२६९

श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्र तीर्थे गत्वाऽश्वपाटलः ।
पुनः पप्रच्छ तीर्थस्य किन्नामादि च लोमशम् ॥१ ॥ अश्वपाटल उवाच-
गुरो तीर्थमिदं ख्यातं किन्नाम्ना च कदाऽभवत् ।
तत्सर्वं मे तु सङ्क्षेपाद् ब्रूहि किं फलमस्य च ॥२ ॥ श्रीलोमश उवाच-
शृणु राजन् प्रवक्ष्यामि तीर्थं परमपावनम् ।
लक्ष्मीतीर्थं तथा नारायणतीर्थमिदं नृप ॥३ ॥ पुरा राजा ह्यभयाक्षोऽभवत् पाञ्चालभूपतिः ।
धर्मकर्मसमाचारो दानभक्तियुतो हरौ ॥४ ॥ यस्य गेहेऽतिथयश्च साधवो दीनदेहिनः ।
भुञ्जते शतशो नित्यं तृप्तिमायान्ति शाश्वतीम् ॥५ ॥ यत्र नारायणः साक्षात् साधुरूपेण राजते ।
अज्ञेयः सर्वलोकानां विप्रसंसेवितः प्रभुः ॥६ ॥ लक्ष्मीः राधा तथा साध्वीरूपेण च विराजते ।
देवा देव्यो विजानन्ति न च जानन्ति मानवाः ॥७ ॥ दिव्याक्षा ये मुनयश्च ते जानन्ति न चेतरे ।
राजा नित्यं सेवते श्रीप्रभुं श्रीपुरुषोत्तमम् ॥८ ॥ नारायणं भजते च चतुर्भुजं श्रियः पतिम् ।
कथां शृणोति सततं साधुविप्राननात् स च ॥९ ॥ कुटुम्बसहितो राजा त्वात्मज्ञानपरोऽभवत् ।
साधुसेवापरश्चापि प्रजारक्षापरायणः ॥2.269.१० ॥ नाऽस्य प्रजायां चाऽधर्मो न स्तैन्यं नापि हिंसनम् ।
शौचं प्रजाः पालयन्ति सन्तुष्टा निजवस्तुषु ॥११ ॥ विप्रास्तु तापसास्तस्य भुञ्जते भोजनानि वै ।
वेदघोषपरा नित्यं षट्कर्मादिपरायणाः ॥१ २॥ यज्ञयागपराश्चापि नारायणपरायणाः ।
ब्रह्मशीलपरा लोकाः कामं न बहु मन्वते ॥१ ३॥ अर्थं चापेक्षितं ह्येवार्जयन्ति नाधिकं ततः ।
शेषं तु समयं सर्वे मोक्षार्थं कल्पयन्ति वै ॥१४॥ नाऽस्य राज्येऽस्ति विधवा ह्यपुत्रा चाऽप्यपत्यकः ।
अपत्नीको गृहस्थो न धनधान्ययुताः प्रजाः ॥१५॥ प्रातः सर्वत्र नगरे कृष्णकृष्णस्वनाः शुभाः ।
माङ्गलिकाश्च जायन्ते श्रूयन्ते कीर्तनानि च ॥१६॥ नाऽस्नातो विद्यते कश्चिन् नाऽपूजो विद्यते तथा ।
मानवानां ललाटेषु तिलकं चन्द्रकान्वितम् ॥१७॥ दृश्यते चान्दनं चोर्ध्वे स्मारकं श्रीहरेः शुभम् ।
कण्ठे सर्वप्रजानां वै दृश्यन्ते तौलसीस्रजः ॥१८॥ करेऽपि तौलसीमाला जपकार्यप्रबोधिनी ।
जिह्वायां श्रीहरेर्नाम नमस्कारेऽपि वै हरिः ॥१ ९॥ दाने परोपकारेऽपि श्रीहरिं स्मर्यते जनैः ।
कन्यकाश्च कुमाराश्च विद्याभ्यासपराश्च ये ॥2.269.२० ॥ शालायां प्रथमं कृत्वा कीर्तनं श्रीहरेस्ततः ।
अभ्यस्यन्ति पाठयन्ति चोपाध्याया हरिश्रिताः ॥२१ ॥ न्यायालयेऽपि सततं श्रूयतेऽग्रेऽवसानके ।
हरेराम हरेकृष्ण नारायण नमोऽस्त्विति ॥२२॥ नदीतीरे गृहे क्षेत्रे वाटिकासु वनेऽपि च ।
कर्षुकाः शिल्पिनः काष्ठहारास्तृणादिनिन्दकाः ॥२३॥ सर्वे कृष्णपराः कृष्णं स्मृत्वा कुर्वन्ति वै श्रमम् ।
आन्धसिका हरेर्भक्ताः स्थाले कृत्वा तु पाचितम् ॥२४॥ अन्नं सर्वविधं चापि फलमूलजलादिकम् ।
समर्प्य हरये पश्चाद् भोजयन्ति गृहेश्वरान् ॥२५॥ देवार्पणं प्रकृत्वैव भुञ्जते च पिबन्ति च ।
आपणस्थाः श्रेष्ठिवर्या गणेशार्चनमित्यपि ॥२६ ॥ कृत्वा घृतप्रदीपं च ततः श्रीकृष्णपूजनम् ।
व्यापारयन्ति दिवसे रात्रौ भजन्ति माधवम् ॥२७॥ पशुपाला हरिं नत्वा गां सम्पूज्य च मन्दिरम् ।
श्रीकृष्णस्य वीक्ष्य पश्चात् कृत्वा कृष्णस्य दर्शनम् ॥२८॥ यान्त्यरण्यभूभागान् हरिस्मृतिपरायणाः ।
काष्ठहाराः कृष्णकृष्ण भजन्तो यान्ति वै पथि ॥२९॥ रजका वस्त्रसम्पुटक्षालने रामनाम वै ।
कृष्णनारायणेत्युक्त्वा क्षालयन्ति जलाशये ॥2.269.३ ०॥ शुकाद्याः पक्षिणश्चापि वक्षन्ति श्रीनरायण ।
रम्भन्ते पशवश्चाप्योङ्कारमिश्रं हि वैष्णवाः ॥३१ ॥ तौर्यत्रिका वादयन्ति कृष्णकीर्तनगीतिकाः ।
कवयश्चारणाद्याश्च कृष्णप्रबन्धकारिणः ॥३२॥ अभयाक्षं स्वकं नाम विवृत्त्य भूभुजा स्वयम् ।
अधोक्षजं हरेर्नाम ख्यापितं चोपनाम तत् ॥३३ ॥ प्रजानां चापि नामानि परेशार्थयुतानि च ।
कारितामीति राष्ट्रं सद् वैष्णवं संव्यजायत ॥३४॥ एवंविधोऽभयभक्तो विचार्य नश्वरं गृहम् ।
धनं राज्यं च सम्पच्च गत्वरं च वपुर्निजम् ॥३५॥ वैराग्यावेशतश्चायमश्वपट्टसरो ययौ ।
प्रजा विप्रास्तथा वृद्धास्तं राजानं समन्वयुः ॥३६॥ मार्गे कीर्तनभक्त्यैव समायातान् विलोक्य तान् ।
मार्गग्रामागता लोकाः कौतूहलसमन्विताः ॥३७॥ सह चाश्वसरस्तीर्थं प्रत्याययुः समुत्सुकाः ।
उत्तरे सरसस्तीरे वासं चक्रुर्द्रुमालये ॥३८॥ कृत्वा तीर्थानि सर्वाणि लोमशस्याश्रमं ययुः ।
ततोऽनादिकृष्णनारायणप्रासादमाययुः ॥३९॥ पुपूजुः परया प्रीत्या श्रीमत्कृष्णनरायणम् ।
मातरं पितरं नत्वा दृष्ट्वा कुङ्कुमवापिकाम् ॥2.269.४०॥ कुङ्कुमवापिकावारि पीत्वा श्रीपूजनं तथा ।
विधाय दत्वा दानानि ययुः सरस्तटे पुनः ॥४१ ॥ अधोक्षजः स राजाऽत्र स्थले चेयेष वै क्रतुम् ।
कर्तुं नारायणं सम्प्रसादयितुं महेज्यया ॥४२॥ लोमशं सम्प्रार्थयच्च यज्ञार्थं स ह्यधोक्षजः ।
लक्षसौवर्णमुद्राभिर्यज्ञं चकार वैष्णवम् ॥४३ ॥ देवानतर्पयद्धव्यैः पितॄन् श्राद्धैः सतोऽन्नकैः ।
जनान् दानैस्तथा चात्मार्पणैः साधून् सुरेश्वरान् ॥४४॥ पूर्णाहुतौ स्वयं कृष्णो नारायणश्चतुर्भुजः ।
शङ्खचक्रगदापद्मधरो वह्नावदृश्यत ॥४५॥ भुञ्जन् हव्यानि सर्वाणि लक्ष्म्या समन्वितः प्रभुः ।
रमानन्दसुनन्दादिसेवितो गरुडान्वितः ॥४६॥ प्रसन्नवदनः श्यामो युवा कोट्यर्कभास्वरः ।
विप्राश्चान्ये जनाः सर्वेऽभवन्नाश्चर्यसम्भृताः ॥४७॥ अहो राज्ञः सुभक्तिश्च स्नेहो नारायणस्य च ।
लक्ष्मीनारायणः साक्षाद् भुङ्क्ते हव्यं नृपाऽर्पितम् ॥४८॥ राजानं भगवानाह मन्दिरं चात्र कारय ।
लक्ष्म्या साकं निवत्स्येऽहं प्रतिष्ठापय मां नृप ॥४९॥ साधुदीक्षां गृहीत्वैव त्वं मे पूजां विधेहि च ।
स्थास्ये वशे च ते राजन् साधोऽधोक्षज मां भज ॥2.269.५०॥ इत्युक्त्वा च प्रभुक्त्वा च हव्यानि भगवाँस्ततः ।
तिरोभवत् ततो राजाऽधोक्षजो भूसुरादिके ॥५१ ॥ दक्षिणा वितरय्यैव भोजयित्वा समस्तकान् ।
स्वतःप्रकाशऋषितस्त्यागिदीक्षां समग्रहीत्॥५२॥ उपवासं चकाराऽसौ देहशुद्धिं चकार च ।
मुण्डनं कारयामास स्नात्वा चक्रेऽनले हवम् ॥५३ ॥ नारायणं पुपूजाऽपि सर्वतोभद्रमण्डले ।
गोदानं पृथिवीदानं स्वर्णदानादिकं ददौ ॥५४॥ लक्ष्मीनारायणस्याऽपि मन्दिरस्य निमित्तकम् ।
लक्षं सुवर्णमुद्राणां दानं च गुरवे ददौ ॥५५॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
‘शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा’ ॥५६॥ ‘कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव’ ॥५७ ॥ ‘ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वत ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे’ ॥५८॥ ‘बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन् मित्रं रक्षकः पालकोऽस्तु सः’ ॥५९॥ ‘श्रीकृष्णवल्लभोनाथः श्रीस्वामी शरणं मम ।
कृष्णवल्लभभक्तोऽहं श्रीहरिः शरणं मम’ ॥2.269.६०॥ ‘श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम’ ।
इतिमन्त्रान् स जग्राह स्वतःप्राकाशसद्गुरोः ॥६ १ ॥ ततः काषायाम्बराणि धारयामास सद्व्रती ।
यज्ञोपवीतकं कण्ठीं तौलसीं च स्रजं करे ।
तिलकं चान्दनं चोर्ध्वपुण्ड्रं चक्रादिमुद्रिकाः ॥६२॥ पूजार्थं कानकीं कार्ष्णनारायणीं रमायुताम् ।
प्रतिमां चापि जग्राह गुरुपूजां चकार च ॥६३ ॥ अधोऽक्षजप्रकाशेति नाम नैजं ररक्ष वै ।
दीक्षाङ्गं विधिवद्वैधं समाप्य सरसस्तटे ॥६४॥ पर्णकुट्यां सदावासं चक्रे त्वत्र मखस्थले ।
जजाप परया भक्त्या श्रीशं कृष्णनरायणम् ॥६५॥ कारयामास सुभगं लक्ष्मीनारायणालयम् ।
लक्ष्मीं नारायणं प्रतिष्ठापयामास मन्दिरे ॥६६॥ तदिदं मन्दिरं राजन् राजते श्रीहरिश्रितम् ।
कुरु वै दर्शनं तत्र श्रियो हरेश्च वै ततः ॥६७॥ दानानि देहि राजेन्द्र स्नानं चात्र समाचार ।
एतत्तीर्थं महातीर्थं सर्वयज्ञफलप्रदम् ॥६८॥ यज्ञतीर्थं साधुतीर्थं लक्ष्मीतीर्थं तथा मतम् ।
अधोक्षजाख्यतीर्थं च नारायणाख्यतीर्थकम् ॥६९॥ दीक्षातीर्थं तथा ख्यातं पावनं त्वेतदेव यत् ।
मार्गशीर्षे केशवं च प्रपूज्य विधिनाऽत्र वै ॥2.269.७०॥ मार्गशीर्षे स्नानदानादश्वमेधफलं लभेत् ।
पौषे स्नानाच्च दानाच्च श्रिया युक्तं नरायणम् ॥७१॥ प्रपूज्य लभते पुण्यं वाजपेयमखोत्थितम् ।
माघमासे स्नानदानान्माधवं सम्प्रपूज्य च ॥७२॥ तीर्थकृल्लभते चात्र राजसूयफलं परम् ।
फाल्गुने स्नानदानाच्च गोविन्दं सम्प्रपूज्य च ॥७३॥ अतिरात्राख्ययज्ञोत्थं फलं लभेद्धि तीर्थकृत् ।
चैत्रे स्नानात्तथा दानादत्र विष्णुं प्रपूज्य च ॥७४॥ पुण्डरीकफलं तीर्थकर्ता प्रयाति पावनम् ।
वैशाखे स्नानदानाच्च प्रपूज्य मधूसूदनम् ॥७५॥ अग्निष्टोमफलं राजन् लभतेऽत्र स तीर्थकृत् ।
ज्येष्ठे स्नानात्तथा दानात् त्रिविक्रमं प्रपूज्य च ॥७६॥ लभते तीर्थकृच्चात्र गवायनक्रतोः फलम् ।
आषाढे स्नानदानाच्च वामनं सम्प्रपूज्य च ॥७७॥ लभते तीर्थकृच्चात्र फलं वै सोमयागजम् ।
श्रावणे स्नानदानाच्च श्रीधरं सम्प्रपूज्य च ॥७८॥ लभते तीर्थकृच्चात्र विश्वजित्क्रतुजं फलम् ।
भाद्रे स्नानात्तथा दानात् हृषीकेशं प्रपूज्य च ॥७९॥ लभते तीर्थकृच्चात्र फलं सौत्रामणिक्रतोः ।
आश्विने स्नानदानाभ्यां पद्मनाभं प्रपूज्य च ॥2.269.८०॥ तीर्थकृल्लभते पुण्यं विविधं सोमयोगजम् ।
कार्तिके स्नानदानाभ्यां दामोदरं प्रपूज्य च ॥८१॥ लभतेऽत्र तीर्थशायी विष्णुयागोद्भवं फलम् ।
अधिमासे स्नानदानात् प्रपूज्य पुरुषोत्तमम् ॥८२॥ तीर्थकृल्लभते सर्वमेधयज्ञफलं परम् ।
यत्र क्वचिद्दिने त्वत्र स्नानाद् दानाजपादिभिः ॥८३ ॥ तीर्थकृल्लभते राजन् सर्वयज्ञफलानि वै ।
शिवरात्र्यां स्नानदानान्महारुद्रफलं भवेत् ॥८४॥ इत्येतत्पावनं क्षेत्रं लक्ष्मीनारायणोदितम् ।
कुरु स्नानं तथा पूजां लक्ष्मीनारायणस्य वै ॥८५॥ सर्वान् भगवतो ध्यात्वा सर्वपुण्यान्यवाप्नुहि ।
इत्युक्तो राधिके! राजा त्वश्वपाटल एव ह ॥८६॥ सकुटुम्बो जले सस्नौ पुपूज मन्दिरे हरिम् ।
श्रिया युक्तं षोडशोपचारैर्नीराजनादिभिः ॥८७॥ तावत्तस्य श्रीहरौ वै प्रतिमायां चतुर्दश ।
केशवाद्या भगवन्तो ह्यदृश्यन्त यथोदिताः ॥८८॥ क्षणं स्वदर्शनं दत्वाऽनादिकृष्णनरायणे ।
लीनाः सर्वेऽवतारास्ते स चाऽप्यन्तरधीयत ॥८९॥ अश्वपाटलनृपतिर्महाश्चर्यं जगाम ह ।
कृतकृत्यं निजं मेनेऽधोक्षजे तीर्थके तदा ॥2.269.९०॥ अश्वपाटल उवाच-
लोमशाऽत्र मम जातं दर्शनं केशवादिजम् ।
कृतकृत्यो भवाम्येव किं तीर्थैर्दानविस्तरैः ॥९ १ ॥ श्रीलोमश उवाच-
राजँस्तीर्थबलेनैतज्जातं सर्वं विभावय ।
अतीर्थस्य बलं नास्ति नास्ति पुण्यं पवित्रता ॥९२॥ नास्ति नैर्मल्यभावश्च नास्ति कृष्णप्रसन्नता ।
नास्ति भक्तिरतीर्थस्य नास्ति मोक्षो दिवं च वा ॥९३॥ जङ्गमं वा स्थावरं वा तीर्थं कल्मषनाशनम् ।
कल्मषाणां विनाशोर्ध्वे तीर्थी प्राप्नोति योग्यताम् ॥९४॥ योग्यतायां सुसत्यां वै हृदि ब्रह्म प्रकाशते ।
ब्रह्मरूपस्य भक्तस्य स्नेहस्तत्र प्रजायते ॥९५॥ परब्रह्मनिकटत्वं जायतेऽस्य निसर्गजम् ।
ततो भवति दुर्लभ्यं दर्शनं सुलभं हरेः ॥९६॥ एवं दर्शनमाप्तस्य लोकसङ्ग्रहहेतवे ।
कर्तव्यतया तीर्थानि विहितान्येव सर्वदा ॥९७॥ तस्मात् तीर्थानि दानानि कर्तव्यानि कृपाजुषा ।
मुक्तः सिद्धश्च वा देवो दिव्यो वा ब्रह्मरूपधृक् ॥९८॥ यद्यदाचरते मोक्षप्रदं स्वर्गप्रदं च वा ।
पुण्यकृत् तत्समालम्ब्याऽऽचरते त्वपरो जनः ॥९९॥ तेन मुक्तिर्भवेदेवाऽभयदानं भवेदपि ।
कर्मणा मनसा वाचा भावेन तीर्थमाचरेत् ॥2.269.१० ०॥ इत्युक्त्वा लोमशस्तं वै चाश्वपाटलभूपतिम् ।
अग्रे तीर्थान्तरं निन्ये विष्णुमन्दिरमुत्तमम् ॥१०१ ॥ राधिके यत्र वै विष्णोः श्वेता मूर्तिः सनातनी ।
राजते कमलायुक्ता गरुडेन प्रशोभिता ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽभयाक्षनृपतेर्भक्तिर्वैराग्यं मखश्चाश्वपट्टसरस्तीरे त्यागिदीक्षाग्रहणं लक्ष्मीनारायणादिदर्शनं मन्दिरनिर्माणं लक्ष्मीतीर्थं नारायणतीर्थं चेत्यादिनिरूपणनामा नवषष्ट्यधिकद्विशततमोऽध्यायः ॥२६९ ॥