥ गणाः कैलासवासा वै जङ्गभद्रादयस्तु तम् ।
न्यवारयन् गोपुराद् वै ततोऽसौ हल्लको रुषा ॥२२॥ युयुधे द्वारपालैश्च विजित्य तान् गणान् परान् ।
गणेशान् भूतमूर्धन्यान् भैरवादींस्ततः परम् ॥२३॥ शम्भुगृहं ययौ क्रूरो दुष्टो मलिनवासनः ।
कैलासं वै निजं कर्तुं वशे कर्तुं सतीं तथा ॥२४॥ गणान् भृत्यांस्तथा कर्तुमियेष वीक्ष्य सम्पदः ।
प्राह शम्भुं भव भृत्यो मम शम्भोऽन्यथा तव ॥२५॥ विधास्येऽहं विनाशं वै देहि सतीं तु मे तव ।
कैलासराज्यं मे दत्वा याहि त्वं मेरुपर्वतम् ॥२६॥ पुनः कालान्तरे दास्ये तृप्तोऽहं ते यथायथम् ।
शम्भुर्विचारयामास बलं त्वस्य भवेत् कियत् ॥२७॥ योत्स्येऽनेन तु बलिना ब्रह्मणो वरयोगिना ।
नाशयिष्ये क्षणादेनं वरदानयुताऽसुरम् ॥२८॥ विचार्यैवं कालरूपं रौद्रं दधार शङ्करः ।
त्रिशूलं त्वन्तिमलयकर्तृ दधार तैजसम् ॥२९॥ साङ्कर्षणं भीमरूपं कृत्वा शीघ्रं समाययौ ।
युद्धार्थं तस्य सान्निध्यं तावत् हल्लक इत्यपि ॥3.26.३ ० ॥ जग्राह पार्वतं रूपं भयकृच्च विनाशकृत् ।
सशूलचन्द्रकशस्त्रं करे दधार चाऽऽयसम् ॥३ १ ॥ कालकालो यथा भाति तथा भात्यत्र हल्लकः ।
युद्धदुन्दुभयो नेदुः कैलासे गणताडिताः ॥३२॥ देवा देवेश्वरास्तत्राऽऽययुः कौतुककर्षिताः ।
शम्भोः साहाय्यकाः सर्वे दिक्पालाश्च समाययुः ॥३३॥ युद्धं हल्लकहरयोर्जातं प्रलयकारकम् ।
मेघा नष्टाः फटाकैश्चाऽद्रयो नष्टाश्च हेतिभिः ॥३४॥ क्षितिः शीर्णा पत्प्रघातैः कम्पैश्चुक्षुभिरेऽब्धयः ।
वेगैर्निपेतुस्ताराश्च जगर्जुर्नादनैर्दिशः ॥३५॥ गणा गणेश्वरास्तत्र त्रासमापुर्मृतिं प्रति ।
भग्नाः केचित् कटिभागात् केचित् स्कन्धप्रदेशतः ॥३६॥ अन्ये गलात्परे जान्वोर्भागाद् भग्ना मृतिं ययुः ।
भूतप्रेतपिशाचादीन् कालभैरवभैरवान् ॥३७॥ हस्तेनैकेन सङ्गृह्य मुखे न्यस्याऽत्ति हल्लकः ।
शूरभद्रं वीरभद्रं जङ्गभद्रं सुभद्रकम् ॥३८॥ वामहस्तेन युगपन्मुखे न्यस्य चखाद तान् ।
एतादृशो महानास्ते कालकालो महासुरः ॥३९॥ शङ्करः संशयमाप्तो जये त्रिशूलसंस्रवात् ।
शम्भोर्हस्तगतं शूलं स्रंसते स्म पुनः पुनः ॥3.26.४०॥ वृषभश्च तथा सिंहो द्वावेतावपि वै तदा ।
हल्लकस्य प्रचक्रेण निकृतौ मृत्युमापतुः ॥४१ ॥ सती संशयमापन्ना जीवने शङ्करस्य तु ।
शीघ्रं शम्भोः शरीरे सा तिरोभावमुपागता ॥४२॥ शम्भुर्विज्ञाय कैलासं छिन्नं भिन्नं मृतानुगम् ।
त्यक्त्वा च जीवनाऽऽशां स दुद्राव हल्लकाऽन्तिकम् ॥४३॥ पुरश्चागत्य शीघ्रं स्वं त्रिशूलं प्रलयानलम् ।
मारयामास मूर्ध्न्यस्य हल्लकस्य गलोपरि ॥४४॥ हस्ताद् वियुज्य वेगेन हल्लकस्य गले गतम् ।
प्रविष्टं चाऽनलप्रख्यं त्रिशूलं तद्धरस्य यत्॥४५॥ निगलितं गतं तत्र रसभावमुपागतम् ।
पथ्यं जातं हल्लकस्योदरेऽमृतमिवाऽभवत् ॥४६॥ अत्यद्भुतमिदं जातं कालशूलं हि जीर्णितम् ।
एवमन्यानि शूलानि त्रिशूलानि च हेतयः ॥४७॥ सर्वे हल्लकवर्ष्माऽऽप्य रसभावमुपागताः ।
अहेतिः शङ्करो जातस्तदा विष्णुं तथा ह्यजम् ॥४८॥ प्रसस्मार शिवस्तूर्णं विष्णुस्तत्र ह्युपाययौ ।
चक्रं ददौ निजं तस्मै हराय च हरोऽपि तत् ॥४९॥ चक्रं मुमोच कण्ठेऽस्य हल्लकस्य रसं ह्यभूत् ।
अथाऽन्यच्चक्रमाधत्तं मुक्तं तद् रसता गतम् ॥3.26.५०॥ एवं चक्राणि सर्वाणि गतानि रसतो तदा ।
ब्रह्मा त्वागत्य च तत्र यावत्पश्यति शङ्करम् ॥५१ ॥ तावत् सशूलचन्द्रेण मुक्तेन वेगगामिना ।
शङ्करस्य शिरः कण्ठान्निकृतं हल्लकेन वै ॥५२॥ हाहाकारो महान् जातो रौद्रो रुद्रोऽपि वै हतः ।
शोकमापुः सर्वदेवा मानवाश्च महर्षयः ॥५३ ॥ अथापि सर्वभूतानि बभूवुः शोकभाञ्जि च ।
हल्लकस्यापि सामर्थ्यं शूलचन्द्रायुधेन वै ॥५४॥ सहैव तु गतं सर्वं ब्रह्मणो वरदानतः ।
असामर्थ्यो बभूवाऽपि विज्ञातः सर्वयोद्धृभिः ॥५५ ॥ ब्रह्मणोदितमेवाऽथ विज्ञाय तु सुरास्ततः ।
गणाश्चाभिप्रदुद्रुवुर्मारणायाऽसुरस्य वै ॥५६॥ तावत्त्रिशूलचक्राणि सर्वाण्यपि च यानि वै ।
गलितान्यभवँस्तानि निर्गत्य चाऽऽययुर्द्रुतम् ॥५७॥ विष्णुं प्रति समस्तानि शङ्करस्य शवं प्रति ।
विष्णुश्चक्रं मुमोचाऽस्मै यावत् तावत्स हल्लकः ॥५८॥ हरे विष्णो हरे कृष्ण त्राहि मां शरणागतम् ।
उक्त्वा पपात सहसा पादयोः शार्ङ्गिणोऽसुरः ॥५९॥ न हन्तव्यो व्रतं विष्णोः शरणागतरक्षणम् ।
अतश्चक्रं नाऽहनत्तं विष्णो विष्णो प्रवादिनम् ॥3.26.६०॥ ब्रह्मणो वरदानाच्च तथानिमित्तशालिनम् ।
ब्रह्मणः पृष्ठपुत्रं च भक्तं तापसयोगिनम् ॥६१ ॥ बबन्ध तं हरिः पाशैः शङ्करस्याऽपराधिनम् ।
वदन्तं च हरे विष्णो नारायण प्रपाहि माम् ॥६२॥ रटन्तं मनसा मां च स्मरन्तं च हृदा हि माम् ।
एतादृशं हरघ्नं तं देवहत्या सुरासदा ॥६३ ॥ ववल्गे क्रूररूपा सा शतचक्रकरा हरा ।
प्राणानां ग्राससामर्थ्या विकृता विकृतानना ॥६४॥ घोरां च वल्गितां त्वेनां हल्लको वीक्ष्य दुःखदाम् ।
चुक्रोश बहुधा तत्र रणाङ्गणे सुरान्तिके ॥६५॥ हत्यया ताडितो देवैस्ताडितो गणकोटिभिः ।
मृतप्रायो मरन् वव्रे हरेः शरणरक्षिणः ॥६६॥ देहि मे भक्तरूपाय शरणस्थाय माधव ।
अग्र्यं पदं महैश्वर्यं द्वेषिणे शङ्करस्य वै ॥६७॥ ब्रह्मणो वरदानाच्च महाकालस्य चैककम् ।
रूपं मया हतं लाभं विना वै शाङ्करं त्विदम् ॥६८॥ हत्वा हतोऽस्मि सञ्जातो मायया गर्वनोदितः ।
तपः सर्वं क्षिप्तर्वोश्च तामसे कर्मणि प्रभो ॥६९॥ अतः कृपया विष्णो त्वं सुखं देहि कृपां कुरु ।
देवहत्या दहत्येषा तां निवारय केशव ॥3.26.७० ॥ इत्युक्त्वाऽतिरुरोदाऽपि मरणाऽन्तिकतां ययौ ।
विष्णुः प्राह मनोः कालं तथा रात्रिः प्रपूर्णिका ॥७१ ॥ देवहत्याकृतं पापं भुङ्क्ष्व हल्लक रौरवे ।
पञ्चदशमनूनां वै कालान्ते दिवसान्तरे ॥७२॥ यावद् दुःखानि सम्भुक्त्वा मलिनो म्लेच्छकर्मवान् ।
म्लेच्छेश्वरो भवान् भक्तो ब्रह्मणो मे भविष्यति ॥७३॥ अनेकसङ्ख्यलोकानामासुराणां गुरुर्महान् ।
इत्युक्त्वा भगवान् विष्णुर्यमदूतैश्च हल्लकम् ॥७४॥ प्रेषयामास पापं तं सहत्याकं यमालयम् ।
अथ देवाः ऋषयश्च पितरो मानवा द्विजाः ॥७५॥ पार्षदाश्च गणाश्चापि भक्ता देव्यः सतीस्त्रियः ।
योगिन्यो मातरश्चापि ग्रहाद्या द्युसदोऽपि च ॥७६ ॥ भक्ताः सर्वे च कैलासे सङ्गता हरिणा स्मृताः ।
विष्णुस्तेभ्यस्तथा ताभ्यः शम्भोरुजीवनाय वै ॥७७॥ प्रोवाचाऽऽराधनां कर्तुं मम सर्वावतारिणः ।
अनादिश्रीकृष्णनारायणस्य स्वामिनः सतः ॥७८॥ सर्वाऽन्तर्यामिणस्तेऽथाऽऽराधयामासुरुत्सुकाः ।
मां सदाऽक्षरधामस्थं श्रीपतिं पुरुषोत्तमम् ॥७९॥ द्रागेवाऽहं त्वया साकं श्रुत्वाऽऽराधनमागतः ।
कैलासे गोचरश्चक्षुष्मतां दिव्यसुमूर्तिमान् ॥3.26.८०॥ वीक्ष्य मामभवन् सर्वे विशोकाश्चार्थयँस्ततः ।
शम्भुजीवनदानार्थ ततोऽहं प्राविशं तनौ ॥८१ ॥ शङ्करस्य कबन्धेऽपि मस्तकेऽपि च योगतः ।
प्राणशक्तिं प्रदायैवाऽजीवयं चाऽप्यसन्धयम् ॥८२॥ कबन्धे मस्तकं शम्भोश्चार्चयं देवकोटिभिः ।
पितृभिर्मानवैश्चाऽपि महर्षिभिस्ततः परम् ॥८३ ॥ शूरभद्रादयो ये च चर्विताश्च मृतास्तदा ।
ये च लक्ष्मि! मृताः सर्वे हता ये च गणाश्च ते ॥८४॥ मया स्मृता मनोजन्या अभवन् जीवनान्विताः ।
आगत्य पुरतः शम्भोस्तस्थुस्ते नवसृष्टयः ॥८१॥ वृषभाद्या मृताश्चाप्युजीवितास्तत्र वै मया ।
गणानां कोटयः सर्वा देवानां कोटयस्तथा ॥८६ ॥ सर्वा मया प्रसङ्कल्प्य स्वस्थाश्चोज्जीवितास्तदा ।
शङ्करस्य पुनर्जीवोत्सवः कैलासके कृतः ॥८७॥ सती शम्भोः स्वरूपाच्च तदोज्जगाम गोचरा ।
प्रत्यक्षा वै महादेवी प्रसन्ना चाऽभवत्ततः ॥८८॥ आर्थयन्मां नित्यमेव कैलासे भूतलोपरि ।
स्थातुं साकं त्वया लक्ष्म्या शम्भुश्चाऽऽर्थयदेव तु ॥८९॥ देवाश्च मानवाश्चाप्यार्थयन्मां पुरुषोत्तमम् ।
स्थातुं कैलासके क्षेत्रे देहिनां श्रेयसेऽपि च ॥3.26.९०॥ ततोऽहं शिवराजीश्रि! त्वया साकं सदाऽवसम् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥९१ ॥ अनादिश्रीशिवनारायणनाम्ना शिवेश्वरः ।
त्वं तदा चाऽभवस्तत्र शिवनारायणी प्रिये! ॥९२॥ अथ देवा ययुः सर्वे मानवाः पितरस्तथा ।
स्वस्वलोकान् मुनयश्च कैलासेऽहं ततोऽवसम् ॥९३॥ आकल्पान्तं शिवराज्ञि! जानाम्यहं न चेतरे ।
स्मर ते मेऽपि दिव्यं तत्प्राकट्यं कमले! प्रिये! ॥९४॥ भद्राद्रौ शीतले रम्ये विशालेऽयुतयोजने ।
तत्र स्थिते तु कैलासे भूभागे त्ववसं सदा ॥९५॥ वैष्णवी पृथिवी सर्वा तदा प्राऽभून्मया कृता ।
देवाश्च वैष्णवाः सर्वे त्वासन् भक्तिपरा मम ॥९६॥ मम भक्ते फलं लक्ष्मि! राजसे तामसेऽपि च ।
असुरे वा सुरे वाऽपि प्राप्ते कालेऽङ्कुरायते ॥९७॥ तस्माद् भक्तिः सर्वश्रेष्ठा भुक्तिमुक्तिफलप्रदा ।
स्थाप्यते वै मया धर्मयुता काले युगे दिने ॥९८॥ कल्पान्ते वा समारम्भे स्थापयामि सदा हिताम् ।
पठनाच्छ्रवणाच्चाऽस्य भुक्तिर्मुक्तिर्भवेदपि ॥९९॥ स्मृद्धिसम्पत्पुत्रवाँश्च भवेदानन्दशेवधिः ।
महैश्वर्ययुतश्चापि परमेशसरूपवान् ॥3.26.१ ० ०॥ सर्वविघ्नविनाशश्च सर्वाऽमृतनिषेवणः ।
भवेच्छाश्वतवासश्च ब्रह्मसायुज्यवान् भवेत् ॥१० १॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधस एकत्रिंशे वत्सरे हल्लकाऽसुरस्य ब्रह्मणो वरदानाद् विजययात्रायां शम्भोश्शिरच्छेदे समुज्जीवनार्थम् अनादिश्रीशिवनारायणस्य प्राकट्यमित्यादिनिरूपणनामा षड्विंशोऽध्यायः ॥२६ ॥