०११

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं चतुर्दशे तु वत्सरे ।
माननाख्ये वेधसो वै तत्र कल्पे च सप्तके ॥१ ॥ पञ्चमे तु मनौ चाऽहं यथा प्राकट्यमाप्तवान् ।
तत्र वै वेधसश्चाग्रजघनस्य प्रदेशतः ॥२ ॥ कोशस्तेनाऽभिधो नाम जज्ञे राक्षसपुङ्गवः ।
वेधस भक्षितुं सोऽपि जातमात्रः समापतत् ॥३ ॥ ब्रह्मा प्राह अरे मूढ वृथा भक्षितुमिच्छसि ।
वद ते क्षुन्निवारार्थं ददामि वृणु मा चिरम् ॥४ ॥ इत्येवं बोधितश्चाश्वासितः क्षणं स्थिरीकृतः ।
कोशस्तेनो विचार्यैव समुवाच पितामहम् ॥५ ॥ यद्येवं मे बलार्थं वै बीजं भक्ष्यं प्रदेहि वै ।
सर्वव्यापित्वमेवाऽपि सूक्ष्माऽसङ्ख्यकरूपिताम् ॥६ ॥ ब्रह्मा प्राह वृथा बीजं प्रसम्भक्षय देहिनाम् ।
सर्वं त्वदभिप्रेतं च तत्राऽस्तु भव तृप्तिमान् ॥७ ॥ इत्युक्तो ब्रह्मपुत्रोऽसौ राक्षसो ब्रह्मणो गृहात् ।
विनिष्क्रम्य ययौ तत्र ब्रह्मचारिषु चाविशत् ॥८ ॥ कोशभागेषु तेषां वै प्रविश्य बीजसञ्चयम् ।
अभक्षयत् तदा ते च वैराजा ब्रह्मचारिणः ॥९ ॥ निर्बला अभवन् सर्वे विना कारणमुत्तमम् ।
अथ ते ज्ञातवन्तश्च निर्बलत्वे तु कारणम् ॥3.11.१ ०॥ समाधिना प्रवेशं वै राक्षसस्याऽजदाद् वरात् ।
ततस्ते योगपाशैश्च बबन्धुस्तं तु राक्षसम् ॥११ ॥ शरीरकोशेष्वेवात्र राक्षसोऽपि भयान्वितः।
पराधीनोऽतिदीनश्च भूत्वाऽऽर्थयद्विमोचनम् ॥१२॥ नाऽहं चात्र निवत्स्यामि ब्रह्मचारिषु वै क्वचित् ।
सत्यलोकं तथा वैराजकान् लोकान् विहाय च ॥१ ३॥ अधोलोकान् गमिष्यामि दीनं मां मोचयन्त्वितः ।
इत्यर्थिताः शीलधर्मा वैराजा ब्रह्मचारिणः ॥१४॥ मुमुचुस्ते पाशबन्धेभ्यश्च सोऽपि द्रुतं तदा ।
विनिर्ययौ सत्यलोकात् ऋषीन् त्यक्त्वा समन्ततः ॥१५ ॥ पितृलोकान् तथा त्यक्त्वा स्वर्गलोकमुपाययौ ।
कोशस्तेनः समव्याप्नोद् देवदेहेषु सर्वतः ॥१६ ॥ वृथाबीजं हि देवानां यतोऽपत्यानि सन्ति न ।
न जायन्ते तत्र गर्भा न च शीलं प्रवर्तते ॥१७॥ भोगमात्रावसानं हि बीजं वृथा तु तन्मतम् ।
विचार्येत्थं स देवेषु प्रविश्य कोशगोऽभवत् ॥१८॥ निर्भयस्तत्र तत्रैव भक्षयामास बीजकम् ।
न जानन्त्यपि ते देवा बीजभक्षणमेव ह ॥१ ९॥ राक्षसः सर्वकोशेभ्यो नित्यमश्नाति बीजकम् ।
इन्द्रो नपुंसको जातो बृहस्पतिर्नपुंसकः ॥3.11.२०॥ सूर्यो नपुंसको जातश्चन्द्रः शुक्रो नपुंसकः ।
बुधश्च मङ्गलश्चापि शनिर्नपुंसकोऽभवत् ॥२१ ॥ वसवश्च तथा रुद्रा आदित्या मरुतोऽपि च ।
ईशानानागिवरुणाः कुबेरयमनिर्ऋताः ॥२२ ॥ वायुरश्वीकुमारौ च नपुंसकाश्च तेऽभवन् ।
निधयश्चापि ऋषयो ध्रुवः कामो मनुस्तथा ॥२३॥ साध्या देवा विश्वदेवा लोकपालगणास्तथा ।
अन्येऽपि देववर्याश्च गन्धर्वाः किन्नरास्तथा ॥२४॥ किम्पुरुषाश्च दूताश्च सुरा जाता नपुंसकाः ।
कोशबीजदरक्षो वै कृतवाँस्तु नपुंसकान् ॥२५॥ स्वर्गं सर्वं तदा जातं निर्वीर्य हि नपुंसकम् ।
निस्तेजस्कं कामशून्यं गार्हस्थ्यं विलयं गतम् ॥२६ ॥ देवाः शोकं परं जग्मु विसामर्थ्या विसत्त्वितः ।
कारणं मार्गयामासुर्ब्रह्माणं शरणं ययुः ॥२७॥ सर्वे निवेदयामासुर्निजां निःसत्त्वतां तदा ।
वैद्योऽप्ययं हि देवानां निःसत्त्वोऽपि व्यजायत ॥२८॥ क्व यामो विश्वसृट् चाद्यौषधार्थं सत्त्वलब्धये ।
यो हि बलप्रदाताऽस्ति सोऽपि निर्बलतां गतः ॥२९॥ कल्पवृक्षाः कल्पलता कल्पचिन्तामणिस्तथा ।
कल्पपात्राणि सर्वाणि तथा च कामधेनवः ॥3.11.३०॥ कल्पकन्याः कल्पदेवाश्चिन्तिता कल्पबुट्टिकाः ।
धातूनां लब्धये चाति तथापि निष्फलता हि ते ॥३ १ ॥ नाऽत्र केपि प्रवर्तन्ते धातुक्षये महोल्बणे ।
अकार्यकारिणः सर्वे कल्पाभिधा भवन्ति वै ॥३२॥ तस्मात् पितामह तेऽत्र शरणं वयमागताः ।
किं कारणं कथं वा वै जाता वयं नपुंसकाः ॥३३॥ अमृतं सर्वथा भक्ष्यं जातं मृतमिवाऽपि नः ।
किं कुर्मः क्व प्रयास्यामो मरिष्यामः पितामह ॥३४॥ इत्यसत्त्वाः सर्वदेवा न्यपतत् ब्रह्मपादयोः ।
ब्रह्मा विचारयामास बीजस्तेनस्य कर्म तत्॥३५॥ यथाबीजं सदा स्वर्गे देवानां विद्यते यतः ।
देवबीजस्य वै भक्षयिता स सफलोऽधुना ॥३६॥ वरदानप्रदानेन बीजस्तेनो जयं गतः ।
स्वर्गे विघ्नं कृतं तेन स्वर्गं चाऽस्वर्गतां गतम् ॥३७॥ सत्सु धवेषु देव्यश्च विधवा इव तत्कृताः ।
तदुपायं मार्गयामि येन रक्षः क्षयं व्रजेत् ॥३८॥ क्षणं ब्रह्मा हृदयस्थो ध्यानमग्नोऽभवत्तदा ।
हृदयेऽस्य विचारोऽभूद् विना श्रीपुरुषोत्तमम् ॥३९॥ नाऽस्य कश्चिद् विहन्ता स्याद् यतो नपुंसकाः सुराः ।
मया दत्तो वरश्चास्मै सोऽहं हन्तुं नु च क्षमः ॥3.11.४०॥ तस्मान्मया सुरैः सार्धं प्रस्मर्तव्यो हरिः स्वयम् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥४१ ॥ राजाधिराजः सर्वात्माऽन्तरात्मा परमेश्वरः ।
स एवाऽस्य बीजहस्य परं पारं नयिष्यति ॥४२॥ पितामहेन वै तूर्णं देवेभ्यो विनिवेदितम् ।
हरेः सत्रं करिष्यामः साहाय्यं स विधास्यति ॥४३॥ इत्युक्ता देवताव्राताः सत्यलोके तु संहताः ।
ब्रह्मसत्रं व्यधुस्तत्र ममाऽनुष्ठानतत्पराः ॥४४॥ मम भक्तिपराः सर्वे मम कीर्तनतत्पराः ।
मम पूजास्तवनादिजापध्यानपरायणाः ॥४५॥ केचिच्चक्रुः पुरश्चर्यां स्तोत्राणां मम वै तदा ।
अन्ये च हवनं चक्रुर्बृहस्पतिपुरोगमाः ॥४६॥ परे मालाजपं चक्रुश्चान्ये पूजां प्रचक्रिरे ।
तथाऽन्ये च व्यधुर्ध्यानं विदधुश्चेतरे स्मृतिम् ॥४७॥ अपरे त्वर्चनं चक्रुर्मम मूर्तेश्च वै तदा ।
एवं सर्वे देवगणाश्चक्रुराराधनां मम ॥४८॥ अनादिश्रीहरेस्तत्र सत्यलोकेऽजमन्दिरे ।
वन्दनं चक्रिरे मे ते समायाहि नरोत्तम ॥४९॥ सर्वबीजस्वरूपस्त्वं कारणानां हि कारणम् ।
सर्वशक्तिस्वरूपस्त्वं सर्वसामर्थ्यशोभनः ॥3.11.५०॥ सर्वसृष्टिप्रमूलं त्वं सर्वानन्दप्रदो भवान् ।
सर्वसत्त्वमयस्त्वं वै चान्तरात्मन् समाव्रज ॥५१ ॥ त्वया सर्वं युगलाख्यं रचितं परमात्मना ।
त्वया रक्ष्यं युगलाख्यं दयालुना हि शार्ङ्गिणा ॥५२॥ त्वां विना न समर्थोऽन्यो रक्षितुं चावतारिणम् ।
समायाहि निजान् त्राहि रक्ष पोषय सेवय ॥५३॥ कुर्वानन्दभृतान् देवान् शरणागतवत्सल ।
त्वमन्नं त्वं जीवनं च त्वं गर्भस्त्वमसुस्तथा ॥५४॥ त्वमेव माता जनको रक्षकः पोषकः प्रभुः ।
त्वं ब्रह्मा त्वं विराड् विष्णुर्महान् कालः पुमान्परः ॥५५ ॥ त्वं देवस्त्वं च नारीणां प्रियः पतिः प्रभुः परः ।
त्वं सुखस्त्वं महानन्दः समायाहि प्ररक्ष नः ॥५६ ॥ इत्यस्तुवन् सुरा मां च तदाऽहं च त्वया सह ।
तूर्णं सत्यं ब्रह्मवासं समाययौ हरिः स्वयम् ॥५७॥ देवानां सन्निधौ साक्षादहं तत्राऽभवं यदा ।
मया देवाः कृष्णवर्णाः सत्त्वहीना विलोकिताः ॥५८॥ यथा वै मृतका यद्वा रुग्णा वा क्षयशालिनः ।
तथा सर्वे मया दृष्टाः सुराः सूर्यादयोऽपि च ॥५९॥ मया पृष्टाः कारणं ते जगदुः सत्वहीनताम् ।
केन कृतां न जानीमो भगवँस्त्वं प्रवेत्सि तत् ॥3.11.६०॥ रक्षां कुरु हरे कृष्ण कृष्णनारायण प्रभो ।
अमृतान्मृतिमापन्नान् रक्षयाऽत्र जनार्दन ॥६ १ ॥ अथ तत्र मयोक्तं वै मम शक्त्याऽन्वितोऽप्यहम् ।
प्रविशामि भवत्स्वेव विद्रावयामि राक्षसम् ॥६२॥ कोशस्तेनं महाक्रूरं वेधसो जाघनं सुतम् ।
इत्युक्ते मयि तत्रैव देवाः प्राञ्जलयोऽभवन् ॥६३॥ ध्यानपराः क्षणं तावत्तेष्वहं चाविशं द्रुतम् ।
त्वया साकं शिवकन्ये! सर्वदेवेषु सर्वथा ॥६४॥ पतिदेवस्वरूपोऽहं भूत्वा संस्तभ्य राक्षसम् ।
गृहीतवान् गले तं च सूक्ष्मातिसूक्ष्मरूपिणम् ॥६५॥ राक्षसस्य स्वरूपाणि नाशितानि मया तदा ।
मूलरूपो महेन्द्रोऽपि वर्तमानो मया धृतः ॥६६ ॥ प्रार्थयन् जीवनार्थं स स्वर्गाद् गन्तुमरण्यकम् ।
फलपुष्पादिहीनेषु चोद्भिज्जेषु निवासनम् ॥६७॥ प्रार्थयत् स मयाऽऽदिष्टो ययौ तृणादिके तदा ।
अथ देवाः सत्त्ववन्तोऽभवँस्तत्र हि पूरुषाः ॥६८॥ सतेजस्काः प्रभावन्तो यथापूर्वाः सुदेहिनः ।
सानन्दः सर्व एवैते जाता महोत्सवान्विताः ॥६९॥ चक्रुर्महोत्सवं स्वर्गे चेन्द्रालये हि संहिताः ।
मम मूर्तिं विधायैव स्वर्णमयीं च ते तदा ॥3.11.७०॥ लक्ष्म्या साकं प्रशृङ्गार्य पुपूजुर्द्युनिवासिनः ।
पायसानि चामृतानि नैवेद्यानि ददुश्च ते ॥७१ ॥ आरार्त्रिकं व्यधुः सर्वे तदाऽहं स्वेच्छया प्रभुः ।
त्वया साकं तदा लक्ष्मि! प्रत्यक्षश्चाऽभवं हरिः ॥७२॥ शङ्खचक्रगदापद्मस्वस्तिकध्वजशूलवान् ।
यथाऽहं त्वक्षरे धाम्नि वर्ते तथाऽभवं शुभः ॥७३॥ स्वतन्त्रो भगवान् श्रीशः श्रीपतिः पुरुषोत्तमः ।
अपितृजश्चाऽमातृजो धृतरूपो बभूव ह ॥७४॥ अनादिश्रीबीजनारायणः सर्वेश्वरेश्वरः ।
देवैः स्थातुं सदा स्वर्गे प्रार्थितः परमेश्वरः ॥७५॥ सदा महेन्द्रभवने व्यराजं पुरुषोत्तमः ।
आकल्पान्तं त्वया साकं श्रियाऽवतारकारणम् ॥७६॥ अन्ये तथाऽवतारा मे बहवोऽप्यभवँस्तथा ।
जानाम्यहं तु तान् सर्वान् स्मर लक्ष्मि! निजां तदा ॥७७॥ राक्षसो यस्तृणरूपः स तु कल्पान्तरे प्रिये ।
बीजस्तेना ओषधयोऽभवन् सत्त्वविनाशिकाः ॥७८॥ तानि तृणानि चाऽज्ञाश्च पशवो मानवा अपि ।
पृथिव्यां पक्षिणश्चापि ये केऽप्यभक्षयन् क्षितौ ॥७९॥ ते सर्वे बीजहीनाश्च बभूवुर्वै तदा जनाः ।
अथ वै मानवे लोके दुःखं तत् पुनरेव ह ॥3.11.८०॥ सञ्जातं सर्वथा बीजहीनताख्यं च देहिषु ।
तदाऽहं मानवैश्चाऽभ्यर्थितश्चागत्य वै भुवि ॥८१ ॥ बीजस्तेनं राक्षसं तं जग्राह पाशबन्धने ।
सोऽपि मृत्युभयोद्विग्नस्तुष्टाव मां तु दीनवत् ॥८२॥ तदा मया कृता तस्य मर्यादा स्थानदायिना ।
ये प्रसह्य परदारागामिनो वै नरा भुवि ॥८३ ॥ तेषु वासो मया दत्तस्तत्र षण्ढत्वमावह ।
स्वपत्न्यै दुःखदातारो व्रतखण्डनकारिणः ॥८४॥ प्रसह्य भोगकर्तारस्तेषु षण्ढत्वमावह ।
स्वपत्न्यै तृप्त्यदातारो व्यभिचारपरायणाः ।
वृषणोच्छेदकर्तारस्तेषु षण्ढत्वमावह ॥८५॥ नार्यर्थं घातकर्तारो मन्त्रेः रतिविनाशिनः ।
गर्भस्तम्भनकर्तारः ऋतुस्तम्भनकारिणः ॥८६॥ वन्ध्यामन्त्रप्रकर्तारो गर्भस्रावप्रकारिणः ।
स्तनदुग्धविहन्तारो मूत्रस्तम्भप्रकारिणः ॥८७।
लिङ्गपातप्रकर्तारो भगबन्धनकारिणः ।
पुरीषस्तम्भकर्तारो दुर्भगत्वप्रकारिणः ॥८८।
क्लीबप्रयोगकर्तारो वीर्याऽनुद्भवकारिणः ।
ये रतिद्वेषकर्तारस्तेषु षण्ढत्वमावह ॥८९।
कामधर्मप्रसक्तानां पशूनां कामनाशकाः ।
घातकाः स्वार्थिदुष्टा ये गार्हस्थ्यनाशकारिणः ॥3.11.९ ०।
तेषां तथाविधानां च षण्ढत्वं समुपाचर ।
बीजस्तेन! भवानास्ते ब्रह्मपुत्रो हि राक्षसः ॥९ १ ॥ आज्ञायां वर्तमानश्चेद् वर्तते तर्हि तेऽक्षयन् ।
अन्यथा तव नाशः स्यान्मा विमार्गे प्रयाहि वै ॥९२॥ अधार्मिकाणां पापानां क्षीणं धातुं प्रभक्षय ।
इत्येवं ते मया लोके मानवे चातलादिषु ॥९३॥ लोकेष्वपि प्रदत्तानि स्थानानि तेषु चाविश ।
इत्येवं वै मया लक्ष्मि! मर्यादा रक्षसः कृता ॥९४।
तत आरभ्य वै लोका नरा नार्यश्च सर्वथा ।
धर्मवन्तो व्रतिनश्च प्रोक्तदोषाद्यकारिणः ॥९५।
सर्वेऽत्यन्तं सुखिनश्च बभूबुर्गृहधर्मिणः ।
अहं च मानवैश्चापि पूजितो यक्षराक्षसैः ॥९६॥ न्यवसं बहुधा भूमौ पुरुषोत्तम एव ह ।
अनादिश्रीबीजनारायणः श्रीपरमेश्वरः ॥९७॥ स्वतन्त्राश्रीश्च वै लक्ष्मि! त्वं मया न्यवसः सह ।
इत्येवं मानवे लोकेऽवतारा मे ह्यनन्तकाः ॥९८॥ कार्यवशात्तदा जाताः सर्वे ममावतारिणः ।
अक्षराधिपतेः श्रीमन्नारायणस्य शार्ङ्गिणः ॥९९॥ श्रीमन्नारायणं मां ये पूजयिष्यन्ति भूतले ।
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥3.11.१०० ॥ अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।
उपासितोऽत्र यैलौकैस्तेषां दुःखलवोऽपि न ॥१०१ ॥ विवाहितोऽपि यैर्लोके लक्ष्मीविवाहकर्मभिः ।
ते यास्यन्ति चतुर्वर्गसिद्धिं चाऽऽनन्दपूरणीम् ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चतुर्दशे वत्सरे कोशस्तेनाऽभिधराक्षसकृतस्य नष्टबीजस्य स्वर्गस्य रक्षणार्थम् अनादिश्रीबीजनारायणस्य प्राकट्यं, ततो बीजस्तेनस्य निवासस्थानमर्यादाकरणं चेत्यादिनिरूपणनामैकादशोऽध्यायः ॥११ ॥