श्रीकृष्ण उवाच-
मध्याह्ने च यथा तद्वद् रात्रौ सद्भोजनान्यपि ।
अभवन् सर्वयोग्यानि भुक्त्वा पीत्वा जलादिकम् ॥१ ॥
ताम्बूलकं समगृह्य रात्रिरञ्जनकानि वै ।
द्रष्टुं रङ्गे गताः सर्वे दृष्टवन्तो नवान् नवान् ॥२ ॥
दृश्यान् बोध्यान् कलाकाण्डान् परिहारोत्तरं ततः ।
निद्रां शान्तिं जगृहुश्च तृतीयाप्रातरागमत् ॥३ ॥
ब्राह्मे मुहूर्ते सततं मङ्गलैस्तूर्यनिःस्वनैः ।
गीतिभिर्बन्दिकवाग्भिर्जजागरुश्च देहिनः ॥४ ॥
ब्रह्माण्डे यानि वाद्यानि तान्यवाद्यन्त तत्र वै ।
स्नाता हृष्टाः कृतसन्ध्यावन्दनाश्च महर्षयः ॥५ ॥
आशीर्वादान् प्रदातुं वै बालकृष्णं समाययुः ।
कृतस्नानं कृतवेषं समासीनं परासने ॥६ ॥
दत्ताशीर्वचना विप्रास्तिलकं चन्द्रकं व्यधुः ।
गणेशपूजनं चक्रुः कलशस्य प्रपूजनम् ॥७ ॥
नान्दीश्राद्धादिकं चक्रुर्गुरोश्च पूजनं व्यधुः ।
कुलदेवाऽर्हणं चक्रुर्वेदघोषान् व्यधुस्तथा ॥८ ॥
सर्वतोभद्रदेवानां विष्णोश्च पूजनं व्यधुः ।
दुग्धपानादिकं चक्रुर्महीमानाः समन्ततः ॥९ ॥
भोजनानि व्यधुश्चापि प्रातरारभ्य देहिनः ।
कोट्यर्बुदाब्जपद्माब्जपरार्धजनतास्तदा ॥2.283.१० ॥
तृतीये प्रहरे कृत्वा परिहारं समन्ततः ।
शुभे मुहूर्ते सज्जाश्च बभूवुः सर्वतोजनाः ॥११ ॥
काशीं प्रति प्रगन्तुं वै योगयात्रानुयायिनः ।
विमानानां सहस्राणां सहस्राणि तदाऽभवन् ॥१ २॥
श्रृङ्गारितानि सर्वाणि सज्जानि वाहनान्यपि ।
व्योमगान्येव सर्वाणि योगयात्रात्मकानि वै ॥१३ ॥
उद्धोषितं वरपित्रा काशीमायान्तु पावनीम् ।
योगयात्रात्मकाः सर्वे शिवेश्वरः समीहते ॥१४॥
शङ्करो गणयुक्तोऽत्र क्षेत्रं पास्यति सर्वथा ।
नगरं चाश्रमाँश्चापि मण्डपाद्यं च पास्यति ॥१५ ॥
श्रुत्वा सज्जा बभूवुश्च सर्वे वै महीमानकाः ।
सुराष्ट्रीयप्रजाग्र्याश्च सृष्ट्यग्र्याश्च समर्हणाः ॥१६॥
सर्वा ब्रह्मप्रियाश्चापि समस्तकृष्णयत्निकाः ।
तासां पित्रादिकाः सर्वे सर्वभूमिनिवासिनः ॥१७॥
शृणु राधे तदाऽऽश्चर्यमभूच्चमत्कृतिप्रदम् ।
व्योमवाणी स्पष्टभावा चाश्रूयन्त समन्ततः ॥१८॥
सृष्टित्रयेऽपि यैः कन्या दत्ता निजाः परात्मने ।
पञ्चदशसमामध्ये बालकृष्णाय शार्ङ्गिणे ॥१ ९॥
तैः सर्वैस्तत्र पित्राद्यैरागन्तव्यं ध्रुवं यतः ।
तत्र वै शाम्भवीलक्ष्म्या योगे स्युर्लग्निताश्च ताः ॥2.283.२०॥
यावता वेदविधिना विधिना मानवेन च ।
वाह्नेयविधिना चापि कन्यादानविधानतः ॥२१ ॥
न्यूनतापरिहारार्थं देशधर्मानुरोधतः ।
वह्निं प्रदक्षिणीकृत्य विधानं सम्भविष्यति ॥२२ ॥
सर्वाभिश्चापि कन्याभिर्लोमशाश्रमवृत्तिभिः ।
अनादिश्रीकृष्णनारायणकान्ताभिरेव ह ॥२३॥
आगन्तव्यं श्रीकृष्णस्य वाहिन्या सममेव वै ।
स्वपित्रादिकुटुम्बाद्यैः सार्धं रोधो न विद्यते ॥२४॥
श्रुत्वा सर्वे जनकाश्च कुटुम्बाः सर्ववस्तुभिः ।
योग्योपकरणैः सर्वे नारीयुक्ताः समुत्सुकाः ॥२५।
सज्जा अभवन् कन्याश्चाऽभवन् सज्जाः समस्ततः ।
लोमशो मुनयश्चाऽन्ये महर्षयश्च साधवः ॥२६॥
सज्जा अभवन् सन्तश्च महीमानाः समन्ततः ।
भूषाम्बरविमानाद्यैः सहिताः कोटिशोऽपरे ॥२७॥
राधे तदा तु कन्यानामानन्दो न ममौ तनौ ।
सर्वशृङ्गारभूषादिपेटायुक्ताः समन्ततः ॥२८ ॥
सज्जा अभवँस्तूर्णं वै कृष्णालयं समाययुः ।
कन्यानां पितरश्चापि मातरोऽपि द्रुतं तदा ॥२९ ॥
कृष्णालयं समागत्य कन्याऽऽगमं सहाऽपि च ।
वाहिन्या च प्रनिश्चिक्युर्बभूवुर्हृष्टमानसाः ॥2.283.३० ॥
शकुनान्यभवँस्तत्र सर्वेषां तु तदा मुहुः ।
शुभान्येव हि सर्वाणि सर्वासामपि सन्ति च ॥३१ ॥
श्रेष्ठयोगप्रदान्येव यशःकीर्तिकराण्यपि ।
अविघ्नकार्यफलकान्यभवन् सूचनानि च ॥३२॥
प्रसन्नाननवत्यश्चाऽऽनन्दभृताः सवत्सकाः ।
दुग्धस्रावं प्रमुञ्चन्त्यो मिलिताः कामधेनवः ॥३३ ॥
सर्वशृङ्गारभूषाढ्याः सर्वानन्दपरिप्लुताः ।
कन्यका मिलितश्चापि मिलिता वारयोषितः ॥३ ४॥
सफलार्द्राणि सस्यानि दधि गजाः सुभूषिताः ।
साऽम्बालिका राजराज्ञीयुक्तास्तत्र समागताः ॥३५ ॥
हंसाश्च राजहंसाश्च कन्यकाश्च जलान्विताः ।
गान्धर्व्यो मिलिताश्चापि गायन्त्यः सुविभूषिताः ॥३६ ॥
देवानां दर्शनं चापि प्रत्यक्षं चाऽम्बरेऽभवत् ।
लक्ष्मीनां कमलानां च दर्शनान्यभवँस्तदा ॥३७ ॥
वादित्राणां निनदाश्चाऽऽश्रूयन्त मङ्गलावहाः ।
यज्ञहोमा वेदमन्त्रा अश्रूयन्त शुभावहाः ॥३८ ॥
स्वाभाविकं चाऽभवच्च श्वेतवस्तुप्रदर्शनम् ।
दक्षिणा वह्नयश्चाप्यनुकूला वायवोऽभवन् ॥३९ ॥
गुर्वाशीर्वादवाचश्चाऽभवँस्तत्राऽतिशोभनाः ।
कृतवस्तूपसङ्ग्राहाः सर्वे नराश्च योषितः ॥2.283.४० ॥
कुङ्कुमवापिकासंस्थाः कृतभोजनपानकाः ।
कृतोपहाराः सद्वेषाः कुटुम्बसहिता जनाः ॥४१ ॥
महीमानाः सर्ववर्गाः सभृत्यमित्रबान्धवाः ।
सज्जा बभूवुः शीघ्रं ते सज्जविमानकोटयः ॥४२ ॥
अथ मङ्गलशङ्खस्य पाञ्चजन्यस्य वै तदा ।
यात्रामुखे निनादोऽभूद् विधये मङ्गलाय वै ॥४३ ॥
तदा गोपालकृष्णो वै ददौ दानानि कोटिशः ।
कन्याभ्यश्चापि विप्रेभ्यो बालेभ्यश्च विशेषतः ॥४४॥
मिष्टान्नानि शर्कराश्च फलानि विविधान्यपि ।
वस्त्राभूषाश्च पात्राणि रत्नानि च धनानि च ॥४५ ॥
गोदानानि स्वर्णरूप्यप्रदानानि तदा ददौ ।
यात्रामुखे गणेशस्य पूजनं प्रचकार ह ॥४६ ॥
सर्वतोभद्रपूजा च वृद्धानां पूजनं नमः ।
कुलदेवस्य च तथा पुरुषोत्तमशार्ङ्गिणः ॥४७ ॥
श्रीविष्णोर्दर्शनं चापि पूजनं वै श्रियास्तथा ।
चकार तत्र दानानि ददावसङ्ख्यकान्यपि ॥४८ ॥
तीर्थदेवान्नमस्कृत्य द्वारदेवानपूजयत् ।
गाः सम्पूज्य ततो यानं विमानं समपूजयत् ॥४ ९ ॥
वैदिकाँश्चाऽपूजयच्च बालकृष्णोऽपि वै तदा ।
शङ्खचक्रगदापद्मधरो मुकुटशोभितः ॥2.283.५ ० ॥
सकुण्डलोऽभवद्धस्ते स्वर्णखड्गधरोऽभवत् ।
वरवेषोऽभवत्तूर्णं हीरहारादिशोभितः ॥५ १ ॥
सर्वकौशेयसौवेर्णवेषोऽभवद् वरोत्तमः ।
कृतकुङ्कुमतिलकः सुवासितसुगन्धवान् ॥५२ ॥
प्रकोष्ठबाहुकट्यङ्गांऽगुलीभूषणभूषितः ।
कृताऽक्षताऽन्वितचन्द्रः शुशुभे तेजसाऽन्वितः ॥५३ ॥
माता श्रीकम्भरालक्ष्मीस्तिलकं तस्य संव्यधात् ।
सन्तुष्टाख्या स्वसा चन्द्रं व्यधाद् कण्ठे स्रजं ददौ ॥५४ ॥
मणिमौक्तिकहाराँश्चोज्जयिनी शुकपत्निका ।
न्यधारयद्धरेः कण्ठेऽमृता च कज्जलं ददौ ॥५५ ॥
चक्षुषोः, शंवती केशानसाधयत् सतैलकान् ।
रमाऽलक्तकमेवाऽपि करयोश्च तले ददौ ॥५६ ॥
पदयोश्च तलेऽलक्तकमर्पयद्धि माणिकी ।
लक्ष्मीः कमलहाराँश्च स्वर्णहारान् ददौ तदा ॥५७ ॥
हासा ददौ पुष्पगुच्छं केयूरं मञ्जुला ददौ ।
अम्बा तेजोमणिं चक्रे सुगन्धं सगुणाऽक्षिपत् ॥५८ ॥
एवं विभूषयित्वैव ब्रह्मप्रियास्तथाऽपराः ।
कन्यका कृतवेषाश्च सज्जा भूत्वा व्यवस्थिताः ॥५९ ॥
तथाऽन्ये भ्रातरश्चापि गोपालकृष्णपूर्वजाः ।
अन्ये चापि भ्रातरश्च बालकृष्णस्य पितृजाः ॥2.283.६० ॥
कन्यकाः शतशश्चापि बालाश्च बालिकास्तथा ।
पुत्रपौत्रा स्वसारश्च सम्बन्धिनः सहस्रशः ।
सज्जा बभूवुस्तूर्णं ते कृतपानादनास्तदा ॥६१ ॥
राजानो ये पितरौ वै कन्यकानां च भूमिपाः ।
तेऽपि सज्जा अभवँश्च कृतपानादनाः खलु ॥६ रे ॥
तावद्भेरीनिनादोऽभूच्छङ्खनादस्तथाऽभवत् ।
विमानेषु समारोहसूचको लम्बगर्जनः ॥६३ ॥
तदा गोपालकृष्णश्च लक्ष्मीः श्रीकम्भरासती ।
कुटुम्बं सुविमाने वै चारुरोह सवस्तुकम् ।
ब्रह्मप्रियाः समस्ताश्चारुरुहुश्च विमानकम् ॥६४॥
लोमशाद्याः ऋषयश्चारुरुहुः सुविमानकम् ।
साधवोऽश्वपट्टवासाश्चारुरुहुर्विमानकम् ॥६५॥
कुङ्कुमवापिकालोकाश्चारुरुहुर्विमानकम् ।
राजा स्वर्णाङ्गदोऽप्यारुरोह सवंशविस्तरः ॥६६॥
रणङ्गमोऽप्यारुरोह लक्ष्मणश्चारुरोह वै ।
तीर्थदेवाश्चारुरुहुश्चारुरुहुः प्रजाजनाः ॥६७॥
महीमानाश्चारुरुहुर्विमानान्ययुतान्यपि ।
शृणु राधेऽग्रगण्यानां नामान्यपि समासतः ॥६८॥
मेघनाद्यश्चतुर्दशसहस्राणि च सज्जिताः ।
षष्ठी या मनसादेवी बालरक्षाकरी सदा ॥६९॥
तस्या रूपाणि कन्या वै दीपावल्यो हि कोटिशः ।
ताः सज्जाश्च विमानो वै लोमशस्याऽऽश्रमात्तदा ।
आरुरुहुः कृतवेशाः सोत्साहाश्चाच्युताऽऽज्ञया ॥2.283.७० ॥
तलाजा या तलपुत्री राक्षसी दिव्यतां गता ।
साऽपि विमानमेवाऽत्राऽऽरुरोह माधवाऽऽज्ञया ॥७१॥
कामधेन्वात्मककन्याः कोटिसङ्ख्या विमानकम् ।
आरुरुहुस्तदा तत्र बालकृष्णाज्ञया द्रुतम् ॥७२॥
वसुमत्या समं कन्याशतमर्जन्तरक्षसः ।
आरुरोह विमानं च बालकृष्णाज्ञया तदा ॥७३॥
आरुरोह हरकन्या क्रोधना माधवाज्ञया ।
धरापुत्र्योऽयुतसहस्राणि धरासमन्विताः ॥७४॥
कोटिसङ्ख्या गह्वराख्याश्चारुरुहुर्विमानकम् ।
सर्वाभरणवस्त्राढ्या दिव्याः प्रोत्साहितास्तदा ॥७५॥
सूच्याख्या वेधसः पुत्री विमानमारुरोह च ।
वनदेवीसुताःलक्षं चारुरुहुर्विमानकम् ॥७६॥
वनदेव्या समं मात्रा ओषध्याख्या हि कन्यकाः ।
दमनादिरक्षसां च नूत्नाख्या लक्षकन्यकाः ॥७७॥
आरुरुहुर्विमानं च भूषाम्बरादिभूषिताः ।
कङ्कताल्यो नूतनाः षट् चारुरुहुश्च कन्यकाः ॥७८॥
कङ्कतालादिनार्यश्च दिव्याऽयुतसुकन्यकाः ।
आरुरुहुर्विमानं च सर्वाभरणभूषिताः ॥७९॥
अर्यमादिकपितॄणां दिव्याश्च लक्षकन्यकाः ।
पितृयुक्ता निषेदुश्च विमाने सुविभूषिताः ॥2.283.८० ॥
रसातलीयदैत्यानां पञ्चसहस्रकन्यकाः ।
कृष्णाज्ञया चारुरुहुर्विमानं सुविभूषिताः ॥८ १ ॥
वासन्तिक्यः कन्यकाश्च विभूषिताश्च षोडश ।
आरुरुहुर्विमानं वै बालकृष्णाज्ञया तदा ॥८२॥
तालमालस्य दैत्यस्य कन्याः पञ्चशतानि च ।
स्वलङ्कृताः कृष्णवाक्याच्चारुरुहुर्विमानकम् ॥८३ ॥
नागकन्या विंशतिश्च तथा दशसहस्रकम् ।
स्वलङ्कृताश्चारुरुहुर्विमानं माधवाज्ञया ॥८४ ॥
शावदीनस्य वै कन्यासहस्रं सुविभूषितम् ।
आरुरोह विमानं च बालकृष्णाज्ञया तदा ॥८५ ॥
ऐन्द्रजालिककन्यानां सहस्रं च विमानकम् ।
आरुरोह तदा कृष्णाज्ञया शृङ्गारशोभिताः ॥८६ ॥
सरस्वती तथा चतुर्दशविद्याख्यकन्यकाः ।
षष्टिकन्यास्तथाऽन्याश्चारुरुहुश्च विमानकम् ॥८७ ॥
भूगर्भाच्चागतस्तत्र राजा लक्ष्मणनामकः ।
सोऽपि विमानकं चारुरोह नैजं परोत्तमम् ॥८८ ॥
स्वकीयद्विसहस्रकन्यकाभिः सह वै द्रुतम् ।
द्वासप्ततिसहस्राणि कन्यका नाडिकाभिधाः ॥८९ ॥
वेधसः पुत्रिकाश्चारुरुहुर्निजविमानकम् ।
विश्वावसुः स्वकन्याभिस्त्रिशतैश्च विमानकम् ॥2.283.९० ॥
आरुरोह तदा कृतशृङ्गाराभिः समुत्सुकः ।
सहस्रं कन्यका जुमासेम्लाराज्ञो विमानकम् ॥९१ ॥
आरुरुहुः स्वपित्रा च कृतशृङ्गारशोभनाः ।
शतं कन्याः सौरत्यश्च विप्रैः पितृभिरेव ताः ॥९२ ॥
सहिता भूषिताश्चाप्यरुरुहुश्च विमानकम् ।
महाबालेश्वरीकन्यात्रयं पित्रा समं तदा ॥९३ ॥
आरुरोह विमानं च स्वलङ्कृतं विभूषितम् ।
दक्षजवङ्गरो राजा उष्णालयस्य भूपतिः ॥९४ ॥
स्वकन्याशतकं रम्यं प्रजाकन्यासहस्रकम् ।
गृहीत्वा चारुरोहापि विमानं सुविभूषितम् ॥९५ ॥
अर्यम्णो विंशतिकन्या अन्या दशसहस्रकम् ।
अर्यम्णा सह सर्वास्ताश्चारुरुहुर्विमानकम् ॥९६ ॥
प्राचीनभ्वाः प्रजाकन्याः कोटिरेवाऽपि भूषिताः ।
स्वस्वपितृयुताश्चारुरुहुर्दिव्यं विमानकम् ॥९७ ॥
सन्तारणस्य विप्रस्य कन्याद्वयं विभूषितम् ।
विमाने च समारुरुहतुः पित्रा समं सुते ॥९८ ॥
इत्येवं राधिके कन्या लोमशाश्रमसंस्थिताः ।
पित्रादिभिर्लोमशेनर्षिभिर्मात्रादिभिस्तथा ॥९९ ॥
कृष्णकान्ताज्ञया तूर्णं निषेदुर्व्योमवाहने ।
शृङ्गारिताः सोत्सुकाश्च प्रोद्वाहः कृष्णयोरिति ॥2.283.१०० ॥
निजां कृष्णां मन्यमानाः कृष्णार्थं कृतकाऽर्पणाः ।
कृष्णाऽविनाभावबद्धाः प्रोद्वाहः कृष्णयोरिति ॥१०१ ॥
उत्साहसम्भृताः सर्वा वाहिन्या कृतयत्निकाः ।
जगुर्निजोत्सवाऽऽनन्दाः प्रोद्वाहः कृष्णयोरिति ॥१ ०२॥
अथाऽन्या अपि कन्याश्चारुरुहुश्च विमानकम् ।
कथयिष्ये राधिके ते कृष्णकान्ता विभूषिताः ॥१०३ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशुक्लतृतीयायां प्रातःकृत्यानि, मध्याह्नभोजनादीनि, ततः काशीं प्रति मङ्गलयोगयात्रार्थं सज्जता,
श्रीहरिशृङ्गारः, माङ्गलिककर्तव्यानि, ब्रह्मप्रियाद्किन्यकानां विमानाधिरोहश्चेत्यादिनिरूपणनामा त्र्यशीत्यधिकद्विशततमोऽध्यायः ॥२८३ ॥