२७५

श्रीकृष्ण उवाच-
राधिके! नारदस्ताभ्यस्ततोऽकथयद् यद्धि तत् ।
कथयामि समस्तं ते शृणु त्वेकाग्रमानसा ॥१ ॥ नारद उवाच-
आगतोऽहं सत्यलोकादश्वपट्टसरोवरम् ।
पृथ्व्यां पश्चिमसौराष्ट्रे यत्राऽऽस्ते पुरुषोत्तमः ॥२ ॥ तेन साकं पृथिव्यां च व्यचरं यज्ञकर्मणे ।
यत्राऽऽयाता धाममुक्तास्तथाऽन्यधामपार्षदाः ॥३ ॥ पार्षदान्यस्तथा सत्य ईश्वराण्यश्च देवताः ।
मानव्यो नागकान्ताश्च साध्व्यः सिद्धिवरास्तथा ॥४ ॥ अवताराः समस्ताश्चेश्वराश्चापि च साधवः ।
सिद्धा ब्रह्मव्रताश्चापि पितरश्च तथर्षयः ॥५ ॥ आर्ष्यः सर्वास्तथा देवा देवान्यश्च समागताः ।
मानवाश्च दिवःपाला लोकपाला महेश्वराः ॥६ ॥ आदित्या वसवो रुद्रा अश्विनौ तत्स्त्रियस्तथा ।
वह्नयश्च मरुतश्च निधयश्च ग्रहास्तथा ॥७ ॥ दिशः कामश्च मेनेवस्तिथयश्च कलास्तथा ।
तत्त्वानि सर्वतीर्थानि नद्यः सरांसि सागराः ॥८ ॥ पर्वताश्च वालखिल्या वायुदेहाऽसुरादयः ।
दैत्या भक्ता दानवाश्च पक्षाश्च राक्षसास्तथा ॥९ ॥ सिद्धचारणगन्धर्वा विद्याध्राः किन्नरास्तथा ।
उरगा किम्पुरुषाश्च वृक्षास्तृणानि वल्लयः ॥2.275.१ ०॥ धर्माद्या याम्यभक्ताद्याः शैवाः कैलासवासिनः ।
वैकुण्ठश्वेतदुग्धाब्धिवासा बदरीवासिनः ॥१ १॥ मेरुवासा आवरणवासाः पातालवासिनः ।
असङ्ख्यदेवकोट्यश्च प्राययुर्वै मखे मखे ॥१२॥ सर्वे प्रशंसन्ति कृष्णं बालकृष्णं परेश्वरम् ।
वन्दन्ते तं चार्हयन्ति स्तुवन्ति कम्भरासुतम् ॥१३॥ तत्प्रसादं तच्चरणामृतं पिबन्ति ते तदा ।
लोकपाला धामपालाः सृष्टिपाला नरायणाः ॥१४॥ नारायणाश्च ये ते च तदाज्ञामुद्वहन्ति च ।
एतत् सर्वं मया तत्र प्रत्यक्षं त्ववलोकितम् ॥१५॥ शङ्करस्तु स्वयं यस्याऽक्षरक्षेत्रे निवासकृत् ।
क्षेत्रपालतया चास्ते ह्यश्वपट्टसरोऽभितः ॥१६॥ श्रीकृष्णः श्रीरामदेवो नरो नारायणस्तथा ।
वासुदेवादयो व्यूहाः सनत्कुमारयोगिराट् ॥१७॥ तथाऽन्ये चेश्वराः श्रेष्ठाः सङ्कर्षणादयोऽपि च ।
महाविष्णुस्तथा भूमा वैराजश्च सदाशिवः ॥१८॥ यस्याऽऽज्ञां संवहन्ते च कालमायायमेश्वराः ।
यस्माद् भवन्ति भूतानि पुष्यन्ते चाभियन्ति च ॥१ ९॥ अन्तरात्मा तु यः प्रोक्तः साक्षी च भगवान् स्वयम् ।
परब्रह्म च यः प्रोक्तो यस्मात् सर्वमिदं ततम् ॥2.275.२०॥ विद्युतो भानि सूर्यश्च चन्द्रो वह्निस्तथा ध्रुवः ।
यत्तेजसा प्रविद्यन्ते तेजस्विनः प्रभाकराः ॥२१॥ यत्प्रवेशेन भूतानि भवन्ति ज्ञानवन्त्यपि ।
येनास्ते जीवलोकस्य प्रकाशं वै निजात्मनि ॥२२॥ सर्वप्रकाशदाता सः कुङ्कुमवापिकास्थले ।
विराजते हि भगवानक्षरातीत एव यः ॥२३॥ मानवेन स्वरूपेण गोपालकृष्णबालकः ।
इत्येवं ते प्रशंसन्ति वै महीमानका मखे ॥२४॥ कोटिरूपधरः सोऽपि बालकृष्णो जनार्दनः ।
कोटिभक्तानेकपदे मिलत्येव च वक्षसि ॥२५॥ मया दृष्टं हि साक्षात्तत् श्रुतं सर्वं प्रशंसितम् ।
श्रुता च योषितां वाणी स्थले स्थल्यां महोत्सवे ॥२६॥ धन्या वयं सुरूपस्य सर्वेश्वस्य योगिनः ।
दर्शनं त्वद्य कुर्मो यत्पुण्यपारो न विद्यते ॥२७॥ अहोऽस्य दर्शनाच्छान्तिः शाश्वती समजायते ।
अस्माकं नेत्रयोर्दैर्घ्यं साफल्यं विन्दतेऽद्य वै ॥२८॥ दूरतोऽपि महानन्दो जायतेऽस्य विलोकने ।
अभिन्नपूरवेगाढ्यं यावत्सुखोत्तरं सुखम् ॥२९॥ अनुभूयते चास्माभिः सर्वेन्द्रियसुखं महत् ।
यस्य दूरावलोकेन यदीदृशं परं सुखम् ॥2.275.३०॥ तदा साक्षात्तस्य पत्न्याः पार्श्वशयनयोषितः ।
शिवेश्वरसुता लक्ष्म्या दिव्यायाः कीदृशं भवेत् ॥३ १ ॥ अर्धाङ्गी चेश्वरी या वै नारायणी परेश्वरी ।
सूर्यचन्द्रनिभौ यस्याः कपोलौ गण्डकौ तथा ॥३२॥ सुवर्णसदृशं यस्या वपुश्चम्पकपुष्पवत् ।
अलक्तकनिभे यस्याः करपादतले तथा ॥३३ ॥ पक्वबिम्बसमौ यस्या ओष्ठौ प्रीतिनिवासिनौ ।
कदलीस्तम्भसदृशे सक्थिनी चापि शोभने ॥३४॥ पद्मपत्रायतनेत्रे यस्या रूपं ह्यनुत्तमम् ।
कृष्णनारायणवक्षोवासा या परमेश्वरी ॥३५॥ या च वासयति कृष्णं कान्तं वै निजवक्षसि ।
साक्षात् सर्वाङ्गसंयुक्ता कीदृशी सुखिनी भवेत् ॥३६॥ अहो धन्या शिवपुत्री सुखं कृष्णात् समश्नुते ।
धन्या सा पार्वती देवी यत्सुखात् सुखिनी शिवा ॥३७॥ रमायाः कमलाया वा श्रिया वा कृष्णयोषितः ।
वृन्दाया वा तुलस्या वा भार्गव्या वा च तत्सुखम् ॥३८॥ ललाटे लिखितं कार्ष्णं यल्लक्ष्म्या लिखितं सदा ।
अहो नेदृङ्परं भाग्यमस्माकं यन्न चेयते ॥३९॥ न चाऽस्माकं पतिः सोऽयं कृष्णनारायणः प्रभुः ।
व्यर्थं जन्म स्त्रिया लोके कृष्णयोगसुखं विना ॥2.275.४०॥ व्यर्थं सर्वं पातिव्रत्यं पतिः कृष्णो न चेद् यदि ।
अहो वै शिवकन्यायाः साफल्यं गौरवे तथा ॥४१ ॥ सर्वरसान् सर्वगन्धान् सर्वस्पर्शान् सुखैर्भृतान् ।
सर्वशब्दान् सर्वदृश्यान् सर्वानन्दान् भुनक्ति या ॥४२॥ सर्वानन्दाश्रयं कृष्णं कान्तं लब्ध्वा जितेन्द्रियम् ।
अखण्डवीर्यं सर्वेशं भुङ्क्ते या शिवकन्यका ॥४३ ॥ काशीस्थाऽपि सदा कृष्णे लग्ना चास्तेऽप्रकाशिता ।
पश्यन्ति दिव्यनेत्राश्च सत्यः साध्व्यो दिवानिशम् ॥४४॥ इत्येवं वै मया कीर्तिः श्रुता नारीगणान्मुहुः ।
सोऽहं दिदृक्षुरेवाऽसं जिज्ञासुश्च पुनः पुनः ॥४५ ॥ पृष्ट्वा पृष्ट्वा शनैश्चाऽत्र भवतीगेहमागतः ।
संश्रुतं दुःखहालक्ष्मीरितिनामापि वै मुहुः ॥४६ ॥ कीदृशी सा कस्य कन्या कीदृग्गुणा भवेदिति ।
यदि स्यादत्र सा देवी द्रष्टव्या सा मया सति ॥४७ ॥ क्वाऽऽस्ते कीदृक् स्वरूपा सा किमवस्था किमम्बरा ।
किन्निसर्गा किंसुपिण्डा किंसंस्थाना भवत्यपि ॥४८ ॥ किमाकृतिः किंसुप्रभा कियद्वर्षा हि भामिनी ।
किमानना च किंवेगा किम्भावा किंसुलक्षणा ॥४९॥ किङ्कला किंस्वरा किसंवर्णा किम्पत्करोज्ज्वला ।
किम्भाला किंसुष्ठुकेशी किमात्मा किंसुसिद्धिका ॥2.275.५०
किम्प्रभावा किंसुखाढ्या किम्भाना किंसुबोधिनी ।
किङ्कार्या किभक्तिमती किन्दिव्या च किमान्तरा ॥५ १
किंविद्या किञ्चिह्नशोभा किमुच्छ्रया च किङ्गतिः ।
किंवासा च किंसखी च किम्भूषा किङ्घटाछटा ॥५२ ॥ किम्बला किंसुसत्त्वा च किम्भोजना किन्तापसी ।
किंसन्तोषा च किंशौचा किंस्वाध्याया च किंवृषा ॥५३ ॥ किंहार्दा किम्प्रेमपात्रा किङ्कौशल्या च किम्मतिः ।
किमङ्गा किन्धना किञ्चञ्चला किंलेखना हि सा ॥५४॥ किंरुचिः किम्प्रवादा च किंवृत्तिः किम्प्रवर्तना ।
किन्त्रिका किंसमारम्भमध्यप्रान्तफला तथा ॥५५॥ किङ्क्रिया किंविशेषा च किंसामान्या किम्मध्यमा ।
किंविश्वासा च किंयोगा किम्बोधा किमुपासना ॥५६ ॥ किमाराधनिका किंशृङ्गारा किंसंविरागिणी ।
किन्तुष्टा किङ्गृध्निका च किमाशा च किमिच्छुकी ॥५७॥ किन्तर्का किन्निश्चया च किंवादा किम्प्रमाणिका ।
किम्प्रमेया किम्प्रयोगा किंसिद्धान्ता किन्निग्रहा ॥५८ ॥ किंवेदा किंसाधना च किम्प्रिया किंवितर्जिनी ।
किंयमा किन्नियमा च किन्ध्याना च किमासना ॥५९ ॥ किम्प्राणा किंरतिश्चास्ते किङ्कामा शिवकन्यका ।
एवन्द्रष्टुं च जिज्ञासा मे जाताऽति ततोऽप्यहम् ॥2.275.६ ० ॥ समागतोऽयं देवर्षिर्नारदो भगवन्मनः ।
ब्रह्मपुत्रश्च रुद्रस्य भ्राता देवर्षिकीर्तिमान् ॥६ १ ॥ विष्णुभक्तः स्थैर्यहीनः सर्वथा कलहप्रियः ।
येषां गृहं प्रगच्छामि ते यदि मानयन्ति मे ॥६२॥ वचांसि वै मयोक्तानि तेषां सुखकरोऽस्म्यहम् ।
नाऽऽद्रियन्ते यदि लोका वचांसि तोषयन्ति न ॥६३ ॥ तदा तेषां गृहे कृत्वा कलहं चातिदुःसहम् ।
प्रव्रजामि परं गेहं यत्र मे माननं भवेत् ॥६४॥ कन्यका मे दर्शयन्ति करौ भाग्यं विलोकितुम् ।
अहं दृष्ट्वा समस्तं च कथयामि सुखप्रदम् ॥६५॥ असुखं च भवेत् किञ्चित् तदहं नाशयाम्यपि ।
असत्कारं मम कृत्वा लभन्ते न सुखं जनाः ॥६६॥ सुसत्कारं लभन्ते ते मम वाचोऽनुवर्तिनः ।
मम गोदोहमात्रं वै वासश्चैकत्र जायते ॥६७॥ तथापि भक्तिमावीक्ष्य वसाम्यपि दिवानिशम् ।
ततो विशेषवासो मे स्मृद्धिस्वर्गप्रदो भवेत् ॥६८॥ ततोऽप्यधिकवासो मे नारायणाप्तिदायकः ।
ततोऽप्यधिकवासश्च परब्रह्मप्रदायकः ॥६९॥ मुक्तिं ददामि वचनान्मुक्तिं ददामि कीर्तनात् ।
क्लेशं ददामि कलया सुखं ददामि तोषणात् ॥2.275.७० ॥ विषं ददामि वार्तायां यत्र नाऽहं प्रतोषितः ।
पाययाम्यमृतं चापि यत्राऽहं सेवितोऽभवम् ॥७१ ॥ जिज्ञासा यत्र पूर्णा मे तत्र स्वर्गोत्तमं सुखम् ।
दत्वा प्रयामि चान्यत्र जानन्त्विति व्रतं मम ॥७२॥ हरेकृष्ण हरेकृष्ण बालकृष्ण हरेहरे ।
श्रीपते कम्भरापुत्र लक्ष्मीपते हरेहरे ॥७३ ॥ शिवेश्वरसुताकान्त हरे गोपालनन्दन ।
ब्रह्मप्रियापते कृष्ण बालकृष्ण हरेहरे ॥७४॥ अनादिश्रीकृष्णनारायण ब्रह्मपते हरे ।
सत्पते सर्वकान्तानां कान्त कृष्ण हरेहरे ॥७५॥ श्रीकृष्णवल्लभस्वामिन् कुंवरकृष्णरूपवान् ।
देशिक श्रोत्रिय स्वात्मन् सर्वात्मन् शेषणाश्रय ॥७६॥ इत्येवं भजनं कृत्वा विरराम स नारदः ।
लक्ष्मीर्वै मनसा वाचा कर्मणा नारदं प्रति ॥७७॥ दत्तेन्द्रियान्तरवृत्तिस्तल्लीना हि तदाऽभवत् ।
सती शिवाऽऽह देवर्षि धन्यं भाग्यमृषे मम ॥७८॥ भवान् कृष्णस्वरूपो यन्मद्गृहं समुपागतः ।
मत्पुत्र्याश्च महद्भाग्यं यत् सतस्तेऽत्र दर्शनम् ॥७९॥ नारदोऽहं विजानामि शतजन्मकृतं यदि ।
पुण्यं सम्मिलितं तेन जन्म वै मानवं लभेत् ॥2.275.८०॥ पुनस्तत्र कृता यज्ञाः स्युः शतं तर्हि वै दिवम् ।
प्राप्येतेन्द्रसमकालं ततोऽत्र भूतले स तु ॥८ १ ॥ शेषपुण्यप्रभावेण श्रेष्ठमानवतां लभेत् ।
तत्र विप्रप्रतापेन सतामाशीर्भिरित्यपि ॥८२॥ राज्यं भक्तिमयं श्रेष्ठं प्राप्नुयात् सुखदं शुभम् ।
तत्र देवकृता सेवा सेवाऽतिथिजनस्य च ॥८३॥ प्रापयत्येव सद्बुद्धिं स्मृद्धिं वंशस्य वल्लिकाम् ।
पितृतोषेण तत्रापि पुत्राः पुत्र्यो भवन्ति च ॥८४॥ सतां सेवाप्रतापेन जायन्ते सुखिनो जनाः ।
सतां सेवा धनदात्री भूमिदात्री सुखप्रदा ॥८५॥ सा च धर्मेण भक्त्या च तपसा च तथा व्रतैः ।
मिलत्येवाऽन्यथा नैव सतां सेवा हि दुर्लभा ॥८६॥ अनुग्रहेण दयया सतां सेवाऽभिपद्यते ।
पातिव्रत्येन धर्मेण सतां सेवाऽभिपद्यते ॥८७॥ परोपकारशीलानामन्नसत्रविधायिनाम् ।
सदादानपराणां वा सतां लाभः प्रजायते ॥८८॥ भक्तानां सौम्यभावानां सर्वार्पणविधायिनाम् ।
सतां सत्कारकर्तॄणां सतां लाभः प्रजायते ॥८९॥ नित्यं तीर्थस्वभावानां नित्यं कथां सुशृण्वताम् ।
नित्यं वन्दनशीलानां सतां लाभः प्रजायते ॥2.275.९०॥ नित्यं देवार्हणस्थानां नित्यं सत्कारकारिणाम् ।
नित्यं साधुस्मृतिमतां सतां लाभः प्रजायते ॥९१॥ आत्मश्रेयोऽभिलाषाणां सेवावृत्तिजुषां तथा ।
जिज्ञासूनां सेवकानां सतां लाभः प्रजायते ॥९२॥ सतो मार्गयमाणानां सतां गुणानुशालिनाम् ।
सतां गृहे सतां योगे सतां लाभः प्रजायते ॥९३॥ सद्गुरूणां निवासेषु सतां महोत्सवादिषु ।
सतां प्रसङ्गात् सततं सतां लाभः प्रजायते ॥९४॥ सत्यव्रतस्थितानां च सत्परब्रह्मयाजिनाम् ।
हरेः पार्षदयोगानां सतां लाभः प्रजायते ॥९५॥ हरेर्भक्तिमतां गेहे भक्तानां योषितां गृहे ।
विरक्तानां समूहेषु सतां लाभः प्रजायते ॥९६॥ सन्मित्राणां प्रसङ्गेन सद्देशस्य निवासनात् ।
सत्कालस्य च योगेन सतां सेवा प्रजायते ॥९७॥ सतां दीक्षाप्रसङ्गेन सतां मन्त्रग्रहेण च ।
सतां स्नेहवशेनाऽपि सतां सेवा प्रजायते ॥९८॥ आस्तिक्येनाऽऽमन्त्रणेन यशसा सत्कुलेन च ।
सम्बन्धेन च महतां सतां सेवा प्रजायते ॥९९॥ श्रीहरेः कृपया वापि हरेः पत्न्याः समाश्रयात् ।
हरेर्वासेन वा नित्यं सतां सेवाऽभिपद्यते ॥2.275.१ ००॥ अद्य नारद वासो मे श्मशानः शङ्करालयः ।
पावितो भवता साधो सता भक्तिमता हरेः ॥१० १॥ तव पादप्रसङ्गेन पावितं सकलं जगत् ।
मुक्तिमार्गं प्रयात्येव मद्गृहं चापि पावितम् ॥१ ०२॥ श्रावितं शुभदं सर्वं कृष्णसम्बन्धजं सुखम् ।
कृष्णनारायणकीर्तिः श्राविता पावनी त्वया ॥१ ०३॥ पावितं हृदयं मेऽत्र मत्पुत्र्याश्चाऽपि तेऽन्तिके ।
स्थितायाः स्वर्णवर्णाया लक्ष्म्या नारद जीव यत् ॥१ ०४॥ अहो भाग्यं मम पुत्र्या यन्नाम जगतीत्रये ।
ख्यायते सर्वभूतेषु धन्याऽहं मम पुत्रिका ॥१ ०५॥ पुत्रि लक्ष्मि नमस्कारं कुरु श्रीनारदाय वै ।
पादसंवाहनं चापि तैलाङ्गमर्दनं कुरु ॥१ ०६॥ जलमन्नं मिष्टमिष्टं गरिष्टं देहि मा चिरम् ।
पर्यङ्कं च मधुपर्कं देहि पानं मनस्तथा ॥१ ०७॥ यथेच्छति सतां वर्यो नारदोऽयं हरिः स्वयम् ।
तथैनं च परीक्षां ते कर्तुं देहि समस्तिकाम् ॥१ ०८॥ ब्रह्मभ्रातुश्च वै शम्भोः कन्या त्वं दुःखहे सुते ।
अयं पुत्रो ब्रह्मणश्च मम पुत्रो तवाऽग्रजः ॥१ ०९॥ सम्बन्धतो भवत्येव गुरुश्चापि महानृषिः ।
नारदोऽयं हरेरंशस्तव पूज्योऽस्ति मेऽपि च ॥2.275.११० ॥ पुत्रि यथा सुसन्तुष्टो भवेत्तथा प्रसेवय ।
इत्युक्ताऽऽजाकरीलक्ष्मीर्नारदाय ननाम ह ॥१११ ॥ जलपानं तथा मिष्टमन्नं ददौ शुभासनम् ।
पर्यङ्कं स्वर्णवर्णं च ददौ पुष्पस्रजादिकम् ॥११ २॥ पादसंवाहनं चक्रे लक्ष्मीः श्रीनारदस्य च ।
राधिके श्रमनाशं च विश्रम्य नारदो व्यधात् ॥११३ ॥ नारदोऽपि यथोक्तानि लक्षणानि न्यभालयत् ।
सर्वश्रेष्ठानि वै तत्र पूर्वदृष्टानि वै पुनः ॥१ १४॥ सती च जानकी शीघ्रं शिवेश्वरं पतिं निजम् ।
आह्वयत् सुमहोद्यानगतं विश्वेश्वरं मुदा ॥१ १५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पार्वती-सत्यै नारदोक्तश्रीकृष्णनारायणमहिमा, लक्ष्मीमहिमा, सतां समागमलाभकारणानि, नारदसम्माननं चेत्यादिवृत्तान्तावेदननामा पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥२७५ ॥