००५

पुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं षष्ठे तापसवत्सरे ।
वेधसोऽस्य द्वितीये कल्पके च प्रथमे मनौ ॥१ ॥ प्राकट्यं तव रुद्राच्च ममाऽपि ब्रह्मतोऽभवत् ।
प्रतिकल्पं त्रिलोकीनामुत्पत्तिस्तत्र जायते ॥२ ॥ उत्पादकोऽत्र वै ब्रह्मा सायं संहारको हरः ।
पोषणस्य प्रकर्ता तु विष्णुस्तत्र सदा मतः ॥३ ॥ किन्तु तं नियमं त्यक्त्वा रुद्रो देवो महेश्वरः ।
ब्रह्माणमाह मा सृष्टिं कुरु त्वं यत् करोम्यहम् ॥४ ॥ सायङ्कालस्य कार्यं त्वं गृहाण लोकसंहृतिम् ।
न मे तद् रोचते ब्रह्मन् संहाराख्यं हि कर्म यत् ॥५ ॥ योगिनां मादृशानां तन्महद् दुःखं विवेकिनाम् ।
संहृतिर्नहि योग्या मे हिंसात्मिकाऽतिनिर्घृणा ॥६ ॥ सतां धर्मो न वै हिंसा परदुःखप्रदातृता ।
परदुःखाऽसहिष्णुत्वे मम हिंसा न रोचते ॥७ ॥ अपि कायेन मनसा नेच्छामि परहिंसनम् ।
कुतश्च कर्मणा कुर्वे पापकृत् कर्म भीषणम् ॥८ ॥ अपदेभ्यः सपदानां हिंसा पापाऽधिकान्विता ।
सपदेष्वपि लिक्षाणां मक्षिकाणां ततोऽधिका ॥९ ॥ चटकानां च गृध्राणां गरुडानां ततोऽधिका ।
श्वादीनां गोमहिषाणामुष्ट्राणां करिणां ततः ॥3.5.१ ०॥ नागानां च पिशाचानां भूतानां च ततोऽधिका ।
दैत्यानां रक्षसां हिंसा दानवानां ततोऽधिका ॥११ ॥ सूतमागधबन्दीनां भृत्यानां च श्वपाकिनाम् ।
मानवानां च विप्राणां नारीणां च ततोऽधिका ॥१२॥ कन्यकानां कुमाराणां बालानां च सतां तथा ।
योगिनां चापि भक्तानां साधूनां ब्रह्मचारिणाम् ॥१३॥ सगर्भाणां सूतिकानां सतीनां च ततोऽधिका ।
तीर्थानां चापि चैत्यानां प्रतिमानां ततोऽधिका ॥१४॥ मन्दिराणामृषीणां च देवानां च ततोऽधिका ।
मुमुक्षूणां तापसानां हिंसा पापाधिका तथा ॥१५॥ यज्ञीयानां नृपाणां च गुरूणां च ततोऽधिका ।
वेदानां चापि शास्त्राणां हिंसनं सर्वतोऽधिकम् ॥१६॥ हर्येशानां विभूतीनां हिंसनं च ततोऽधिकम् ।
इत्येषां पापविस्तारो हिंसात्मा मे न रोचते ॥१७॥ करिष्येऽहं सर्जनं वै कुरु त्वं वै विसर्जनम् ।
चिरं मया कृतं विसर्जनं त्वया प्रसर्जनम् ॥१८॥ आयतौ त्वं विधेह्येव विसर्जनं न सर्जनम् ।
अहं सदा करिष्ये सर्जनं न तु विसर्जनम् ॥१९॥ इत्युक्तश्च तदा लक्ष्मि! ब्रह्मा लोकपितामहः ।
शङ्करं प्राह मा मैवं त्वादृशो हिंसकोऽस्मि न ॥3.5.२०॥ श्रेष्ठं कार्यं विहायैव कः कनिष्ठे विशेज्जनः ।
ब्राह्मणोऽहं न तत्कर्तुं शक्नोम्यत्र कदाचन ॥२१ ॥ रुद्रस्य तव कार्यं तत् क्रूरस्य निर्घृणस्य च ।
ब्राह्मणा दयया युक्ता न निषादाः कदापि वै ॥२२॥ मया नैषादिकं कार्यं मनसाऽपि न मन्यते ।
जालं पाशो घातनं च कर्तनं कूर्चनं तथा ॥२३॥ विदलनं रोधनं च नैषादिकं हि तद्भवेत् ।
दाहनं भेदनं चापि पेषणं प्राणकर्षणम् ॥२४॥ मारणं पापकर्मैतन्मे न शम्भो प्ररोचते ।
नाहं तत्र कृतप्रज्ञो भवाँस्तत् कर्तुमर्हति ॥२५॥ इत्युक्तः शङ्करो लक्ष्मि! रौद्रभावमुपागतः ।
असहमानो वाक्यानि जग्राह वेधसं गले ॥२६ ॥ न्यपातयत् क्षितौ तत्रोत्तानं वै वेधसे हरः ।
पादं दत्वा बलाद् वक्षस्येव शूलं गले न्यधात् ॥२७॥ हाहाकारो महानासीत्तदा त्रैलोक्यवासिषु ।
ब्रह्मणोऽद्य विनाशो वै भविष्यतीति मेनिरे ॥२८॥ ऋषयः पितरो देवा जडाश्च चेतना अपि ।
चकम्पिरे रुद्ररोषान्मध्यस्थः कोऽपि नाऽऽगमत् ॥२९॥ भयं गतोऽपि विष्णुश्चाऽन्यस्य तत्र तु का कथा ।
ब्रह्मा सस्मार मां तत्र त्रातारं परमेश्वरम् ॥3.5.३०॥ अक्षरान्मम वै स्थानात्तूर्णं तत्र समाययौ ।
त्वया सार्धं तदा लक्ष्मि! शूलं जग्राह पाणिना ॥३१॥ त्वमादिष्टा प्रवेष्टुं च हरे शान्तिकरी सती ।
हररोषोऽभवच्छान्तस्तवाऽऽवेशात्तदा प्रिये ॥३२॥ विवेदाऽकार्यमेवैतन्नम्रो मां वीक्ष्य लज्जितः ।
शङ्खचक्रगदापद्मधरं श्रीपुरुषोत्तमम् ॥३३॥ कोटिसूर्यसमाभासं सर्वाभूषणभूषितम् ।
सर्वेश्वरं धृतशूलं ब्रह्मरक्षाकरं प्रभुम् ॥३४॥ अकस्मादागतं शान्तं सर्वान्तरनिवासिनम् ।
अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ॥३५॥ ब्रह्मणो वक्षसि न्यस्तः शम्भुपादो मया तदा ।
शूलं च मम हस्ताभ्यामुद्धृतौ लीलया प्रिये ॥३६॥ शम्भुः पपात वेगेनोत्तानो मम बलात्तदा ।
पार्श्वे पतन्तं शम्भुं तं देवाश्चालम्बनं ददुः ॥३७॥ रक्ष रक्ष हरेकृष्ण बालकृष्ण परेश्वर ।
अजं रक्ष हरं रक्ष रक्ष नः शरणागतान् ॥३८॥ सर्वे वयं तव बालाः पोष्या रक्ष्याः सदा त्वया ।
इत्युक्त्वा ते निपेतुर्मे पादयोर्दण्डवत् तदा ॥३९॥ पुष्पाद्यैर्मानसैर्भावैः पुपूजुर्मां दयाभृतम् ।
परब्रह्माऽक्षरातीतं ब्रह्मवक्षोगतं हरिम् ॥3.5.४०॥ शङ्करोऽपि च मे भक्तो प्रययाचे क्षमापनम् ।
मया शम्भुबोधितश्च संहारे दूषणं न ते ॥४१ ॥ मम शक्तिस्वरूपोऽसि कर्ताऽहं तव रूपवान् ।
मया सृष्टमिदं सर्वं विज्ञवेधःस्वरूपिणा ॥४२॥ मया सम्पुष्यते सर्वं दातृविष्णुस्वरूपिणा ।
मया संह्रियते सर्वं हर्तृहरस्वरूपिणा ॥४३॥ योऽहं सोऽहं हरो विष्णुर्ब्रह्मा भिन्नाभिधान्वितः ।
पृथग्भावो न भवतां मम माया दुरासदा ॥४४॥ तया भेदं गतश्चाऽहं ममेच्छयैव मायया ।
करोमि भेदवत् सर्वं विभिन्नं चेतरो यथा ॥४५॥ अज्ञानिवच्चेष्टयामि लीला मे सार्वकालिकी ।.
तत्र ते दूषणं शम्भो हिंसादोषात्मकं न वै ॥४६॥ उत्पन्नं स्याद् विनष्टं वै स्वभाव एषो वस्तुनः ।
तत्र द्रष्टा भवान् रुद्रो विनाशे न्यायतो मम ॥४७॥ निमित्तानि प्रलयाद्याः कालो युगा निशास्तथा ।
कालसीमा निमित्तं वै मया मर्यादया कृता ॥४८॥ तस्मात्ते दूषणं शम्भो संहारे नास्ति सर्वथा ।
इत्युक्तः शङ्करो लक्ष्मि! मया स्वास्थ्यमुपागतः ॥४९॥ कलहं तं परित्यज्य सदा संहारमानसः ।
सेवते मन्नियोगं वै हरतेऽन्ते यथोदितम् ॥3.5.५०॥ अथाऽहं संविनीयैव शम्भुं ब्रह्मसुतोऽभवम् ।
अनादिश्रीब्रह्मनारायणः श्रीपुरुषोत्तमः ॥५१ ॥ त्वं च लक्ष्मि हरदेहान्निष्क्रान्ता कन्यका ततः ।
वैष्णवी रुद्रपुत्री वै मह्यं हरेण चार्पिता ॥५२॥ इत्येवं मम वै तत्र प्राकट्यं च तवाऽप्यभूत् ।
आकल्पान्तं ततश्चाऽहं ब्रह्मनारायणोऽवसम् ॥५३॥ त्वया साकं हि वैष्णव्या नारायणीश्रि! तत्स्मर ।
एवमन्येऽप्यवताराः कोटिशस्तत्र मेऽभवन् ॥५४॥ न तान् शक्ताः प्रसङ्ख्यातुं चान्ये मामन्तरा प्रिये ।
अथाऽन्ये वत्सरे चापि प्राकट्यं मम संशृणु ॥५५॥ यमाख्ये वत्सरे चाद्ये कल्पे चाद्ये मनौ तथा ।
देवतानां विवादोऽभूद् धिष्ण्यार्थं स्वर्गवासिनाम् ॥५६॥ एकः प्राह महेन्द्रस्य पदं भोक्ष्येऽहमेव ह ।
चाऽपरश्च तदा प्राह सूर्योऽहं नाऽपरो भवेत् ॥५७॥ तृतीयः प्राह चन्द्रोऽहं तुर्यः प्राह धनी त्वहम् ।
कश्चित् प्राह जलेशोऽहं कश्चित्प्राह मरुत्त्वहम् ॥५८॥ वसुश्चाऽहं देवगुरुश्चाऽहं चेशानदेवता ।
अहमग्निर्गणेशोऽहं सेनान्यहं ध्रुवोऽप्यहम् ॥५९॥ मेरुर्मम दिवं मेऽपि मरुच्चाऽहं भवाम्यपि ।
यमश्चाऽहमहं विष्णुर्भवामि शङ्करोऽप्यहम् ॥3.5.६०॥ दिक्पालोऽहं लोकपालः साध्योऽहं सम्भवामि वै ।
विश्वदेवपदं चाऽहं भोक्ष्ये पितृपदं त्वहम् ॥६१ ॥ इत्येवं वदमानानां सुराणां कलहो मिथः ।
वरिवर्ति महानेवाऽशाम्यः केनापि शासिना ॥६२॥ परस्परं तदा लक्ष्मि! बलिनो देवसत्तमाः ।
प्रसह्येष्टपदान्येव स्वायत्तोकृत्य सर्वथा ॥६३॥ स्थितवन्तो निर्बलाश्च निराधारास्तदाऽभवन् ।
अन्धराज्यं यथा स्वर्गं तत्राऽभवद् बलार्जितम् ॥६४॥ सात्त्विका देवताश्चेन्द्रवसुचन्द्रादयस्तदा ।
आन्ध्यस्य वारणार्थं वै मिमिलुर्वै गुरोर्गृहे ॥६५॥ कथमान्ध्यं निवर्तेतेत्येवं विचारणा व्यधुः ।
ब्रह्मणो वापि शम्भोर्वा विष्णोर्वा वचनानि वै ॥६६॥ अमर्यादा न मन्यन्ते देवा गर्वप्रवेगिताः ।
तस्मादत्र प्रकर्तव्यः सर्वेषां हितकृद् विधिः ॥६७॥ यथा सुरगुरुर्मार्गं दर्शयेत् कुर्म एव तम् ।
श्रुत्वैवं तु तदा देवानाह सुरगुरुः स्वयम् ॥६८॥ द्यौः सदा देवमाता वै देवान् गर्भे प्ररक्षति ।
सेयं मूर्तिमती चास्ते कुर्मस्तत् सा वदेच्च यत् ॥६९॥ विष्णुर्नाम तथाऽऽदित्यो राजतेऽत्र सदस्यपि ।
यथा वदेत् तथा सर्वे कुर्मस्तद्वचनं हितम् ॥3.5.७० ॥ इत्युक्तौ तौ नमस्कृत्य देवान् सर्वानुपस्थितान् ।
प्राहतुर्निर्णये चान्ध्ये योग्यौ नाऽऽवां तथापि वः ॥७१ ॥ सूचयावो हरिं कृष्णं परं ब्रह्म सनातनम् ।
आराधयामश्चाऽत्रैवाऽधिकारपदद प्रभुम् ॥७२॥ स एव निर्णयं नश्च दास्यत्येवाऽक्षराधिपः ।
येन सम्पालितं सर्वं येन सन्नोदितं त्विदम् ॥७३॥ येन सञ्चालितं याति स नो दास्यति निर्णयम् ।
येन ऋद्धिः प्रदत्ता च यथाकर्म यथागुणम् ॥७४॥ यथास्थानं यथैश्वर्यं यथाधिष्ण्यं पदानि च ।
आराधितः समागत्य स नो दास्यति निर्णयम् ॥७५॥ इत्युक्ताः सर्वदेवास्ते प्रसह्य बलवादिनाम् ।
शासनार्थं सस्मरुश्च परब्रह्म सनातनम् ॥७६॥ अक्षरेशं भगवतां भगवन्तं परेश्वरम् ।
तूर्णं चाऽक्षरधाम्नोऽहं समायातो महाप्रभुः ॥७७॥ त्वया साकं तदा नारायणीश्रि! परेश्वरः ।
देवगुरोः सभायां वै विष्ण्वाख्याऽऽदित्यसन्निधौ ॥७८॥ दिव्यो दिव्याम्बरभूषो दिव्यैश्वर्यसमन्वितः ।
कोटिचन्द्रार्करूपश्च सभामध्ये व्यवस्थितः ॥७९॥ त्वमादिष्टा तदा लक्ष्मि! द्युतनौ समवस्थिता ।
अदृश्या शासयित्री त्वं सर्वेषां हितकारिणी ॥3.5.८०॥ सुरा दृष्ट्वा तु मां सर्वेश्वरेश्वरेश्वरेश्वरम् ।
प्रणताश्चासनं चापि मधुपर्कं ददुस्ततः ॥८१॥ कुशलं पृष्टवाँश्चाऽहं तेभ्यस्तेऽप्यनिवेदयन् ।
आन्ध्यं स्वर्गे प्रधिष्ण्यार्थं तच्छान्तिं चार्थयन्नपि ॥८२॥ मया नारायणीश्रि! वै तदा सुदर्शनानि मे ।
समर्थमुक्तरूपाणि शासकानि समन्ततः ॥८३॥ क्रूराणि सायुधान्येव प्रहितानि दिवि प्रिये! ।
यत्र यत्र सुराः सन्ति परधिष्ण्यस्थितास्तदा ॥८४॥ ताँस्तानाहूय सर्वान् वै मम युक्ताः सुदर्शनाः ।
धृत्वा धृत्वा गुरोर्द्वारं समानिन्युर्मदन्तिके ॥८५॥ मया पृष्टाश्चान्ध्यप्रवर्तयितारश्च वै तदा ।
नोचुस्ते लज्जिताः किञ्चित् क्षमां मत्तो ययाचिरे ॥८६॥ दण्डिता वै मया सर्वे यमिताश्च निजे पदे ।
स्थापिताश्च यथायोग्ये पदे देवा दिवि स्थिताः ॥८७॥ सर्वेषामधिकारे वै व्यवस्था च मया कृता ।
तदा त्वं च मयाऽऽदिष्टा सर्वनियामिका सती ॥८८॥ परधिष्ण्याऽयोग्यपात्रनिरोधिनी तदाऽभवः ।
ऐश्वर्यं च मया लक्ष्मि! तदा तुभ्यं समर्पितम् ॥८९॥ धिष्ण्ये धिष्ण्ये त्वया तत्र स्थातव्यं सर्वदा प्रिये ।
अयोग्यश्चेत् समागच्छेत् प्रसह्य पदमुत्तमम् ॥3.5.९०॥ अन्यस्याऽन्यस्तदा लक्ष्मि! त्वया क्षेप्यो विदूरतः ।
तदारभ्य हि देवेषु चाऽन्यपदेऽपरः क्वचित् ॥९ १॥ उपविष्टं समर्थो वै जायते क्षिप्यते द्रुतम् ।
एवं सर्वपदेष्वेव त्वं तदा संस्थिता प्रिये ॥९२॥ अहं पुत्रोऽभवं विष्णोरादित्यस्य तदा प्रियः ।
त्वं ततः कन्यका जाता द्युगर्भा श्रीर्नरायणी ॥९३॥ द्यावा तदाऽर्पिता मह्यं तदा त्वं द्युनरायणी ।
अहमासं तदा कल्पेऽनाद्यादित्यनरायणः ॥९४॥ अनादिश्रीकृष्णनारायणः श्रीपतिरच्युतः ।
आकल्पान्तं तदादित्यगृहेऽवसं सुतः सदा ॥९५॥ द्युपुत्री त्वं मम पत्नी देववीथी तदाऽभवः ।
अहं स्मरामि तत्सर्वं स्मर त्वं देववीथिकाम् ॥९६॥ परब्रह्म स्वयं चाहमभवं तत्र वै सदा ।
असङ्ख्या मेऽवताराश्च तत्र वर्षेऽभवन्नपि ॥९७॥ एवं धिष्ण्यविवादं वै त्यक्त्वा देवा यथोदितम् ।
स्वस्वधिष्ण्यं गताः सर्वे विवादपदवर्जिताः ॥९८॥ तदारभ्य पुनर्नैव पदार्थं योधनं क्वचित् ।
बभूव तत्र वर्षे वै तथा कल्पान्तरेऽपि च ॥९९॥ मया नियमितं सर्वं यथेष्टं स्थापितं यथा ।
तथैव याति सुखतो विपरीतं न वै क्वचित् ॥3.5.१ ० ०॥ इत्येवं ते शिवपुत्रि! प्राकट्यं कीर्तितं मम ।
पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिफलप्रदम् ॥१ ०१॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः षष्ठवत्सरे रुद्रशासनार्थम् अनादिब्रह्मनारायणस्य, सप्तमवत्सरे देवानां धिष्ण्यनियमार्थम् अनाद्यादित्य-
नारायणस्य, प्राकट्यमिति निरूपणनामा पञ्चमोऽध्यायः ॥५ ॥