२८६

श्रीकृष्ण उवाच-
राधिके तत्र कैलासे विशालेऽम्बरसंस्थिते ।
पञ्चाशद्योजनायामे सर्वापेक्ष्यर्द्धिसंयुते ॥१ ॥ महोद्यानान्तरे रम्ये सौवर्णे मण्डपे शुभे ।
प्रवेशार्हे राजमार्गे तस्थुः श्रीशङ्करादयः ॥२ ॥ दर्शयामासुरेताँश्च विमानगान् समीपगाम् ।
दिव्यभुवं शनैश्चावतरितुं व्योमकल्पिताम् ॥३ ॥ सर्वां काञ्चनवर्णां च कैलासाऽपररूपिणीम् ।
हिंरण्मय्या नगर्या च शोभितां कल्पपादपाम् ॥४ ॥ सर्वर्तुफलिभिर्वृक्षैस्तदानीमृद्धिसम्भृताम् ।
कोटिविश्रान्तिभवनैर्महाकुञ्जान्तरैः शुभैः ॥५ ॥ यावत्पुष्पिप्ररम्यैश्च गन्धिद्रुमैः समन्विताम् ।
विमानानामवतारस्थलीभिः परितः स्थिताम् ॥६ ॥ एतादृशीं विशालां तां नगरीं दर्शितां तदा ।
अभितः स्थितियोग्यासु स्थलीषु च समासु च ॥७ ॥ राधिके स्वविमानानि बालकृष्णादयस्तथा ।
महर्षयो नृपाः कन्याः साधवो देवतादयः ॥८ ॥ मुक्ताश्चेशास्तथेश्वर्यः पितरो मानवादयः ।
निजवाहिनीस्वरूपा विमानानि निजानि वै ॥९ ॥ कैलासभूमाववतारयामासुः समुत्सुकाः ।
तदा वाद्यानि सर्वाणि लक्षशश्च शुभानि वै ॥1.286.१ ०॥ वादयामासुरुग्राणि मिष्टानि शम्प्रदानि च ।
गोलोकस्याऽमृतस्याऽप्यव्याकृतस्य च यानि च ॥११ ॥ कैलासस्य कुबेरस्य पृथ्व्याश्चासुरलोकिनाम् ।
दैत्यानां भूतजातीनां गणानां योगिनां तथा ॥१२ ॥ योगिनीनां गणिकानां गान्धर्वाणां च योषिताम् ।
चण्ड्यादीनामवाद्यन्त वादित्राणि समन्ततः ॥१ ३॥ हिरण्मय्या नगर्याश्च प्राकाराग्रे द्रुमान्विते ।
महाप्रासादकाऽग्रे च बालकृष्णविमानकम् ॥१४ ॥ अवाततार च शनैः स्थिरं द्रुमण्डले ह्यभूत्॥ अन्यान्यपि विमानानि पृथक् पृथक् द्रुकुञ्जके ॥१५ ॥ अवतीर्य स्थैर्यमापुः प्रासादाग्रे निजे पृथक् ।
तदाऽऽश्चर्यं मया दृष्टं राधिके! शङ्करस्य वै ॥१६ ॥ यावन्त्यासन् विमानानि तावद्रूपधरोऽभवत् ।
बृहस्पतिस्तथा तत्र तावद्रूपधरोऽभवत् ॥१७ ॥ अहं तु श्रीबालकृष्णविमानाग्रे स्थितोऽभवम् ।
शङ्करेण गुरुणा च वामदेवादिभिः सह ॥१८ ॥ व्यासैर्विप्रैश्च ऋषिभिर्धृतपूजार्हपात्रकैः ।
पुष्पाऽक्षतद्रवलाजाकुङ्कुमश्रीफलान्वितैः ॥१९ ॥ सुगन्धपुष्पहाराद्यैर्युक्तैश्च वेदघोषिभिः ।
सन्माङ्गल्यवचोभिश्च पूजाजलघटाऽन्वितैः ॥1.286.२० ॥ मिष्टान्नजलपानार्थं स्वर्णादिस्थलसंयुतैः ।
अनेकैश्च गणैश्चापि स्थालवद्भिश्च सेवकैः ॥२१ ॥ दासीभिश्चाप्यसङ्ख्याभिर्मिष्टस्थालयुतादिभिः ।
तावद्रूपधराभिश्च जलपात्रयुतादिभिः ॥२२ ॥ चामरव्यजनाद्यैश्च युक्ताभिः सेविकादिभिः ।
छत्रपात्रादिभिर्युक्तैर्गणैर्देवैश्च सेवकैः ॥२३ ॥ फलताम्बूलकैर्युक्तैर्गन्धसत्कारवेदिभिः ।
वेत्रधरैर्हेतिधरैराज्ञाध्रैश्च गणैः सह ॥२४ ॥ मानसम्मानपूर्णज्ञैः सर्वमिष्टवचोयुतैः ।
श्रेष्ठोत्तमासनदैश्च पादक्षालनवेदिभिः ॥२५ ॥ इङ्गितज्ञैः कर्मवाहैश्चापेक्षितप्रदैर्गणैः ।
कल्पकुमारकैश्चापि कल्पकुमारिकादिभिः ॥२६ ॥ सङ्कल्पवर्तिभिस्तत्र युतोऽहं शङ्करस्तथा ।
बृहस्पतिस्तथाऽन्ये चाऽभवामः स्वागतार्थिनः ॥२७ ॥ यथा सर्वे मया साकमभवत् सर्वमेव तत् ।
सर्वस्थलेऽभवत् प्रतिविमानं स्वागतार्थकम् ॥२८ ॥ शृणु राधे तदा त्वन्यदाश्चर्यं बालकृष्णजम् ।
वीक्ष्य श्रीशङ्करं नैकरूपधरं तदा प्रभुः ॥२९ ॥ बालकृष्णोऽपि भगवान् कुटुम्बेन समन्वितः ।
लोमशेन युतश्चापि तावद्रूपधरोऽभवत् ॥1.286.३० ॥ अवाततार सहसा विमानेभ्यः पृथक् पृथक् ।
शङ्करोऽपि महाश्चर्यं जगाम वीक्ष्य माधवम् ॥३ १॥ शङ्करेण हि सर्वेषां विमानस्थप्रदेहिनाम् ।
सत्कारार्थं धृतान्येव सह रूपाणि वै तदा ॥३२॥ किन्तु विमानगानां वै चात्मनिवेदिता यतः ।
बालकृष्णमनर्प्यैव गृह्णन्ति न दलाद्यपि ॥३३॥ तेषां तदा चाऽप्रसादपूजाद्रव्यग्रहे भवेत् ।
आत्मनिवेदिताहानिः शङ्करो दोषभाग् भवेत् ॥३४॥ तद्दोषपरिहारार्थं विज्ञाय भगवान् प्रभुः ।
बालकृष्णो हि पूजाया ग्रहणार्थं पृथक् पृथक् ॥३५॥ विमानेभ्यो हि सर्वेभ्यश्चावातरत् तदाऽग्रगः ।
शङ्करः सर्वभावैश्च सर्ववस्तुभिरित्यपि ॥३६ ॥ चकाराऽर्हां तु कृष्णस्य परब्रह्मण एव ह ।
लब्ध्वा पूजां हरिस्तावन्नत्वा पूज्यान् हरादिकान् ॥३७॥ कुशलं च समापृच्छ्य निवेद्य स्वमनामयम् ।
प्राप्याऽऽशीर्वादवाचश्च तिरोऽभवत् स्थलान्तरात् ॥३८॥ मुख्ये नैजे विमाने च तदा स्थिरोऽभवत् प्रभुः ।
शम्भुर्बृहस्पतिश्चान्ये महीमानप्रपूजनम् ॥३९॥ वेदमन्त्रैः प्रचक्रुश्च मङ्गलं विधिवत्तदा ।
परस्परं सुकुशलं पप्रच्छतुर्निरामयम् ॥1.286.४० ॥ वरकन्यापितरौ वै तथा सम्बन्धिबान्धवाः ।
पप्रच्छुः कुशलं सर्वे मिमिलुर्वक्षसा तदा ॥४१ ॥ स्वागतं शोभना वाचो जगदुश्च समुत्सुकाः ।
सम्मानं विदधुः शीघ्रं पादप्रक्षालनादिभिः ॥४२॥ आसनैश्च मधुपर्कैः सुगन्धवारिदानकैः ।
पुष्पहारैश्चन्दनाद्यैर्मालिकादिप्रदानकैः ॥४३ ॥ लाजाभिश्चाक्षतैश्चापि वर्धयामासुरीश्वराः ।
पुष्पाञ्जलिप्रदानैश्च वक्षोभ्यां मेलनादिभिः ॥४४॥ निषादनैर्योग्यभूमौ स्वर्णसिंहासनादिषु ।
निकुञ्जेषु स्वर्णसौधे जलगण्डूषदानकैः ॥४५॥ ततो मिष्टान्नदानैश्च पयःपानादिभिस्तथा ।
ताम्बूलदानकैश्चापि सुसत्कारं व्यधुः शुभम् ॥४६॥ व्यजनैश्चामरैश्चापि वेत्रियशःप्रकाशनैः ।
पादसंवाहनाद्यैश्च स्वागतं विविधं व्यधुः ॥४७॥ मुख्यं विमानकं श्रीमद्बालकृष्णस्य वै तदा ।
संवर्धितं सुलाजाभिरक्षतैः कुसुमादिभिः ॥४८॥ जयशब्दैस्तथा श्रीशो ह्यवातरद् विमानतः ।
स्वागतैः पुष्पमालाभिः पुष्पाञ्जलिभिरित्यपि ॥४९॥ यवाङ्कुरादिभिश्चापि चन्दनैः स विवर्धितः ।
पृष्टो गोपालकृष्णश्च कुशलं प्रति शम्भुना ॥1.286.५०॥ कार्ष्णाश्च शाङ्करैः पृष्टाः कुशलं च निरामयम् ।
अथ देव्य_ कुमार्यश्च कात्यायन्यादिकास्तथा ॥५१ ॥ दुर्गाद्याश्च सती चापि कम्भरादिकयोषितः ।
कन्यकाश्चापि पप्रच्छुः कुशलं च निरामयम् ॥५२॥ स्वागतं मधुपर्काद्यैर्जलमिष्टान्नदानकैः ।
ताम्बूलकादिभिश्चक्रुः पुपूजुश्च स्रगादिभिः ॥५३ ॥ आसनैर्विविधैश्चापि तथाऽनुवृत्तिभिः स्त्रियः ।
महीमानीयोषितां वै व्यधुः संवर्धनं तदा ॥५४॥ दुःखहाऽञ्जलिभिश्चापि वक्षःसम्मेलनादिभिः ।
सर्वयोग्यप्रदानैश्च मधुवाक्यैश्च सेवनैः ॥५५॥ जयश्चन्द्रो धेनुपालस्तथाऽन्ये शिवपक्षिणः ।
बालकृष्णकुटुम्बानां सम्मानं स्वागतं व्यधुः ॥५६॥ अशोकसुन्दरीदेवी सख्यस्तस्याश्च कन्यकाः ।
सन्तोषादिककन्यानां स्वागतं संव्यधुस्तदा ॥५७॥ कन्यकाः कोटिशश्चापि शाङ्कर्यश्च व्यधुस्तदा ।
कन्यकानां स्वागतं च पूजाभोजनसेवनैः ॥५८॥ प्रजाश्चापि प्रजानां च पप्रच्छुः कुशलानि हि ।
राजानश्च नृपाणां वै पप्रच्छुः कुशलं तदा ॥५९॥ देवाश्चापि सुराणां च मुक्तानां मुक्तकोटयः ।
ऋषीणामृषयश्चापि पप्रच्छुः कुशलं तदा ॥1.286.६ ० ॥ ईश्वरा ईश्वराणां च प्रचक्रुः स्वागतादिकम् ।
नारीणां नारिकावर्गाः सम्मानं संव्यधुस्तदा ॥६१ ॥ शङ्करः प्राह धन्योऽहं यद्गृहे भगवान् स्वयम् ।
समायातो भिक्षुको मे पुण्यपात्रं सुताकृते ॥६२॥ धन्येयं नगरी रम्या काशिका तत्प्रजा अपि ।
धन्या सती तथा लक्ष्मीर्यद्गृहे भगवान् स्वयम् ॥६३॥ धन्योऽहं यद्गृहे चाऽद्य धाममुक्ता भवन्ति हि ।
वासुदेवः प्रभुः साक्षाद् विष्णवश्च भवन्ति हि ॥६४॥ नारायणाश्च यद्गृहे सन्तो नारायणोपमाः ।
तीर्थानि यद्गृहे त्वद्य धन्योऽहं भाग्यवानपि ॥६५॥ धन्या वृक्षास्तथा वल्ल्यो धन्याः कीटपतङ्गकाः ।
धन्या महीमानिनो मे येषां योगोऽत्र शार्ङ्गिणः ॥६६॥ यद्गृहे सात्त्वताः सन्ति भागवता हि साधवः ।
सृष्टित्रयं पुनानाश्च यद्गृहे मुनयोऽपि च ॥६७॥ मम कैलासकं त्वद्य जातं परमवैष्णवम् ।
यत्र मे प्राणनाथस्य वासोऽद्य वर्ततेऽम्बरे ॥६८॥ अद्य मे तु गणाः सर्वे जाताः परमवैष्णवाः ।
अद्य मे शिवसञ्ज्ञेति सदा त्वान्वर्थिकी मम ॥६९॥ इत्युक्त्वा निजनेत्रेषु प्रेमाश्रूणि रुरोध ह ।
आविलं चापि त्रिनेत्रमनाविलं व्यधान्मुदा ॥1.286.७० ॥ श्रीमद्गोपालकृष्णोऽपि राधिके! शङ्करं तदा ।
प्राह धन्या वयं येषां जायते तेऽद्य दर्शनम् ॥७१ ॥ यः परब्रह्मरूपश्च सङ्कर्षणः स्वयम्प्रभुः ।
महाकालस्वरूपश्च तद्गेहे नः समागमः ॥७२॥ धन्या वयं महायोगिन् जगत्संहारकारक ।
भवत्कृपाऽवलेशेन दानार्हस्तेऽद्य मे सुतः ॥७३ ॥ धन्यो मे बालकृष्णश्च लक्ष्मीं प्राप्स्यति ते सुताम् ।
सर्वलोकस्य जननीं ब्राह्मीं नारायणीं सतीम् ॥७४॥ गोलोकेशो हरिकृष्णो राधया गोपिकादिभिः ।
सहाऽद्य वर्तते त्वत्र शिवेश्वरः पिता च वः ॥७५॥ अस्याऽनन्तस्वरूपस्य पुमुत्तमस्य दर्शनम् ।
लब्ध्वा धन्या वयं चान्यत् किं भाग्यं श्रेष्ठकं न्वितः ॥७६ ॥ इत्युक्त्वा प्रणनामाऽपि शङ्करं कृष्णमित्यपि ।
कम्भराश्रीः सतीं चापि तदाह भाग्यगौरवम् ॥७७॥ सती च निजभाग्यस्य गौरवं प्राह शोभनम् ।
अहो पुत्री मम धन्या यत्सेव्या कम्भरा सती ॥७८॥ पावनं मे गृहं त्वद्य महालक्ष्म्याः समागमात् ।
पावनं च कुटुम्बं मे सर्वसृष्टिसमागमात् ॥७९॥ पावनं काशिकाक्षेत्रं मोक्षदं सम्भविष्यति ।
अनादिश्रीकृष्णनारायणस्य परब्रह्मणः ॥1.286.८०॥ समागमात्तथेशानां मोक्षदानां सतां तथा ।
साध्वीनां कन्यकानां च देवीनां च समागमात्॥८ १ ॥ मातॄणां चाप्सरसां च ब्रह्मसरसां चागमात् ।
ईश्वरीणां चागमाच्च राधारमासमागमात् ॥८२॥ कमलातुलसीलक्ष्मीमाणिकीशारदाऽऽगमात् ।
रमापद्मावतीश्रीभूलीलाविभूतिकागमात् ॥८३॥ मुक्तानीनामागमाच्च वैष्णवीनां विशेषतः ।
भक्तानां चापि राज्ञीनां धन्या समागमादिह ॥८४॥ अद्य मे सफलं जन्म चाऽद्य मे सफलाः क्रियाः ।
अद्य मे सफला स्मृद्धिः कम्भराश्रीसमागमात् ॥८५॥ अद्य मे सफला विद्या साम्राज्यं सफलं मम ।
दासा दास्यश्च सफलाः कम्भराश्रीसमागमात् ॥८६॥ शिवेश्वरगृहे चास्मि विवाहिता हि पार्वती ।
सफलाऽस्मि सकुटुम्बा लक्ष्मीमाताऽस्मि शोभना ॥८७॥ पार्वती त्वद्य जानाति भाग्यं सर्वोत्तमं निजम् ।
यत्पुत्री कम्भराबालो भगवान् वै ग्रहीष्यति ॥८८॥ इत्युक्त्वा प्रणनामाऽपि कम्भराश्रीं तथाऽपराः ।
कम्भराश्रीस्तदा प्राह साफल्यं त्वद्य नोऽपि च ॥८९॥ यद्गेहे वयमागत्य पश्यामो गिरिजां सतीम् ।
मम गेहे सतीपुत्री लक्ष्मीश्चाप्यागमिष्यति ॥1.286.९०॥ सर्वलोकपोषयित्री भाग्यं मे परमं न्विह ।
सती ब्राह्मी मम पुत्रमानार्हा सम्भविष्यति ॥९ १ ॥ यन्नेत्रमिषमात्रेण सृष्टित्रयं विलीयते ।
स मे पुत्रस्य पूज्याऽद्य तस्याः पूज्यश्च मे सुतः ॥९२॥ अहो भाग्यं त्रिलोक्यां मे समं नान्यस्य विद्यते ।
इत्युक्त्वा प्रणनामाऽसौ कम्भराश्रीः सतीं तदा ॥९३॥ अद्रिजाश्रीः क्षणं सर्वाः प्रपूज्याऽऽगतयोषितः ।
कृत्वा च मधुपर्काद्यैः स्वागतं च पुनः पुनः ॥९४॥ सुधापानप्रदानैश्च मिष्टपयःप्रपादनैः ।
विरेमे सोदरौ द्वौ तु जयचन्द्रौ मुदा तदा ॥९५॥ निजभाग्यौ सुमन्वानौ मुमुदतुर्हि निर्भरौ ।
कन्यापक्षो विरराम ब्रह्मनादो बभूव ह ॥९६॥ कृष्णवाहिन्यास्तदा वै गन्तुं शिवपुरं प्रति ।
नन्दीश्वरश्चकारैव ब्रह्मनादं मुहुर्मुहुः ॥९७॥ बृहस्पतिर्हरिं सम्पूज्य चोत्थितोऽभवत् ततः
विश्रम्य च नरा नार्यः समुत्थितास्तदाऽभवन् ॥९८॥ आवासान् प्रतिगन्तुं च तावदाश्चर्यमद्भुतम् ।
जातं राधे! महाचमत्कारमयं हि तच्छृणु ॥९९॥ सर्वे वदन्ति गन्तव्यं शिवेश्वरपुरं प्रति ।
अम्बरात् केन विधिना कैलासं प्रविहाय च ॥1.286.१० ०॥ तावद्वै शम्भुना तत्र द्रुतं योगबलेन वै ।
कैलासकं समग्रं वै शनैः समवतारितम् ॥१०१ ॥ भुवं प्रति यथायोग्यं शिवेश्वरपुरं प्रति ।
कैलासनगरं सर्वं शिवसृज्यपुरे तदा ॥१ ०२॥ अवतीर्याऽन्तर्भावं प्रजगाम समविग्रहे ।
उद्यानेषु तदुद्यानाः कुञ्जेषु च निकुञ्जकाः ॥१ ०३॥ प्रासादेषु तथा प्रासादकाश्चान्तर्हितास्तदा ।
विमानानामाश्रयेषु विमानान्यभवँस्तदा ॥१ ०४॥ येषां कृते तु ये तत्राऽऽवासाः पूर्वं प्रकल्पिताः ।
महीमानास्त एवैते तदावासेषु तत्र ह ॥१ ०५॥ निषेदुः सुखसम्पन्नाः कन्यावासेषु कन्यकाः ।
राजाऽऽवासेषु राजानः साध्वावासेषु साधवः ॥१ ०६॥ ऋष्यावासेषु ऋषयो देवावासेषु देवताः ।
ईशावासेष्वीश्वराश्च मुक्तावासेषु मुक्तकाः ॥१ ०७॥ कृष्णाऽऽवासे हरिश्चापि त्वन्यावासेषु चान्यकाः ।
सृष्टित्रयनिवासेषु यथायोग्यं हि राधिके ॥१०८॥ सृष्टित्रयनिवासो वै नैसर्गिकोऽभवत्तदा ।
कैलासं लीनतां यातं दृश्यते शिवपत्तनम् ॥१ ०९॥ आवासाँस्तूर्णमापाद्य स्नानशुद्धिं प्रचक्रिरे ।
ततश्चक्रुर्भोजनानि स्मृद्धेषु मन्दिरेषु वै ॥1.286.११ ०॥ ताम्बूलं जगृहुश्चापि विश्रान्तिं जगृहुस्ततः ।
मनोरञ्जनदृश्यानि वीक्ष्य निद्रामगुस्ततः ॥१११ ॥ दासा दास्यो देहसंवाहनाद्यं चक्रिरे तदा ।
शिवेश्वरादयो नैजान् गृहान् रात्रौ समाययुः ॥१ १२॥ कन्यापक्षा महीमानाः कृत्वा भोजनमुत्तमम् ।
विश्रान्तिं लेभिरे निद्रां राधिके सुखिनोऽभवम् ॥११ ३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चाकाशकैलासे वादित्रैः कृष्णवाहिन्याः शङ्करेण बहुरूपैः कृतं स्वागतं चाभिवर्धनं पूजनं सन्मानं, मिष्टान्नजलपयःपानताम्बूलदानं, नरनारीणां परस्परं कुशलाऽनामयप्रश्नाः, कैलासस्य तिरोभावः, शिवपुरेऽवतरणं, भोजनादि, रात्रौ विश्रान्तिश्चेतिनिरूपणनामा षडशीत्यधिकद्विशततमोऽध्यायः ॥२८६ ॥