०१७

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं च ततो मम ।
वेधसः सृष्टिमानाख्ये वत्सरे चाद्यकल्पके ॥१ ॥ आद्ये मनौ सम्प्रवृत्ते ब्रह्मा निद्रां विहाय च ।
प्रभाते देवनद्यां वै स्नातुं ययौ विचिन्तयन् ॥२ ॥ अद्य सृष्टिं कीदृशीं च कुर्वे त्रिलोकिशोभनाम् ।
मादृशीं सर्वथा कुर्वे भेदभावविवर्जिताम् ॥३ ॥ इति सङ्कल्प्य वै सस्नौ सन्ध्यां कृत्वा गृहं ययौ ।
नैत्यकं पूजनं कृत्वा सृष्टिशालां समाविशत् ॥४ ॥ सृष्टियन्त्रं स पस्पर्श गर्भयन्त्रं व्यलोकयत् ।
चतुर्मुखा समस्ता च सृष्टिरद्य प्रजायताम् ॥५ ॥ इति सङ्कल्पयामास तावन्महर्षयस्ततः ।
स्वतुल्या अभवन् सर्वे चतुर्मुखा द्विजातयः ॥६ ॥ देवाः सर्वेऽपि च तथाऽभवँश्चतुर्मुखाः शुभाः ।
मानवाश्चापि गन्धर्वाः किन्नराः साध्यदेवताः ॥७ ॥ किम्पुमांसः पशवश्च पक्षिणश्च सरीसृपाः ।
स्वेदजा अण्डजाद्याश्च जरायूजाश्च देहिनः ॥८ ॥ कललोत्थाश्च यादांसि मृज्जन्याः पत्रसम्भवाः ।
तृणोत्था विवरोत्थाश्च पातालादिसमुद्भवाः ॥९ ॥ सर्वे वेधःप्रसङ्कल्पाज्जाताश्चतुर्मुखा ननु ।
दैत्याश्च दानवाश्चापि राक्षसा आसुरास्तथा ॥3.17.१ ०॥ यक्षाः पिशाचका भूताः सर्वऽभवँश्चतुर्मुखाः ।
वेधसा पितृभिर्देवैर्मानवैर्भक्तपुङ्गवैः ॥१ १॥ कथाप्रसङ्गे सर्वत्र वर्णितोऽहं चतुर्मुखः ।
सर्वे चतुर्मुखाः सन्तीत्येवं वेदा वदन्त्यपि ॥१ २॥ मुक्ताश्चतुर्मुखाः सर्वे ईश्वराश्च चतुर्मुखाः ।
इत्येवं कल्पनां चक्रुर्निजवत् कथका जनाः ॥१३ ॥ अथ ब्रह्मर्षयः साध्याः साधवो ब्रह्मचारिणः ।
यत्र यत्र कथाशाला विवदन्ति च मत्कृते ॥१४॥ केचिद् वदन्ति भगवानास्ते सहस्रमस्तकः ।
अन्ये वदन्ति भगवानास्तेऽप्यसङ्ख्यमस्तकः ॥१५॥ सर्वत्राननवानास्ते प्रवदन्ति परे तदा ।
अपरे च तदा श्रीशो वर्तते ह्येकमस्तकः ॥१६ ॥ चतुरानन एवं चेतरे स्म प्रवदन्ति च ।
यथा वयं तथा सोऽपि यथा हरिस्तथा ह्यजः ॥१७॥ यथा ब्रह्मा तथा सर्वे महर्षयस्तथा सुराः ।
तथा च मानवाः सर्वे वयं यथा तथा हरिः ॥१८॥ एवं तत्राऽवदन् केचिदेवमासीद् विवादनम् ।
एतन्निर्णयलाभार्थं विवादा बहवोऽभवन् ॥१९॥ अथर्षिभिर्मानिवैश्च देवैः संहत्य भूतले ।
तटे सुवर्णगङ्गायाश्चोत्तरे परिषत् कृता ॥3.17.२०॥ तत्र द्विजाग्रणीः श्रौतवृषर्षिः प्राह कीदृशः ।
भगवान् वै परब्रह्म यः समुपास्यते प्रभुः ॥२१ ॥ वैदिकास्तु तदा प्राहुर्वेदप्रामाण्यगामिन ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥२२॥ अन्ये प्राहुश्च तं देवेश्वरेश्वरं हरिं तदा ।
सर्वतः पाणिपादोऽयं सर्वतोऽक्षिशिरोमुखः ॥२३॥ सर्वतः श्रुतिमान् श्रीशः सर्वात्मा स प्रतिष्ठति ।
परे प्राहुर्हरिं तत्र परमेशं सनातनम् ॥२४॥ निर्गुणं च निराकारं निष्क्रियं रूपवर्जितम् ।
अन्ये तदा तु तं प्राहुश्चतुर्मुखं निजादृशम् ॥२५॥ ब्रह्मा प्राह हरिश्चास्तेऽक्षरे धाम्न्येकमस्तकः ।
द्विभुजश्च द्विपाच्चापि द्विचक्षुश्च द्विकर्णकः ॥२६॥ अथाऽपरे तदा प्राहुर्नैव नैवं कदापि वै ।
त्रिनेत्रः स हरिश्चास्ते सर्वदा परमेश्वरः ॥२७॥ एवं विचारे जाते च निर्णयस्तत्र नाऽभवत् ।
अथ ब्रह्मा तदा प्राहाऽऽराधनं प्रति शार्ङ्गिणः ॥२८॥ हरिर्वै कीदृशश्चेत्याराधनागोचरो भवेत् ।
वयमाराधयामस्तं चिरकालं जनार्दनम् ॥२९॥ अथास्ते भगवान् दिव्यस्तथा दृश्यो भविष्यति ।
अथ सर्वे मिलित्वैव स्वर्णनदीतटे च ते ॥3.17.३ ०॥ जपयज्ञात्मिकां मुख्यां बहुभक्त्युपबृंहिताम् ।
आरेभिरे गोचरोऽस्त्वित्याराधनां प्रिये मम ॥३ १ ॥ सहस्रदिव्यमानां ते चक्रुराराधनां मम ।
ततस्तं हवनं चक्रुरुद्यापनात्मकाऽर्हणम् ॥३२॥ उत्सवं सुमहान्तं सम्प्रचक्रुः कीर्तनात्मकम् ।
दानभोजनरूपं च नृत्यगीतपुरःसरम् ॥३३॥ तेषां तु भावनापूर्त्यै मद्रूपनिर्णयाय च ।
भक्तेः फलं प्रदातुं च गोचरोऽहं तदाऽभवम् ॥३४॥ चिदाकाशात्मकं तेजस्तेजोराश्यात्मकं परम् ।
प्रथमं सर्वतस्तत्र निबिडं समदृश्यत ॥३५॥ अपारं चाऽप्यदृश्यं चाप्रवेश्यं चैकरूपकम् ।
अनन्तसूर्यचन्द्राग्निग्रहतेजोऽभिभावकम् ॥३६॥ ततस्तत्राऽसङ्ख्यताना असङ्ख्यभिन्नभास्वराः ।
एकदेशाद् विनिर्यान्तः परार्धकिरणव्रजाः ॥३७॥ अदृश्यन्ताऽभितश्चाधश्चोर्ध्वं पार्श्वेषु सर्वतः ।
तत्स्थले पारदृश्यं च निर्मलं शीतलं सुखम् ॥३८॥ हृद्यं तथाऽनवद्यं च सर्वतेजःपटात्मकम् ।
मूलं परिधिरूपं वै पटलं समदृश्यत ॥३९॥ यन्मध्ये मन्दहास्याढ्या स्नेहप्रेमखनिस्तथा ।
दिव्या ह्यसङ्ख्यकामानां रूपगर्वाभिभाविनी ॥3.17.४०॥ मूर्तिस्त्वेकानना नेत्रद्वयकर्णद्वयान्विता ।
एकमूर्धा द्विहस्ता च द्विपादा चोज्ज्वला ह्यति ॥४१ ॥ समदृश्यत रम्या चानन्दपूर्णा मनोहरा ।
वक्रस्निग्धचाकचक्योज्ज्वलतान्वितमूर्द्धजा ॥४२॥ स्वर्णचञ्चत्तारकल्गिसंशोभन्मुकुटान्विता ।
रत्ननद्धसुसौवर्णमकराकारकुण्डला ॥४३ ॥ कोटिचन्द्रप्रभाभास्वन्मन्दहास्यानना शुभा ।
स्वर्णहारालिसंराजत्पुष्टवक्षःस्थलान्विता ॥४४॥ भुजङ्गभुजशोभाढ्या कौस्तुभहारराजिता ।
श्रीवत्सचिह्नयुक्ता च भुजबन्धसुशोभिता ॥४५॥ सौवर्णकटकाढ्या च शङ्खचक्रादिशोभिता ।
पीताम्बरा पीतरक्तप्रावरणाढ्यकञ्चुका ॥४६॥ सौवर्णरशनायुक्ता स्वर्णकटकशोभना ।
सौवर्णशृङ्खलायुक्ता स्वर्णनुपूरराजिता ॥४७॥ स्वर्णोर्मिकान्विताऽङ्गुलीयकयुक्तकराग्रजा ।
मीनशूलध्वजधनुर्बाणस्वस्तिकराजिता ॥४८॥ पक्वबिम्बफलतुल्यौष्ठद्वयराजिता शुभा ।
मीनचञ्चलनेत्राढ्या पद्मपत्रायतेक्षणा ॥४९॥ तिलपुष्पोपमनासा द्विचन्द्राभकपोलिका ।
कोटिकामनिवासार्हभ्रूकुटिद्वयकर्षिका ॥3.17.५०॥ ऊनषोडशवर्षीया श्मश्रुरेखाविराजिता ।
पुष्टस्कन्धा स्थलपद्ममृदुसत्करपत्तला ॥५१ ॥ अलक्तरङ्गवद्भाऽऽढ्या हस्तिशुण्ढोरुशोभना ।
शिरीषपुष्पवन्मृद्वी नखचन्द्रसमुज्ज्वला ॥५२॥ त्रिवल्युदरनाभ्याढ्या सर्वानन्दपरिप्लुता ।
राजीवलोचना शान्ता पद्मप्रकोष्ठशोभना ॥५३॥ सुष्ठुवर्तुलजान्वाढ्या समवृत्तोर्ध्वजङ्घिका ।
सर्वकामनिवासाढ्यजघनातिमनोहरा ॥५४॥ सर्वसौगन्ध्यसौन्दर्यसर्वमाधुर्यसम्भृता ।
सर्ववात्सल्यसौशील्यौदार्यसौहार्दपूरिता ॥५५॥ सर्वैश्वर्यगुणशक्तिचमत्कारनिधानिका ।
सर्वाभरणभूषाढ्यलक्ष्म्या त्वया विराजिता ॥५६॥ अनेकपार्षदैर्युक्ता सेविता मुक्तमण्डलैः ।
मुक्तानीभिर्वन्दिता च मूर्तिर्मे समदृश्यत ॥५७॥ एकमस्तकया लक्ष्म्या सर्वशृङ्गारशोभया ।
व्यजनेन सुदिव्येन वीजिता वामसंस्थया ॥५८॥ कमलानां सुमालाभिर्युक्तया रम्यया श्रिया ।
आलोकिता तु नेत्राभ्यां नेत्रयोश्चान्तरज्ञयोः ॥५९॥ वीक्षिता सर्वदेवाद्यैः साश्चर्यं सा ह्यपूर्विका ।
अनादिश्रीकृष्णनारायणमूर्तिः सनातनी ॥3.17.६०॥ पुपूजुस्ते तदा सर्वे नत्वा मां तादृशं प्रभुम् ।
निर्णयं ते परं जग्मुर्दृष्ट्वा मामेकमस्तकम् ॥६ १॥ तुष्टुवुश्च सुराद्या वै नीराजनं व्यधुस्ततः ।
अहं चोपादिदेशैतान् साक्षाद् यथा भवामि च ॥६२॥ देवाद्या यद् भवन्तोऽत्र शृण्वन्तु मां स्वरूपिणम् ।
द्विभुजोऽहं सदा चास्म्यक्षरे धाम्नि परात्परे ॥६३॥ एकाननो दिव्यरूपः स्वेच्छानैकवपुर्धरः ।
चतुर्भुजोऽथवा शतभुजः सहस्रहस्तकः ॥६४॥ तथाविधाननश्चापि भवामि कार्यरोधगः ।
विभिन्नानि स्वरूपाणि भवन्ति तु मदिच्छया ॥६५॥ कार्यं योग्यं विनिर्वर्त्य तिरोदधामि तां तनूम् ।
आराधितो भवद्भिश्च निर्णयार्थं परेश्वर ॥६६ ॥ सोऽहं यथास्वरूपोऽस्मि तथाऽस्मि चात्र गोचरः ।
एतन्मम स्वरूपं चोपासितव्यं निरन्तरम् ॥६७॥ अनन्तसृष्टिनाशेऽपि यन्न लयं प्रयाति वै ।
नाप्यदृश्यत्वमाप्नोति तद्रूपं मम चैव हि ॥६८ ॥ धारयन्तु हृदयेषु भजन्त्वेतन्निरन्तरम् ।
पूजयन्तु स्तुवन्त्वेतद्रूपं मे शाश्वतं शुभम् ॥६९॥ अथाऽदृश्यो भवाम्येव पश्यतां भवतामिह ।
विवादं सम्परित्यज्य भजन्तु मां सदेदृशम् ॥3.17.७०॥ एवमुक्तेषु देवेषु मानवेषु महर्षिषु ।
मानसान्यभवँस्तेषां क्षितौ मत्स्थापनाय ह ॥७१ ॥ प्राहुस्ते परमेशं मां देहिनां मोक्षणाय वै ।
निवासं मानवे लोके विधेहि भगवन् सदा ॥७२॥ धर्ममार्गस्तथा मुक्तिः सेवया ते हि देहिनाम् ।
भविष्यति कृपामेतां कुरु श्रीपुरुषोत्तम ॥७३ ॥ अथाऽहं चिन्तयामास कृपया देहिनां हितम् ।
आत्यन्तिकं च कल्याणं मत्प्रसङ्गाद् भवेदिति ॥७४॥ मम योगेन भक्ता मे भविष्यन्ति युगे युगे ।
सन्तश्चापि भविष्यन्ति धर्ममोक्षप्रसाधकाः ॥७५॥ तेषां योगेन जीवानां मोक्षणं च भविष्यति ।
तस्मान्मया क्षितौ स्थेयं मानवैः सह पावनैः ॥७६ ॥ कृत्वा मानवरूपं च चतुर्मुखं यथाप्रजम् ।
लक्ष्म्या चापि तथा चतुर्मुखया स्थेयमेव ह ॥७७॥ इतिनिश्चित्य चाहं वै तदा लक्ष्मि! जनान् मुनीन् ।
तथाऽस्त्विति प्रावदं च सर्वे दुष्टास्तदाऽभवन् ॥७८॥ पुपूजुः परया प्रीत्या पुष्पाक्षतसुचन्दनैः ।
अथाऽहं पितरौ भूमौ व्यचिन्तयं चतुर्मुखौ ॥७९॥ त्वया साकं तदा लक्ष्मि! चाऽदृश्यतामुपाययौ ।
देवाश्च मानवाः सर्वे स्वस्वलोकं ययुस्तदा ॥3.17.८०॥ अथाऽहं कृष्णयशसं विप्रं धर्मयुतं शुभम् ।
पितरं चाकल्पयं च तस्याऽहं मानसः सुतः ॥८ १ ॥ भार्यया तु प्रभावत्याऽध्यासितश्च चतुर्मुखः ।
आविरभवं तत्रैव प्रभावत्यङ्कगः सुतः ॥८२॥ अष्टभुजः पित्राकृतिश्चतुर्मुखोऽतिशोभनः ।
देवदुन्दुभयो नेदुस्तदा कुसुमवर्षणम् ॥८३ ॥ जयशब्दा अभवँश्चर्षीणां तदाऽऽशिषोऽभवन् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥८४॥ जातमन्त्रो युवाऽनादिचतुर्मुखनरायणः ।
स्वयमेवाऽभवं सर्वेष्टस्य पूरणहेतवे ॥८५॥ त्वं ततश्च मयाऽऽदिष्टा मधुविद्यस्य वै गृहे ।
विप्रस्य माक्षिकीसत्या भार्याया मानसी सुता ॥८६॥ चतुर्मुखाऽष्टहस्ता च व्यजायथाः स्वयं रमा ।
सर्वलक्षणसम्पन्ना सर्वसद्गुणशालिनी ॥८७॥ जातमात्रा युवती त्वं मानसी युगधर्मतः ।
त्वत्पितृभ्यां मदर्थं त्वं कल्पिता परमेश्वरी ॥८८॥ विवाहविधिना च त्वां परिणेमेऽहमुत्तमाम् ।
कुमारिकां पूर्वसर्वस्मरामैश्वर्यशालिनीम् ॥८९॥ तदा सृष्टिश्चतुर्वक्त्रवती चासाद्य मां हरिम् ।
त्वां चासाद्य समानां चाऽसेवयत् समशीलिनी ॥3.17.९०॥ आकल्पान्तं तदा चाऽऽसं साकं त्वया शुभानने ।
चतुराननसृष्टीनां सेवाग्रहणहेतवे ॥९ १ ॥ असङ्ख्याताश्चावतारा मम साकं त्वया प्रिये! ।
तेषु तेषु च वर्षस्य कल्पेष्वासन् तथाविधाः ॥९२॥ सर्वकल्याणकर्तारः सर्वसङ्कल्पपूरकाः ।
वेद्म्यहं सर्वमेवैतन्नान्ये जानन्ति सर्वशः ॥९३ ॥ स्मर नैजं शिवदेविश्री! जन्म स्वं चतुर्मुखम् ।
प्रमाक्षिकीरमानाम्नी तदा ख्यातिमगाः खलु ॥९४॥ तदा कल्पे तव मूर्तिर्मम मूर्तिश्चतुर्मुखी ।
आसीद् देवालयेष्वत्र स्वर्गादिष्वपि तादृशी ॥९५॥ पृथ्व्यां गृहे गृहे चासन् तथाविधा हि मूर्तयः ।
मां भजित्वा ययुर्धाम जना ये ते द्विहस्तकाः ॥९६॥ दिव्यरूपास्तदा भूत्वा त्यक्त्वा शवं चतुर्मुखम् ।
अष्टहस्तं परित्यज्य भूत्वा चैकानना द्रुतम् ॥९७॥ प्रापुर्मत्पार्षदैर्नीता धामाऽक्षरं परात्परम् ।
मुखानां चाभिधानानि दिङ्नामभिस्तदाऽभवन् ॥९८॥ विप्राणां तु वृषज्ञानविरागभक्तिभाञ्जि वै ।
मुखान्यासन् प्रसिद्धानि भुक्तिमुक्तिप्रदानि वै ॥९९॥ क्षत्रियाणां सान्त्वदामभेददण्डाभिभाञ्जि च ।
वैश्यानां तु च धर्मार्थकाममोक्षाभिभाञ्जि च ॥3.17.१ ००॥ सर्वेषां च सत्यदयायज्ञतपोमयानि च ।
सुखान्यासन् प्रसिद्धानि तत्तत्फलप्रदानि ह ॥१० १॥ दासानां तु व्यवसायदास्यतुष्टिस्तवाऽऽञ्चि च ।
एवमासन् मुखान्येव फलदानि तदा सृजौ ॥१ ०२॥ इत्येवं श्रीशिवस्वामिसुते! प्राकट्यमेव मे ।
त्वया साकं तदा जातमुदीरितं सुखास्पदम् ॥१ ०३॥ पठनाच्छ्रवणाच्चास्य स्मरणात्पापनाशनम् ।
यथेष्टर्द्धिप्रापणं च मोक्षलाभः प्रजायते ॥१ ०४॥ सर्वतीर्थफलान्येव सर्वयज्ञफलान्यपि ।
सर्वव्रतफलान्येव जायन्ते नात्र संशयः ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो विंशतितमे वत्सरे सृष्टिसदृशस्याऽनादिचतुर्मुखनारायणस्य प्रमाक्षिकीरमासहितस्य प्राकट्यमित्यादिनिरूपणनामा सप्तदशोऽध्यायः ॥१७ ॥