२९६

श्रीकृष्ण उवाच-
राधिके यत्र भगवान् समुवाह च मण्डपे ।
कन्यकास्तत्र वै तीर्थमुद्वाहसञ्ज्ञकं सदा ॥१ ॥ वरणायां तथा कोटितीर्थं मोक्षप्रदं शुभम् ।
कोट्यर्बुदाऽब्जरूपेण भगवांस्ता गृहीतवान् ॥२ ॥ तदा शिवपुरं तीर्थं पार्वतीपत्तनं तथा ।
मण्डपाख्यं यज्ञतीर्थं सारभूतलमुच्यते ॥३ ॥ पञ्चम्यां त्रिप्रहरान्ते विदायं शङ्करो ददौ ।
कृष्णपक्षसमस्तेभ्यो बहुद्रव्याणि सन्ददौ ॥४ ॥ कृष्णस्य पूजनं चक्रे पितुश्चापि क्षमापनम् ।
महीमानादिवर्गाणां न्यूनसेवाक्षमापनम् ॥५ ॥ अर्थयामास सगलत्कण्ठो वै शिवराट् स्वयम् ।
शिवछत्रोऽपि राजाऽसौ क्षमां तदाऽऽर्थयन्मुहुः ॥६ ॥ भोज्यपानादिकं श्रेष्ठं प्रपक्वान्नं घृताक्तकम् ।
पाथेयं प्रददौ चापि रक्षकप्रापकार्थकम् ॥७ ॥ यौतकं च न्यधात् सर्वं श्रेष्ठे विमानके हरः ।
वैमानिकं ददौ चापि गणं विमानवाहकम् ॥८ ॥ अथ वाद्यान्यवाद्यन्त विदायसूचकानि तु ।
यन्त्रशब्दा अजायन्त गीतिशब्दाः शुभास्तदा ॥९ ॥ शिवेश्वरो मिमेलाऽपि गोपालं कृष्णकं हृदा ।
क्षमापनीयः सेवायां न्यूनत्वेहमुवाच ह ॥2.296.१ ०॥ आगन्तव्यं निजं मत्वा गृहं मां च कुटुम्बकम् ।
पुत्री च भवदीयेति मत्वा रक्ष्या हि मानद ॥१ १॥ कुशलं लेखनीयं च प्राप्य कुङ्कुमवापिकाम् ।
तद्भातृभ्यो लक्ष्मिणश्च कुटुम्बिजनतस्तथा ॥१२॥ भाववद्भ्यस्तथा भ्रातृपुत्रेभ्यः सकलो हरिः ।
देवमयसमस्तेभ्यः क्षमामयाचतेश्वरः ॥१ ३॥ अक्षरान्मुक्तवृन्दाश्च वासुदेवात्तथा क्षमाम् ।
प्रद्युम्नादनिरुद्धाच्च भून्मश्चापि विराजकात् ॥१४॥ अवतारसमस्तेभ्यो नारायणान्नरात्तथा ।
विष्णोश्चापि महाविष्णोर्ब्रह्मणः शङ्करात्तथा ॥१५ ॥ अर्यम्णश्च सनत्कुमारादिभ्यश्च सतस्तथा ।
मुनिसाधुदेवदेवीर्नारीभ्योऽयाचत क्षमाम् ॥१६॥ नृपविप्रलोकपालदिक्पालदेवधिष्ण्यगात् ।
मानवेभ्यो बालकृष्णसम्बन्धिस्त्रीभ्य इत्यपि ॥१७॥ क्षमामयाचताऽथाऽपि योग्यं विदायकं ददौ ।
नागलोकगतेभ्यश्च भूसंस्थसर्वदेहिनः ॥१८॥ सौराष्ट्रीयनरनारीभ्योऽयाचतेश्वरः क्षमाम् ।
विदायं जलपानं च मिष्टमिष्टं सुमस्रजः ॥१ ९॥ ददावेभ्यः शिवस्वामी मिमेल वक्षसा च तान् ।
पूज्याऽऽर्याभ्याः क्षमामयाचत हस्ताञ्जलिर्हरः ॥2.296.२०॥ शिवा च पार्वती देवी सर्वा मातॄस्तदा द्रुतम् ।
कम्भरां श्रीं नमस्कृत्य क्षमां ताभ्योऽभ्ययाचत ॥२१ ॥ अन्या आर्याः समर्च्यैव नत्वा दीनस्वभाविनी ।
क्षमामयाचताऽभ्यो वाग्दोषात्मिकां च सेवने ॥२२॥ वस्तुदाने रक्षणे च मानने स्वागते तथा ।
भोजने स्वापने पाने न्यूने क्षमामयाचत ॥२३ ॥ मम पुत्री तव पुत्री मातस्तां त्वं प्ररक्षय ।
वृत्तान्तं च क्वचित् हृद्यं सम्प्रेषय सुवत्सले ॥२४॥ वधूटीभ्यः क्षमामयाचत रक्षत नैजिकीम् ।
लक्ष्मीं चेति समुवाच विदायं तूचितं ददौ ॥२५॥ पुष्पहारान् ददौ चापि जलपानादिकं ददौ ।
शिवछत्रोऽपि च तदा क्षमां वरमयाचत ॥२६॥ शिवेश्वरोऽपि च तदा क्षमां वरमयाचत ।
शैवछत्री नृपी क्षमां कम्भराया अयाचत ॥२७॥ कान्ताः सर्वा मातापितॄन् नेमिरे चाश्रुलेक्षणाः ।
जयाद्याश्चन्द्रपालाद्यास्तेऽपि क्षमामयाचिरे ॥२८॥ ज्येष्ठाऽशोका स्वसा लक्ष्म्याः ननान्दृतस्तदा द्रुतम् ।
सन्तोषाया वरस्वसृतः क्षमामप्ययाचत ॥२९॥ भातृजायाः क्षमामयाचिरे स्त्रियोऽपरास्तदा ।
एवं परस्परं नार्यः क्षेमं च कुशलं नराः ॥2.296.३ ०॥ पृष्ट्वा दत्वा विदायं च पुष्पहारान् ददुर्मिथः ।
कन्यापक्षा महीमाना श्रीकृष्णाद्यास्ततः परम् ॥३ १॥ सङ्कर्षणस्तथा रुद्रः शङ्करः शेष इत्यपि ।
महाकालो यमश्चापि यक्षेशो भूतभैरवाः ॥३२॥ स्कन्दो गणेशो नन्दी च वीरभद्रादयस्तथा ।
कोटिकोट्यधिकाः सर्वे तथा चण्ड्यादिशक्तयः ॥३३ ॥ बालकृष्णात् काम्भरेयात्तथा गोपालकृष्णतः ।
वासुदेवाद्व्यासदेवात् कपिलाच्च नरायणात् ॥३४॥ विष्णोर्धर्माद् विराजाच्च क्षमां तदा ययाचिरे ।
कुशलं च सुखं क्षेमं स्नेहभावं ययाचिरे ॥३५॥ राधा लक्ष्मीः सती दुर्गा सरस्वती नरायणी ।
कमला ऋषिपत्न्यश्च देव्यश्च गणिकास्तथा ॥३६॥ गणाश्च सेवकाश्चापि कम्भरामातरं तदा ।
महालक्ष्मीं तथा लक्ष्मीं सावित्रीं वैष्णवीं तथा ॥३७॥ सूर्यं चन्द्रं वसून् साध्यान् सञ्ज्ञां च रोहिणीं तथा ।
नत्वाऽऽभ्योऽयाचन् क्षमां तु देवीर्देव्यः सुखं च शम् ॥३८॥ विदायं प्रददुश्चापि पुष्पहाराऽक्षतादिकम् ।
एवं सर्वे महीमानाः सृष्टित्रयनिवासिनः ॥३९॥ नरा नार्यो मिलित्वैव क्षमां मिथो ययाचिरे ।
श्रीहरये च कान्ताभ्यश्चाशीर्वादान् ददुस्तदा ॥2.296.४०॥ सज्जा बभूवुः सर्वे वै स्वस्वपक्षा नराः स्त्रियः ।
कृष्णः कान्ताश्चोपविष्टुं यदा विमानमाययुः ॥४१ ॥ मातापितृपदे न्यस्य मस्तकानि च कन्यकाः ।
क्षणं तु रोदनं चक्रुस्तदा स्नेहवियोगजम् ॥४२॥ जानक्याद्या मातरश्च कन्याः कृत्वा स्ववक्षसि ।
मुमुचुश्चाश्रूणि चैव सिषिचुर्नेत्रजैर्जलैः ॥४३॥ जीवामश्च कथं पुत्र्यो वो विना प्राणदुर्लभाः ।
नो गृहाच्छ्रीबालकृष्णगृहं याथ हि वत्सिकाः! ॥४४॥ इत्युक्त्वा पुत्रिका नैजा न्यषादयन् विमानके ।
पितरोऽपि तदा धैर्यं ददुर्न्यषादयन् सुताः ॥४५॥ मुमोचाऽप्यश्रूणि स्वामी बालकृष्णोऽपि मायया ।
विमानं चारोहयामास श्रीगोपालकृष्णकः ॥४६॥ पुत्रं कान्ताः कुटुम्बं च तदा शिवादयः खलु ।
विशिष्टं यौतकं चाप्यर्पयामासुः समुत्सुकाः ॥४७॥ गजाँश्च तुरगान् दासीः किङ्कराँश्च सुवर्णकम् ।
रत्नान्यमूल्यभूषाश्च पात्राणि सुरभीस्तथा ॥४८ ॥ अम्बराण्यासनोपकरणान्यपि शुभानि च ।
सज्जाः सर्वे निजपक्षाः पुष्पहारादिपूजिताः ॥४९॥ आरुरुहुर्विमानानि नैकोऽप्यत्राऽवशिष्यते ।
तत्र भेरीनिनादश्च गतेरश्रूयतोत्तमः ॥2.296.५०॥ वादित्राणां निनादैर्मिश्रितो व्यङ्गुलनादनैः ।
जयारावैर्वर्धितश्चाऽव्याप्नोत् समन्ततस्तदा ॥५ १ ॥ द्रुतं सर्वाण्यपि विमानानि कामगमानि वै ।
व्योम्ना ययुः सुखं पश्चिमां दिशं वै सहस्रकम् ॥५२॥ आगन्तव्यरवास्तत्राऽजायन्त शिवयोगिनाम् ।
शिवस्वामी तदा कृष्णनरायणात् परेश्वरात् ॥५३ ॥ अप्रार्थयद् द्रुतं नैजामन्तिमां जन्ममोक्षिकाम् ।
कदा नाथ कृपासिन्धो चास्मान् सम्मोक्षयिष्यसे ।
जातिस्मरोऽस्मि देवेश लक्ष्मीर्लब्धा त्वया तव ॥५४॥ श्रीबालकृष्ण उवाच -
वर्षोत्तरं मोक्षयिष्ये स्मर मां हृदयेऽन्वहम् ।
आमन्त्रयामि सर्वाश्चाऽऽगन्तव्यं मे जनुर्दिने ॥५५॥ कुङ्कुमवापिकाक्षेत्रे चोर्जकृष्णाष्टमीदिने ।
ततो मनोरथं शम्भो पारयिष्ये तवाऽर्थितम् ॥५६॥ इत्युक्त्वा भगवान्नैजं विमानं चैरयत्तदा ।
शिवेश्वरश्चाऽऽप्रयागं नैजविमानकेन वै ॥५७॥ काशीराजस्तथा कृष्णः सङ्कर्षणादयोऽपि च ।
प्रहितुं प्रययुश्चापि पीत्वा त्रिवेणिकाजलम् ॥५८॥ न्यवर्तन्त ततः सर्वे प्रावर्तन्त पुरोऽम्बरे ।
इन्द्रप्रस्थवनं व्योम्नो दृष्ट्वा वीक्ष्य सरस्वतीम् ॥५९॥ आनर्त्तं चाययुः क्षेत्रं कुङ्कुमवापिकाऽक्षरम् ।
सायं प्रापुश्चाऽश्वपट्टसरस्तीरं विशालकम् ॥2.296.६०॥ तदा वाद्यान्यवाद्यन्त जयशब्दाश्च खेऽभवन् ।
भूतले जनताशब्दा जयबोधास्तदाऽभवन् ॥६१ ॥ शावदीना महाकाली क्षेत्रपा मुमुदे तथा ।
वारिनरः क्षेत्रपालो मुमुदे च जगर्ज च ॥६२॥ जयनादान् प्रचक्रुश्च देवास्तीर्थानि पादपाः ।
मण्डपाख्यस्तथा मुक्तो भूमिपाश्च समागताः॥६३॥ प्रजा जयनिनादाँश्च प्रचक्रुश्चातिहर्षिताः ।
यात्रिका जयनादाँश्च चक्रुस्तदा प्रवीक्ष्य खम् ॥६४॥ दर्शनार्थं प्रजाः सर्वा दुद्रुवुरम्बरदृशः ।
हरिं प्रसस्मरुश्चापि हरिणीः सस्मरुस्तथा ॥६५॥ अवतेरुर्विमानानि सहस्रं व्योममार्गतः ।
यथावकाशं भूमौ तु हरेर्विमानमित्यपि ॥६६॥ पश्चिमे शोभने भागेऽवाततार सुशोभनम् ।
श्रीमद्गोपालकृष्णश्चाऽवतीर्य सर्वसङ्गतः ॥६७॥ प्रविश्य स्वपुरीं रम्यां कारयामास मङ्गलम् ।
वाद्यानि वादयामास द्रुतं मनोहराणि वै ॥६८॥ कम्भरा चामरीदेव्यस्तथाऽन्या योषितस्तदा ।
लक्ष्मीं तस्याः सखीः सर्वा विलोक्य सत्वरं तदा ॥६९॥ अक्षरब्रह्मणा तत्र स्वस्मान्नवं विनिर्मितम् ।
कोट्यर्बुदाब्जकन्यानां कान्तानां भिन्नवेशनम् ॥2.296.७०॥ ब्रह्मप्रियापत्तनं च प्रभुं श्रीकृष्णमीश्वरम् ।
चतुःकोटिचतुर्लक्षषट्पञ्चाशत्सहस्रकाः ॥७१ ॥ कान्ताः प्रवेशयामासुर्लक्ष्मीं चाभ्युदये क्षणे ।
मङ्गलं कारयामासुः प्रवेशविधिपूर्वकम् ॥७२॥ गणेशादेः पूजनं च मण्डपस्य प्रपूजनम् ।
गुरोश्च पूजनं यूपपूजनं देवतार्चनम् ॥७३॥ विप्राद्यैः कारयामासुर्जलपानं ददुस्ततः ।
महीमाना महामण्डपोत्तमे जग्मुरेव ह ॥७४॥ ततो गोपालकृष्णो वै भोजनानि निशागमे ।
कारयामास सर्वांश्च महीमानान् प्रजा अपि ॥७५ ॥ सर्वान् दासान् दासिकाश्च क्षेत्रपान् कर्मचारिणः ।
हरिणीर्बालकृष्णं च भोजयामास कम्भरा ॥७६॥ चतुर्विधं भोजयित्वा मुक्तानीशान् सुरादिकान् ।
महीमानान्नरान्नारीर्मुनीन्नृपाँश्च बान्धवान् ॥७७॥ सृष्टित्रयनिवासाँश्च विप्रान् भट्टान् निजान् परान् ।
ताम्बूलादि प्रदायैव परिहारं चकार ह ॥७८॥ धनं च दापयामास विप्रेभ्यो दक्षिणास्तदा ।
सुरत्नानि विचित्राणि धनान्यपि बहूनि च ॥७९॥ मङ्गलं कारयामास गोपालः कृष्णरञ्जनम् ।
भुक्त्वा विश्रान्तिमापुश्च प्रस्वापं लेभिरे ततः ॥2.296.८० ॥ युवत्यो बालकृष्णस्य प्रतिस्त्रीरूपयोगिनः ।
प्रतिगृहं प्रचक्रुश्च सेवनं नवहर्षिताः ॥८ १॥ अविप्लुतमहासत्त्वमहावीर्यः परेश्वरः ।
परब्रह्मनिजानन्दं ददौ ताभ्यो ह्यसीमकम् ॥८२॥ महानन्दसमाधौ मूर्छिताः क्षणेन सदृशीम् ।
निशां बुबुधुः कामिन्यो कान्तकृतां युगायिताम् ॥८३॥ राधिके रासरात्रिर्मे तस्या अग्रे लवायते ।
परेशस्य तु सामर्थ्यं केनापि नैव पार्यते ॥८४॥ अथ श्रीशिवदेवाऽद्याः प्रयागात्प्रययुर्गृहम् ।
वर्णयन्तो गुणान् स्वेषां सम्बन्धिपारमेश्वरान् ॥८५॥ धन्यभाग्यान्यमन्यन्त कृष्णाद्या अपि माधवाः ।
पार्वतीपत्तनं गत्वा सर्वेऽपि बुभुजुस्ततः ॥८६॥ पानताम्बूलकं लब्ध्वा सुष्वुपुः सुखनिद्रया ।
षष्ठ्या प्रातर्विनिद्राश्चाभवन् मङ्गलवाद्यकैः ॥८७॥ कृतस्नानार्हणाः सर्वे दुग्धपानं व्ययधुस्ततः ।
भोजनानि प्रचक्रुश्च मिष्टान्नपायसानि च ॥८८॥ जलपानानि जगृहुस्ताम्बूलकानि वै तथा ।
मध्याह्ने च प्रलेभुस्ते विश्रान्तिं च ततः परम् ॥८९॥ सम्मिलित्वा नरा नार्यः सम्बन्धिनः सुहृज्जनाः ।
गोप्य ईशान्यश्च सत्यः साध्व्यो देव्यस्तथाऽऽर्षिकाः ॥2.296.९०॥ मानव्यश्च सुराण्यश्च गण्यश्च फणिकास्तथा ।
भूत्यश्चापि तथाऽन्याश्च गणाश्च पार्षदास्तथा ॥९१ ॥ गोपाश्च कुशलं क्षेमं न्यूनसेवाक्षमापनम् ।
परस्परं समभ्यर्थ्य शिवेश्वरश्च पार्वती ॥९२॥ क्षमां तु महीमानानां याचित्वाऽथ विदायकम् ।
ददतुश्च यथायोग्यं तथोचतुस्तदा खलु ॥९३॥ भवतां चागमैः सर्वविधिः सुशोभनोऽभवत् ।
सर्वेषामुपकार्योऽस्मि क्षन्तव्यो मेऽपराधकः ॥९४॥ गिरिजाऽपि सतीभ्यश्च क्षमामयाचताऽपि वै ।
पुनश्चागन्तव्यमत्राऽपि कृपा कार्या सदा मयि ॥९५॥ इत्युवाच ततो विदायकं धनादिकं ददौ ।
पुरुषान् वै शिवस्वामी पूजयामास हारकैः ॥९६॥ नारीवर्गान् हिमपुत्री तथाऽशोककुमारिका ।
पूजयामासतुश्चापि विदायं ददतुस्तथा ॥९७॥ भूषाम्बराणि पात्राणि साधनान्युत्तमान्यपि ।
ततश्चक्रे परिहारं महीमानाश्च वै ततः ॥९८॥ सज्जा भूत्वा विमानानि चारुरुहुः समस्तकाः ।
श्रुत्वा गमनवाद्यानां घोषान् व्योम्नि द्रुतं तदा ॥९९॥ गमयामास सहसा विमानानि समन्ततः ।
यथामार्गं ययुः सर्वे शिवराजस्ततः खलु ॥2.296.१० ०॥ आज्ञापयामास गणान् चक्रुस्ते परिहारकम् ।
शिवपुरं मण्डपं च पार्वत्यानगरं तथा ॥१० १॥ कैलासं सहसा तिरोऽभावयन्नतिवेगतः ।
शिवेश्वरः शिवछत्रः पारितोषिकमुत्तमम् ॥१ ०२॥ कर्मचारिभ्य एवापि ददतुश्च यथोचितम् ।
विश्रान्तिं चावायतुश्च स्मरन्तौ कृष्णमीश्वरम् ॥१ ०३॥ अनादिश्रीकृष्णनारायणं च भेजिरे सदा ।
राधिके लोकरीत्यैव लोकेशाश्चाचरन्त्यपि ॥१ ०४॥ पाथेयानि चोत्तमानि प्रार्पितानि दिनान्तरे ।
प्राघूणिकेभ्य एवैते प्रशंसन्तो ययुर्गृहान् ॥१ ०५॥ विदायं बहुमानं च गृहीत्वा यश उत्तमम् ।
शिवशक्तिप्रेरिताश्च ययुर्नैजालयानिति ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रोद्वाहतीर्थं कोटितीर्थं यज्ञतीर्थं, महीमानानां विदायं, मिथः क्षमायाचना, वियोगे शोकः, विमानानां प्रगमनं, कुङ्कुमवापिक्षेत्रागमो दानं मङ्गलं गृहप्रवेशो भोजनानि नागरीणामानन्दविहारानिद्रादि चेतिनिरूपणनामा षण्णवत्यधिकद्विशततमोऽध्यायः ॥२९६ ॥