२९८

श्रीकृष्ण उवाच-
राधिके युगपद् रात्रौ स्वाङ्गनानां सुखप्रदः ।
जजागार हरिर्वाद्यैर्मङ्गलैः स्तवनैः प्रगे ॥ऽ १ ॥ जजागरुर्विधेयार्था ब्राह्मे मुहूर्तके तदा ।
हरिः प्राह च सर्वाभ्यो ध्याने तिष्ठत मे क्षणम् ॥२ ॥ मम योगेन दिव्याः स्थो भवत्यश्चाऽद्य योषितः ।
मुक्ता मायाविहीनाश्चाऽऽवरणादिविवर्जिताः ॥३ ॥ इत्युक्ता राधिके! सर्वाः कृष्णमाधवयोषितः ।
पतिव्रताः स्वकान्ताज्ञां लब्ध्वा ध्याने स्थिताः क्षणम् ॥४ ॥ तावद्भगवति सर्वा नाडीप्राणवशास्तदा ।
संहृत्य नाडिकाप्राणान् समाधौ हृदये ययुः ॥५ ॥ विस्मृता देहभानं ता हृदये कान्तसन्निधौ ।
ददृशुः कान्तमूर्तिस्थं ब्रह्मतेजोतिभासुरम् ॥६ ॥ तेजसां राशयस्तत्र महार्णवा इवाऽभवन् ।
तत्र व्यलोकयन् स्वर्गं सर्वदेवालयाँस्ततः ॥७ ॥ ततोऽग्रे स्वविमानेन स्वामिना सह तत्परम् ।
ययुः पितृप्रदेशाँश्चाऽऽलोकयन् पुण्यभासुरान् ॥८ ॥ ययुस्ततोऽपि चाग्रे वै कृष्णकान्तेन संयुताः ।
सत्यलोकं ययुः सर्वास्तन्निवासैश्च सत्कृताः ॥९ ॥ दिव्यभावं समापन्नाः पृथिव्यावरणं दृढम् ।
विभिद्य प्रययुः सर्वाः सलिलावरणं ततः ॥2.298.१० ॥ अग्रे ता दृष्टवत्यश्च वैकुण्ठं तेजसोऽन्तिकम् ।
आवरणस्य सन्धौ वै तत्र श्रीरामसेविकाः ॥११ ॥ सीतारमाद्यास्तासां वै स्वागतं संव्यधुर्मुदा ।
रामादित्यश्चकाराऽपि स्वागतं परमात्मनः ॥१२॥ ततश्चाऽग्रे ययुस्तत्र मरुत्पटं विहाय च ।
व्योमपटं तथाऽहम्भित्तिकां विहाय चोर्ध्वके ॥१३ ॥ महत्तत्त्वात्मकं चावरणं विहाय चोपरि ।
ययुः कान्तेन सहिताः शुभं वैराजमन्दिरम् ॥१४॥ तत्र तेनाऽर्चितः कृष्णनारायणः परेश्वरः ।
पूजिताश्च हरेः सर्वा वैराज्या राजयोषिता ॥१५॥ ततश्चाग्रे ययुः सर्वा हिरण्यगर्भमण्डलम् ।
महाविष्णोर्महाराज्यं यत्र गोपालकृष्णकः ॥१ ६॥ निजेश्वरः श्रीदेव्या च महालक्ष्म्याख्ययोषिता ।
तथा श्रीकम्भरादेव्या सह तत्र विराजते ॥१ ७॥ ताभिश्च पूजितो देवः कान्तपिता ततश्च वै ।
कान्तमाता पूजिता च ताभ्यां श्रियश्च सत्कृताः ॥१८॥ भोजिता आश्लिष्य चाशीर्वादैः सम्यक् प्रयोजिताः ।
पतिश्च पूजितश्चाज्ञामादाय चोर्ध्वके स्तरे ॥१ ९॥ पतियुक्ता विमानस्था ययुर्भूम्नो महास्थलम् ।
भूम्न्या देव्या सत्कृतास्ता भूम्ना च सत्कृतो हरिः ॥2.298.२०॥ तद्विभूतीर्विलोक्याऽग्रे वासुदेवाऽऽलयं ययुः ।
वासुदेवी चकाराऽऽसां सत्कारं बहुभाविता ॥२१ ॥ सुसत्कारं हरेश्चक्रे वासुदेवनरायणः ।
अमृतानां प्रपानं च पीयूषभोजनादिकम् ॥२२॥ वासुदेव्यः कारयामासुः प्रपूजां व्यधुस्तथा ।
अथाऽवतारधामानि प्रदर्श्य भगवाँस्ततः ॥२३॥ अक्षरं धाम परमं निजं जगाम वै हरिः ।
ब्रह्मह्रदे स्नपयित्वा निष्कास्याऽक्षरतेजसि ॥२४॥ निजमूर्तौ ततो लीनीकृत्य सर्वाश्च वै तदा ।
मुक्ता दिव्याश्च सारूप्यान्विता विधाय वै तदा ॥२५॥ स्वेन रूपेण निष्पन्नाः सर्वावरणवर्जिताः ।
पुरुषोत्तमभावाश्च परब्रह्मात्मिकाश्च ताः ॥२६॥ रूपधर्मस्वभावैश्च गुणैः सर्वात्मना हरिः ।
स्ववद् व्यधात् तदा चात्र राधे किं वै वदामि ते ॥२७॥ कुङ्कुमवापिकाक्षेत्रे शरीराणि स्वयोषिताम् ।
धामयोग्यानि जातानि मायिकत्वं लयं गतम् ॥२८॥ चैतन्यैकरसानन्दात्मकानि सन्ति सर्वदा ।
सार्वज्ञ्यात्मज्ञानपिण्डविकासाढ्यानि तानि हि ॥२९॥ सम्पन्नान्यभिनिष्पन्नान्येव धामगतानि वत् ।
प्रजातानि ततो ब्रह्मह्रदे स्नानात्ततोऽपि च ॥2.298.३ ०॥ ब्राह्मीतनुस्वरूपाणि मुक्तात्मकानि सन्ति च ।
अक्षरब्रह्मरूपाणि तेजोमयानि तानि वै ॥३ १ ॥ प्रजातान्यथ मूर्तिस्थितिलाभतोऽधिकानि वै ।
भगवद्रूपं प्राप्तानि भागवतानि सन्ति वै ॥३२॥ प्रजातानीति चैतन्यब्राह्मभागवतानि हि ।
ज्ञानतेजःसुसारूप्याभिधानानि भवन्ति हि ॥३३॥ तत्राऽसङ्ख्याभिरेताभिर्मुक्तानीभिः प्रसेवितः ।
मुक्तैश्च सेवितः श्रीमान् कृष्णनारायणः प्रभुः ॥३४॥ दर्शयामास ताभ्यो वै साम्राज्यं त्वक्षरात्मकम् ।
सार्वभौमं महाराज्यं सृष्टित्रयोर्ध्वसंस्थितम् ॥३५॥ निजैश्वर्याणि सर्वाणि विभूतीः सकला अपि ।
नित्यानन्दानि भोग्यानि दर्शयामास माधवः ॥३६॥ स्मृद्धीदिव्यां मण्डलानि मुक्तानीनां समन्ततः ।
मुक्तानां मण्डलकोटीर्दर्शयामास कान्तकः ॥३७॥ उद्यानानि विचित्राणि मन्दिराणि शुभानि च ।
सर्वासां निजवासाँश्च दर्शयामास कृष्णकः ॥३८॥ सम्पदः सर्वदिव्याश्च सर्वसौभाग्यकानि च ।
सर्वेष्टकल्पमणिकान् दर्शयामास कौस्तुभान् ॥३९॥ निजमूर्तेः किरणानि पुष्टिदानि समन्ततः ।
तृप्तिदानि सुखावाप्तिप्रदान्यानन्ददानि च ॥2.298.४०॥ रतिप्रीतिहर्षदानि कामकल्पप्रदानि च ।
नित्यानन्दभृतान्येव दर्शयामास वै पतिः ॥४१॥ सर्वविधास्तथा शालाः सेवायोग्या नवा नवाः ।
यथेष्टाऽव्याहताश्चापि विहाराणां स्थलीः शुभाः ॥४२॥ अनादिश्रीकृष्णनारायणव्याप्ता ह्यदर्शयत् ।
वेषभूषाम्बरशृङ्गारादीन् दिव्यानदर्शयत् ॥४३॥ रहस्यभाववासाँश्च शय्या रम्या अदर्शयत् ।
तत्रत्यं सर्वमेवाऽऽभ्यो दर्शयित्वा ततःपरम् ॥४४॥ परब्रह्मानन्दमयं भोजनं पानमुत्तमम् ।
ताम्बूलकं ददौ ताभ्यो विहारं प्रददौ सुखम् ॥४५॥ ऐकान्तिकं सुखं चापि रहस्यजं ददौ प्रभुः ।
ततो धाम्नो महामुक्तकृतां पूजां शुभोचिताम् ॥४६॥ जग्राह भगवाँस्तासां सन्निधौ मुक्तयोषिताम् ।
मुक्तानीभिश्च मुक्तैश्च कृतां पूजां च ता अपि ॥४७॥ जगृहुर्दिव्यरूपाश्च स्वागतं माननं बहु ।
एवं निजं गृहं सर्वं प्रदर्श्य भगवान् हरिः ॥४८॥ अक्षरात् प्रययौ श्रीमद्गोलोकं धाम वै ततः ।
श्रीकृष्णेन कृतं तत्र स्वागतं परमात्मनः ॥४९॥ राधादिभिः कृतं तत्र सम्मानं हरियोषिताम् ।
कामधेनुपयःपानं ददू राधादयस्तदा ॥2.298.५०॥ पायसान्नानि भोज्यानि शृङ्गाराणि ददुस्तथा ।
ततः शीघ्रं च वैकुण्ठं ययौ ताभिः सह प्रभुः ॥५१ ॥ तत्र कृतं स्वागतं च लक्ष्म्या कमलया तथा ।
भार्गव्या च श्रिया विकुण्ठया चान्याभिरित्यपि ॥५२॥ नारायणेन च कृतं सन्मानं श्रीहरेस्तदा ।
पूजनं स्तवनं चापि प्राप्य प्रदर्श्य भूतिकाः ॥५३॥ सादाशैवं ह्रि कैलासं दिव्यं ययौ स्वयं प्रभुः ।
तत्रत्याश्च समग्राश्च विभूतीर्भगवान् प्रियाः ॥५४॥ दर्शयामास शैवीश्च दुर्गाद्याश्चाप्यपूजयन् ।
गणाः सर्वेऽपि वै तत्र चक्रुर्हरेः प्रपूजनम् ॥५५॥ ततो ययौ स ताभिर्वै सहितः श्रीहरिः खलु ।
कौतुकार्थं महामायाधाम मायामयं शुभम् ॥५६॥ व्यलोकयन् हरेः कान्तातुल्याः कान्ताश्च कोटिशः ।
सर्वा ब्रह्मप्रियास्तत्र सम्मानं बहु लेभिरे ॥५७॥ मायाभिश्च विचित्राभिः कन्याभिश्चाभिपूजिताः ।
सेविता बहुधा तत्र मायिकैर्वस्तुसत्तमैः ॥५८॥ भोज्यपानसुभोगैश्चाम्बरभूषाप्रसाधनैः ।
सर्वोत्तेजकचूर्णैश्च शृङ्गाररसवर्धकैः ॥९९ ॥ सर्ववेषोपकरणैः सर्वसौभाग्यवस्तुभिः ।
सर्वानन्दप्रदैर्भावैः सेविताः पूजिताः स्त्रियः ॥2.298.६० ॥ महामाया स्वयं तत्र पादसंवाहनं हरेः ।
चकारेति महाश्चर्यं प्रापुः सर्वा हरिस्त्रियः ॥६१ ॥ राजराजेश्वरी सर्वेश्वरी राज्ञीश्वरी हि सा ।
स्वपतिं सेवमाना वै सर्वाभिरवलोकिता ॥६२ ॥ प्रदर्श्य च हरिर्मायाधाम पश्चाद् द्रुतं ततः ।
विष्णोर्धाम ययौ तत्र वैष्णव्यो माननं व्यधुः ॥६३ ॥ सर्वासां स्वागतं नीराजनं प्रपूजनं तथा ।
भोजनं पानमिष्टं च ददुर्वस्त्राम्बराणि च ॥६४॥ ततः श्रीबालकृष्णोऽसौ ययौ प्रियाभिरञ्जनः ।
शतमस्तकविष्णोश्च सहस्राननशार्ङ्गिणः ॥६५ ॥ लक्षाननस्य विष्णोश्च कोट्याननस्य शार्ङ्गिणः ।
अब्जनेत्रस्य शम्भोश्च पद्माननस्य वेधसः ॥६६॥ परार्धाननसंशोभद्वेधसोऽण्डानि वै हरिः ।
दर्शयामास सर्वाणि सृष्ट्यानन्त्यमयानि हि ॥६७ ॥ तैस्तैः सम्पूजितः कृष्णनारायणः प्रियोनिजः ।
दर्शयामास तेषां च विभूतीः स्वसमर्पिताः ॥६८ ॥ अनादिश्रीकृष्णनारायणार्पिता विभूतिकाः ।
भुञ्जते सर्व एवैते ब्रह्मप्रियाभिरेव तत् ॥६९ ॥ विलोकितं हि साक्षाद्वै समाधौ राधिके तदा ।
ततस्ता वै समादाय सूर्यचन्द्रादिकान् ग्रहान् ॥2.298.७ ० ॥ दर्शयामास लोकस्थान् निरयात्मकसंस्थितान् ।
तान् विलोक्य तदा तासां मनो लग्नं न तत्र वै ॥७ १ ॥ शीघ्रं ता आनयामास क्षेत्रं कुङ्कुमवापिकाम् ।
नैजे दिव्याक्षराख्ये वै मण्डपे भवने शुभे ॥७ २ ॥ आक्षरेण समे तत्र मनः स्थैर्यमवाप ह ।
समाधितश्च ताः सर्वा जजागरुस्तदा निजान् ॥७ ३ ॥ देहान् धामगतान् दिव्यान् प्राप्तानमानवान् परान् ।
ददृशुश्चावरणभाववर्जितानप्यभौतिकान् ॥७४॥ अमायिकान् सदा त्वेकरूपान् क्षुत्तृड्विवर्जितान् ।
मायागुणैर्विहीनाँश्च धामैश्वर्यसमन्वितान् ॥७५॥ सर्वधामस्वभावाँश्चाऽक्षरतुल्यसुखात्मकान् ।
ब्रह्मानन्दभराँश्चापि दिव्यवेषाभिशोभितान् ॥७६ ॥ पत्यन्यूनसमैश्वर्यान् दिव्यताशेवधिस्थितीन् ।
महानन्दभरा जाताः समर्था बालकृष्णवत् ॥७७ ॥ एवमासाद्य दिव्यत्वं पतिं प्राप्य च तास्तदा ।
सार्वज्ञ्यं लेभिरे पत्न्यो वधूटयोऽप्यवधूटिकाः ॥७८ ॥ एवं ददौ हरिस्ताभ्यो निजसाम्यं हि शाश्वतम् ।
राधिके त्वं मया यद्वत् कृता स्वसाम्यशोभिता ॥७९॥ कृष्णनारायणेनैवं कृता वै निजयोषितः ।
पृथिव्यावरणं भित्त्यावरणं च गृहावृतिम् ॥2.298.८ ० ॥ यासां न विद्यते व्याघातश्च द्वारपिधानके ।
जलमध्ये समुद्रादौ नदीप्रवाहणे हिमे ॥८ १ ॥ वृष्ट्याद्याभिः पराभूतिर्यासां देहे न विद्यते ।
वह्निदाहो न चासां वै दाहः सूर्यातपैर्न च ॥८२॥ वाडवानल एवैता विद्युद्वा न दहत्यपि ।
सूर्ये चन्द्रे ग्रहान्ये च स्वतन्त्रा गन्तुमेव ताः ॥८ २ ॥ श्वासाधीना न चैताश्च न वायुः शोषयत्यपि ।
प्राणायामोर्ध्वभावास्ता विद्यन्ते ब्रह्मयोषितः ॥८४॥ तन्द्रालस्यगुरुत्वानि विद्यन्ते नैव सर्वथा ।
विषेण वा नैव चासां पराभवो भवत्यपि ॥८५॥ शस्त्रघातो नापि देहे भेदको जायते क्वचित् ।
रोगाः स्थातुं न च शक्नुवन्ति तासु च मायिकाः ॥८६ ॥ दूरश्रवणसिद्धिश्च दूरप्रत्यक्षसिद्धिका ।
दूरग्रहणसिद्धिश्च दूरालापादिसिद्धयः ॥८७॥ मनोजवित्वमेवाऽऽसां सूक्ष्मभावित्वमित्यपि ।
महद्भावित्वमेवाऽपि सर्वकामावसायिता ॥८८ ॥ सर्वस्य वशता चापि कोटिरूपादिधारिता ।
ब्रह्माण्डान्तरगमनं शीतोष्णानभिभूतता ॥८ ९ ॥ सङ्कल्पसृष्टिकर्तृत्वं सिद्ध्यैश्वर्याणि यानि च ।
तान्यासां सम्प्रवर्तन्ते बालकृष्णकृपावशात् ॥2.298.९० ॥ कल्पलताः कल्पगावः कल्पपात्राणि यानि च ।
कल्पमणयश्चाप्यासां वर्तन्ते कल्पनावशाः ॥९१ ॥ इत्येवंविधमैश्वर्यं चातुलं च क्षणे क्षणे ।
तासामवर्तत राधे! ददृशुर्व्युत्थितास्तदा ॥९२॥ शरीराणि धाममुक्तमयानीत्यवलोकयन् ।
प्रसन्नाश्चाभवन् सर्वा मायागर्वविवर्जिताः ॥९३ ॥ ततः सर्वाः समुत्थाय बालकृष्णं निजेश्वरम् ।
दिव्यरीत्याऽप्यसेवन्त स्नानपूजनभोजनैः ॥९४॥ श्रीमद्गोपालकृष्णश्च बालकृष्णादयस्तथा ।
कृतस्नानाह्निकेभ्यश्च महीमानेभ्य आर्पयन् ॥९५ ॥ पूजनानि भोजनानि सत्काराणि धनानि च ।
तृप्तास्ताम्बूलकान्याप्य सर्वे गन्तुं निजान् निजान् ॥९६ ॥ देशान् लोकान् महीमाना अर्थयामासुरच्युतम् ।
श्रीमद्गोपालकृष्णं च तथा श्रीकम्भरासतीम् ॥९७॥ हरेः पिता क्षमां तेभ्यो ययाचे न्यूनसेवने ।
भवतामागमेनाऽयं प्रोत्सवः शोभनोऽभवत् ॥९८॥ पुनर्भगवतां योगो दर्शनं वा कदा भवेत् ।
अवश्यमत्राऽऽगन्तव्यं ज्ञात्वा नैजं वशानुगम् ॥९९॥ इत्युक्त्वा प्रणनामाऽपि विदायं प्रददौ बहु ।
पूजां चकार बहुधा द्रव्याणि प्रददौ तथा ॥2.298.१० ०॥ स्वर्णरूप्यकहीरकान् पूजायां प्रददौ पिता ।
कर्मचारिभ्य एवाऽसौ पारितोषिककान् ददौ ॥१०१ ॥ दीनाऽनाथाऽतिथिवर्गेभ्यश्च ददौ यथेष्टकम् ।
दासभृत्यकलाविद्भ्यः प्रददौ तुष्टिकृद्धनम् ॥१ ०२॥ राजभ्यश्चापि सर्वेभ्यो ददौ सुमुकटानि वै ।ऽ
देवेभ्यश्चेश्वरेभ्यश्च किरीटान् प्रददौ प्रभुः ॥१०३ ॥ देवीभ्यश्चापि नारीभ्यो वेषाभूषादि सन्ददौ ।
सर्वेभ्यः प्रददौ स्वेष्टं सर्वेष्टं पारितोषिकम् ॥१ ०४॥ अवतारास्तथा व्यूहा भूमाद्याश्च विराजकाः ।
विष्णवोऽजाः पितरश्च सुराः सिद्धा महर्षयः ॥१ ०५॥ मानवास्तलवासाश्च तीर्थाद्रिसरितादिकाः ।
सर्वे तुष्टा अवदँश्च सन्तुष्टाः स्म सदा तव ॥१ ०६॥ गोपालकृष्ण! यास्यामः स्वस्त्यस्तु ते सुतस्य वै ।
कन्यकानां तथा स्वस्ति कुशलं वोऽस्तु सर्वदा ॥१ ०७॥ इत्युक्त्वा सज्जभावास्ते सज्जोपकरणादिकाः ।
विमानानि सज्जयित्वाऽभवन् प्रस्थानतत्क्षणाः ॥१ ०८॥ परस्परं महीमानाः सम्बन्धिनः सुहृज्जनाः ।
मिमिलुर्वक्षसा वक्षो दत्वा नार्योऽपि तत्तथा ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सप्तम्यां प्रातः सर्वासां समाधौ सृष्टित्रयाऽक्षरधामादिप्रदर्शनं, तासां शाश्वतदिव्यमुक्तस्वभावीकरणम्,
महीमानभोजनपूजनदानक्षमाविदायादि, क्षेत्रदेवपारितोषिकादि चेतिनिरूपणनामाऽष्टनवत्यधिकद्विशततमोऽध्यायः ॥२९८ ॥