२७८

श्रीकृष्ण उवाच-
राधिके! श्रीकृष्णनारायणस्य मङ्गलानि वै ।
प्रतिपद्दिवसे नार्यो जगुः प्रातः शुभानि हि ॥१ ॥ वादित्राणि समस्तानि त्ववाद्यन्त समस्ततः ।
गृहे गृहाङ्गणे रङ्गवल्ल्यः प्रपूरिता जनैः ॥२ ॥ तोरणानि सुरम्याणि नवपल्लवभाञ्जि च ।
गृहद्वार्षु प्रमदाभिर्निहितानि समस्ततः ॥३ ॥ घृतदीपाः कृताश्चापि ध्वजाः पताकिका धृताः ।
बद्धा व्योमप्रदेशेषु बावटा रङ्गशोभिताः ॥४ ॥ कुङ्कुमवापिकाशोभा समस्ता धामसदृशी ।
प्रजाभिः सम्प्रहृष्टाभिर्विहिता चित्रयोजनैः ॥१ ॥ रथ्याश्च राजमार्गाश्च गौणमार्गाः प्रतोलिकाः ।
मार्जिताश्च जलैः सिक्ता रङ्गचित्रैश्च चित्रिताः ॥६ ॥ आपणानि कृतान्येव तोरणैः रङ्गवल्लिभिः ।
दध्नांऽकुरैर्नागवल्लीपत्रैर्मङ्गलभाञ्जि च ॥७ ॥ आलयाश्च मन्दिराणि प्रासादाः सौधपक्तयः ।
शाला विशालाश्चारामाः शृङ्गारिता जनैः शुभाः ॥८ ॥ अश्वपट्टसरश्चापि शृङ्गारितं च रङ्गकैः ।
तारणैः शुभदीपैश्च चत्वरा विमलीकृताः ॥९ ॥ वितर्दिका वेदिकाश्च द्वारशाखाः सुदुर्गकाः ।
गोपुराणि च रम्याणि कलशैः सप्तसङ्ख्यकैः ॥2.278.१ ०॥ सपत्रपल्लवसूत्रफलैः शृङ्गारितानि वै ।
बालकृष्णालयस्तत्र चन्द्रकान्तादिभिः शुभः ॥११ ॥ कल्पलतासमारामैः फलिवृक्षादिभिस्तदा ।
सूर्यकान्तादिमणिभिः शृङ्गारितः समन्ततः ॥१ २॥ सहस्रैककलशो यः प्रासादः श्रीहरेर्हि सः ।
शृङ्गारितोऽभितो नव्यैः शोभाद्रव्यादिभिस्तदा ॥१३ ॥ वैकुण्ठं चापरं वा किं गोलोकश्चापरोऽपि किम् ।
ब्रह्मधामाऽपरं वा किं चाऽमृतं धाम वेतरत् ॥१४॥ स्वर्गं वाऽन्यत् समस्तं किं तर्कितः स प्रजाजनैः ।
एवंविधायां पुर्यां वै नार्यो नरा नवाम्बराः ॥१५॥ नवभूषा नवरङ्गा नवशृङ्गारशोभनाः ।
नवोत्साहा नवबला नवर्द्धयोऽभवँस्तदा ॥१६॥ नवभोजनपानाश्च नवकीर्तनगायनाः ।
नवसङ्कल्पकोदारा नवसद्गुणशालिनः ॥१७॥ अभवन् पशवश्चापि नवोत्साहाश्च पक्षिणः ।
धेनवो नवदुग्धाश्च महिष्यो नवतेजनाः ॥१८ ॥ वृषभा नववीर्याश्च गजाद्या नवकौतुकाः ।
अश्वाद्या नवहर्षाश्चाऽभवन् वै प्रतिपद्दिने ॥१ ९॥ वृक्षा नवफलाश्चापि वल्लिका नवपुष्पिकाः ।
शाखाः सर्वनवरसाः सस्यानि कणिशानि च ॥2.278.२० ॥ मधूनि नवपुष्टानि तदाऽभवन् समन्ततः ।
विप्राश्च नवहर्षा वै साधवो नवभक्तयः ॥२१ ॥ विद्वांसो नवमतयस्तत्त्वानि नूतनानि च ।
तैजसानि नवतेजोमन्ति तदाऽभवन् खलु ॥२२॥ विशेषतस्तु लोकानां निर्मलान्यान्तराणि वै ।
भावोद्रेकादभवँश्च शाश्वताऽऽनन्ददानि हि ॥१३॥ इत्येवं राधिके कुङ्कुमवापी नूतना यथा ।
नवयौवनसम्पन्ना सर्वशृङ्गारशोभिता ॥२४॥ लक्ष्मीर्दिव्या नवा चायास्यतीति नूतनाऽभवत् ।
नूतनायाः सपत्न्या वै नवहर्षोपलब्धये ॥२५॥ अनादिश्रीकृष्णनारायणस्य स्नेहभूतये ।
मण्डपश्चाक्षरधाम्नो दिव्यस्तत्र समाययौ ॥२६॥ नेमे श्रीभगवन्तं स नेमे गोपालकृष्णकम् ।
नत्वा च मातरं मुक्तस्वरूपो मण्डपः स च ॥२७॥ अनादिश्रीकृष्णनारायणसङ्कल्पमात्रतः ।
दिव्यं मुक्तस्वरूपं च दर्शयित्वा क्षणान्तरे ॥२८॥ प्रार्थयत् परमात्मानं प्रसादयितुमागतः ।
यथाऽऽज्ञं मण्डपं रम्यं भवाम्यक्षरधामगम् ॥२९॥ हरिः प्राह तथाऽस्त्वेवं तदर्थं वै स्मृतो भवान् ।
करोतु मण्डपं रम्यं यथाऽक्षरेऽस्ति राजते ॥2.278.३० ॥ ओमित्याज्ञां समगृह्य राधिके! मण्डपः स्वयम् ।
महामुक्तो मण्डपात्मा माण्डपं रूपमग्रहीत् ॥३१ ॥ रूपद्वयं समगृह्य स्वल्पं च महदित्यपि ।
स्वल्पं रूपं बालकृष्णप्रासादाग्रे स्थिरं ह्यभूत्॥३२॥ शतैककलशाढ्यं च शतस्तम्भसुशोभितम् ।
साप्तभौमं च परितो मध्ये चाम्बरमार्गवत् ॥३३।
उपरि मध्यकलशेनाऽमूल्येन विराजितम् ।
यथा चान्द्री कौमुदी च पृथ्व्यां पूर्णातिथौ भवेत् ॥३४।
तथास्य धवला कान्तिः पयोनिभा समन्ततः ।
आक्षरे भूतले तत्र प्रासरच्चान्द्रलोकवत् ॥३५॥ मध्ये सूर्यमणिर्यत्र नैसर्गिको विराजते ।
सहस्रकिरणैः सौम्यैर्मृदुभिः सम्प्रकाशते ॥३६॥ विद्युन्नालानि पार्श्वेषु प्रदीपकान्तिभाञ्जि च ।
दुग्धधावल्यभावन्ति विद्योतन्तेऽभितस्तदा ॥३७॥ मणयो नद्धभावाश्च श्वेता रक्ताश्च कर्बुराः ।
नीलाः पीताश्च हरिताः कपीशाश्चित्रभानवः ॥३८॥ प्रतिकोणं प्रणद्धास्ते प्रकाशन्ते हि तारकाः ।
यथा तथा विचित्राश्च तत्पार्श्वे पत्रवल्लिकाः ॥३९॥ ओषधयः पत्रदीपाः प्रकाशन्ते स्थले स्थले ।
स्तम्बाः कुण्डसमाधाराः कुण्डाः पट्टीविराजिताः ॥2.278.४० ॥ पट्टिका जलवाहिन्यो गुप्ततेजःप्रणालिकाः ।
गुप्ततेजःप्रवाहाश्च प्रकाशन्ते यथास्थलम् ॥४१ ॥ वंशाः स्तम्भाः पुत्तलिकाः कम्मानिकाश्च तोरणम् ।
शाखाः प्रशाखा वंशाद्याः प्रकाशन्ते प्रवाहकैः ॥४२॥ तेजसां न्यूनता नास्ति प्रकाशन्तेऽक्षरे यथा ।
एक एव हि मुक्तोऽसौ मण्डपात्मा यतोऽस्ति वै ॥४३ ॥ तेजांसि शीतभावन्ति चोष्णभावन्ति वै तथा ।
शीतोष्णभाप्रभावन्ति चाऽनुष्णशीतभानि च ॥४४॥ मिष्टामृतस्पर्शवन्ति ब्रह्मानन्दप्रदानि च ।
सर्वेन्द्रियाणामानन्दप्रदान्यपि भवन्ति च ॥४५॥ इत्येवं दीपयुक्तेऽत्र महातेजस्विमण्डपे ।
स्तम्भेषु कदलीरूपेष्वखण्डपत्रयोगिषु ॥४६॥ शतेष्वपि साप्तभौमस्थितेषु प्रविभागिषु ।
सप्तरङ्गानि दिव्यानि वेष्टितान्यम्बराणि वै ॥४७॥ तन्मध्ये तेजसां वासे प्रवाहे सर्वसृष्टयः ।
विलोक्यन्ते स्तम्भमध्ये मेरौ यथा सुराश्रयाः ॥४८॥ क्वचित् स्तम्भे हि मुनयः क्वचित् सिद्धा भवन्ति च ।
क्वचित्तिष्ठन्ति मुक्ताश्च हर्याकारा अनन्तशः ॥४९॥ क्वचित्तिष्ठन्त्यवताराः क्वचित्तिष्ठन्ति पार्षदाः ।
क्वचिन्मुक्तानिकाः साध्व्यो ब्रह्मप्रियाः क्वचित् खलु ॥2.278.५ ०॥ क्वचित्कृष्णस्य गोलोकः क्वचिद्वैकुण्ठमित्यपि ।
क्वचिच्चाऽव्याकृतं धाम क्वचित्प्रकाशतेऽमृतम् ॥५१ ॥ क्वचद्धिरण्मयं धाम क्वचिद्वैराजकं स्थलम् ।
क्वचिद्ब्राह्मं वैष्णवं च रौद्रं धाम प्रकाशते ॥५२॥ क्वचित्स्तम्भे सत्यलोकः क्वचित् पितृनिवासनम् ।
क्वचिद् देवाश्च दिक्पालाः क्वचिद्विश्वाधिनायकाः ॥५३ ॥ क्वचित्स्तम्भे विराजन्ते सूर्यचन्द्रादयो ग्रहाः ।
क्वचित्तिष्ठन्ति वसवश्चेन्द्रा महर्षयः क्वचित् ॥५४॥ क्वचित्स्तम्भे मानवाश्च क्वचिद् दैत्याश्च दानवाः ।
क्वचित्समुद्रा नद्यश्चाऽऽरण्यकानि वनानि च ॥५५॥ पर्वताश्च क्वचित्स्तम्भे क्वचित्पातालवासिनः ।
जलेशयाः क्वचित्स्तम्भे क्वचित्स्थलेशया अपि ॥५६॥ क्वचिद्बिलेशयास्तत्र दृश्यन्तेऽपि गजादयः ।
गरुडाः शुकसाराश्च मेनकाश्च मयूरकाः ॥५७॥ भासा हंसाश्चातकाश्च दृश्यन्ते देवयोनयः ।
अप्सरसो ब्रह्मसरसोऽपि क्वचिच्च नर्तकाः ॥५८॥ दृश्यन्ते स्तम्भगर्भेषु चित्रावलियुतेषु च ।
सृष्टित्रयं मण्डपे वै निहितं चाक्षरात्मके ॥५९॥ भूतले स्वर्णभूमौ वै राजन्ते दिव्यभूमिकाः ।
क्वचिज्जलं क्वचित्तेजः क्वचिद्भूमिर्विराजते ॥2.278.६ ०॥ क्वचिद्भवन्ति सामुद्राः क्वचिद्वनानि सन्ति च ।
क्वचिच्च पर्वताः सन्ति सरांसि सरितस्तथा ॥६ १ ॥ उद्यानानि सुरम्याणि क्वचिच्च नगराण्यपि ।
भूगर्भे परिदृश्यन्ते चोपरि समसत्तले ॥६२॥ एवं क्षीरसमुद्रश्च नारायणस्तथा प्रभुः ।
मध्ये तु मण्डपे तत्र भूगर्भे दृश्यते हरिः ॥६३॥ स्तम्भमूलेषु सर्वत्र दृश्यन्ते वास्तुदेवताः ।
मण्डपेऽपि यथास्थाना लोक्यन्ते क्षितिगर्भके ॥६४॥ शाखादेवा विलोक्यन्ते द्वारदेवा भवन्त्यपि ।
तोरणस्य तथा सख्यः पर्यो देव्यः स्रगन्विताः ॥६५॥ विलोक्यन्ते चित्रकम्मानिकाधाराः सुयौवनाः ।
सुवेषाः साम्बरभूषा दिव्यालोकप्रकाशिताः॥६६ ॥ मध्ये दीपप्रदीपाश्च लम्बन्ते वर्तुलाश्रिताः ।
प्रतोल्यां समराजन्ते देव्यो हास्यरसान्विताः ॥६७॥ रतिजातिस्त्रियः सर्वा विविधाश्चेतना इव ।
विराजन्ते वर्तुलाग्रे दर्शनाधारसंस्थिताः ॥६८॥ गायकाश्चापि गान्धर्वा विद्यन्ते युगलात्मकाः ।
ध्वजाभिः सम्प्रकाशन्ते मण्डपान्तरभूमिकाः ॥६९ ॥ कोणे कोणे कलशाश्च सौवर्णाः सप्त सप्त च ।
एकसूत्रे स्थापिताश्च शोभन्ते सूर्यभास्वराः ॥2.278.७० ॥ फलशाखाश्च लम्बन्ते स्तम्भस्तम्बाश्रयास्तथा ।
रज्ज्वस्तत्र प्रणद्धाश्च मणिमौक्तिक्मालिकाः ॥७ १ ॥ वैचित्र्यं दृश्यते चाऽत्र मण्डपे दर्शनेऽभितः ।
एकतः कोटिलक्ष्म्यश्चैकतो वै कोटिराधिकाः ॥७२॥ एकतश्च सरस्वत्यश्चैकतः कोटिदुर्गिकाः ।
दृश्यन्ते सायुधाः सर्वाः सर्वाभरणभूषिताः ॥७३ ॥ तोरणोपरिभूमीनां सर्वसृष्टिमनोहराः ।
तदूर्ध्वं पार्षदाश्चापि गोपाश्चापि स्वरूपिणः ॥७४॥ गान्धर्वाश्चापि सकला गणाश्च शाङ्करास्तथा ।
आयुधानि च दिव्यानि यानि सृष्टित्रयेऽपि तु ॥७५॥ विद्यन्ते तानि सर्वाणि तदूर्ध्वे संस्थितानि वै ।
तदूर्ध्वे ध्रुवभागाश्च सूर्यद्वादशकान्विताः ॥७६॥ तेजोऽम्बरसमृद्धाश्च द्योतन्ते वृत्ततानिकाः ।
चतुष्किकास्तथा रम्या मण्डोवराः समुज्ज्वलाः ॥७७॥ सोपानानि समस्तानि स्वर्णरूप्यास्तराणि च ।
भित्तिकाः पटवस्त्राणां रत्नानां स्वर्णपत्रिणाम् ॥७८॥ वितानानि समस्तानि द्योतन्ते कौशिकानि च ।
यथा यथोर्ध्वभूमौ च दिव्यं वैकुण्ठमन्यकम् ॥७९॥ विकासितं महोद्याने रासरमणशोभितम् ।
गजसिंहगरुडादिवाहनानि द्युवासिनाम् ॥2.278.८०॥ यानि श्रेष्ठानि रम्याणि शुभानि तत्र सन्ति च ।
तानि सर्वाण्यूर्ध्वभूमौ निहितानि क्रमादिव ॥८ १ ॥ कल्पवल्लीकल्पवृक्षकल्पदीपान्वितः शुभः ।
कल्पतेजोविशिष्टश्च कल्पभूफलदस्तथा ॥८२॥ मण्डपो ह्यभवत् सोऽयं कल्पमौक्तिकमाल्यवान् ।
कल्पवायुसुखस्पर्शः कल्पगन्धविराजितः ॥८३॥ कल्पाम्बरप्रदः कल्पताम्बूलवल्लिकाऽन्वितः ।
कल्पपानप्रदाता च कल्पस्वल्पविमानकः ॥८४॥ कल्पशय्यास्तरणश्च कल्पपर्यङ्कराजितः ।
कल्पगेन्दुककशिपुप्रदः कल्पोपसाधनः ॥८५ ॥ कल्पबृसीकल्पमृद्वासनसिंहासनान्वितः ।
कल्पपीठसभाशोभः कल्पपट्टिकमण्डितः ॥८६ ॥ कल्पशवरणैर्वक्रैरखण्डाम्बरकैर्युतः ।
काचतोरणयुक्तश्च मणिरत्नादितोरणः ॥८७ ॥ मणिरत्नान्वितकपाटाढ्यपेटिकभित्तिकः ।
प्रेङ्खादोलादिसंशोभत्पार्श्वभूमिविराजितः ॥८८ ॥ विद्युद्दर्शनयन्त्रैश्च विद्युद्वाग्यन्त्रकैर्युतः ।
विद्युच्छ्रावणयन्त्रैश्च चान्द्रस्पर्शसुयन्त्रवान् ॥८९ ॥ कल्पवेधे कृतकल्पं चानुकल्पविवर्तनः ।
कालकल्पनयन्त्राढ्यः सर्वज्ञत्वप्रवर्तकः ॥2.278.९० ॥ पिण्डे ब्रह्माण्डके चक्रोत्तमेषु योगकल्पवान् ।
कल्पयन्त्रात्मतूर्यादिस्वरगीतिप्रकाशनः ॥९१ ॥ पिण्डब्रह्माण्डसर्वस्वदर्शकयन्त्रशोभितः ।
कामतृप्तिप्रदस्पर्शोत्तमचमत्कृतिप्रदः ॥९२ ॥ स्मृतमात्रस्य चेष्टस्य क्षणमात्रेण सम्प्रदः ।
प्राच्यसृष्ट्याश्चर्ययुतः सच्चिदानन्दचेतनः ॥९,३ ॥ शाश्वताऽऽनन्ददाता च घण्टशङ्खमृदङ्गवान् ।
भोग्यजातह्रदयुक्तोऽमृतवार्धिसुसम्भृतः ॥९४॥ सर्वसृष्टिस्थिता या या यादृश्याः प्रमदोत्तमाः ।
तास्ताः सर्वा भिन्नरूपाश्रयास्तत्र विधापिताः ॥९५ ॥ कोणे माणिक्यनामा च स्तम्भो यत्र सुवर्णजः ।
रक्तरङ्गाभिसंशोभश्चतुःकर्णसुमस्तकः ॥९६ ॥ पूजितः सिन्दूरपुष्पैरक्षतैः कमलादिभिः ।
तथा वै चान्दनपट्टिकायां चाक्षतमण्डले ॥९७ ॥ वार्धिनीकलशः स्वर्णः सजलः पूजिकायुतः ।
कण्ठसूत्राम्बरशोभो मध्ये जलेन पूरितः ॥९८ ॥ चूताऽशोकसुचम्पकनागवल्लीदलान्वितः ।
सश्रीफलः सरत्नश्च सधातुः शोभनः कृतः ॥९९ ॥ गणेशेन सुवर्णेन पूजितेन सुराजितः ।
सिद्धिबुद्धिसहितेन शुभलाभान्वितेन च ॥2.278.१०० ॥ इत्येवं मण्डपस्तत्र दिव्यमुक्तो बभूव ह ।
लोके भेदेन याः शोभास्तत्र तेन कृताः स्वयम् ॥१०१ ॥ राधिके वर्णनं यस्य कर्तुं नैव प्रशक्यते ।
सर्वमाङ्गलिकांऽकुराऽक्षतकुङ्कुमपात्रवान् ॥१०२ ॥ पूजासत्कारवस्तूपसम्पत्सामग्रिकाभृतः ।
देदीप्यमानो ह्यभवद् बालकृष्णालयाऽग्रगः ॥१०३ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशुक्लप्रतिपदि प्रातर्मङ्गलानि, कुङ्कुमवापीसरसोः शोभा, दिव्याङ्गणमण्डपशोभेत्यादिनिरूपणनामाऽष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥२७८ ॥