श्रीकृष्ण उवाच-
राधिके षष्टिकाप्रातर्जजागरुः सुमङ्गलैः ।
वादित्रनिनदैः सर्वाः सकृष्णा महीमानकाः ॥१ ॥
कृष्णगृहे कृतस्नानसन्ध्यावन्दनपूजनाः ।
सोपवीत्यः सर्वकान्ताः स्वाध्यायं चक्रुरुत्सुकाः ॥२ ॥
पौरुषं सूक्तकं नारायणसूक्तं तथाऽपरम् ।
विष्णुसूक्तं च श्रीसूक्तं लक्ष्मीसूक्तं तथा च वै ॥३ ॥
देवीसूक्तं बृहत्साम वाचयामासुरेव च ।
वह्नौ च हवनं चक्रुः पञ्चयज्ञांश्च संव्यधुः ॥४ ॥
वृद्धपूजां तथा चक्रुः पतिपूजां तथा व्यधुः ।
शतरुद्रीयकं लक्ष्मीर्नित्यवच्च पपाठ ह ॥५ ॥
मालाजपं तथा चक्रुः ‘ओं श्रीकृष्णनरायण’ ।
‘श्रीकृष्णश्रीपतिस्वामिन् स्वामिन् गोपालनन्दन’ ॥६ ॥
इत्येवं राधिके नित्यं कुर्वन्ति स्म विधानतः ।
अनादिश्रीकृष्णनारायणस्वामिप्रपूजनम् ॥७ ॥
कुर्वन्त्यमूल्योपचारै पतिपादजलं पपुः ।
आत्मनिवेदनमन्त्रं ददौ ताभ्यः पतिः स्वयम् ।
‘ओं शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा’ ॥८ ॥
इत्येवं शरणं मन्त्रं ददौ हरिः पृथक् ततः ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥९ ॥
एनं समर्पणमन्त्रं ददौ ताभ्यः स्वयं प्रभुः ।
‘कालमायापापकर्मशनुयाम्यकुहृद्भयात् ॥2.297.१ ०॥
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव’ ।
एनं रक्षणमन्त्रं च ददौ ताभ्यः स्वयं प्रभुः ॥११ ॥
‘ब्राह्म्यहं श्रीकृष्णनारायणभक्ताऽस्मि शाश्वती ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे’ ॥१२॥
एनं वै ब्राह्ममन्त्रं च ददौ ताभ्यः स्वयं प्रभुः ।
‘बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥१ ३॥
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः’ ।
आत्मनिवेदनमन्त्रमेनं ददौ स्वयं प्रभुः ॥१४॥
‘अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
कम्भराश्रीनन्दनः श्रीगोपालकृष्णबालकः ॥१५॥
परब्रह्माऽक्षरातीतोऽवताराणां स्वरूपधृक् ।
अन्तर्यामी सदाऽस्मासु भगवान् सर्वकारणम् ॥१६॥
सर्वान्तरात्मा सर्वेशो निर्लेपो मोक्षदः स हि ।
पावनः सेवितो भुक्तिमुक्तिदश्च सदाऽवतु’ ॥१७॥
इत्येनं ज्ञानमन्त्रं च स्वयं ताभ्यो ददौ प्रभुः ।
‘कृष्णप्रियाप्रभक्ताऽहं श्रीहरिः शरणं मम’ ॥१८॥
‘श्रीकृष्णश्रीहरिः श्रीस्वामी साक्षात् शरणं मम’ ।
‘श्रीकृष्णदेवो मे स्वामी श्रीहरिं शरण मम’ ॥१ ९॥
एतान् शरणमन्त्रांश्च तादात्म्यबोधकान् ददौ ।
‘ब्रह्मप्रियाः समस्ताश्च राधालक्ष्म्यादियोषितः ॥2.297.२०॥
परब्रह्मस्वरूपाश्च परब्रह्मार्धमूर्तयः ।
परब्रह्मार्थसर्वस्वा दिव्या भुक्तिप्रमुक्तिदाः ॥२१ ॥
तत्सम्बन्धिक्रियाश्चापि निर्गुणा मोक्षदाः सदा’ ।
इति ज्ञानमयं मन्त्रं ताभ्यः स्वयं ददौ प्रभुः ॥२२॥
‘यो यो या या बालकृष्णं तत्प्रियाश्च भजन्ति वै ।
स स सा सा तत्स्वरूपा दिव्या मोक्षप्रदाः सदा’ ॥२३॥
इतिज्ञानं ददौ चापि निर्गुणत्वादिदायकम् ।
इत्येवं ज्ञानमन्त्राढ्याः सर्वा विद्याधराः स्त्रियः ॥२४॥
सिषेविरे सदा राधे स्वामिश्रीकृष्णमीश्वरम् ।
अथ श्रीकम्भरादेवी प्रातः कृताह्निका सती ॥२५॥
सुता विलोकयितुं चागतस्त्रीणां सुमाननम् ।
व्यधाद् भोजनपानाद्यैस्ताम्बूलादनसत्करैः ॥२६॥
प्रशशंसुस्तथा नार्यो लक्ष्मीं सर्वास्तथाऽपराः ।
कान्ता वीक्ष्य सुरूपाश्च ददुश्चाशिष ता मुहुः ॥२७॥
सुखिन्यः शाश्वतिकाश्च भवन्तु कृष्णयोषितः ।
पुत्रपुत्र्यादिमत्यश्च सदा सौभाग्यसंयुताः ॥२८॥
दत्वैवमाशिषो नार्यो प्राप्य पूजां ययुर्गृहान् ।
श्रीमद्गोपालकृष्णश्च महीमानान् समस्तकान् ॥२९॥
कृतस्नानप्रपूजाँश्च भोजयामास पायसम् ।
मिष्टान्नानि विभिन्नानि शाकानि विविधान्यपि ॥2.297.३ ०॥
अमृताऽऽस्वादयुक्तानि पक्वान्नान्योदनानि च ।
सूपः क्वथिका रम्याश्च दधिदुग्धानि यानि च ॥३ १ ॥
केसरशर्करायुक्तान्यम्ब्लतिक्ता वटीस्तथा ।
जलपानानि मिष्टानि सुगन्धीनि शुभानि च ॥३२॥
ताम्बूलकानि दिव्यानि ददौ सर्वेभ्य एव सः ।
कुङ्कुमवापिकावासिप्रजाः सौराष्ट्रवासिकाः ॥३३॥
भोजयामास षष्ठ्यां वै कृष्णोत्सवनिमित्ततः ।
कोटिशो मानवा बुभुजिरे श्रीकम्भराऽऽलये ॥३४॥
सर्वाः पुत्र्यस्तत्र चक्रुः परिवेषणमुत्सुकाः ।
आमध्याह्नं प्रोत्सवः सः कृतो भोजनसम्भृतः ॥३५॥
अश्वपट्टसरस्तीरे मध्याह्नोत्तरमुत्तमः ।
निर्जग्मुस्तास्ततो वनान्याद्रष्टुं पतिसंयुताः ॥३६॥
महीमानास्तदा सर्वे विशश्रमुः सुखालये ।
कान्तानां च हरेर्विमानकं चोत्तरदिग्भवम् ॥३७॥
प्रदेशं चाभिलक्ष्यैव प्रससार विहायसा ।
ताश्च शालवनं बिल्ववनं वीक्ष्योत्तरे ततः ॥३८॥
पालाशारण्यमावीक्ष्य वीक्ष्याऽपि चान्दनं वनम् ।
देवदारुवनं वीक्ष्य तुलसीवनमुत्तमम् ॥३९॥
चम्पकानां वनं पूर्वदिशि वृन्दावनं तथा ।
चन्दनानां वनं वीक्ष्य कणिकानां वनं तथा ॥2.297.४०॥
आम्राणां च वनं वीक्ष्य कुन्दानां स्थलपद्मिनाम् ।
अशोकानां वनं वीक्ष्य केतकानां वनं तथा ॥४१॥
कमलानां पारिजातादीनां कदम्बशाखिनाम् ।
दक्षिणे त्वाश्रमान् वीक्ष्य लोमशादिऋषिकृतान् ॥४२॥
जम्बीरनारिकेलादिसमुद्यानं व्यलोकयन् ।
पश्चिमे चामृतानां च कद्लीनां वनानि च ॥४३ ॥
वीक्ष्य भूमिं रमणीयां बद्रीवनसुशोभिताम् ।
बकुलानां वनं वीक्ष्य जम्बूवनं प्रवीक्ष्य च ॥४४॥
गुन्द्रवनं तथा सीताफलवनं विलोक्य च ।
समाययुश्चाश्वपट्टसरो हृष्टा निशामुखे ॥४५॥
अवतीर्य विमानात्ताः सन्ध्यावन्दनमाचरन् ।
ततो ययुर्निजावासान् बालकृष्णेन संयुताः ॥४६॥
भोजनं चक्रिरे सर्वास्ततः शृङ्गारमाचरन् ।
बालकृष्णो महीमानानां सेवनार्थं ययौ तदा ॥४७॥
पित्रा भ्रात्रादिभिः साकं महामण्डपमन्दिरे ।
सर्वान् सम्भोजयामास बहुमानपुरःसरम् ॥४८॥
ताम्बूलकादि प्रददौ ददौ तत्राऽप्यपेक्षितम् ।
सर्वं चास्ते प्रपूर्णं वै किं न्यूनं माधवीगृहे ॥४९॥
महीमानाः प्रसन्नाश्चाऽभवन् वरविवेकतः ।
विश्रान्तिं परमां रात्रौ लेभिरे नरयोषितः ॥2.297.५० ॥
अनादिश्रीकृष्णनारायणो मन्दिरमाययौ ।
प्रतीक्षन्ते नवोढास्ताः कान्तं सुखयितुं तदा ॥५१ ॥
सर्वासां नवपत्नीनां पूरयितुं मनोरथान् ।
कोट्यर्बुदाब्जरूपाणि दधार श्रीपतिः प्रभुः ॥५२॥
प्रत्येकस्यास्तु भवने भवने स रतिप्रदः ।
प्रवर्तते निशायां स महायोगेश्वरेश्वरः ॥५३ ॥
शृणु राधे तदा त्वेका कन्या दिव्या समागता ।
द्रष्टुं प्रशंसितं हंसरूपदेवैर्हि मण्डपम् ॥५४॥
स्वल्पं चापि महान्तं च वीक्षितुं समुपागता ।
सा तु पूर्वं महान्तं वै मण्डपं कोटिरूपिणी ॥५५ ॥
भूत्वा व्यलोकयत् सर्वं महाश्चर्यं गता तदा ।
पुनश्चाल्पं मण्डपं च व्यलोकयत् स्थिरदृशा ॥५६ ॥
सृष्टित्रयं प्रवीक्ष्यैव महाश्चर्यं पुनर्गता ।
मण्डपाय नम उक्त्वा क्षणं मौनं स्थिताऽभवत् ॥५७॥
श्रीराधिकोवाच-
का सा कन्या कथं तत्रागत्य पुनर्गता क्व सा ।
वद मे भगवन् सर्वं श्राव्यं चेद् विद्यते परम् ॥५८॥
श्रीकृष्ण उवाच-
राधिके मण्डपं दृष्ट्वा हंसरूपा हि देवताः ।
स्वर्गं गत्वा प्रशशंसुर्मण्डपं बहुशोभनम् ॥५९॥
तच्छ्रुत्वा द्यौः स्वयं द्रष्टुं तदा मनोऽकरोद् द्रुतम् ।
द्यौः स्वयं कन्यका भूत्वाऽऽगता कुङ्कुमवापिकाम् ॥2.297.६ ०॥
सकुण्डला समुकुटा सशृङ्खला सभूषणा ।
सर्वतेजोभृता पूर्णाऽमृतपीयूषसम्भृता ॥६ १ ॥
रूपानुरूपावयवा मोहिनीवाऽपरा यथा ।
राधा वा कमला वा चापरेव तत्र चागता ॥६२॥
अदृष्टं चाऽश्रुतं वापि तया पूर्वे क्वचित्तु यत् ।
तत्सर्वं मण्डपे वीक्ष्य महाश्चर्यं गता सती ॥६३॥
स्वल्पे तु मण्डपे देवी यूपपार्श्वे स्थिताऽभवत् ।
नमस्कारयुतादेव्या मण्डपः स्वागतं व्यधात् ॥६४॥
समागच्छ स्वर्गदेवि स्वागतं करवाणि ते ।
पाद्यमर्घ्यं मधुपर्कं गृहाण भोजनं जलम् ॥६५॥
इत्युक्त्वा प्रददौ तस्यै सिंहासनं जलादिकम् ।
मधुपर्कं ददौ चापि भोजनं प्रददौ शुभम् ॥६६॥
लब्ध्वा सा मण्डपं प्राह मुक्तराट् मण्डप! शृणु ।
यस्याऽयं मण्डपश्चेदृग् बालकृष्णस्य विद्यते ॥६७॥
तत्प्रासादः कीदृशः स्यात् कीदृश्यश्च समृद्धयः ।
तद्भोक्त्र्यश्चापि तत्कान्ताः कीदृश्यः स्युः सुदिव्यकाः ॥६८॥
कीदृशः स्याच्च वै तासां कान्तश्चाऽस्याऽपि वैभवाः ।
कीदृशाश्चापि वै स्युश्च द्रष्टुमिच्छामि द्यौरहम् ॥६९॥
कोट्यर्बुदाब्जकान्तानामेक एव पतिः स तु ।
श्रुतो मयाऽद्य देवानां बृहस्पतेर्मुखादितः ॥2.297.७०॥
कथं स सर्वासेव्यः स्याद् द्रष्टुमिच्छामि द्यौरहम् ।
मयि देवा निवसन्ति तेभ्यश्चायं तु किम्बलः ॥७ १ ॥
किमैश्वर्यश्च किंवीर्यश्च किंयोगबलोऽस्ति वा ।
किंरूपो वा वर्ततेऽद्यैकलः सर्वपतिर्हि वै ॥७२॥
इन्द्रोऽपि मत्पतिर्नेदृक्समर्थोऽस्तीति वै श्रुतम् ।
साऽहं द्रष्टुं समायातोर्वश्या सम्प्रेरिता सती ॥७३॥
उक्ता च देवगुरुणाऽसहमाना समागता ।
देवैश्चाऽहमधिक्षिप्ता न त्वं मण्डपसदृशी ॥७४॥
न त्वं श्रीबालकृष्णस्यैश्वर्यकोट्यंशगाऽपि वा ।
तदहं त्वागता चाऽद्य सन्दृष्ट्वा मण्डपं त्विह ॥७५॥
अदृष्टं चाश्रुतं वापि मणिं च देहलीस्थितम् ।
विगर्वाऽस्मि हि सञ्जाता द्रष्टुमिच्छामि तच्छ्रियः ॥७६॥
तत्स्मृद्धीस्तं दिव्यकान्तं ताश्च कोट्यब्जयोषितः ।
विशेषतो नवां लक्ष्मीं द्रष्टुमिच्छामि द्यौरहम् ॥७७॥
इत्युक्तो मण्डपस्तूर्णं श्रीकृष्णस्यैव मन्दिरम् ।
गत्वा लक्ष्मीगृहद्वारि वेत्रधारमजिज्ञपत् ॥७८॥
वेत्रधरो रत्नयुक्तो गत्वाऽऽज्ञां समवाप्य च ।
द्यां तां प्रवेशयामास कन्यां लक्ष्मीसुमन्दिरम् ॥७९॥
कोट्यर्बुदाब्जरूपा द्यौर्भूत्वा वै समकालिनी ।
प्रविवेश तु सर्वासां गृहाणि वीक्षितुं तदा ॥2.297.८०॥
सा ददर्श दिव्यरूपं प्रत्येकया सह स्थितम् ।
विभिन्नचेष्टकं कृष्णनारायणं गृहे गृहे ॥८ १ ॥
लक्ष्म्या गृहे तु दोलायां दोलायमानमच्युतम् ।
लक्ष्म्या साकं ददर्शैनं पुपूज द्यौर्ननाम ह ॥८२॥
माणिक्यास्तु गृहे कृष्णं भुञ्जानं सा ददर्श ह ।
पद्मावत्या गृहे कान्तं पर्यङ्कस्थं ददर्श सा ॥८३।
रमायास्तु गृहे दुग्धं पिबन्तं सा ददर्श ह ।
राधायास्तु गृहे शय्यास्थितं कृष्णं ददर्श सा ॥८४।
श्रीगृहे तु श्रिया साकं रमन्तं द्यूतमेव सा ।
ददर्श कुशलासौधे भक्षयन्तं हि ताम्बुलम् ॥८५॥
सरस्वतीगृहे तं च गायन्तं वीणया स्थितम् ।
गङ्गागृहे गङ्गया वै पादसंवाहितं च सा ॥८६॥
ददर्श विरजागेहे विहरन्तमितस्ततः ।
दुर्गागृहे हसन्तं च नर्मवाक्यैर्ददर्श सा ॥८९।.
शारदामन्दिरे माला जपन्तं तं ददर्श ह ।
काशीराजस्य पुत्रीणां गेहेषु कृष्णरूपिणम् ॥८८॥
शृङ्गारयन्तं वनिताः ददर्शाऽऽनन्दकारिणम् ।
आजनाभीगृहेष्वेनं ददर्श द्यौः पृथग्विधम् ॥८९॥
ऐतिहासिकवार्तास्थं कलाकौशल्यवर्तिनम् ।
अशनादित्रिंशदूर्ध्वशतपत्नीगृहे तु तम् ॥2.297.९०॥
शय्यासुयोगभावेन रमन्तं सा ददर्श ह ।
मङ्गलादियोषितां तु गेहेषु केशसाधनम् ॥९ १।
प्रकुर्वन्तं बालकृष्णं ददर्श द्यौस्तदा प्रभुम् ।
औष्णालयीयनारीणां गेहे ताभिः प्रमर्दितम् ॥९२।
स्नपितं तैलसाराद्यैर्भूषाभिर्भूषितं प्रभुम् ।
ददर्शाऽथ च प्राचीनीयकान्तानां तु मन्दिरे ॥९३॥
अलक्तकादिभिस्ताभिः रज्यमानं च चित्रितम् ।
रमन्तं हासयन्तं च ददर्श द्यौः सुभाग्यगा ॥९४॥
राशियानीयकान्तानां गृहेषु स्वामिनं हरिम् ।
तत्तद्देशीयवृत्तान्ते मग्नं ददर्श शोभनम् ॥९५।
किम्पुरुषीयपत्नीनां गृहेषु कम्भरात्मजम् ।
सङ्गीतमग्नं सर्वाभिः सह ददर्श सा तदा ॥९६।
केतुमालीयकान्तानां मन्दिरेषु शुकाऽनुजम् ।
राजभूषा धारयन्तं ददर्श राजरीतिगम् ॥९७।
अमरीणां गृहेष्वेनं नृत्यन्तं ताभिरन्वितम् ।
ललनाभिः सह द्यौश्च ददर्शाऽऽनन्दसम्भृतम् ॥९८॥
हारीतीनां निवासेषु सम्बन्धिजनसेवितम् ।
आसीनं चासने स्त्रीभिर्वेष्टितं तं ददर्श .सा ॥९ ९ ॥
ब्राह्मीलीनां निवासेषु देवपूजापरायणम् ।
रात्रौ ददर्श तं द्यौश्च दिव्यरूपधरं प्रभुम् ॥2.297.१ ००॥
आब्रिक्तीनां मन्दिरेषु गायनं वाद्यतालकैः ।
रजोभावभरं कृष्णं स्वमग्नं सन्ददर्श सा ॥१०१ ॥
पैतृकीनां गृहे कृष्णं श्राद्धयुक्तं ददर्श सा ।
देवीनां रतिभावाद्यैर्युक्तं ददर्श माधवम् ॥१० २॥
कुत्रचिन्नाट्यखेलं च लोकयन्तं स्त्रिया सह ।
कुत्रचित् प्रेमभावेन स्पृशन्तं तं ददर्श सा ॥१०३ ॥
कुत्रचिद्योगिवद्ध्याने मग्नं ददर्श सा तदा ।
कुत्रचित् तं सुप्तमेव निद्रायां सा ददर्श ह ॥१ ०४॥
कुत्रचिद्वै शिक्षयन्तं योषितो ब्रह्मवेदनम् ।
कुत्रचित्पूरयन्तं च मनांसि योषितां तदा ॥१ ०५॥
ददर्श कुत्रचिन्मालां ग्रथ्नन्तं पुष्पजातिभिः ।
द्यौर्ददर्श तं गृहाङ्गणे स्थितं वै तदैकलम् ॥१ ०६॥
कुत्रचित्तु समायान्तं पार्श्वगृहाद् गृहान्तरम् ।
कुत्रचिद् गृहमध्ये तु तपन्तं वह्निना च तम् ॥१ ०७॥
ददर्श बहिरेवैनं द्वारि वा कुत्रचित्प्रभुम् ।
कुत्रचिद् भार्यया साकं यान्तं ददर्श भूषितम् ॥१ ०८॥
कुत्रचिद् दर्पणे नैजां पत्नीं मुखं सचन्द्रकम् ।
दर्शयन्तं च कुर्वन्तं चन्द्रकं सा ददर्श ह ॥१ ०९॥
कुत्रचित्प्रमदानेत्रेऽञ्जयन्तं कज्जलं च तम् ।
कुत्रचित् स्वप्रियाभाले कुर्वन्तं पत्रिकां तदा ॥2.297.११ ०॥
कुत्रचित् पादयोश्चापि लेपयन्तमलक्तकम् ।
कुत्रचिच्चातितादात्म्यात् समाश्लिष्यन्तमित्यपि ॥११ १॥
कुत्रचित्तं भोजयन्तं कवलेन निजाश्रिताम् ।
कुत्रचित्ताम्चूलरस चार्पयन्तं मुखेन ह ॥११ २॥
ददर्श श्रीकृष्णनारायणं द्यौर्व्यजनान्वितम् ।
क्वचिद्ददर्श तं राजाधिराजं त्वासनेस्थितम् ॥११ ३॥
क्वचिच्च मर्दितं संवाहितं बह्वीभिरेव तम् ।
क्वचिन्नेत्रमिषेणापि त्वाह्वयन्तं निजां प्रियाम् ॥१ १४॥
क्वचिल्लिखन्तं पत्रं च ज्ञाचिन्निगूढचेष्टकम् ।
एवं भिन्नक्रियं श्रीमत्कृष्णनारायणं विभुम् ॥११५
ददर्श द्यौः सर्वमन्दिरेषु सर्वायुतं प्रभुम् ।
पुपूज परया प्रीत्या दम्पती सा गृहे गृहे ॥११६
लक्ष्म्याद्याश्चापि तां ज्ञात्वा द्यां महीमानिकां निजाम् ।
स्वागतं परमं चक्रुर्भोजयामासुरुत्सुकाः ॥१ १७॥
ददुश्च पुष्पहारादीन् पारितोषिकमुत्तमम् ।
कान्तलीलास्मरणं च मोक्षदं प्रददुः स्त्रियः ॥१ १८॥
स्मृद्धिं विलोकयामास द्यौस्तु सर्वोतमोत्तमाम् ।
या न स्वर्गे न वै सत्ये नेश्वरेष्वपि सन्ति च ॥१ १९॥
तास्ताः स्मृद्धीश्चाम्बराणि विभूषाश्चासनानि च ।
पर्यङ्कान् शयनार्हांश्च पात्राणि मणिहीरकान् ॥2.297.१ २०॥
कोशान् चतुष्किकान् यन्त्रोत्तमानि स्वर्णपेटिकाः ।
विमानानि विलोक्यापि महाश्चर्यं गताऽभवत् ॥१२१ ॥
इन्द्रगृहे ब्रह्मसौधे सूर्यगृहे शशिगृहे ।
ध्रुवालये कुबेरस्याऽऽलये स्मृद्धिर्न याऽस्ति ताम् ॥१२२॥
विलोक्यैकगृहे द्यौः स्वगर्वहीना बभूव ह ।
आशिषं च क्षमां प्राप्याऽऽगत्य वै मण्डपं ततः ॥१२३॥
ययौ स्वर्गं भासयन्ती दिशो दश विहायसा ।
इत्येवं राधिके! श्रीमद् बालकृष्णस्य चेष्टितम् ॥१२४॥
कोट्यैश्वर्यसमायुक्तं कोट्यर्बुदाब्जपत्निकम् ।
तावतीभिः सहशश्वत् शृङ्गारभावसम्भृतम् ॥१२५॥
दिव्यमेव हि मन्तव्यं निर्गुणं मोक्षदं शुभम् ।
नित्यमेवं सुखदो वै भगवान् भक्तिसेविनाम् ॥१ २६॥
नवोढानां रात्रिसखः प्रसुष्वाप सुखोत्तरम् ।
सर्वकामप्रपूरः स भगवान् भाग्यगोचरः ॥१ २७॥
अथ द्यौः राधिके! स्वर्गगताऽपि मोहिता हरौ ।
पत्नीं भवितुं सततं चेयेषाहर्निशं ततः ॥१ २८॥
कदाचित् कामभोगेच्छावत्यायात् श्रीहरिं रहः ।
तृप्तां चक्रे हरिर्भुक्त्त्वा सा ययौ मुदिता दिवम् ॥१२९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने षष्ठ्याः प्रातः कृताह्निकाः कान्ता मन्त्रान् जगृहुः, महीमानानां भोजनम्, युवतीनां विमानेन वनावलोकनार्थं व्योमविहरणम्, रात्रिभोजनम्, लीलां द्रष्टुः द्यौः कन्या समायाता, कोट्यर्बुदाब्जयोषितां सौधेषु भिन्नलीलं श्रीकृष्णनारायणं वीक्ष्य मुग्धा द्यौः स्वर्गं गता, हरेर्निद्रा
चेत्यादिनिरूपणनामा सप्तनवत्यधिकद्विशततमोऽध्यायः ॥२९७ ॥