२७९

श्रीराधिकोवाच-
माणिक्यस्तम्भ एवाऽत्र मण्डपे स्थाप्यते कथम् ।
कलशस्थापनं तत्र किमर्थं वै विधीयते ॥१
गणेशस्थापनं चापि मातृकास्थापनं तथा ।
वास्तुस्थापनमेवाऽपि विष्णोः स्थापनमित्यपि ॥२
कुलदेवस्थापनं च कथं कृष्ण विधीयते ।
किं फलं स्थापने प्रोक्तमस्थापने किमप्रियम् ॥३॥ तत्सर्वं वद मे कृष्ण संसारिसुखकारणम् ।
यज्ज्ञात्वा चोत्तरे लोकाः करिष्यन्ति विधानतः ॥४ ॥ सर्षयो भगवद्भक्ताः सर्वतोभद्रमण्डलम् ।
स्थापयन्ति सदेवं च किमत्र कारणं प्रभो ॥५ ॥ श्रीकृष्ण उवाच-
शृणु राधे प्रवक्ष्यामि दम्पतीहितकृत्सुखम् ।
गृहस्थस्य विशेषेण पत्युस्तत्र विशेषतः ॥६ ॥ मणिस्वर्णादिसम्पत्कृद्गृहस्थस्य गृहे सदा ।
पूजितश्चैन्द्रदैवत्यश्चाग्निदैवत्य इत्यपि ॥७ ॥ धेनुदैवत्य एवापि माणिक्यस्तम्भ उच्यते ।
मण्डपे स्थापितः सोऽयमिन्द्राऽग्निधेनुदैवतः ॥८ ॥ गृहस्थस्य सदा चेन्द्रसमं कुर्यात् समृद्धिभिः ।
अग्नितुल्यं प्रोज्ज्वलं च कुटुम्बं नित्यदा भवेत् ॥९ ॥ धेनुः सदा रसान् दद्याद् गृहं वै रसवद् भवेत् ।
इन्द्रस्य स्मृद्धयः सन्तु गृहस्थस्य गृहे सदा ॥2.279.१० ॥ वह्नेः समृद्धयः सन्तु गृहस्थस्य गृहे सदा ।
धेनूनां स्मृद्धयः सन्तु गृहस्थस्य गृहे सदा ॥११ ॥ इत्येवं देवतास्तत्र स्थिता आशीर्ददत्यपि ।
अन्यथा त्रिविधं चास्य दारिद्र्यमुपजायते ॥१२ ॥ अस्मृद्धं चाऽपचनं चाऽरसं गृहं भवेत् खलु ।
सर्वं दुःखमयं स्याद्वै माणिक्याऽपूजनादिह ॥१३ ॥ यत्र माणिक्यवासो वै तत्र वासो हरेः सदा ।
यत्र हरेर्निवासश्च तत्र लक्ष्मीनिवासनम् ॥१ ४॥ यत्र लक्ष्म्या निवासश्च तत्र स्मृद्धिनिवासनम् ।
तस्मान्माणिक्ययूपं वै पूजयन्ति पुराविदः ॥१५॥ पार्थिवा बहवो दोषा निद्रालस्यगुरुत्वकम् ।
जडता शुष्कता चैते लीयन्ते तस्य पूजनात् ॥१६ ॥ विनाशो विधवात्वं च विधुरत्वं च रुग्णता ।
अनपत्यत्वमेवैते लीयन्ते तस्य पूजनात् ॥१७॥ प्रवासित्वमनाश्रयता चापि गृहशून्यता ।
फलिवृक्षादिशून्यत्वं लीयन्ते तस्य पूजनात् ॥१८॥ दम्पत्योः प्रेमशून्यत्वं वरालयेऽमनस्कता ।
वध्वाः सौभाग्यशून्यत्वं लीयन्ते तस्य पूजनात् ॥१९ ॥ भूमावभागिता वध्वा गृहे चाऽभागिता तथा ।
कुले चाऽभागिता वध्वा नश्यत्येवाऽस्य पूजनात् ॥2.279.२० ॥ राक्षसानामृणं चापि कुमारीदेवताऋणम् ।
पित्रादीनामृणं याति माणिक्यस्य प्रपूजनात् ॥२१ ॥ इन्द्राग्निधेनुसाक्ष्यं वै परलोकादिसाधकम् ।
गार्हस्थ्यं सर्वकर्माऽपि जायते फलदं ततः ॥२२॥ इत्येवं राधिके बोध्यं फलं माणिक्यपूजनात् ।
शृणु त्वं कलशस्यापि पूजनस्य फलं शुभम् ॥२३ ॥ कलशे जलमध्ये वै वरुणः संविराजते ।
तीर्थानि तत्र चायान्ति समुद्रसरितस्तथा ॥२४॥ सरांसि देवताश्चापि कलशेऽजहरीश्वराः ।
तत्साध्यं च विवाहस्य कर्म शान्तिसुखप्रदम् ॥२५ ॥ जलान्नदायकं सर्वरसानां च प्रदायकम् ।
शारीरं कामकर्माऽपि पावनं तस्य पूजनात्॥२६ ॥ पुत्रसम्पत्प्रदं सर्वं गृहं सदा च पावनम् ।
नैसर्गी याऽप्यशुद्धिश्च नारीदेहे नरेऽपि च ॥२७॥ वरुणस्य जलैः सेके सा च सर्वा निवर्तत ।
तीर्थरूपो भवेत्तेन पतिस्तीर्थफलप्रदः ॥२८॥ तीर्थरूपा भवेत्पत्नी सर्वतीर्थफलप्रदा ।
युगल तीर्थमेवाऽस्तीत्याह वरुणदेवता ॥२९ ॥ यत्र वै वारुणं स्थानं तत्र ऋणं न जायते ।
सर्वे रसाः सर्वगन्धास्तत्र भवन्ति वारुणाः ॥2.279.३ ०॥ ब्रह्मविष्णुमहेशानां निवासस्तद्गृहे भवेत्॥ यद्गृहे कलशस्थानं कलशोऽस्य पयोभृतः ॥३ १ ॥ पयसा च घृतेनाऽपि नवनीतेन सर्वदा ।
दघ्ना तक्रेण सोमेनाऽमृतेन सम्भृतो वसेत्॥३२॥ एवं कलशजातीया धातवोऽस्य वसन्ति च ।
स्वर्णरूप्याणि रत्नानि सरत्नकलशाऽर्हणात् ॥३ ३ ॥ कन्याः कलशमाङ्गल्याश्चास्य स्नुषाश्रितं गृहम् ।
भवेद् वंशस्मृद्धियुक्तं स्वर्णकलशशोभितम् ॥३४॥ एवं वै राधिके! प्रोक्तं कलशाऽर्हाफलं मया ।
अस्थापने कलशस्य प्रोक्तं सर्वं न जायते ॥३५ ॥ विपरीतं भवेत् सर्वं दुःखदारिद्र्यवर्धनम् ।
गणेशाऽर्हाफलं वच्मि कृष्णोऽहं वै गणाधिपः ॥३६ ॥ भगवान् सम्पदां दाता सर्वकामप्रपूरकः ।
सर्वसम्पत्प्रदश्चापि सिद्धिऋद्धिप्रदस्तथा ॥३७॥ शुभलाभप्रदश्चापि सर्वविघ्नविनाशकः ।
सर्वदा रक्षकश्चापि भवामि मम पूजनात्॥३८॥ लडडुऽकादिकमिष्टान्नं मम पूजाकृतो भवेत् ।
स्वर्णरूप्यगृहाण्यस्य जायन्ते पूजकस्य मे ॥३९ ॥ हस्त्यश्वरथबाहुल्यं वाहनाढ्यं गृहं भवेत् ।
पीताम्बरादिसंशोभो वेषोऽस्य सर्वदा भवेत् ॥2.279.४० ॥ गणेशस्य मुखं शुण्ढान्वितं पशुधनप्रदम् ।
उदरं स्त्रीसमं भोज्यप्रदं पुत्रादिसम्प्रदम् ॥४१ ॥ कट्यधः कामनाभागः सर्वकामप्रपूरकः ।
दुष्टप्रारब्धनाशश्च भवेद् गणेशपूजनात् ॥४२॥ उपद्रवो भवेन्नाऽस्य गणानां दुष्टयोगिनाम् ।
इत्येवं राधिके तेऽत्र प्रोक्तं गणेशपूजनात् ॥४३ ॥ फलं श्रेष्ठं कृष्णरूपो गणेशोऽहं गृहे स्थितः ।
तत्र सर्वत्र भुक्तिं च मुक्तिं च लभते गृही ॥४४॥ मातृकास्थापनं चापि राधिके शृणु सत्फलम् ।
शङ्करस्य तु योगिन्यश्चतुष्षष्टिप्रसङ्ख्यकाः ॥४५ ॥ मातृकाश्च तथाऽन्याश्च ऋषिपत्न्यश्च मातृकाः ।
तथाऽन्या जलदेव्यश्च चण्ड्याद्याश्च तथाऽपराः ॥४६ ॥ बालग्रहस्वरूपिण्यः कोटराद्याश्च मातृकाः ।
षष्ठीदेवीप्रभृतिका राक्षस्योऽपि च मातृकाः ॥४७॥ इत्येवं बहुधा सन्ति पूजिताः सुखदाः सदा ।
अपूजिता गृहं बालं गर्भं चादन्ति कूपिताः ॥४८ ॥ वधूं वरं च वा रुष्टा भक्षयन्ति क्वचिद् गृहे ।
तस्मात् पूज्या भवन्त्येतास्तुष्टाः स्मृद्धिं ददत्यपि ॥४९ ॥ जलतो वह्नितश्चापि वारयन्त्यागतं भयम् ।
एवं सदा पूजनीयाः कुलदेव्यो भवन्ति च ॥2.279.५० ॥ कुलवृद्ध्यर्थमेवापि सम्पद्वृद्ध्यर्थमित्यपि ।
विनाशपरिहारार्थे पूज्यन्ते कुलदेविकाः ॥५ १ ॥ वास्तुः पुरुषः सम्पूज्य सदा पृथ्वीप्रतुष्टये ।
गृहकार्ये मण्डपे च वेदिकायां च कुण्डके ॥५२ ॥ जन्तुनाशजपापानां नाशकं वास्तुपूजनम् ।
दिग्दोषाः पृथिवीदोषा भूतदोषाः समन्ततः ॥५३ ॥ नाश्यन्ते सर्वथा राधे! पूजितेन हि वास्तुना ।
वासप्रदो भवत्येव दम्पत्योश्चिरमेव सः ॥५४॥ भूमौ भाग्यं भवेद् वध्वा वरस्यापि ध्रुवाऽभिधम् ।
सर्वकर्मार्पणं देवे वास्तौ कृते भवेच्छुभम् ॥५५॥ इत्येवं कथितं तेऽत्र रोगघ्नं वास्तुपूजनम् ।
विष्णोः स्थापनमेवाऽपि लक्ष्मीदं मङ्गलप्रदम् ॥५६॥ यत्र विष्णुस्तत्र चास्ते स्मृद्धिः सर्वसुखप्रदा ।
पूजितो वन्दितो विष्णुः कुर्याद् वैकुण्ठवद् गृहम् ॥५७॥ भक्तिं दद्यात् कुले तस्य दम्पत्योः श्रेयसं तथा ।
यशः कीर्तिं सत्त्वभावं दद्याद् विष्णुः सनातनः ॥५८॥ सुदर्शनेन चक्रेण रक्षां कुर्यात् प्रपूजितः ।
धर्मं दद्यात्तथा टद्याज्ज्ञानं विवेकसम्भृतम् ॥५९॥ आन्तरं दिव्यमेवाऽपि नेत्रं दद्यात् सुपूजितः ।
आराधितश्च निर्वाणं दद्यात् सर्वसमर्पणात् ॥2.279.६ ०॥ इत्येवं कथितं राधे! फलं देवादिपूजने ।
मण्डपस्य फलं चापि शृणु राधे शुभास्पदम् ॥६६ १ ॥ मण्डपश्चाश्रयः प्रोक्तो मण्डपो देवतालयः ।
सर्वसृष्टिनिवासश्च मण्डपः परिगीयते ॥६२॥ पटमण्डप एवापि धातुमण्डप इत्यपि ।
पुण्यमण्डप एवापि काष्ठमण्डप इत्यपि ॥६ ३ ॥ मणिमण्डप एवापि गृहमण्डप इत्यपि ।
वृक्षमण्डप एवापि ह्युद्यानमण्डपस्तथा ॥६४॥ काण्डमण्डप एवापि पार्थिवो मण्डपस्तथा ।
कल्पमण्डप एवापि भवन्ति मण्डपा हि ते ॥६ ५ ॥ तत्र सर्वत्र देवाद्या भूतानि यानि यानि च ।
गुणत्रयस्थितान्येव समायान्ति समुत्सवे ॥६६ ॥ तस्मान्मण्डपपूजा वै सर्वपूजाफलप्रदा ।
सर्वे तुष्टा भवन्त्येव देवाद्या मण्डपाऽर्हणात् ॥६७॥ मन्दिरं सुभगं स्याच्च स्वर्गं च सुभगं मिलेत् ।
सर्वस्मृद्धिर्मिलेच्चापि मण्डपस्य प्रपूजनात् ॥६८॥ स्वागते च प्रसत्कारे मण्डपश्चाग्रतो मतः ।
मनःशान्तिकरश्चापि शान्तिं चास्मै प्रयच्छति ॥६९॥ मण्डॆ तक्रामृतं चापि ददाति सर्वदा शुभः ।
दधिमण्डं ददात्येषो हवनं कारयत्यपि ॥2.279.७०॥ तन्मूलिकां परां स्मृद्धिं करोति मण्डपः सदा ।
हवनॆ सर्वदेवानां तृप्तिदं सुखदं मतम् ॥७१ ॥ गृहस्थस्य सदा राधे हवनं पापनाशनम् ।
सर्वभोगप्रदं प्रोक्तं सर्वायुष्यविवर्धनम् ॥७२॥ सर्वारोग्यप्रदं सर्वऋणमोचनकं मतम् ।
सर्वतोभद्रमेवाऽपि स्थाप्यते मण्डपे शुभम् ॥७३ ॥ तत्फलं ग्रहकृत्पीडानाशनं पापनाशनम् ।
स्वर्णरूप्योपकरणप्रदं गृहप्रदं तथा ॥७४॥ स्मृद्धिप्रदं परं पुण्यं शय्योपस्करसम्प्रदम् ।
पात्रभूषाप्रदं चापि छत्रचामरसम्प्रदम् ॥७५॥ राज्यर्द्धिराज्यसत्तादिसम्प्रदं भद्रदं तथा ।
शकुनानां महच्चैतच्छकुनं भद्रमण्डलम् ॥७६॥ पुण्यदानां परमं च पुण्यकृद् भद्रमण्डलम् ।
स्वर्गाणां परमं स्वर्गप्रदं वै भद्रमण्डलम् ॥७७॥ मोक्षस्यापि च भक्तेश्च धर्मस्याऽप्यध्वरस्य च ।
इष्टापूर्तस्य सर्वस्य वृक्षारोपस्य वै तथा ॥७८॥ कन्यादानस्य च तथा कुमारदानकस्य च ।
सर्वधर्मस्य पुण्यानां प्रदं वै भद्रमण्डलम् ॥७९॥ योगानां पुण्यदं चापि सेवानां पुण्यदं तथा ।
परोपकारकार्याणां पुण्यदं भद्रमण्डलम् ॥2.279.८०॥ भद्रं पश्येत् सदा कन्या भद्रं पश्येत् सदा पतिः ।
भद्रं पश्येत् कुटुम्बं च भद्रमण्डलपूजनात् ॥८१ ॥ सौभाग्यं लभते कन्या गृहित्वं लभते नरः ।
पतिपुत्रवती साध्वी भवेद् भद्रप्रपूजनात् ॥८२॥ वियोगो न भवेत् पत्न्याः पत्युश्च भद्रपूजनात् ।
विघ्नानां वारकं त्वेतत् सम्पदां च प्रपूरकम् ॥८३॥ यत्र वै पूज्यते कृष्णः पूज्यन्ते यत्र देवताः ।
ऋषयः पार्षदाश्चाप्यवताराश्च ग्रहादयः ॥८४॥ दिक्पाला यत्र पूज्यन्ते गृहपालास्तथाऽपरे ।
ईश्वरा ईश्वराण्यश्च पूज्यन्ते शारदादिकाः ॥८५॥ एकादश्यः प्रपूज्यन्ते राधाद्याश्च सुशक्तयः ।
पूज्यन्ते देववंशाश्च भद्रदं भद्रमण्डलम् ॥८६॥ तस्माद्वै राधिके! तत्र मण्डपे भद्रमण्डलम् ।
पूजनीयं विधानेन पूजनीयो हरिस्तथा ॥८७॥ यत्र क्वापि क्रियायोगे महोत्सवे सुखोत्सवे ।
विवाहे वरयानादौ कन्यादाने सतीस्थले ॥८८॥ ब्रह्मादाने मन्त्रदाने दीक्षादाने व्रतादिषु ।
महादाने जन्मदिने पूजनीयो हरिः सदा ॥८९॥ परमेशस्य पूजा वै सर्वपूजाफलप्रदा ।
सर्वसङ्कल्पसिद्धीनां प्रदा कामप्रपूरिका ॥2.279.९०॥ सर्वयज्ञफलदा च सर्वकर्तव्यपूरिका ।
सर्वारम्भफलाढ्या च पूजाऽऽदौ श्रीहरेः सदा ॥९ १॥ लक्ष्मीपूजा तथा चादौ कार्यारम्भे सुखप्रदा ।
सम्पत्प्रदा भवत्येषा शान्तिसौभाग्यदा तथा ॥९२॥ अलक्ष्मीनाशिनी चापि दुःखदारिद्र्यनाशिनी ।
कृपणत्वस्य वै नाशो भवेल्लक्ष्मीप्रपूजनात् ॥९३ ॥ कन्यारत्नं वररत्नं धनरत्नानि यानि च ।
निर्विघ्नानि भवेयुश्च लक्ष्म्याश्चादौ प्रपूजनात् ॥९४॥ इत्येवं राधिके! प्रोक्तं फलं पृष्टं त्वया यतः ।
सुखसम्पद् भवेदेव यत्र क्वाऽप्यपि पूजनात् ॥९५॥ प्रायो लोका भवन्त्येव शारीरसुखवासनाः ।
तेषामुक्तप्रपूजाभिः सुखसम्पद् विवर्धते ॥९६॥ पठनाच्छ्रवणाच्चापि फलाध्यायस्य तत्फलम् ।
यत्फलं पूजनाच्चापि जायते दानतस्तथा ॥९७॥ कन्यादानसमं दानं त्रैलोक्ये नैव विद्यते ।
यदाधारः सर्वधर्मो वंशविस्तार इत्यपि ॥९८॥ यदाधारं जगत् सर्वं सृष्टिः सर्वा यदाश्रिता ।
यद्विना प्रलयः प्रोक्तो यद्विना शून्यता मता ॥९९॥ इन्द्रत्वं यद्विना नास्ति चात्मनां योषितं विना ।
योषिद् राज्यं चात्मनोऽस्ति त्वात्माराजा तया कृतः ॥2.279.१० ०॥ तस्माद् राधे! विवाहेन गृह्यते स्त्री नरेण वै ।
वरराजः प्रतिष्ठां वै विन्दते योषिता तदा ॥१० १॥ विना राज्यं वरराजो भवत्येव वरा प्रिया ।
तस्या राज्यं कुमारेऽत्राऽऽरूढं स्याद्वरराजके ॥१०२॥ अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
दानग्रही महाराजो भविष्यति दिनद्वये ॥१०३॥ मम पुत्रस्य शम्भोश्च पुत्र्याः स्वामी भविष्यति ।
श्रुत्वा ते जायते हर्षश्चोक्त्वा मेऽपि प्रजायते ॥१ ०४॥ इत्येवं राधिके! स्वल्पमण्डपेन निजालयम् ।
शोभितं कृतवान् श्रीमद्बालकृष्णः परः प्रभुः ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने मण्डपे
माणिक्यस्तम्भस्य कलशस्य गणेशस्य मातृकाणां वास्तो-
र्विष्णोः कुलदेवतायाः सर्वतोभद्रस्य च प्रपूजने
फलादेशनिरूपणनामा नवसप्तत्यधिकद्विशत-
तमोऽध्यायः ॥२७९ ॥