श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं चतुर्थं मम वर्तनम् ।
चन्द्ररक्षाकरं स्वर्गे गायतां मोक्षदं परम् ॥१ ॥
स्तावने वत्सरेऽजस्य कल्पे चतुर्थके तदा ।
द्वादशे च मनौ वर्तमानेऽसुरोऽतिदारुणः ॥२ ॥
धूम्रो नाम्नाऽभवद् रौद्रः शम्भोर्मस्तकपृष्ठतः ।
समुत्पन्नो व्योमदेहोऽन्तरीक्षगो भयङ्करः ॥३ ॥
शम्भोर्ललाटे भावन्तं दृष्ट्वा कान्तमयं मणिम् ।
स्पर्धां कृत्वा ययौ व्योम्नि चावाप्तुं वै निशामणिम् ॥४ ॥
चन्द्रमसं समाहर्तुं यत्नं तदाऽकरोद् बहुम् ।
चन्द्रेण वार्यमाणः स निशितैः शस्त्रहेतिभिः ॥५ ॥
निपपाताऽम्बरादद्रौ श्वेतशृङ्गाभिधे तदा ।
शम्भुमुद्दिश्य च तपः शम्भुपुत्रोऽकरोत्ततः ॥६ ॥
निराहारोऽभवत्त्वेकयुगं ततो हि शङ्करः ।
प्रसन्नः प्राह धूम्रं तं पुत्रं मस्तकपृष्ठजम् ॥७ ॥
वद किं रोचते तेऽद्य कथं तपसि वर्तसे ।
वदेष्टं प्रददाम्येव मा कृथास्तप उग्रकम् ॥८ ॥
इत्युक्तश्चाऽसुरः प्राह वरं देहि जयावहम् ।
चन्द्रं जेष्याम्ययत्नेन तथेच्छामि न चेतरत् ॥९ ॥
तथाऽस्त्विति हरः प्राह ददौ धूम्राय शूलकम् ।
अप्रधृष्यमविनाश्यं चक्राच्चापि बलेऽधिकम् ॥3.4.१ ०॥
तदादाय तु धूम्रः स मेर्वद्रिं प्रथमं ययौ ।
सार्वभौमजयं कर्तुं तृष्णातन्तुप्रप्रेरितः ॥११ ॥
मेरुवासान् सुरान् जित्वा पृथ्व्यां जेतुं नृपान् ययौ ।
जित्वा भूमौ भूभृतश्च पातालान् प्रययौ ततः ॥१२॥
दैत्यान्नागान्कच्छपाँश्च मकरान्मत्स्यकाँस्तथा ।
नक्रान् जित्वा फणध्राँश्च जित्वा ययावरण्यकम् ॥१ ३॥
विद्याधराँश्च गन्धर्वान् जित्वा च किन्नराँस्ततः ।
गुह्यकान् चारणान् जित्वा ययौ संयमनीं पुरीम् ॥१४॥
यमदूताँस्तदा जित्वा युयुधे स यमेन वै ।
यमो दण्डेन कालेनाऽसुरः शूलेन वै मिथः ॥१५॥
युयुधाते तु नैकस्य पराजयोऽत्र विद्यते ।
यमेन संस्मृतो रुद्रोऽसुरेण संस्मृतो हरः ॥१६॥
हररुद्रौ समायातौ मध्यस्थौ सम्बभूवतुः ।
वारयामासतुस्तौ च ययतुः शंसितौ गृहम् ॥१७॥
अथाऽसुरो गर्वयुक्तो ययौ चेन्द्रं दिवस्पतिम् ।
इन्द्रो ज्ञात्वा महादेवदत्तं शूलमजय्यकम् ॥१८॥
उत्थाय सौम्यभावेन सत्कारं कृतवान् शुभम् ।
असुराय ददौ रम्यं हारं मण्यभिनिर्मितम् ॥१९॥
पूजयामास च शम्भोः शूलं बहुविधानतः ।
असुरोऽपि विना रोषं मृदुर्भूत्वा विलोक्य तत् ॥3.4.२०॥
ययौ सूर्यं विजेतुं च सूर्यश्चास्तं द्रुतं ययौ ।
ययौ तदाऽसुरोऽजं च विजेतुं परमेष्ठिनम् ॥२१ ॥
ब्रह्मा ज्ञात्वा शाम्भवं तत् त्रिशूलं सम्पुपूज ह ।
मधुपर्कं ददौ चाप्यसुराय माननं ददौ ॥२२॥
धूम्रस्त्वासनमासाद्य सौवर्णं बहुशोभनम् ।
मुमुदे च मृदुर्भूत्वा नत्वाऽजं प्रययौ दिवम् ॥२३॥
चन्द्रं दृष्ट्वा पूर्णभासं ययौ तं प्रति सत्वरम् ।
सदा चन्द्रस्तत्र चासीन्नीरोगः सकलः सदा ॥२४॥
एकरूपः क्षयवृद्धिवर्जितः शाश्वतः सुखः ।
ग्रहग्रासादिहीनश्च पूर्णकलः समन्ततः ॥२५॥
तादृशं पूर्णपीयूषं गत्वा धूम्रो भयानकम् ।
शतचन्द्रायतं रूपं कृत्वा जग्राह पाणिना ॥२६॥
स्पर्शैः सुधाऽमृतानां तु किरणानां महासुरः ।
सुखं महानन्दभृतं ह्यवापाऽपूर्वमुत्तमम् ॥२७॥
अतश्चन्द्रे जातलोभो जग्रास शशिनं मुखे ।
हाहाकारो महानासीत् स्वर्गे पृथ्व्यां समन्ततः ॥२८॥
अमृतस्य निधानं वै शीततेजोभृतं मणिम् ।
तज्ज्योत्स्नामनवाप्यैवौषधयोऽतिविजीवनाः ॥२९॥
मृतप्राया अभवँश्च देवाश्चाऽमृतवर्जिताः ।
किरणाधारजीवाश्च सर्वे मरणशालिनः ॥3.4.३ ०॥
तदा जाताश्चाथ देवाः स्वगुरोः शरणं ययुः ।
सदस्पतिर्देवगुरुश्चाऽस्तौत् मां परमेश्वरम् ॥३१ ॥
चन्द्रस्य रक्षणार्थाय लोकरक्षणहेतवे ।
नमो देवाधिदेवाय सूर्यचन्द्रप्रचक्षुषे ॥३२॥
सर्वान्तर्यामिणे रक्षाकराय परमात्मने ।
पुरुषोत्तमसञ्ज्ञाय सुधाप्रदाय शार्ङ्गिणे ॥३३॥
ग्रहनक्षत्रताराणां भास्कराय महात्मने ।
नमश्चान्तरवेद्याय चाऽभक्तक्षयकारिणे ॥३४॥
समायाहि हरे शीघ्रं रक्षां त्वं शशिनः कुरु ।
महादेवो ध्यानमग्नश्चिरकारी विराजते ॥३५॥
शीघ्रं धूम्राद् रक्ष मुक्तपते श्रीपरमेश्वर ।
स्तुतश्चैवं तदा चाहं नारायणीश्रि! सत्वरम् ॥३६॥
त्वया साकं त्वाजगाम देवगुरोर्गृहं दिवि ।
द्रागेवाऽदृश्यरूपोऽपि तदङ्गे मानसः सुतः ॥३७॥
समभवं सुबालोऽहं सर्वभूषणभूषितः ।
शङ्खचक्रगदापद्मशूलशक्तिशराऽऽयुधः ॥३८॥
वज्रधनुर्दण्डपाशखङ्गचर्मविराजितः ।
त्वं तदा तु मयाऽऽज्ञप्ता प्रविष्टा चाऽसुरोदरे ॥३९॥
चन्द्रमसि स्थिरा जाता चान्द्री कलाप्ररक्षिणी ।
त्वद्बलाद्वै तदा लक्ष्मि! चन्द्रो मूर्च्छां न चाप्तवान् ॥3.4.४०॥
नापि तेजोविहीनश्च नापि चामृतवर्जितः ।
नापि सम्पाचितो गर्भे धूम्रासुरेण वह्निना ॥४१ ॥
एवमेवाऽभवद्गर्भे यथापूर्वं तथाऽभवत् ।
अथाऽह पूजितो देवैर्देवगुर्वङ्कशोभितः ॥४२॥
प्रार्थितोऽसुरनाशार्थं जगामाऽहं महासुरम् ।
देवसैन्येन सहितो युयुधे चन्द्रघातिना ॥४३॥
तदा लक्ष्मि! मयाऽऽज्ञप्ता कन्यारूपाऽभवः क्षणम् ।
असुरो धूम्रसञ्ज्ञोऽपि त्वां विलोक्य मुमोह च ॥४४॥
शूलं विसृज्य च क्षणं त्वां धर्तुं यत्नमाचरत् ।
त्वया शूलं तदा ग्रस्तं ममाज्ञया हि शाङ्करम् ॥४५॥
मया चक्रेण वै शीघ्रं हतोऽसुरः सहस्रधा ।
धूम्रो विनाशमापन्नो भस्मसादभवत्तदा ॥४६॥
चन्द्रः पूर्णकलस्तत्र निर्जगामोदराद् बहिः ।
त्वं च शूलधरी चान्द्री कन्या नाम्ना तु कौमुदी ॥४७॥
वर्धिता सर्वदेवाद्यैः पूजिता परमेश्वरी ।
अहं सर्वैः पूजितश्च वर्धितो वन्दितस्तथा ॥४८॥
देवगुरोः सुतश्चाऽहं भगवान् पुरुषोत्तमः ।
चन्द्रमसा हरिर्ज्ञात्वा वन्दितः पूजितस्तथा ॥४९॥
कन्या त्वं कौमुदीनाम्नी दत्ता मह्यं तदा प्रिये ।
मया विवाहिता त्वं च देवगुरोर्गृहोषिणा ॥3.4.५०॥
अनादिश्रीदेवनारायणनाम्ना नरायणि! ।
ततः सस्मार शम्भुं च देवगुरोर्गृहेऽप्यहम् ॥५१ ॥
शम्भुस्तूर्णं समायातो ज्ञात्वा मां परमेश्वरम् ।
धूम्रासुरं विनष्टं च ज्ञात्वा मुमोद वै हरः ॥५२॥
त्रिशूलं प्रददौ शम्भुश्चन्द्रमसे हि शाश्वतम् ।
पिता तुभ्यं ददौ शूलं यौतकं शाश्वतं शिवम् ॥५३॥
त्वया मह्यं प्रदत्तं च मया हस्ते सुरेखकम् ।
कृतं धृतं सर्वदैव पश्य दक्षे करे मम ॥५४॥
त्रिशूलं रेखितं चास्ते प्राकट्यं याति चेच्छया ।
स्मर लक्ष्मि! तव प्राकट्यं च मेऽपि तदाऽभवम् ॥५५॥
अवतारी स्वयं चाऽऽसं तदा देवनरायणः ।
अवतारास्तदा मेऽप्यासँश्च कोटिसहस्रशः ॥५६॥
आकल्पान्तं चाऽभवं वै त्वया साकं गुरोर्गृहे ।
अथाऽजस्य पञ्चमे वत्सरे योऽहं तदाऽभवम् ॥५७॥
आद्ये कल्पे चाद्यमनौ त्वं चाऽभवः कथां शृणु ।
व्योमबाणाभिधे वर्षे प्राक्कल्पे प्रथमे मनौ ॥५८॥
विद्यमाने ब्रह्मपुत्रा महर्षयोऽजसंसदि ।
संहताश्च प्रचक्रुर्वै विचारं वेदवादिनः ॥५९॥
ब्रह्माण्डे भूतलं कर्मभूमिः फलप्रदाऽस्ति यत् ।
तत्र कृतं देहिभिर्वै दत्तं दानं वृषादिकम् ॥3.4.६०॥
अन्यलोकगतैः सर्वैः प्राप्यते भोजनादिकम् ।
भूतले यत्प्रदत्तं च जलान्नाम्बरभूषणम् ॥६१॥
क्षेत्रवाटीरूप्यकन्यासुवर्णगृहसाधनम् ।
हव्यं कव्यं बलिः पुण्यं व्रतं श्राद्धं सहायकम् ॥६२॥
सर्वं लोकान्तरे दात्रा कर्त्राऽऽप्यतेऽयुतोत्तरम् ।
यथा जीवन्ति सन्न्यासा वानप्रस्थाश्च नैष्ठिकाः ॥६३॥
गार्हस्थ्यमुपसंलम्ब्य तथाऽऽलम्ब्य क्षितौ कृतम् ।
जीवन्ति स्वर्गदेवाश्च पितरश्च महर्षयः ॥६४॥
सुकृतं तद् यज्ञकार्यं जीवनं सर्वदेहिनाम् ।
विप्राणां भोजनं यत्र देवानां हव्यमित्यपि ॥६५॥
श्राद्धं च पितृदेवानामृषीणां पुण्यमित्यपि ।
सोम सुधाऽमृतं भोज्यं यज्ञे सर्वं हि लभ्यते ॥६६॥
तस्माद् यज्ञः प्रकर्तव्यः शिक्षणीयः क्रियात्मकः ।
मानवेभ्यो भूदेवेभ्यः क्रियासन्तानहेतवे ॥६७॥
क्रतुतन्तौ समारब्धे सन्धिते योजिते कृते ।
यज्ञानां सम्प्रचारेण जीवनं स्यान्निरामयम् ॥६८॥
तस्माद् गच्छाम एवाऽद्य महर्षयो हि भूतलम् ।
देवान् पितॄन् सह नीत्वाऽऽचरिष्यामः क्रतूत्तमम् ॥६९॥
इतिसम्मन्त्र्य मुनयः पितरश्च सुरेश्वराः ।
आययुर्भूतलं लक्ष्मि! यज्ञार्थं मेरुसन्निधौ ॥3.4.७०॥
पालाशाऽऽरण्यके सर्वे स्वर्गङ्गायास्तटे स्थिताः ।
प्रयतन्ते स्म यज्ञार्थं भिन्नकर्मनियोजिताः ॥७१ ॥
प्रथमोऽयं यतो यज्ञः क्रमं जानन्ति नैव ते ।
न कश्चित् सर्वयज्ञानामभ्यासी कर्मगोचरः ॥७२॥
यथाक्रमविनिर्योक्ता देवे पितरि भूसुरे ।
महर्षौ वा तदा तत्राऽभवत् कर्मक्रमाभिवित् ॥७३॥
ततस्ते मोहमापन्नाः कर्मकाण्डाऽप्रवेदिनः ।
इदं पूर्वमिदं पूर्वमेवमाग्रहिणोऽभवन् ॥७४॥
अनिश्चित्ते क्रतुक्रमे तदङ्गानां क्रमेऽपि च ।
वेधःपुत्रो ब्रह्मकुमाराख्यौ नैष्ठिकशीलवान् ॥७५॥
यजमानं चाह तत्र ज्योतिष्मन्नामकं मनुम् ।
वयं सर्वे कर्मकाण्डे ह्यपूर्वगोचराः खलु ॥७६॥
विगुणे तु फलं यज्ञे विपरीतं भवेदिति ।
यज्ञद्रष्टा यज्ञवक्ता नान्यो नारायणं विना ॥७७॥
परब्रह्माऽक्षरातीतं श्रीहरिं पुरुषोत्तमम् ।
तमेवाऽऽराधयामोऽत्र संहत्य क्रमहेतवे ॥७८॥
स चाऽऽगत्य क्रतुं सर्वं शिक्षयिष्यति यज्ञकृत् ।
यज्ञदेवः स यज्ञात्मा यज्ञज्ञो यज्ञकारकः ॥७९॥
इत्युक्तो वै मनुश्चान्ये स्वीचक्रुस्तद्वचस्ततः ।
परमेशं मिलित्वैवाऽऽराधयामासुरुत्सुकाः ॥3.4.८०॥
महर्षयश्च पितरो देवता भूसुरादयः ।
ओं नमो यज्ञरूपाय परमेशाय कर्मिणे ॥८ १॥
यज्ञदेवाय यज्ञाय यज्ञज्ञाय क्रतुकृते ।
यज्ञशास्त्रेऽध्वरकार्यकारिणे परमात्मने ॥८२॥
नमोऽन्तर्यामिणे नश्च साहाय्यदाय शार्ङ्गिणे ।
इत्यस्तुवन् सुराद्या मां यज्ञार्थं पुरुषोत्तमम् ॥८३॥
तदाऽहं तु त्वया साकं श्रुत्वाऽक्षरेऽपि चार्थनाम् ।
अगच्छं गाङ्गतीरं वै मेरोः पालाशकृद्वनम् ॥८४॥
ब्रह्मकुमारनिकटे बालोऽहमृषिवेषधृक् ।
सर्वविद्यामयः सर्वमन्त्रद्रष्टा नियोगवान् ॥८५॥
यावद्विधिप्रवीणोऽहं यावत्पात्रधरो द्विजः ।
सर्वक्रमाभिवेत्ता च सर्वद्रव्यादिबोधवान् ॥८६॥
द्वितीयो वै यथा ब्रह्मा तथा प्रकटितोऽभवम् ।
सर्वे दृष्ट्वा तु मां विप्रं कोटिभास्करभासुरम् ॥८७॥
सहसोत्थाय नेमुर्मां कस्त्वं पप्रच्छुरुत्सुकाः ।
अध्वरोऽहं हि भगवान् भवदाराधनाफलम् ॥८८॥
इत्युक्त्वाऽहं बालरूपो ब्रह्मकुमारकाऽङ्कगः ।
अभवं पुत्रभावेनाऽभावयत् सोऽपि मां तथा ॥८९॥
त्वं तदा चाविशो ज्योतिष्मन्मनौ भूयसी सती ।
अथाऽहं च समाश्वास्य सर्वान् यज्ञार्थकर्मसु ॥3.4.९०॥
नियुज्य क्रमवारं तान् प्रावर्तयं क्रतुं तदा ।
अनादिश्रीकृष्णनारायणोऽहं परमेश्वरः ॥९१॥
अनादिश्रीयज्ञनारायणो भूत्वा व्यधापयम् ।
अवभृथान्तं यज्ञं तं वैष्णवं सार्वभौमिकम् ॥९२॥
अध्वरोऽहं मनोस्तस्माद् ययाचे दक्षिणां तदा ।
भूयसीं यज्ञभूमौ वै मण्डपे वेदिकान्तिके ॥९३॥
तदा त्वं कन्यका नाम्ना भूयसी दक्षिणाऽभिधा ।
प्रादुरभवः कल्याणि! कन्यका वै मदर्थिनी ॥९४॥
मनोर्ज्योतिष्मतः पुत्री नारायणी हि भूयसी ।
अध्वरेऽम्बरभूषाढ्या कोटिस्वर्णधनान्विता ॥९५॥
मद्योग्या याचमानाय मह्यं वै मनुनाऽर्पिता ।
तत आरभ्य तद्वर्षे सहस्रकल्पकात्मके ॥९६॥
मयाऽऽदिष्टप्रकारेणाऽध्वराः सर्वे प्रवर्तिताः ।
कल्पायुश्चाऽभवँस्तत्र त्वया साकं महाध्वरः ॥९७॥
यज्ञनारायणः सोऽहं चानादिः पुरुषोत्तमः ।
अवतारी स्वयं स्वामी परब्रह्म परेश्वरः ॥९८॥
भूयसी दक्षिणानाम्नी त्वं मे पत्नी तदाऽभवः ।
स्मर नारायणीश्रि! त्वं तत्कल्पं तं च वत्सरम् ॥९९॥
ततोऽन्ये मेऽवताराश्च तत्राऽभवन् हि कोटिशः ।
वेद्मि सर्वानहं लक्ष्मि! नान्ये स्मरन्ति तानपि ॥3.4.१ ००॥
सर्वयज्ञस्वरूपोऽस्मि सर्वे यज्ञा मयि स्थिताः ।
सर्वयज्ञा मूर्तयो मे सर्वयज्ञप्रवर्तकः ॥१०१ ॥
भोक्ता सर्वेषु यज्ञेषु सर्वाऽध्वरफलप्रदः ।
सर्वक्रियाकलापज्ञश्चाऽहं भवामि चाध्वरे ॥१० २॥
त्वां विना नैव तिष्ठामि दैवे पैत्र्ये तथाऽऽर्षके ।
मानवे वा विधौ लक्ष्मि! दानेऽर्हणे च पूजने ॥१० ३॥
जपे व्रते क्रमे ज्ञाने साकं त्वया वृषेऽपि च ।
उपतिष्ठामि देवेशि! शिवेश्वरि! न चान्यथा ॥१०४॥
इत्येवं चाध्वरं जन्म कथितं वै त्वया सह ।
पठनाच्छ्रवणाच्चापि महाध्वरफलं भवेत् ॥१ ०५॥
तवापि स्मरणाल्लक्ष्मि! भूयसीदक्षिणाफलम् ।
सम्पत्सिद्धिर्भवेदत्र परत्र मोक्षणं भवेत् ॥१० ६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चतुर्थवत्सरे धूम्रासुरनाशार्थं चन्द्ररक्षार्थम् अनादिदेवनारायणस्य, पञ्चमवत्सरेऽध्वरतन्तुसम्पादनार्थम्
अनादियज्ञनारायणस्य च प्राकट्यमितिनिरूपणनामा चतुर्थोऽध्यायः ॥४ ॥