२७२

श्रीकृष्ण उवाच-
शृणु राधे ततो राजा नरनारायणाह्वयम् ।
तीर्थं गत्वा लोमशं च पप्रच्छ मुनिसत्तमम् ॥१ ॥ अश्वपाटल उवाच-
कथं कस्मादिदं तीर्थं नरनारायणाह्वयम् ।
को विधिः किम्फलं चात्र वद मे लोमश प्रभो ॥२ ॥ श्रीलोमश उवाच-
शृणु राजन् प्रवक्ष्यामि तीर्थं तीर्थोत्तमोत्तमम् ।
अत्र गोपालकृष्णौ वै गोस्वामी च पिता हरेः ॥३ ॥ प्रथमं खलु पुत्रार्थं तपश्चचार दारुणम् ।
यश्च देवो नरनारायणश्चास्ते हिमाचले ॥४ ॥ तपस्विनां धर्मपोष्टा ब्रह्मचर्यपरायणः ।
तापसानां परं श्रेष्ठं ध्यात्वा तपश्चचार ह ॥५ ॥ प्रथमं त्यक्तवानन्नं ततः कन्दपरोऽभवत् ।
पत्राहारस्ततश्चापि शुष्कपर्णाशनस्ततः ॥६ ॥ जलाहारस्ततो वाय्वाहारस्ततो व्यजायत ।
जजाप श्रीनरनारायणं वै हृदये सदा ॥७ ॥ एवं वर्षशतान्तेऽत्र नरो नारायणस्तथा ।
कृष्णो हरिश्च चत्वारो भगवन्तः समाययुः ॥८ ॥ प्रत्यक्षं ते समागत्योचुस्तं गोपालकृष्णकम् ।
महाविष्णो कथं तपश्चरसि वै नरायण ॥९ ॥ वासुदेव जगद्धाता किं ते तपसि कारणम् ।
प्रसन्नाः स्मो वयं नारायणाश्चत्वार एव ह ॥2.272.१ ०॥ यथेष्टं ब्रूहि दद्मोऽत्र वरदानं यथेप्सितम् ।
श्रुत्वा गोपालकृष्णश्च प्राह कल्याणहेतवे ॥१ १॥ लोकानां च सुराणां च पितॄणां योषितां तथा ।
पक्षिणां च पशूनां च वल्लीनां शाखिनां तथा ॥१२॥ स्तम्बानां च तृणानां च भवन्तु पुत्रका मम ।
तथा चास्त्विति जगदुर्विविशुस्तत्तनौ तदा ॥१३॥ चत्वारस्ते परमेशा नारायणो नरस्तथा ।
कृष्णो हरिश्च ते पुत्रा बभूवुस्तस्य मानसाः ॥१४॥ कम्भराबालकाश्चांऽशा लोककल्याणहेतवे ।
नारायणोऽभवज्ज्येष्ठो नाम्ना श्रीभगवानिति ॥१५॥ नरस्ततोऽभवन्नाम्ना शुकदेवो द्वितीयकः ।
कृष्णोऽनादिकृष्णनारायणः श्रीकृष्णवल्लभः ॥१६॥ अक्षराधिपतिः सोऽयमवतारी तृतीयकः ।
हरिश्चतुर्थो नाम्ना श्रीवल्लभश्चाऽभवत्तदा ॥१७॥ समानाश्च समैश्वर्याः समदेहप्रभायुताः ।
परमेशाश्चात्र ते वै ह्यभवन् बालका नृप ॥१८॥ यत्र गोपालकृष्णेन तपस्तप्तं सुदारुणम् ।
भूमिरियं पावनी सा मन्दिरं चेदमेव यत् ॥१९॥ अत्र गोपालकृष्णः स नारायणं नरं तथा ।
कृष्णं हरिं प्रतिमाख्यान् प्रातिष्ठिपद्धि मन्दिरे ॥2.272.२० ॥ तदिदं सर्वमूर्धन्यं तीर्थं तीर्थोर्ध्वधाम यत् ।
विश्रान्तिं चात्र सङ्गृह्य ध्याने गृह्ण चतुष्प्रभून् ॥२१॥ स्मरणाद् दर्शनादत्र स्नानात्पानात् प्रपूजनात् ।
दानात् प्रसेवनाच्चापि मुक्तिरेव फलं महत् ॥२२॥ नैतत्तुल्यं मखानां वा व्रतानां फलमस्ति वै ।
नैतत्तुल्यं दक्षिणानां दीक्षानां फलमस्ति च ॥२३॥ अत्राऽऽसीद् भूतलं राजन् विशालं ब्रह्मसञ्ज्ञितम् ।
यदिदं दृश्यते त्वद्य अश्वपट्टसरोवरम् ॥२४॥ अश्वपाटल उवाच-
कदा मुनेऽत्र सञ्जातं भूतले वै सरोवरम् ।
सर्वतीर्थमयं रम्यं सर्वनारायणाश्रयम् ॥२५॥ श्रीलोमश उवाच-
अहमासं पुरा धाम्नि वैकुण्ठे तत्र चैकदा ।
आश्रौषं चाक्षरेशो योऽनादिकृष्णनरायणः ॥२६॥ चतुर्मुखाऽजब्रह्माण्डे गोपालकृष्णमन्दिरे ।
मानवो भवितुं याति लोककल्याणहेतवे ॥२७॥ तदा नारायणाः सर्वे मुक्ताः सर्वे तथेश्वराः ।
ऋषयः पितरश्चापि पृथ्व्यामत्र समाययुः ॥२८॥ देव्यश्चेश्वरपत्न्यश्च मुक्तान्यो गोपिकास्तथा ।
नारायण्यो ब्रह्मपुत्र्योऽप्सरसः सुरयोषितः ॥२९॥ ब्रह्मसरसः सर्वाश्च ब्रह्मप्रिया हरिप्रियाः ।
वैष्णव्यः शक्तयश्चापि सर्वास्तत्र समाययुः ॥2.272.३ ०॥ स्वागतार्थं च पूजार्थं सहवासार्थमित्यपि ।
सेवनार्थं तथा ते ताः पुपूजुः परमेश्वरम् ॥३ १ ॥ ते च ताश्च तदा प्रतीक्षन्ते प्राकट्यमेव च ।
तदा चाह सर्वमेनं व्यलोकयं समुत्सवम् ॥३२॥ अक्षरे तु परे धाम्नि ज्ञातं माणिक्यया तदा ।
पतिर्मे भगवान् सर्वेश्वरेश्वरेश्वरेश्वरः ॥३३॥ अनादिश्रीकृष्णनारायणः प्रयाति भूतले ।
सा पूर्वं धामतः पृथ्व्यां व्याघ्रारण्ये समागता ॥३४॥ ब्रह्मचर्यव्रतस्याऽस्य वाहनं भवितुं सती ।
समैच्छदश्विनीरूपं कन्यारूपं समैच्छिकम् ॥३५॥ अश्वीभूत्वा पराऽज्ञाता भूभागेऽपर्यटत् सती ।
अत्राऽक्षरे शुभे तीर्थे कृष्णनारायणार्थिनी ॥३६॥ ईश्वराद्यैर्लोकिता सा दिव्यरूपा प्रिया हरेः ।
यत्र यत्राऽभवत् सा च सा भूमिश्चाश्वपट्टिका ॥३७॥ तीर्थरूपाऽभवच्चापि निर्णयोऽप्यभवच्च नः ।
अनादिश्रीकृष्णनारायणश्चात्र निवत्स्यति ॥३८॥ तावत्तत्र समायातो ब्रह्मह्रदोऽक्षरात्पदात् ।
जलरूपो दिव्यधामा चाश्वपट्टसरोमयः ॥३९॥ अत्र भूमौ जलात्मा सा दिव्यसरोवरोऽभवत् ।
स्मर राजन् ब्रह्मह्रदो यश्च दिव्यसरोवरः ॥2.272.४०॥ स एव सोमयागस्य कर्ता राजाऽश्वपाटलः ।
त्वमेव मानवं रूपं धृत्वा पृथ्व्यां विराजसे ॥४१॥ इत्युक्तः खलु राजाऽसौ राधिके स्वं व्यलोकयत् ।
ब्रह्ममुक्तं ब्रह्मह्रदं सरोजलाऽवतारकम् ॥४२॥ आश्चर्यं परमं मेने ज्ञानं क्षणं ह्यभूद्धि तत ।
पुनर्लयं गतं सर्वं प्राकृतं स्वं ह्यमन्यत ॥४३ ॥ ततः श्रीलोमशः प्राह राजँस्तीर्थमिदं परम् ।
पावनीमाणिकीतीर्थं चाश्विनीतीर्थमित्यपि ॥४४॥ ब्रह्मह्रदमहातीर्थं चाश्वपाटलतीर्थकम् ।
मया दृष्टमिदं सर्वं प्रत्यक्षं च ततः परम् ॥४५॥ अहमत्र सदावासं कृतवानाश्रमे शुभे ।
अवतारास्तथा मुक्ता ईश्वरा देवतादिकाः ॥४६॥ सर्वे न्यूषुर्हरेः क्षेत्रेऽक्षराऽश्वपट्टसागरे ।
सर्वा देव्यश्च देवाश्च प्राविर्भावोत्तरं हरेः ॥४७॥ पुपूजुः परया प्रीत्याऽनादिकृष्णनरायणम् ।
राधा लक्ष्मीः पार्वती च पद्मा रमा जया रतिः ॥४८॥ ललिता पद्मिनी रम्भा माणिकी श्रीः सरस्वती ।
गङ्गा दुर्गा च सावित्री सञ्ज्ञा यमुना रोहिणी ॥४९॥ मञ्जुला सद्गुणा हासा हैमी शान्तिः सुपुष्पिका ।
मनुः कस्तूरिका देवी चम्पाऽम्बोजस्वती वृजा ॥2.272.५०॥ सर्वा देव्यो ब्रह्मपत्न्यः कोट्यर्बुदाब्जसङ्ख्यकाः ।
आगत्य न्यूषुश्चात्रैव सरस्येव हरेः पदे ॥५१॥ गण्डकी स्वर्णरेखा च नर्मदा तुङ्गभद्रिका ।
गोदावरी ब्रह्मपुत्रा कावेरी फल्गुरीश्वरी ॥५२॥ कृष्णा शोणा गोमती च सिन्धुश्चोरलिका तथा ।
शोणभद्रश्चेरावती साल्वीना मेनकाङ्गिका ।
मन्नाम्नी चाङ्गशिक्षाङ्गी तथा काञ्चनगङ्गिका ॥५३॥ त्र्यङ्गहा चामूरका च वीना यानासना तथा ।
ओम्बा च त्रिवली चामू वालगा नीपरा तथा ।
देविका दीन्युबा चापि उत्क्रोशी नाइली तथा॥५४॥ प्रपत्तिका सेविका च नास्तिजरा च कङ्गुकी ।
क्युबगङ्गा रञ्जिका च विषतूरा च जम्पिका ॥५५॥ श्वेता नारायणी चापि मत्कुञ्जा यूकनायिका ।
निरशाणा मिश्रजला आमजना परानिका ।
श्वाना च ग्रासकायाना विषतूर्या कलिङ्गिनी ॥५६॥ मूरास्तथाऽन्या नद्यश्च सर्वास्तत्र सरोवरे ।
आययुस्तीर्थरूपास्ताः सदा वासार्थमेव ह ॥५७॥ मानसं चेन्द्रद्युम्नं च नारायणं च पुष्करम् ।
पम्पा चेन्द्रप्रस्थरूपं सुदर्शनं च रेवतम् ॥५८॥ शिवसरस्तथा चित्कृत्सरः कौलरकं सरः ।
शिवशीलं मीनकङ्गुसरः साभरकं सरः ॥५९॥ बालकृष्णसरश्चापि द्विकलं च सरोवरम् ।
सटालफं सरश्चापि विषतूरसरोवरम् ॥2.272.६०॥ उरलं च सरश्चापि त्रिगुणोरसकं तथा ।
फेरुमण्डं लूरासरो मशकाख्यं सरस्तथा ॥६१॥ रुक्मं त्रिनासिकं चापि एबालं च सरस्तथा ।
सटाल्पकं चाल्परूक्षम् आर्द्रवार्तं सरस्तथा ॥६२॥ किमु त्र्यङ्गानकं चापि मयोरसं सरस्तथा ।
बन्गपालं न्यूनजामी शिरावासं सरस्तथा ॥६३॥ ऐतसं चौनियागारं लेन्दुगं पायुगं तथा ।
योनिगम् औरसं तूरोनसं गौरं सरस्तथा ॥६४॥ गोग्रासं बालरीशं च उबरासं सरस्तथा ।
जयशानं ग्रातवारं ग्रातस्लावं सरस्तथा ॥६५॥ क्रीतस्लावं चेष्टवासं पीलिपार्श्वं सरस्तथा ।
सुपारयारं कालीयम् ईतरीशं सरस्तथा ॥६६॥ एतान्यपि सरांस्यत्र तस्थुस्तत्रागतानि वै ।
वृन्दावनं महाकालवनं तपोवनं तथा ॥६७॥ इन्द्रप्रस्थवनं धर्मारण्यं पौष्करकं वनम् ।
सिंहारण्यं बदर्यारण्यकं सुन्दरकं वनम् ॥६८॥ प्राग्ज्योतिषारण्यकं च काशमारण्यमित्यपि ।
इरारण्यं तथा शिक्षारण्यं राशवनं तथा ॥६९॥ उरलारण्यकं चापि खासीनारण्यकं तथा ।
बालायनमहारण्यं सहारारण्यमित्यपि ॥2.272.७०॥ वालजीवारण्यकं च शादयानवनं तथा ।
अमरीवनमेवापि चाब्रिक्तारण्यकं तथा ॥७१ ॥ सिंहारण्यं तथा दैववनानि चात्र चाययुः ।
स्वागतं पूजनं कृत्वा हरेश्चात्र निवासनम् ॥७२॥ प्रचक्रुः सर्वदा चाश्वपट्टसरसि तानि वै ।
एवं राजन् परं तीर्थं चाश्वपट्टसरस्त्विदम् ॥७३॥ तीर्थानां पावनं चापि शुभं ब्रह्मह्रदात्मकम् ।
पृथिव्यां स्वर्गलोके च तथाऽन्यत्रापि यानि तु ॥७४॥ सन्ति तीर्थानि तान्यत्र विरजादीनि सन्ति च ।
समुद्रा दिव्यजलिनो वसन्त्यत्र जलेऽनिशम् ॥७५॥ यत्राऽनादिकृष्णनारायणः श्रीकृष्णवल्लभः ।
तत्र सर्वेऽवताराश्च मुक्ता धामानि यान्यपि ॥७६॥ ईश्वरा ईश्वराण्यश्च देवा देव्यो वसन्ति च ।
ऐश्वर्याणि समग्राणि सिद्धयः प्रवसन्ति च ॥७७॥ अनादिश्रीकृष्णनारायणतीर्थं परं हि तत् ।
अत्राऽऽवासं समालेभे भगवान् पुरुषोत्तमः ॥७८॥ तदा तेन समं मूर्तौ सर्वास्तस्य प्रियाः शुभाः ।
अनादिश्रीकृष्णनारायणस्य वामभागगाः ॥७९॥ पट्टाङ्गना आययुश्च शतं च पञ्चविंशतिः ।
ताश्च सरोवरे रम्ये पश्चिमे सेतुभाजिते ॥2.272.८ ०॥ न्यूषुस्तीर्थस्वरूपिण्यः शततीर्थं तदुच्यते ।
अनादिश्रीकृष्णनारायणप्राकट्यके दिने ॥८ १ ॥ गोपगोपाङ्गनायुक्तः श्रीकृष्णस्तत्र चाययौ ।
गोपीतीर्थं गोपतीर्थं गोलोकतीर्थमित्यपि ॥८२॥ कृष्णतीर्थं च तज्जातं परं गोलोकमुक्तिदम् ।
श्रीकृष्णो राधिकां प्राह यदाऽत्र स समाययौ ॥८३ ॥ राधिके त्वं निबोधाऽत्रेत्युवाच राधिकां प्रियाम् ।
वैराजेन कृतान्येव ब्रह्माण्डानि सहस्रशः ॥८४॥ तत्र तत्र प्रवेष्टुं च व्यवस्थापयितुं हरिम् ।
अनादिश्रीकृष्णनारायणं प्रार्थयति स्म सः ॥८५॥ हरेकृष्ण हरेकृष्ण नारायणेश्वरेश्वर ।
सर्वेषु मन्निर्मितेषु ब्रह्माण्डेषु भवान् प्रभुः ॥८६॥ यावन्नायास्यति तावद् व्यवस्थां धर्मकर्मिणाम् ।
जीवानां व्यवहाराणां कः करिष्यति माधव ॥८७॥ दैत्यानां तामसानां च कः शिक्षां प्रकरिष्यति ।
पापिनां पापनाशानि त्वां विना कः करिष्यति ॥८८॥ वेददीक्षाविधानादि त्वां विना कः करिष्यति ।
यज्ञयागादिकं दैवं पैत्र्यं पुण्यप्रदं विधिम् ॥८९॥ मर्यादां देहिनां चापि त्वां विना कः करिष्यति ।
आत्मज्ञानप्रदानं च साधूनां धर्मरक्षणम् ॥2.272.९०॥ सतीनां सुविधानं च वैवाह्यं कः करिष्यति ।
रागद्वेषनिमग्नानां देहिनां भ्रमवर्तिनाम् ॥९ १॥ विना त्वां त्वत्प्रसङ्गं च को वा मुक्तिं करिष्यति ।
पूजाधर्मं तथा रक्षाधर्मं चोत्पन्नधर्मकम् ॥९२॥ सेवाधर्मं विना त्वां को मानवेभ्योऽभिधास्यति ।
शीलधर्मं गृहिधर्मं वन्यधर्मं यतिक्रियाम् ॥९३ ॥ त्यागधर्मं चात्मनिवेदनं नीतिं पुरातनीम् ।
पद्धतिं वार्णिकीं चापि त्वां विना कः करिष्यति ॥९४॥ विनाऽपि तव प्राकट्यं ब्रह्माण्डानि च तानि तु ।
श्मशानभूमयः सर्वा जन्ममरणसूतिकाः ॥९५॥ त्वां विना साधवो मुक्ता न यास्यन्त्यक्षरात्पदात् ।
पार्षदाश्च तथा लक्ष्म्यो न यास्यन्त्यण्डकोटिषु ॥९६ ॥ त्वां विना मङ्गलं नैव भविष्यति सुरादिषु ।
त्वां विना रक्षणं नैव भविष्यति यथातथम् ॥९७॥ विना त्वां भगवन् सर्वं गृहं शून्यं भविष्यति ।
योगिनामपि वासाश्च भविष्यन्ति न सर्वथा ॥९८॥ अवतारास्तथा तेऽपि गमिष्यन्ति न तेषु च ।
विना सर्वसृष्टिसार्वभौमं कः प्रथमं व्रजेत् ॥९९॥ मोक्षमार्गादिविज्ञानं तथोपास्त्यादिकं प्रभो ।
सात्त्विका अपि देवाद्या ज्ञास्यन्त्येव न सर्वथा ॥2.272.१० ०॥ मायापटलमासाद्य तदावृत्ता हि देहिनः ।
दिव्यतां स्वां समुत्सृज्य पतिष्यन्ति तमोमये ॥१०१ ॥ तस्मात्त्वं भगवन् सर्वब्रह्माण्डेषु प्रकाशताम् ।
याहि नाथ कृपासिन्धोऽनादिश्रीपुरुषोत्तम ॥१०२॥ इत्येवं प्रार्थितोऽनादिकृष्णनारायणोऽक्षरे ।
परे धाम्नि स्थितः श्रुत्वा दिव्यवाण्या विराजकम् ॥१० ३॥ समुवाच तथाऽस्त्वेवं यामि ब्रह्माण्डकोटिषु ।
इत्यभिधाय भगवान् परधाम्नः परेश्वरः ॥१ ०४॥ समैच्छद् बहुभवितुं सर्वकल्याणहेतवे ।
प्रत्यण्डं प्रतिमूर्तिः स बभूव परमेश्वरः ॥१ ०५॥ अनेकाण्डेषु सर्वत्र गुणैश्वर्यविभूतिभिः ।
पार्षदैर्दिव्यमुक्तैश्च पत्नीभिः शक्तिभिः सह ॥१ ०६॥ भक्तैश्च धर्मभोगैश्चोपासनाभक्तिभिः सह ।
स वै प्रादुर्बभूवाऽसौ राधे कृष्णनरायणः ॥१ ०७॥ यत्र ब्रह्मा स्वयम्भूश्च शङ्करः सोमनाथकः ।
नरनारायणो विष्णुस्तत्र कृष्णनरायणः ॥१०८॥ नरनारायणखण्डे पश्चिमे तु सुराष्ट्रके ।
भूतले त्वक्षरक्षेत्रे भाविरैवतप्राग्दिशि ॥१० ९॥ कुकुमवापिकातीर्थे चाश्वपट्टसरस्त८ए ।
कुङ्कुमायां नगर्यां श्रीहरिः प्रादुर्बभूव सः ॥2.272.११ ०॥ अयमेव परः कृष्णो यस्मात् कृष्णा अनन्तकाः ।
आविर्भवन्ति राधे त्वं निबोधाऽस्य हि गौरवम् ॥११ १॥ इत्येवं वै स्वयं कृष्णस्तदा श्रीराधिकां प्रियाम् ।
समुवाच मया तत्तु श्रुतं साक्षान्नराधिप ॥१ १२॥ सोऽयं श्रीकम्भरापुत्रः श्रीशो गोपालनन्दनः ।
यजते बालकृष्णोऽसौ कुमारः कृष्णवल्लभः ॥११ ३॥ सर्वावतारा धामानि मुक्तास्तथेश्वरादयः ।
देवास्तीर्थानि सन्तश्च सत्यश्चात्र वसन्ति वै ॥१ १४॥ मोक्षो मुक्तिर्मूर्तिमन्तौ विराजेतेऽत्र भूतले ।
तस्माद् राजन्नत्र तीर्थे यदल्पं तद्विधेह्यपि ॥१ १५॥ इत्युक्तो लोमशेनैष राजा दीक्षां तु वैष्णवीम् ।
जग्राह विधिना त्यक्त्वा मोहं राज्यं गृहाणि च ॥१ १६॥ साधुर्बभूव राजा स वैष्णवीं प्राप्य दीक्षिकाम् ।
राधिके! चित्प्रकाशेतिनाम्ना ऋषिस्ततोऽभवत् ॥१ १७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नरनायणतीर्थं हरिकृष्णतीर्थं माणिकीतीर्थमश्वपाटलप्राग्वृत्तान्तमश्वपट्टसञ्ज्ञासर्वतीर्थागमः, वैराजस्तुत्या परब्रह्मागमः, अश्वपाटलस्य साधुदीक्षेत्यादिनिरूपणनामा द्वासप्तत्यधिकद्विशततमोऽध्यायः ॥२७२ ॥