२८१

श्रीकृष्ण उवाच-
अथैवं मण्डपे जाते सर्वलोकसमुज्ज्वले ।
सूर्यतेजांसि सौराष्ट्राद् व्यवर्तन्ताऽम्बराद् दिवः ॥१ ॥ मण्डपस्यैव तेजांसि सौराष्ट्रे दिनता व्यधुः॥ रात्रिर्देशान्तरं याता तेजोनिस्सारिता तदा ॥२ ॥ रात्रिभानं तु लोकानामक्षरक्षेत्रवासिनाम् ।
मण्डपान्निःसरद्भिश्च तेजोभिरानुमानिकम् ॥३ ॥ मण्डपान्तर्गतानां तु मणौ यत्सर्वदर्शनम् ।
तद्यदा जायते नैव तदा निशाऽनुमानकम् ॥४ ॥ यदा मणौ चान्तर्मणौ प्रकाशन्ते हि सृष्टयः ।
तदा भानं दिवसस्य जायते भानिवासिनाम् ॥५ ॥ इत्येवं मण्डपे जाते किमाश्चर्यं हरेर्गृहे ।
सर्वं वै घटते तस्य स्वल्प एषस्तु मण्डपः ॥६ ॥ एवं मण्डपनिर्माणे ततोऽवाद्यन्त तद्गताः ।
दिव्यवाद्यविशेषाश्च तथा लौकिकवाद्यकाः ॥७ ॥ द्रष्टुं तन्मण्डपं लोका आययुश्च समन्ततः ।
देवा वै हंसरूपाश्च व्योम्नाऽऽययुः पुनर्ययुः ॥८ ॥ अथ कुङ्कुमपत्रीं च लिलेख भगवत्पिता ।
लोमशं तु समाहूय नारदं च महामुनिम् ॥९ ॥ स्वतःप्रकाशं देवं च पप्रच्छ तन्मुहूर्तकम् ।
सूर्योदयोत्तरं सार्धघटीद्वयादनन्तरम् ॥2.281.१ ०॥ प्रतिपत्रीमुहूर्तं च विलोक्याऽऽहुश्च ते त्रयः ।
सर्वविजयदः कालो वर्ततेऽद्य शुभावहः ॥११ ॥ प्रवर्तते तु समयः शुभो लिखतु पत्रिकाम् ।
इत्युक्त्वा विप्रवर्यास्ते स्वस्तिमङ्गलमन्त्रकान् ॥१२॥ जगुर्वेदगतान् सूक्तान् सर्वमङ्गलशोभनान् ।
पत्रं च लेखिनीं चापि द्रवपात्रं च पट्टिकाम् ॥१३ ॥ रक्तद्रवं तथा सर्वे पूजयामासुरुत्सुकाः ।
गणेशपूजनं चक्रुर्धूपदीपाऽक्षतादिभिः ॥१४॥ श्रीविष्णुपूजनं चक्रुस्तथा गोपालपूजनम् ।
तथा श्रीबालकृष्णस्य चक्रुर्वै पूजनं तदा ॥१५॥ बालकृष्णः पितृयुक्तः पूजयामास तानपि ।
दत्तासनेषु ऋषयो विप्राश्चान्येऽपि मानिताः ॥१६ ॥ निषेदुः पूज्यवर्गास्ते नार्योऽगायँस्तु गीतिका ।
कुङ्कुमपत्रिकां चामन्त्रणार्थां योगबोधिकाम् ॥१७॥ अलिखच्छ्रीमहाविष्णुर्गोपालकृष्णकः पिता ।
नत्वा देवानृषीन् वृद्धान् स्मृत्वा श्रीपुरुषोत्तमम् ॥१८॥ श्रीमद्ब्रह्मपुराधिपो हि भगवान् सर्वावतारेश्वरः,
श्रीकृष्णश्च नरायणोऽपि च हरिः श्रीवासुदेवः शिवः ।
श्रीविष्णुश्च नराग्रजश्च धवलद्वीपस्थनारायणः,
शेषस्थश्च हरिर्गणेश्वर इमे कुर्वन्तु नो मङ्गलम् ॥१ ९।
श्रीमद्ब्रह्मसरूपिणी भगवती सर्वावतारेश्वरी,
श्रीराधा च नरायणी च हरिणी श्रीवासुदेवी शिवा ।
श्रीर्लक्ष्मीः कमला रमा च धवलद्वीपस्थनारायणी,
सावित्री च सरस्वती विदधतु द्युस्थाश्च नो मङ्गलम् ॥2.281.२०॥ श्रीकान्तः पुरुषोत्तमश्च विभवा व्यूहाश्च धामाधिपा,
लक्ष्मीशाश्च तथेश्वराश्च पितरश्चार्षाः सुरास्तत्स्त्रियः ।
आदित्या वसवोऽश्विनौ दिगधिपा रुद्रास्त्रिदेवेश्वरा,
दम्पत्योर्गृहधर्मसम्भृतमिदं तन्वन्तु शं मङ्गलम् ॥२१ ॥ श्रीकाशीनगरीश्वरस्य विबुधैः सम्पूजितस्यैव च,
श्रीमच्छ्रीनिधिशङ्करस्य तनुजालक्ष्म्याः परं मङ्गलम् ।
श्रीकाश्यां भविता सुतेन तु मम श्रीबालकृष्णेन वै,
मार्गे शुक्लचतुर्थिकानिशि, सुतोगन्ताऽक्षरक्षेत्रतः ॥२२।
ब्रह्माण्डे तु चतुर्मुखस्य च विधेः पद्मासनस्यैव वै,
भूलोकेऽपि च मेरुदक्षिणदिशाखण्डे ह्यजानाभिके ।
आयान्त्वेव सुराष्ट्रके स्थितवतो गोपालकृष्णस्य मे,
ख्याते कुङ्कुमवापिकाख्यनगरे तूर्णं स्वकैः संयुताः ॥२३॥ अद्याऽऽद्येऽह्नि तु मण्डपस्य समयस्ताम्बूलपानस्य च,
श्वो भावि श्रीमतः सुतस्य तु तनौ सत्पिष्टिकामर्दनम् ।
तार्तीये तु दिने सुराऽर्हणमथो यात्रा च काशीं प्रति,
तुर्ये हस्तसमग्रहो हि भविता तद्दीपयन्त्वर्थये ॥२४॥ ये वै ब्रह्मसुसृष्टिगाऽक्षरजना धामादिवासाश्च ये,
ये चापीश्वरसृष्टिगाश्च जडगाश्चाऽष्टाऽऽवृतिस्था अपि ।
ये वै जीवनसृष्टिगाश्च विविधा लोकाश्च लोकाधिपा,
राजानश्च निजाः प्रजाश्च सुहृदश्चायान्तु सम्बन्धिनः ॥२५॥ स्वस्वैश्वर्ययुताः स्वभृत्यसहिताः सर्वानुगैः संयुताः,
स्वस्वैर्दिव्यसमाश्रितैश्च सहिताः स्त्रीपुत्रपुत्रीयुताः ।
तत्तन्मित्रयुताः प्रमित्रसहिताश्चाबालवृद्धान्विता,
मत्पुत्रस्य सुमङ्गलेऽभित इहाऽऽयान्त्वेव शोभावहाः ॥२६॥ श्रेष्ठः श्रीभगवान् तदग्रज इति भ्राजन् शुकश्चाऽपरः,
श्रीमद्वल्लभनामकोऽनुगरतिस्ते बान्धवाः सर्वथा ।
तद्वच्चान्यकुटुम्बिनोऽपि च वयं सर्वान्प्रतीष्टाऽर्थनां,
कुर्मो यद् भवतामवश्यमनघे सन्दर्शनं स्तादिह ॥२७॥ मुक्ता ब्रह्मगताश्च धामसु गता ये पार्षदाः श्रीपते-
रीशेशादिकधामगा अपि महैश्वर्याश्च मुक्ताश्च ये ।
ब्रह्माद्याऽभिमताश्च सिद्धपुरुषाः सन्तश्च ये साधवो,
दम्पत्योश्च शुभं सुमङ्गलमयं कुर्वन्तु शं शाश्वतम् ॥२८॥ इत्येवं राधिके! तत्राऽलिखद् गोपालकृष्णकः ।
कुङ्कुमाक्तां पत्रिकां चाऽप्रेषयत् सर्वसृष्टिषु ॥२९॥ ऋषीन् ब्रह्माण्डगोलेषु मुक्तानक्षरधामसु ।
नारदादीनीशलोकेष्वप्रेषयत् प्रदाय च ॥2.281.३ ० ॥ पूजितां कुङ्कुमैश्चाप्यक्षतैः पुष्पादिभिस्तथा ।
पुटितां पर्णके चापि दोरकेणाभिवेष्टिताम् ॥३१ ॥ तुलसीपत्रसंयुक्तां कोट्यर्बुदप्रतिकृतिम् ।
समादाय ययुः सर्वे त्वाज्ञप्तास्ते मनोजवाः ॥३२॥ ददुश्च कुङ्कुमपत्रं प्राप्य सत्कारमाययुः ।
मण्डपेऽत्र तदा राधे! गोपालकृष्णको ददौ ॥३३॥ दुग्धपानं च मिष्टान्नं ताम्बूलकं समुत्सवे ।
समागतान् नृपान् भक्तान् विप्रान् लोकान् प्रजाजनान् ॥३४॥ श्रेष्ठिनश्चाप्यनाथाँश्च महतोऽपि दरिद्रकान् ।
मान्यान् पूज्यान् वन्दनीयान् वैश्यान् दासाँश्च दासिकाः ॥३५॥ भृत्यान् कार्यकराँश्चापि स्थानिनस्तैर्थिकानपि ।
आगन्तुकान् महीमानान् प्रसङ्गाच्च समागतान् ॥३६॥ पानं पूगीफलं दुग्धं पायसं मिष्टमन्नकम् ।
फलं जलं दलं चापि ददौ गोपालकृष्णकः ॥३७॥ वाद्यन्ते तत्र वाद्यानि तूर्याणि विविधान्यपि ।
गीतिकाश्चापि जायन्ते सर्वस्त्रीणां च मण्डपे ॥३८॥ आयान्ति च प्रयान्त्येत्य प्राप्य ताम्बूलकादिकम् ।
सौराष्ट्रं सर्वमेवेति नगरं च समस्तकम् ॥३९॥ समायादुत्सवे तत्र राधे! ताम्बूलकोत्सवे ।
ताम्बूलदानकं तत्र दीयते सततं प्रिये ॥2.281.४०॥ भोजनार्थं पङ्क्तयश्चाऽभवन् मध्याह्नकेऽपि तु ।
मण्डपं वीक्षितुं तत्राऽऽययुः सहस्रशो जनाः ॥४१ ॥ तेऽपि सर्वे भोजनानि जगृहुः श्रीहरेर्गृहे ।
महीमाना नगरस्था देशेभ्य आगता अपि ॥४२॥ वर्धयित्वा बालकृष्णं प्राप्य सुस्वागतं ततः ।
भोजनानि कृतवन्तो विश्रान्तिं परमां ययुः ॥४३ ॥ ब्राह्मणाश्च तदन्याश्च स्वामिनो भृत्यजातिकाः ।
दीनाऽनाथा भिक्षुकाश्च भोजनानि प्रचक्रिरे ॥४४॥ मिष्टान्नानि पायसानि क्षीराणि भक्ष्यकाणि च ।
लावणानि स्वादवन्ति बुभुजिरेऽतितृप्तिकम् ॥४५ ॥ ताम्बूलानि तथा पूगीफलानि प्राप्य वै ततः ।
आगन्तुका भोजनानि कृत्वा यान्ति निजालयम् ॥४६॥ महीमाना येऽद्य पत्र्याऽऽमन्त्रिता देशगा अपि ।
विदेशगास्तथा भिन्नलोकगा भिन्नसृष्टिगाः ॥४७॥ आगच्छन्ति मनोवेगा योगिनस्तत्र चोत्सवे ।
मण्डपे ते स्वादवन्ति मधुपर्काणि भावतः ॥४८॥ ताम्बूलकं तथा लब्ध्वा विलोक्य मण्डपं तथा ।
बालकृष्णं वर्धयित्वा गृहीत्वा भोजनानि च ॥४९॥ मिलित्वा च महीमानान् ततो यान्त्यर्पिताऽऽसनम् ।
तूर्याणां निनदाश्चाव्याहता जायन्त उत्तमाः ॥2.281.५ ० ॥ गीतिकाः कन्यकानां च प्रवर्तन्तेऽपि सर्वतः ।
दीयतां दीयतां चेति भुज्यतां भुज्यतामिति ॥६ १ ॥ सत्कारं गृह्यतां चेति शब्दा रोधं व्रजन्ति न ।
भूमिमार्गाद् वायुमार्गान्महीमानव्रजाश्च खात् ॥५२॥ आयान्ति स्म विमानाद्यैर्वाहनैश्च मनोजवैः ।
महन्मण्डपमध्ये तान् गोपालकृष्णसेवकाः ॥५३ ॥ निवासयन्ति च यथाकल्पितेषु गृहेषु वै ।
स्वागतार्थं पार्षदाश्च तिष्ठन्ति सततं पुरः ॥५४॥ कन्यका दासदासाश्च सेवन्ते कृतिनस्तदा ।
एवं वै राधिके! सायम्पर्यन्तं पानदानकम् ॥५५॥ ताम्बूलादेः प्रदानं च भोजनं संव्यवर्तत ।
ततः सन्ध्यावन्दनादि नीराजनं हरेस्तथा ॥५६॥ अभवच्च ततो रात्रौ महोत्सवः कृतोऽभवत् ।
गायका वाद्ययुक्ताश्च गायन्ति तालमानतः ॥५७॥ गायन्ति गीतिकाश्चापि गान्धर्व्यो गायिकास्तदा ।
नृत्यन्ति नृत्यकारिण्यः सुवेषाः सुमनःप्रियाः ॥५८॥ अप्सरसो ब्रह्मसरसश्च गायन्ति गीतिकाः ।
नृसरसस्तथा पर्यो गायन्ति नृत्यसंयुताः ॥५९॥ कन्यका विविधाऽऽयामा भिन्नभङ्गीकृतश्रमाः ।
देहयष्टीः प्रविवृत्य दर्शयन्त्यासनीकलाः ॥2.281.६ ०॥ एवं वै राधिके जाते ततो रासार्थमागताः ।
रङ्गमण्डपमध्ये ताः कन्यका रासमादधुः ॥६ १ ॥ सर्वास्ताः समवेषाश्च समकान्तिसमाम्बराः ।
समभूषाः समभावा रासयन्ति हि मण्डपे ॥६ २॥ वादिका वादयन्त्येव गायन्ति गायिकास्तथा ।
मध्यपरे नृत्यवत्यौ द्वे स्त्रियौ नृत्यतस्तदा ॥६ ३ ॥ अन्याश्चक्रभ्रमेणैव गायन्ति च भ्रमन्ति च ।
हस्ततालीप्रदानैश्च पादन्यासैश्च विक्रमैः ॥६४॥ पृष्ठपादैर्वक्रपादैर्वक्रदेहैश्च मण्डले ।
वक्रग्रीवादिभिश्चापि वक्रनेत्रैः रमन्ति च ॥६५॥ एवं रासे कृते पश्चान्मल्लास्तत्र समाययुः ।
सबलाः शिखरप्रायाः पुष्टा नादविनादिनः ॥६ ६ ॥ स्वभावचञ्चला पृष्ठकूर्दनैर्हास्यकारिणः ।
मण्डले मण्डलाकारे द्वौ द्वावाजग्मतुस्तदा ॥६७॥ योधने चक्रतुश्चापि विकर्षणाऽपकर्षणैः।
उत्तानक्षेपणैश्चापि भूमुखक्षेपणादिभिः ॥६८॥ स्वमुखक्षेपणैश्चापि स्वाम्याकर्षणकादिभिः ।
पृष्ठताडनकैश्चापि सक्थिताडनकैस्तथा ॥६९॥ अग्रे वेगक्षेपणैश्चाऽम्बरे क्षेपणकैस्तथा ।
भ्रामणै रेचनैश्चापि पादबाहुप्रयोधनैः ॥2.281.७०॥ वक्षोयोधनकैश्चापि जयाजयपरायणैः ।
गुरुभारवहाश्चाऽन्ये दन्तभारप्रतोलकाः ॥७१ ॥ वक्षःपाषाणभेदाश्च पृष्ठहस्तिगमास्तथा ।
करेणशकटीरोधाः स्कन्धे दशजनाश्रयाः ॥७२॥ इत्येवं बहुधा भेदान् मल्लाः प्रदर्शयन्ति च ।
ततो याता नाटयकरा नेपथ्यधारिणः शुभाः ॥७३ ॥ बालाश्च बालिकाश्चापि चक्रुर्नेपथ्यमङ्गलम् ।
नाटकं बालकृष्णस्याऽवतारस्य यथातथम् ॥७४॥ चक्रुः सुशोभनं चाकर्षणकारि मनोहरम् ।
वैकुण्ठादागमो यद्वल्लक्ष्म्या नारायणस्य च ॥७५॥ शम्भोः सुनर्तनं चापि पृथ्व्यास्तले तथाऽऽगमः ।
लक्ष्म्यास्तपस्तथा श्रीमद्बालकृष्णस्य दर्शनम् ॥७६ ॥ एवं वै नाटकं पुरावृत्तं चक्रुर्हरेर्हि ते ।
नाट्यरङ्गे विनिर्वृत्ते विद्वांसस्तत्र चाययुः ॥७७॥ सूताश्च मागधाश्चापि बन्दिनः कवयस्तथा ।
काव्यानि नूतनान्येव श्रावयन्ति समाजके ॥७८॥ नारायणगुणाँश्चापि प्राचीनचरितान्यपि ।
गुणाँश्च दुःखहालक्ष्म्याः सत्याश्चापि शिवस्य च ॥७९॥ श्रीमद्गोपालकृष्णस्य कम्भराया हरेस्तथा ।
अथाऽभवन् कथा रम्याः संहितासु तु याः स्थिताः ॥2.281.८०॥ ततः श्रीबालकृष्णस्य पूजनं च निशार्धके ।
अभवत् पानदानाद्यैर्वस्त्राम्बरविभूषणैः ॥८१ ॥ ताम्बूलानि भोजनानि मिष्टपेयानि वै तदा ।
ददौ गोपालकृष्णश्च सर्वरङ्गेभ्य एव ह ॥८२॥ बालो वापि प्रमत्तो वा दीनो वा नाऽवशिष्यते ।
सर्वैर्लब्धं भोजनं च ताम्बूलकं च दक्षिणा ॥८३ ॥ ददौ कार्यकरेभ्यश्च रङ्गेभ्यो भगवत्पिता ।
पारितोषिकपात्रेभ्यः पारितोषिकमुत्तमम् ॥८४॥ स्वर्णरूप्यकरत्नानि मणिमौक्तिकहीरकान् ।
अमूल्यहाराऽऽभूषाँश्चाम्बराणि दिव्यकान्यपि ॥८५ ॥ कण्ठस्रजः प्रकोष्ठकसौवर्णकटकानि च ।
मुद्राश्चान्योपकरणान्यपि ददौ हरेः पिता ॥८६ ॥ सन्तुष्टास्तै दर्शकास्तु रङ्गशोभाकरा अपि ।
आयासिनश्च सन्तुष्टाः कलाकौशल्यशालिनः ॥८७॥ स्वस्वविद्याकलाप्रदर्शकास्तोषमगुर्धनैः ।
धन्या धन्या वदन्तश्च नेमुः कृष्णं च गोपकम् ॥८८॥ पितरं ते प्रणेमुश्च तथा नार्यः कलाक्रियाः ।
नर्तक्याद्या गायिकाश्च वस्त्रभूषाम्बराण्यपि ॥८९॥ पारितोषिकमासाद्य रत्नमौक्तिकमालिकाः ।
हीरकाँश्च शाटिकाश्च कञ्चुकीः स्वर्णसूत्रजाः ॥2.281.९०॥ शृङ्गारोपकरणानि सम्प्राप्य तोषणं ह्यगुः ।
पीत्वा भुक्त्वा नमःकृत्वा स्वस्वावासं ययुस्ततः ॥९१ ॥ महीमाना ययुश्चापि महामण्डपगालयान् ।
पत्तनीया ययुर्नैजालयान् महर्षयः कुटीः ॥९२॥ सन्तो निजाश्रमाँश्चापि भृत्याः स्वस्वालयान् ययुः ।
श्रीमद्गोपालकृष्णोऽपि कृत्वा सात्त्विकभोजनम् ॥९३॥ भोजयित्वा गृहजनान् बालकृष्णादिकाँस्ततः ।
परावृत्याऽमूल्यवेषं सामान्यं वेषमाप्य च ॥९४॥ विश्रान्त्यर्थं ययौ नैजे त्वालये निद्रितोऽभवत् ।
बालकृष्णोऽपि भगवान् निद्रामवाप योगिनीम् ॥९५॥ वाद्यानां वादकाश्चापि विरम्य भोजनानि च ।
कृत्वा नैजानालयाँश्च प्रययुर्निद्रिता अपि ॥९६॥ क्षेत्रपालाः शङ्कराद्या भुक्त्वा च देवतागणाः ।
स्वस्वमन्दिरमास्वाद्य विश्रान्तिं लेभिरे निशि ॥९७॥ कान्दविकाः सेवकाश्च परिहारकरास्तथा ।
कर्मचाराः प्रभुक्त्वैव स्वस्थानेषु च निद्रिताः ॥९८॥ तदा रात्रौ राधिके! ये रक्षकाः पालकाः जनाः ।
रात्रिचरा जाग्रतास्ते कुर्वन्ति क्षेत्रवीक्षणम् ॥९९॥ सशस्त्राश्चापि वाहाद्यैर्भ्रमन्ति परितोदृशः ।
जागरूका निद्रितानामालयान् रक्षयन्ति च ॥2.281.१० ०॥ इत्येवं राधिके! रात्रिर्व्यतीता चोज्ज्वला हि सा ।
प्रातर्जातं सर्वदिव्यमाङ्गल्यसम्भृतं पुनः ॥१०१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लिखित्वा कुङ्कुमपत्रिकायाः सर्वसृष्टिषु प्रेषणं, ताम्बूलपूगीफलादिमहोत्सवः रात्रौ गायिकानृत्यवाद्यनाट्यमल्लकाव्यपारितोषिकभोजनाद्युत्सवाः, परिहारो निद्रा चेत्यादिनिरूपणनामैकाशीत्यधिकद्विशततमोऽध्यायः ॥२८१ ॥