००६

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं ततोऽपि चाऽष्टमे पुनः ।
अजस्य नियमाख्ये वत्सरे कल्पे तु पञ्चमे ॥१ ॥ सप्तमे तु मनौ वर्तमाने तत्र तदाऽप्यहम् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥२ ॥ मानावानां सुखार्थं वै तदा प्रकटितोऽभवम् ।
पाताले त्वेकदा नागाः कामरूपधराः प्रिये! ॥३ ॥ सङ्कर्षणं प्रीणयितुं महारुद्रं प्रचक्रिरे ।
यज्ञे तत्र महारुद्रे फणाध्राणा कुलानि वै ॥४ ॥ द्वापञ्चाशत्सहस्राणि संहतानि तदाऽभवन् ।
कृष्णा रक्तास्तथा चित्राः श्वेताः श्वित्राश्च कर्बुराः ॥५ ॥ नीलाः पीताश्च हरिताः स्वस्तिकाश्चन्द्रकास्तथा ।
पट्टिशा द्विफणाश्चापि त्रिफणाश्च चतुःफणाः ॥६ ॥ शताननास्तथा नागाः सहस्रफणिनोऽपरे ।
नागराजाः कर्कटकाः शीतला डिण्डिमास्तथा ॥७ ॥ भूफिण्डाद्याः कोडिफाश्च पाण्डुराः पण्डकास्तथा ।
शूलका दण्डकाश्चापि द्विमुखा दिव्यचाक्षुषाः ॥८ ॥ ओङ्कारास्तिलवर्णाश्च पारडङ्काः कणाशनाः ।
तिर्यग्धाराः सूत्रधारा मुद्रपृष्ठा द्विपृष्ठकाः ॥९ ॥ द्विजिह्वा बहुजिह्वाश्च बहुदंष्ट्रा विषालयाः ।
कालकूटाः समणयः कार्दमिकाश्च वार्शयाः ॥3.6.१ ०॥ आनलिकाश्चानिलका मारुच्छ्रयाः सपक्षकाः ।
उग्रकाः शान्तदासाश्च माहालस्या विडम्बिनः ॥११ ॥ इत्येवं बहुजातीयाः कणाध्राः संहतास्तदा ।
सङ्कर्षणं यज्ञदेवं निजेष्टं चानलाननम् ॥१२॥ ईजिरे तोषयामासुर्मिष्टाहुतिभिरुत्सुकाः ।
सहस्रदिवसं नैजं यज्ञं नियमतो व्यधुः ॥१३ ॥ गुरुस्तेषां स्वस्तिकोऽभूत् शेषोऽभून्नृपतिस्तदा ।
अग्रगण्यो यजमानश्चान्ये पुण्याश्च ऋत्विजः ॥१४॥ पातालीयानि मिष्टानि सामुद्राणि रसानि च ।
फलान्यारण्यजन्मानि पार्थिवान्यदनानि च ॥१५॥ कणाँश्च सस्यजाँश्चापि कन्दाँश्चौषधिशाखिनः ।
समिधश्च विविधा वै गुन्द्राणि विविधानि च ॥१ ६॥ भूविकाराणि सर्वाणि भोज्यानि हव्यकानि च ।
व्रताऽऽदनानि योग्यानि जुहुवुस्तत्र चाध्वरे ॥१७॥ सङ्कर्षणो महादेवो निजमण्डलमण्डितः ।
पातालीयसुराढ्यश्च गारुडैः सुरकोटिभिः ॥१८॥ सुराणीभिश्च सहितस्तृप्तिं परां मखे ययौ ।
प्रत्यक्षोऽभूद् रुद्ररूपधरस्तत्रान्तिमे दिने ॥१९॥ पूर्णाहुतौ पायसाद्यैर्वृतैस्तिलैश्च पिष्टकैः ।
मिष्टरसैः क्रियमाणायां कट्वोषधिभिस्तदा ॥3.6.२०॥ प्रसन्नोऽस्मीत्याह सर्पान् तृप्तोऽस्मीति पुनः पुनः ।
वरं वृणुध्वं सुखिनो भवन्त्वित्याह तान्पुनः ॥२१ ॥ तदा राजा प्रजाद्यास्ते सर्पा ययाचिरे ततः ।
वयं वै मानवे लोके भवामो राज्यभागिनः ॥२२॥ कर्म कृत्वा प्रयास्यामो मुक्तिं स्वर्गं परं लयम् ।
देह्येवं वरदानं चेत् प्रसन्नोऽसि सुकर्षणः ॥२३॥ वरयोग्याः स्म च विष्णो सकर्षण निजेष्टद! ।
सङ्कर्षणो विचार्यैव क्षणान्तरे जगाद तान् ॥२४॥ आरण्यवासाः सततं महारण्यनिवासिनः ।
भवन्तु राज्यभोक्तारः पृथ्व्यां सुरसभोगिनः ॥२५॥ मा मानवान् भूनिवासानुद्वेजयन्तु वै क्वचित् ।
इत्येवं नियमं कृत्वा वरं ददामि वो द्विजाः ॥२६॥ एवं वै वर्तमानेषु भवत्सु सुखमुत्तमम् ।
भविष्यति सुखं यान्त्वभ्युदयं सततं द्विजाः ॥२७॥ इत्युक्त्वा च हविष्यान्नं पूर्णाहुतिस्वरूपकम् ।
लब्ध्वा सङ्कर्षणो देवः ससुरोऽदृश्यतां ययौ ॥२८॥ अथ नारायणीश्रि! वै ततस्ते फणिनोऽपि वै ।
बलिनो वरदाने न सतृष्णा मानवे गुणे ॥२९॥ मानवेषु च भोगेषु गृध्गिनो मोहमारिताः ।
आययुर्वायुविवरैर्भूलोकं वै समन्ततः ॥3.6.३ ०॥ कामरूपधराः सर्वे नरा नार्यो हि मानवाः ।
सर्पाकृतयो नैवैषां सन्ति यदाऽऽगता भुवि ॥३१॥ प्रच्छन्नास्ते मानवेषु वर्तन्ते च वसन्ति च ।
हर्तुं राज्यानि भोगांश्च कापट्यभृत्यकर्मिणः ॥३२॥ सर्वत्र भूतले ते वै रूपसौन्दर्यशालिनः ।
नागाश्चापि च नागिन्योऽभवन् भृत्यक्रियापराः ॥३३॥ राजसु श्रेष्ठिषु विप्रवर्गेष्वमात्यसेविषु ।
सत्तावत्सु प्रधानेषु गृहिष्वप्यवसँश्च ते ॥३४॥ भृत्या दासास्तथा दास्यो भूत्वा वर्णानुकारिणः ।
विवाहिताश्च कन्या वै मिथो मानवयोनिभिः ॥३५॥ समूहुर्मानवकन्या नागाश्च नररूपिणः ।
एवं सम्बन्धमापन्ना लब्ध्वाऽवसरमेव ते ॥३६॥ दशन्ति स्म नरान् रात्रौ निद्रावशान् क्वचित् क्वचित् ।
म्रियन्ते सन्दंशिताश्च नृपा राज्ञ्यश्च सर्वथा ॥३७॥ श्रेष्ठिनश्च धनाढ्याश्च सर्वे वर्णेषु सत्तमाः ।
रिक्तं स्थलं च सम्पत्तिं निजां कृत्वा च ते ततः ॥३८॥ भुञ्जते स्मोरगाः कामरूपध्राः पृथिवीश्वराः ।
सङ्कर्षणस्य वचनं नानुष्ठितं हि तामसैः ॥३९॥ स्वार्थपरैश्छद्मधरैः प्रच्छन्नभोगतत्परैः ।
एवं तैर्मानवी सृष्टिः प्रायशो वै विनाशिता ॥3.6.४०॥ प्रच्छन्नदंशदोषैश्च निजस्वार्थपरायणैः ।
नागजातीयुगप्ताऽपि निजसृष्टिर्विवर्धिता ॥४१ ॥ मानवानां क्रियाः सर्वा देवाराधनमित्यपि ।
लुप्तं लुप्तं यज्ञकार्यं सन्ध्या लुप्ता तथाऽऽहुतिः ॥४२॥ श्राद्धं लुप्तं तथा दानं दमो लुप्तश्च मानुषः ।
ऋषीणां गोत्रसङ्कल्पास्तथा लुप्ताः समन्ततः ॥४३ ॥ संस्कारा मानवा लुप्ता उद्भूताश्चोरगक्रियाः ।
व्रतानि चापि लुप्तानि लुप्तमावाहनादिकम् ॥४४॥ अर्घं लुप्तं रवेश्चापि वैश्वदेवो लयं गतः ।
प्रेतकार्यं तथा लुप्तं देवालया निरर्हणाः ॥४५॥ कथांशाश्च लयं प्राप्ता विप्रा नृपा मृताः खलु ।
ब्रह्मचारिनिवासाश्च गुरुवासा लयं गताः ॥४६॥ सत्यः साध्व्यो मृताश्चापि मारिता नागकोटिभिः ।
साधवोऽपि मृताश्चाप्यावासा ग्रामाः पुराणि च ॥४७॥ अमानवास्तु ते जाता नागकोपैः समन्ततः ।
प्रवराणां च नामानि लयं गतानि वासिषु ॥४८॥ न ज्ञायन्ते जनैश्चैतत् कुत एवं व्यजायत ।
अथ देवा यज्ञहीनाः पितरस्तृप्तिवर्जिताः ॥४९॥ शतवर्षे गते कालेऽविचार्यन् समाहिताः ।
कुत एवं कथं जातं नास्तिक्यं भूतलेऽशुभम् ॥3.6.५०॥ मानवानां शतं वर्षाणां गतं भूतलेऽपि नः ।
आमन्त्रणावाहनादि नैव भवति वै कथम् ॥५१ ॥ दृष्ट्या तु दिव्यया वीक्ष्य ज्ञातवन्तो नरा मृताः ।
सर्पा राज्यानि कुर्वन्ति प्रजाः सर्पात्मिका अपि ॥५२॥ कामरूपधराः सर्पा नागिन्यो योषितैस्तथा ।
इष्टरूपप्रधारिण्यो भुञ्जते भूमिसम्पदः ॥५३॥ एतज्जातमनिष्टं वै धर्मकर्मविवर्जितम् ।
तिर्यञ्चस्तामसाः सर्पाः प्रच्छन्नछद्मकारिणः ॥५४॥ भुञ्जते मानवान् भोगान् देवर्ष्युन्नतिघातिनः ।
मानवानां बहुधा वै घातो जातः पुरादिषु ॥५५॥ वसत्यादौ न विद्यन्ते मानवाः फणिनोऽन्तरा ।
अरण्यादौ प्रविद्यन्ते मानवा विरलाः क्वचित् ॥५६॥ ते त्वस्माभिश्चेतनीया नागेभ्यो मरणं प्रति ।
नागानां मारणोपायान् बोधनीयाश्च प्रत्यपि ॥५७॥ इत्यभिमन्त्र्य कमले! आययुस्ते भुवस्तलम् ।
इलावृत्तं मध्यखण्डं चारण्यानीसमन्वितम् ॥५८॥ यत्राऽऽसते द्विजाः शुद्धास्त्वरण्ये सर्पवर्जिताः ।
गारुडाश्चाप्यथर्वज्ञा होमकर्मपरायणाः ॥५९॥ ऋषीन् देवान् प्रविलोक्य द्विजाः स्वागतमाचरन् ।
मधुपर्कं प्रदायैवाऽऽगमने हेतुमित्यपि ॥3.6.६०॥ जिज्ञासवः समपृच्छन् देवास्तदाऽवदन्नभि ।
विजानन्तु द्विजाः सर्वे मानवा नागकोटिभिः ॥६१॥ मृताः सर्वे विषयोगैर्म्रियन्तेऽपि दिने दिने ।
नागा मानवरूपास्ते सङ्कर्षणवराद् भुवि ॥६२॥ समागत्य हि वर्तन्ते मारयित्वा तु मानवान् ।
भुञ्जाना मानवान् भोगान् मोदन्ते छद्मवर्तिनः ॥६३॥ धर्मकर्माराधनावाहनार्हणाऽर्पणादिकम् ।
दैवं पैत्र्यं तथा सौर्यं विनिष्टं कर्म जातकम् ॥६४॥ भवन्तोऽरण्यवासाश्च जीवन्तीति हरेः कृपा ।
यत्र नागा न चायता दिष्ट्या यूयं हि जीवथ ॥६५॥ नागानां मारणोपायानाथर्वणगतान् मनून् ।
जपित्वा नागसृष्टीनां भूमौ कुर्वन्तु सङ्क्षयम् ॥६६॥ नागयज्ञं प्रकुर्वन्तु सार्वभौमा द्विजास्त्विह ।
आराधयन्तु लोकेशं परमेशं क्रतौ तथा ॥६७॥ परब्रह्माऽक्षरातीतं श्रीपतिं पुरुषोत्तमम् ।
निजरक्षां प्रकुर्वन्तु द्रावयन्तूरगानितः ॥६८॥ इत्युक्त्वा पितरो देवाः प्रययुर्निजमन्दिरम् ।
विप्र।श्चेरावृतखण्डस्थिता यज्ञं प्रचक्रिरे ॥६९॥ तत्र गारुडसञ्ज्ञो वै निष्णातोऽथर्वकर्मसु ।
होताऽभवत् तदा यज्ञेऽन्ये विप्रा हवनं व्यधुः ॥3.6.७०॥ अथ सर्पाः पतन्त्येव न च यज्ञे विकर्षिताः ।
असमर्थास्तु ते मन्त्रा ऊचुर्विप्रान् समाहिताः ॥७१॥ आराधयन्तु देवेशेश्वरेश्वरेश्वरेश्वरम् ।
स वै युष्मद्धितं विप्राः करिष्यति परेश्वर ॥७२॥ इत्युक्तास्ते द्रुतं लक्ष्मि! ब्रह्मसत्रं प्रचक्रिरे ।
गारुडाख्यद्विजस्यैव गुहे सहस्रभूसुराः ॥७३॥ तत्र तूर्णं हरिश्चायादक्षराधिपतिः प्रभुः ।
योऽहं सोऽहं त्वया साकं श्रीपतिः पुरुषोत्तमः ॥७४॥ गारुडस्य गृहमध्ये पश्यतां द्विजयोगिनाम् ।
शङ्खचक्रगदापद्मधरो मन्त्रैः प्रसेवितः ॥७ ॥ मूर्तिमद्भिस्तथा वेदैर्युक्तस्तत्राऽभवं पुरः ।
वीक्ष्योत्थाय द्विजा मह्यं नेमुः स्वागतमाचरन् ॥७६॥ आसनं मधुपर्कं च ददुः पाद्यं समर्हणम् ।
सर्वे निवेदयामासुः कष्टं मानवनाशनम् ॥७७ ॥ अहं स्वस्तीत्युवाचैतान् गतं भयं च वोऽधुना ।
कुर्वन्तु सर्पसत्रं वै नियुञ्जन्तु मनूनिमान् ॥७८॥ इत्युक्ता गारुडा विप्रा मम वाक्येन नोदिताः ।
नागसत्रं व्यधुस्तूर्णं जगुर्मन्त्रान् फणाहनः ॥७९ ॥ ओम्मामर्त्त्यसदोर्व्विमर्त्यसदोव्विस-
र्पिणोऽथाप्यसर्पिणोग्गरसञ्जुषः ।
ओम्मिषम्मृतङ्कल्मषिणोऽम्भूजुषिणोऽन्वभुजिनो-
ऽवपतन्त्विह हवींषि जुह्म ओम् ॥3.6.८०॥ ओम्व्विषसिणो दन्न्तग्गारिणो न्नृहणिनो-
ऽनृजुसरिणोद्धर्महणो व्वप्पतन्त्विह ।
ओं शतरस्रविणोऽब्धिरस्रविणोऽप्यनुग्क्षरन्न्त्विह
रौद्द्रकार्च्चिष्षु व्वापतन्न्त्विह ॥८१ ॥ ओं शम्मृतिजुषोऽतिम्मृतिजुषोतिफ्फणिजुषो-
ऽतिप्पुषिजुषोव्वाभिप्पतन्न्त्विह ।
ओम्भूतिञ्जुषोऽतिन्नतिञ्जुषोऽश्छद्मञ्जुषो-
ऽधिप्पतिञ्जुषोम्भितष्पतन्न्त्विह ॥८२॥ इतिमन्त्राञ्जगुस्तत्र गारुडा भूसुरास्तदा ।
जुहुवुः क्रूरबीजाद्यैर्नागानामन्त्र्य मन्त्रकैः ॥८३ ॥ आसमुद्रान्तभूभागादागत्यागत्य चाम्बरात् ।
नागाः पतन्ति कुण्डे वै तदा क्ष्वेडानलोल्बणे ॥८४॥ सहस्रशो मृता दग्धाः शेषा बद्धाश्च रज्जुभिः ।
मन्त्रबद्धा न वै शक्ताश्चात्मानं मोक्तुमेव ते ॥८५॥ अथ बद्धोऽनन्तशेषस्तुष्टाव मां परेश्वरम् ।
रक्ष नाथ कृपासिन्धो मोचयाऽस्मान् महानलात् ॥८६॥ स्थास्यामो न क्षितौ कृष्णनारायण परेश्वर ।
शरणे पतिताम् रक्ष जीवदानं प्रदेहि नः ॥८७॥ अनन्तशेषो भक्तोऽस्मि सदा तेऽहं जनार्दन ।
इत्युक्तोऽहं तदा प्राहाऽनन्तं भूस्थान् फणाधरान् ॥८८॥ सर्वजातीयनागाँस्त्वं नीत्वा याहि ह्यधस्तलम् ।
मा पुनश्चात्र वै लोके मानवे स्वपदं कुरु ॥८९॥ इत्युक्तः स्वीचकारैव सर्वं मया प्रमोचितः ।
सर्पाः सर्वे मोचिताश्च मृत्युमुखाद्धि गारुडात् ॥3.6.९० ॥ अनन्तो मम भक्तश्च पुपूज मां परेश्वरम् ।
तदा त्वं जानकीजन्ये शेषपुत्री तदाऽभवः ॥९१ ॥ आनन्ती त्वं च शेषेणाऽर्पिता मह्यं हि दक्षिणा ।
तदाऽऽथर्वणगारुडद्विजपुत्राय शार्ङ्गिणे ॥९२॥ रक्षिणे नागसर्पाणां श्रीशाय परमात्मने ।
अथ यज्ञो नियमितो मया परिहृतस्तदा ॥९३॥ शेषः सर्पकुलान्येव सर्वभूतलगानि वै ।
नीत्वा ययौ बिलान्येव पातालाख्यानि वै तदा ॥९४॥ मानवोऽयं ततो लोको गरहीनो मया कृतः ।
अथेलावृत्तखण्डस्थान् मानवान् सर्वभूमिषु ॥९५ ॥ अवासयं चाऽकरवं बहुवंशयुताँस्तथा ।
पुनर्वै मानवं वर्षं मानवः सम्भृतं ततः ॥९६ ॥ दैवपैत्र्यपराः सर्वे मम योगेन भूसुराः ।
बभूवुर्बहुविज्ञाश्च स्वस्तिमन्तश्च देवताः ॥९७॥ अनादिश्रीगरुत्मन्नारायणोऽहं तदाऽभवम् ।
आनन्ती त्वं मम पत्नी शेषकन्या तदाऽभवः ॥९८॥ अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अवतारी स्वयं तत्र प्राकट्यं कृतवान् मम ॥९९॥ ततोऽवतारा बहवस्तद्वर्षे ब्रह्मणोऽभवन् ।
वेद्म्यहं सर्वमेवैतत् स्मराऽऽनन्ति! पुराभवम् ॥3.6.१० ०॥ भूलोके मानवानां वै तदा रक्षा मया कृता ।
त्वया साकं ततश्चाकल्पान्तं स्थिरोऽभवँस्ततः ॥१ ०१ ॥ पठनाच्छ्रवणाच्चास्य कीर्तनात्स्मरणादपि ।
नागभीर्जायते नैव भुक्तिर्मुक्तिर्भवेत्तथा ॥१० २॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टमवत्सरे सर्पाणां शासनार्थम् भूमावनादिगरुत्मन्नारायणस्य प्राकट्यमितिनिरूपणनामा षष्ठोऽध्यायः ॥६ ॥