२९४

श्रीराधिकोवाच–
मे सर्वाः कथयाऽत्रैव काः काः परिणताः प्रियाः ।
यासां स्मरणमात्रेण मायातो मुच्यते जनः ॥१ ॥ श्रीकृष्ण उवाच-
शृणु त्वं राधिके बालकृष्णेन सह वै तदा ।
यथा लक्ष्मीर्यथा षटक्ं राधा लक्ष्मीश्च माणिकी ॥२ ॥ रमा पद्मावती श्रीश्च चत्वारिंशद्युतं शतम् ।
ब्रह्मप्रिया मुख्यकन्या अशनाद्याः समर्पिताः ॥३ ॥ वह्निं प्रदक्षिणं चक्रुः पुष्पमालासमन्विताः ।
मेघनाद्यश्चतुर्दशसहस्राणि समर्पिताः ॥४ ॥ तथा षष्ठी मनसा च दीपावल्यश्च कन्यकाः ।
कोटिसङ्ख्या अग्निं प्रदक्षिणं कृत्वा समर्पिताः ॥५ ॥ तलाजा त्वेकला कामधेन्वाख्याः कोटिसङ्ख्यिकाः ।
आर्जन्त्यो वसुमत्याद्याः कोटिसङ्ख्याः समर्पिताः ॥६ ॥ शाम्भवी क्रोधना कन्या धरापुत्र्यश्च गह्वराः ।
कोटिसङ्ख्या धरया चार्पितास्तत्र मुदान्विताः ॥७ ॥ वेधःपुत्री सुची वनदेवीकन्याश्च लक्षकम् ।
वनदेव्याऽर्पिता वरमालायुक्ताः सुखान्विताः ॥८ ॥ दामन्यो राक्षसकन्या लक्षं दमनकाऽर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्तदाश्रिताः ॥९ ॥ षट्कन्याः कङ्कताल्यश्चाऽयुतं च काङ्कतालिकाः ।
कङ्कतालार्पिता वह्निं प्रदक्षिणं विधाय च ॥2.294.१० ॥ पुष्पमालायुता बालकृष्णेन सन्निजीकृताः ।
पितृकन्यालक्षकं चाऽर्यम्णा दत्ता निजीकृताः ॥११ ॥ जनपितृकन्यकाश्च विंशतिश्च निजीकृताः ।
पितृदास्यो दशसाहस्रं च तत्र निजीकृताः ॥१२॥ रासातल्यः पञ्चसाहस्रं कन्या दैत्यजास्तथा ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥१३॥ वसन्तकान्ताः कन्या वै षोडशाऽपि निजीकृताः ।
वसन्तेन तदा दत्ता वह्निं कृत्वा प्रदक्षिणम् ॥१४॥ सालमालीयदैत्यस्य पञ्चशतं च कन्यकाः ।
शतमातृयुता दैत्यार्पितास्तत्र निजीकृताः ॥१५॥ स्वस्तिकनागकन्याश्च विंशतिश्चाऽयुतं पराः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥१६॥ शावदीननृपकन्याः सहस्रं ससुमस्रजः ।
वह्निं प्रदक्षिणं कृत्वा नृपार्पिता निजीकृताः ॥१७॥ ऐन्द्रजालिककन्याश्च शम्भुजाः शम्भुनाऽर्पिताः ।
सहस्रं सपुष्पमाला वह्निसाक्ष्ये निजीकृताः ॥१८॥ सरस्वती, चतुर्दशविद्याश्च षष्टिकन्यकाः ।
ब्रह्मणा चार्पिता वह्निसाक्ष्ये स्रग्भिर्निजीकृताः ॥१९॥ भूगर्भीयाश्च लाक्ष्मण्यो द्वे सहस्रे हि कन्यकाः ।
लक्ष्मणेनाऽर्पिता वह्निसाक्ष्ये तत्र निजीकृताः ॥2.294.२०॥ वेधःकन्या द्वासप्ततिसहस्राणि तु नाडिकाः ।
वेधसा सम्प्रदत्ताश्च वह्निसाक्ष्ये निजीकृताः ॥२ १ ॥ गान्धर्व्यस्त्रिशतं कन्या विश्वावसुसमर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥२२॥ जुम्मासेमलानृपकन्याः सहस्रं जुम्मलाऽर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥२३ ॥ सान्तपन्यश्च राक्षस्यः पञ्चसहस्रकन्यकाः ।
सान्तपनार्पिता वह्निसाक्ष्ये स्रग्भिर्निजीकृताः ॥२४॥ सौरत्यः शतमेवाग्निं प्रदक्षिणं विधाय च ।
सुरतर्ष्यर्पिताः कन्याः सपुष्पस्रङ्निजीकृताः ॥२५॥ महाबालेश्वर्य एव त्रिकन्या वह्निसाक्षिकाः ।
बलेश्वराऽर्पिताः पुष्पमालायुक्ता निजीकृताः ॥२६ ॥ ऐलवीलैककन्या च ईलविलाऽर्पिता तदा ।
वह्निसाक्ष्ये पुष्पमालायुता तत्र निजीकृता ॥२७॥ दक्षजवङ्गरभूपकन्याः शतं सुमस्रजः ।
प्रजाकन्यासहस्रं चोष्णालयस्य निजीकृताः ॥२८॥ अग्निं प्रदक्षिणं कृत्वा पुष्पमालासमन्विताः ।
प्राचीनदेशकन्याश्च नृपजाश्च प्रजोद्भवाः ॥२९॥ वह्निसाक्ष्ये तज्जनकैरर्पिताः कोटिसङ्ख्यकाः ।
पिशङ्गराजदत्ताश्च वरस्रग्भिर्निजीकृताः ॥2.294.३ ०॥ सन्तारणद्विजकन्ये द्वे पुष्पमालिकायुते ।
सन्तारणाऽर्पिते वह्निसाक्ष्ये तत्र निजीकृते ॥३१ ॥ शिबिदेवनृपकन्याः शतं शिब्यर्पितास्तदा ।
वह्निसाक्ष्ये पुष्पमालायुतास्तदा निजीकृताः ॥३२॥ थर्कूटस्थनृपकन्याः पञ्चाशद्वह्निसाक्षिकाः ।
थर्कूटस्थाऽर्पिता पुष्पस्रग्युक्ताः सन्निजीकृताः ॥३३ ॥ वीरजारनृपकन्याः शतं वै वह्निसाक्षिकाः ।
वीरजारार्पिताः पुष्पमालायुक्ता निजीकृताः ॥३४॥ शक्त्यक्षिनृपकन्याश्च षष्टिश्च वह्निसाक्षिकाः ।
पिशाचिन्यः शतं कन्याः शक्त्यक्षिणा समर्पिताः ॥३५॥ वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रङ्निजीकृताः ।
कालिमाशनृपकन्याः शतद्वयं नृपाऽर्पिताः ॥३६॥ वह्निसाक्ष्ये योगमालायुतास्तत्र निजीकृताः ।
उरलकेतुभूपस्य त्रिंशत्कन्या नृपाऽर्पिताः ॥३७॥ वह्निसाक्ष्ये योगमालायुतास्तत्र निजीकृताः ।
क्रथकक्ष्मापतेः कन्याः पञ्च वै वह्निसाक्षिकाः ॥३८॥ पित्राऽर्पिता योगमालायुक्तास्तत्र निजीकृताः ।
पृथुराजेन दत्ताः स्वकन्या विंशतिरग्निकम् ॥३९॥ प्रदक्षिणं विधायैव सयोगस्रङ्निजीकृताः]
उष्ट्रालराजकन्याश्च दशोष्ट्रालेन चार्पिता ॥2.294.४० ॥ वह्निसाक्ष्ये पुष्पमालायुतास्तत्र निजीकृताः ।
हङ्कारनृपतेः पञ्च जयकाष्ठस्य पञ्च च ॥४१ ॥ तीराणनृपतेः षट् च अल्वीनरस्य पञ्च च ।
जीनवर्द्धिनृपस्याऽपि सप्ताऽनाथा तथैकला ॥४२॥ तत्तद्राजाऽर्पिता वह्निं कृत्वा प्रदक्षिणं हि ताः ।
योगमालायुता बालकृष्णेन सन्निजीकृताः ॥४३ ॥ प्रकीर्णिकाः शते द्वे च सहस्रं कन्यकाः शुभाः ।
रक्षोरुद्धा वह्निसाक्ष्ये ससुमस्रङ्निजीकृताः ॥४४॥ अल्पकेतो सप्तकन्या जयकृष्णवजैकला ।
परीशाननृपस्यैकविंशतिः कन्यकास्तथा ॥४५॥ इन्दुरायनृपस्यापि कन्ये द्वे शोभने तदा ।
मुद्राण्डनृपतेः कन्या पञ्चदश विभूषिताः ॥४६॥ गण्डभूपस्य च नव लीनोर्णजाचतुष्टयम् ।
बृहच्छरनृपस्यापि तथैकादशकन्यकाः ॥४७॥ चत्वारिंशत्कन्यकाश्च बललीनस्य भूपतेः ।
वरसिंहस्य पञ्चैव रायगामलजाष्टकम् ॥४८॥ फेनतन्तुनृपस्य द्वे स्तोकहोमस्य चैकला ।
काष्ठयाननृपस्यैका कोलकस्यापि चैकला ॥४९॥ दिनमाननृपस्य द्वे कन्याः सयोगमालिकाः ।
वह्निं प्रदक्षिणं कृत्वा स्वस्वपित्रा समर्पिताः ॥2.294.५०॥ राजभिरर्पिता बालकृष्णेन ता निजीकृताः ।
रायकिन्नरराजस्यैकपञ्चाशत्सुपुत्रिकाः ॥५ १ ॥ रायकोटीश्वरस्यैकविंशतिः कन्यकास्तथा ।
रायरणजिद्भ्यस्य विंशतिः कन्यकास्तथा ॥५२
रायवाकक्षभूपस्य तिस्रः कन्यास्तथा तदा ।
रायमारीशभूपस्य तिस्रः कन्याश्च शोभनाः ॥५३ ॥ रायबलेश्वरस्यापि तिस्रः कन्यास्तथा पराः ।
रायलम्बारभूपस्य षट् कन्या यौवनान्विताः ॥५४॥ रायनवार्कभूपस्य सप्त कन्याः सुमञ्जुलाः ।
रायहूण्डेशभूपस्य नव कन्याः सुकोमलाः ॥५५॥ रायकूपेशभूपस्यैकला पुत्री सती शुभा ।
कालीमण्डभूपतेश्च चतस्रः कन्यकास्तथा ॥५६॥ वनजेलेशनृपतेः पञ्च कन्याः सुपाण्डुराः ।
पारावारपिबस्यापि तिस्रः कन्याः सुरक्तिकाः ॥५७॥ कोटीश्वरनृपस्य द्वे तिस्रः सतीशभूपतेः ।
त्रेताकर्कशनृपतेः सप्त कन्याः सुगोरिकाः ॥५८॥ आण्डजरानृपस्यापि चतस्रः कन्यकाः शुभाः ।
बाल्यरजोनृपस्यापि कन्यैका धर्मशालिनी ॥५९॥ रायसोमनभूपस्य तिस्रः कन्याः सुशोभनाः ।
ऊरुगवाक्षनृपतः कन्ये द्वे शोभने तथा ॥2.294.६० ॥ पराङ्व्रतनृपस्य द्वे राजारायस्वसैकला ।
ईशानपानभूपैकचत्वारिंशत्सुकन्यकाः ॥६ १ ॥ राजारायपतिक्ष्मेशत्रयस्त्रिंशत्सुकन्यकाः ।
एताः सर्वांस्तदा तत्र योगमालाविभूषिताः ॥६२॥ राजशृङ्गारशोभाश्च स्वस्वपित्रा समर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा बालकृष्णनिजीकृताः ॥६३॥ त्रिंशत्कन्या मङ्गलाद्या महर्षिभिः समर्पिताः ।
ऋषीणां ता विभिन्नानां बालकृष्णनिजीकृताः ॥६४॥ आजनाभप्रदेशानां राज्ञां कन्याः समुज्ज्वलाः ।
सहस्राणि दश तत्तत्पित्रादिभिः समर्पिताः ॥६५ ॥ प्रजाकन्या दशसहस्राणि प्रजाभिरर्पिताः ।
सर्वशृङ्गारशोभाढ्या योगमालाविभूषिताः ॥६६॥ वह्निं प्रदक्षिणं कृत्वा बालकृष्णनिजीकृताः ।
पृथक् पृथक् प्रकुण्डेषु पृथग् वह्नेः प्रसाक्षिकम् ॥६७॥ करग्रहणमेतासां सर्वासामभवत्तदा ।
राधिके! च तथाऽन्याश्च कौबेर्यश्च सहस्रशः ॥६८॥ सहस्रशश्च माहेन्द्र्यो यमकन्याः सहस्रशः ।
वायव्यो वैश्वकर्म्यश्च वार्क्ष्यो रौद्र्यश्च वह्निजाः ॥६९ ॥ श्रावण्यश्चापि खानिज्यः सांवत्सर्यश्च गोपिकाः ।
प्राचीन्यश्च पिशङ्गिन्यो राशियान्यश्च कोटिशः ॥2.294.७ ० ॥ रौमायन्यश्च पारश्यो धैवर्यश्च सहस्रशः ।
किन्नर्योऽमर्य एवापि गौर्यः पर्यश्च कोटिशः ॥७१ ॥ आब्रिक्त्यश्चापि हारित्यः पाताल्यः स्वर्ग्य इत्यपि ।
अप्सरसो ब्रह्मसरसो गान्धर्व्यः कोटिशोऽपि च ॥७२ ॥ विद्युन्मणिश्चः कुशला योगिनी, द्वे तथाऽपरे ।
भौम्यश्चापि च दानव्यः कोट्यर्बुदाब्जसङ्ख्यकाः ॥७३ ॥ कः कर्तुं तत्र शक्येत् सङ्ख्यां चार्वाङ्गदृऽशिर्जनः ।
ताः सर्वाः स्मृतपित्राद्याः पित्रुपस्थितिसन्निधौ ॥७४॥ विभूषिताः कृतवस्त्रप्रान्तबन्धाः सुयौवनाः ।
योगमालायुता वह्निं कृत्वा प्रदक्षिणं तदा ॥७६ ॥ तत्तत्पित्राद्यर्पिताश्च करग्राहेण वै तदा ।
अनादिश्रीकृष्णनारायणेनाऽङ्गीकृताः पृथक् ॥७६ ॥ सर्वेषां पश्यतां बालकृष्णेन परमात्मना ।
उद्वाहिता वह्निसाक्ष्ये सर्वसाक्ष्ये समर्पिताः ॥७७॥ राधिके! ते श्रावितास्ताः सृष्ट्यादौ परमात्मना ।
उद्वाहिता हि विधिना सर्वा ब्रह्मप्रिया इमाः ॥७८ ॥ हरेर्मूर्तेः समुत्पन्ना हरेः शक्तय एव ताः ।
हर्यर्थं चागताः पृथ्व्यां सृष्टौ सर्वत्र तत्र च ॥७९ ॥ यथेष्टं संस्थिताः काले कृष्णकान्ताश्च सर्वथा ।
अनादिश्रीकृष्णनारायणं काश्यां समाश्रिताः ॥2.294.८ ० ॥ शिवेश्वराऽङ्गणे दत्ता कालो यासु न जम्भते ।
शिवः कालस्वरूपो वै तेनाऽर्पितास्ततोऽतिगाः ॥८ १ ॥ कालातीताः कृप्णमूर्तिमय्यः सर्वा हि मोक्षदाः ।
सौराष्ट्रं मन्मणेर्जातं बालकृष्णोऽत्र राजते ॥८२ ॥ काश्यां प्रोद्वाहमापन्नः सृष्टित्रये प्रकाशते ।
प्रतीक्षमाणाः सर्वास्ताः प्रोद्वाहं प्राप्य चाऽद्य वै ॥८ ३ ॥ कृतकृत्या बभूवुश्च शाश्वतानन्दसम्भृताः ।
लक्ष्मीः प्राप्ता निजं कान्तं शिवेश्वरसुता क्षितौ ॥८४॥ दिशां पुत्री पद्मवती सूर्यपुत्री सुभास्वरा ।
कल्पद्रुमसुता श्रीश्च लक्ष्मीः क्षीरोदपुत्रिका ॥८१ ॥ दिव्यविभूतिपुत्री च माणिक्याचाक्षरीसती ।
कमलाद्यास्तथा चान्याः प्राप्य कान्तं हरिं शुभम् ॥८६॥ कृतकृत्यो बभूवुश्च सर्वसौभोग्यसम्भृताः ।
सर्वा उद्वाहितास्तत्र सुयोगे कृष्णयोः शुभे ॥८७॥ शृणु राधे तदा काशीराजश्च शिवछत्रकः ।
धेनुपालस्तथा शिवेश्वरस्यापि सुभक्तराट् ॥८८ ॥ वीक्ष्यैश्वर्यं बालकृष्णे चानन्तं पारमेश्वरम् ।
तदैव प्रददौ काशीराजः कन्या दशाऽपि च ॥८ ९ ॥ धेनुपालो ददौ तिस्रो वह्निसाक्ष्ये तदन्तरे ।
योगमालायुतास्ताश्च मण्डपेऽत्र नजीकृताः ॥2.294.९० ॥ यौतकं प्रददौ राजा तदा सौवर्णलक्षकम् ।
नरयानं तथा दासीशतं विभूषणानि च ॥९१ ॥ प्रजाश्चापि ददुस्तस्मै बालकृष्णाय मण्डपे ।
दानं बहुविधं पश्चात्तत्कुण्डे हवनं तदा ॥९२ ॥ वह्नौ दत्वा गुरूक्ताँश्च गार्हस्थ्यसद्वृषान् वरः ।
अङ्गनासहितस्तत्राऽशृणोत् पाल्यान् समन्ततः ॥९३ ॥ सह धर्मं युगलस्याऽभिन्नं पालय माधव ।
अर्धाङ्गनास्तव चेमास्ताः सर्वाः परिपालय ॥९४॥ सुखे सुखं तथा दुःखे दुःखं पश्य परेश्वर ।
कान्ता कान्तो न वै भिन्नौ देहयोरैक्यमावह ॥९५॥ स्वात्मवत् सर्वकान्तास्त्वं विभावय प्रमोदय ।
कान्तानां चान्तरे देहे तव देहो विराजते ॥९६ ॥ मस्तके मस्तकं मुखे मुखं च हृदयं हृदि ।
उदरे उदरं मध्ये मध्यं पादौ च पादयोः ॥९७॥ कान्तादेहं स्वदेहं च मत्वा ताः परिपालय ।
कुरु धर्मान् सहैवाऽत्र वंशवर्धनहेतुकान् ॥९८ ॥ कान्ताभिश्चापि कान्तः स्वो मन्तव्यः प्राण एव ह ।
प्राणसेवा प्रकर्तव्या सर्वथा चेशवत् सदा ॥९९ ॥ पातिव्रत्यं सदा पाल्यं कान्ताभिः सुखहेतवे ।
आज्ञा प्रभोः सदा पाल्या प्राणैरपि क्रियादिभिः ॥2.294.१०० ॥ ऐक्यभावेन मन्तव्यो भजनीयः स्वयं प्रभुः ।
इत्येवं वीक्ष्य युगलैर्वर्तितव्यं निरन्तरम् ॥१०१ ॥ सापत्न्यं न समुद्भाव्यं परस्परं कदाचन ।
सपत्नीभिः स्वसृवच्च वर्तितव्यं निरन्तरम् ॥१०२ ॥ सन्तोष्टव्यं परस्यै वै सुखं दत्वा सदा सुताः ।
प्रभोरंशाः स्वांशका वै मन्तव्या नान्यथा क्वचित् ॥१०३ ॥ इतिमात्रे वृषे स्थेयं स्वस्त्यस्तु वः सुखं च शम् ।
इत्युक्त्वांऽकुरसलिलैः प्रोक्षणं चक्रतुर्गुरू ॥१० ४॥ दक्षिणां प्रददौ कृष्णो भूयसीं कन्यकास्तथा ।
कोटिरत्नानि च मणीन् कोटिसङ्ख्यं सुवर्णकम् ॥१ ०५॥ परिहारं ततो गुरू चक्राते यज्ञकर्मणः ।
देवविसर्जनं चापि सर्वविसर्जनं ततः ॥१ ०६॥ अनेकरूपविलयं हरिश्चक्रेऽथ सत्वरम् ।
एतस्मिन्नन्तरे देवी गिरिजा तूर्णमागता ।
पतिपुत्रवतीभिश्च साध्वीभिः सहिताग्रगा ॥१ ०७॥ सर्वसृष्टिनिवासिन्यो मातरोऽपि तदाऽऽगताः ।
सुकृत्वा मङ्गलं सर्वास्तत्र निर्मञ्च्छनादिकम् ॥१ ०८॥ दम्पतिर्वेशयामासुः रत्ननिर्माणमन्दिरम् ।
कोट्यर्बुदाब्जकन्यानां वासार्हं दीपितं यथा ॥१ ०९॥ द्वितीयमिव गोलोकं द्राक् कृतं विश्वकर्मणा ।
कैलासाख्यस्य मुक्तस्य साहाय्येन नवीकृतम् ॥2.294.११ ०॥ रत्नसिंहासनेष्वेव वासयामासुरेव च ।
भोजयामासुरेवाऽपि स्वामिना सह कन्यकाः ॥१११ ॥ सकर्पूरं सताम्बूलं प्रददुर्वासितं जलम् ।
सरस्वती तदोवाच सर्वाः सृष्टेश्च मातरः ॥१ १२॥ देव्यः सत्यस्तथा साध्व्यो नारायण्यः पतिव्रताः ।
कन्यकाः सौभाग्यवत्यः कुर्वन्तु मङ्गलं परम् ॥१ १३॥ यथा स्वामी तथा कन्या योजिताः परमात्मना ।
विदग्धानां विदग्धेन भवन्तु सङ्गमाः शुभाः ॥१ १४॥ अथ सर्वान् महीमानान् नरान्नारीः शिवापतिः ।
पूजयामास विधिना भोजयामास सादरम् ॥१ १५॥ खाद्यतां भुज्यतां स्वेष्टं चूष्यतां लिह्यतां मुहुः ।
दीयतां दीयतां चापि गृह्यतां तृप्यतामिति ॥१ १६॥ पीयतां स्वाद्यतां चेति शब्दोऽनवरतोऽभवत् ।
घोषो बभूव शालासु वाद्यसङ्गीतमङ्गलैः ॥१ १७॥ एवं रात्रौ भोजनान्ते ताम्बूलेऽपि निवर्तिते ।
महीमानाः परां शान्ति विश्रान्तिं निद्रिकां शुभाम् ॥१ १८॥ जगृहुश्चोभयपक्षा विशाले क्लृप्तपत्तने ।
दम्पतीमन्दिरे श्रीमद्बालकृष्णोऽप्यनन्तकः ॥११ ९॥ यावत्यः सन्ति कान्तश्च तावद्रूपधरः प्रभुः ।
ताभिर्मृद्वीषु शय्यासु सेवितः सुखदोऽभवत् ॥2.294.१२० ॥ राधिकेऽनन्तसत्त्वस्याऽनन्तवीर्यस्य योगिनः ।
कोट्यर्बुदाब्जपत्न्योऽपि न विजेतुं क्षमाः क्वचित् ॥१२१ ॥ निशायां नृत्यखेलाद्या मल्लानां युद्धसत्कलाः ।
वाद्यानां च समाश्रावा नाटकानां कलादृशः ॥१ २२॥ अभवन्नगरे तत्र प्रोद्वाहोत्सवलम्बिताः ।
रात्र्यर्धोर्ध्व ततः शान्तं सर्वं वै सत्यमण्डलम् ॥१२३ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वह्निसाक्ष्ये प्रोद्वाहितानां निर्देशः, गृहधर्मोपदेशः, प्रोद्वाहकार्यपरिहारः, दम्पतीभोजनम्, सर्वभोजनम्, कोट्यर्बुदाब्जरूपपरिहारः, सर्वाभिः सह सर्वरूपेण कृष्णस्य दम्पतीमन्दिरे विहारः, सर्वशयनं, चेत्यादिनिरूपणनामा चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥२९४ ॥