२६७

श्रीकृष्ण उवाच-
अथ राधे ततस्तीर्थं नारीणां धर्मवर्धनम् ।
गत्वाऽश्वपाटलो राजा पप्रच्छ लोमशं मुनिम् ॥१ ॥ अश्वपाटल उवाच-
किमिदं शोभनं तीर्थं गुरो स्त्रीजातिमोक्षदम् ।
धर्मदं बहुसामर्थ्यप्रदं वद कदाऽभवत् ॥२ ॥ श्रीलोमश उवाच-
शृणु राजन् सतीतीर्थं पावनं परमाद्भुतम् ।
सुराष्ट्रनृपतेः पत्नी वस्त्रापथनिवासिनी ॥३ ॥ पातिव्रत्यपरा चासीद् राणिकाख्या महासती ।
रक्षाङ्गारकनामानं नृपं त्वीश्वरसन्निभम् ॥४ ॥ सेवते स्म सती कान्तं सर्वसेवाभिरुत्सुका ।
स्वर्णपत्तननाम्न्येव नगरे नगरोत्तमे ॥५ ॥ कृतस्मराद्रिनिकटे स्वर्णलेखानदीतटे ।
राजधान्यां सदुर्गायां सौवर्णं राजमन्दिरे ॥६ ॥ असूर्यम्पश्या प्रमदा सतीधर्मसमन्विता ।
भजते स्म हरिं नित्यं दामोदरं हि वामनम् ॥७ ॥ राज्यमाता राणिका सा साध्वीव्रतं करोति वै ।
अन्यो नरो न स्प्रष्टव्यः क्वापि स्वपतिमन्तरा ॥८ ॥ अन्यपुरुषवस्त्रं न स्प्रष्टव्यं नूतनं विना ।
अन्यनरमुखं नैव द्रष्टव्यं स्वपतिं विना ॥९ ॥ गृहाद् बहिर्न गन्तव्यं क्वापि स्वपतिमन्तरा ।
पत्युः सेवां सदा त्वेवं करोति स्वकरेण ह ॥2.267.१० ॥ भोजनं जलपानं च ताम्बूलं देहमर्दनम् ।
सर्वं स्वमेव रणिका सम्पादयत्यतन्द्रिता ॥११ ॥ नित्यं दामोदरं कृष्णं पूजयत्यपि वामनम् ।
पत्रं पुष्पं फलं तोयं चान्नं निवेद्य विष्णवे ॥१ २॥ दत्वाऽतिथये महते साधवे धेनवे तथा ।
पतये भृत्यवर्गाय ततश्चाश्नाति सा सती ॥१३ ॥ एवं धर्मपरा साऽऽस्ते शीलव्रतपरायणा ।
यस्या गृहे सदाऽऽयाति श्रीदेवी या भवेश्वरी ॥१४॥ महालक्ष्मीः सखीरूपा पूजा गृह्णाति तत्कृताम् ।
एवं वै वर्तमानायाः कोमलाङ्ग्या निशान्तके ॥१५॥ निद्रायां स्वप्नसृष्टौ वै म्लेच्छानां दर्शनं ह्यभूत् ।
सैन्यं राज्यं ग्रहीतुं वै समायातं समन्ततः ॥१६ ॥ राजा रक्षाङ्गारकोऽपि युद्धार्थं निर्ददौ ततः ।
मृतो युद्धे पतिश्चैव त्वनिष्टं दर्शनं ह्यभूत् ॥१७॥ तूर्णमुत्थाय शयनात् सती पतिं जगाद ह ।
अद्य स्वप्नं मया नाथाऽनिष्टं दुष्टं विनाशकृत् ॥१८ ॥ ततोऽहं श्रीमहालक्ष्मीं पूजयामि भवेश्वरीम् ।
व्याघ्रेश्वरीं पूजयामि विघ्नराजं नमामि च ॥१ ९॥ इत्याशां सङ्गृहीत्वैव तूर्णं स्नात्वा पुपूज ताः ।
देवताश्च नमस्कृत्य प्रार्थयद् रक्षणं प्रति ॥2.267.२० ॥ अमङ्गलविनाशार्थं विघ्नराजात्पुनः पुनः ।
प्रार्थयद् राणिकादेवी ददौ दानानि वै तथा ॥२१ ॥ कारयामास च ततो ग्रहशान्तिं द्विजादिभिः ।
अथ प्रसन्ना प्रत्यक्षा महालक्ष्मीर्भवेश्वरी ॥२२॥ जगादैनां राज्यविघ्नं भविता म्लेच्छजातिभिः ।
युद्धं चापि भवेदत्र सैन्ययोश्च द्वयोरपि ॥२३ ॥ राजा रक्षाङ्गारकश्च मा सम्प्रयातु योधने ।
दुर्गाद् बहिर्न वै यातु तदा ते विजयोऽस्ति वै ॥२४॥ शत्रवश्च विनक्ष्यन्ति दुर्गाद् बहिः समन्ततः ।
दुर्गमध्ये विजयस्ते दुर्गाद्बहिः पराजयः ॥२५ ॥ इत्युक्ता सा सती राज्ञेऽकथयत् सर्वमेव तत् ।
राजाऽपि सावधानश्च वर्ततेस्म निजालये ॥२६॥ तावन्म्लेच्छाः पश्चभागात् सैन्ययुक्ताः समाययुः ।
अयुताऽयुतसङ्ख्याकाः सशस्त्रा गजवाहनाः ॥२७॥ अश्ववाहा रथस्थाश्च दुर्गद्वाराणि चाभितः ।
निरुद्ध्य द्वारबन्धं च रचयित्वाऽभवन् स्थिराः ॥२८॥ दृप्ता वै राजपुरुषाः सैन्यैश्च नगरान्तरे ।
द्वाराण्यावृत्त्य च तथा प्रतितस्थुः सशस्त्रकाः ॥२९॥ शत्रवो बहवश्चाभिभागेभ्यो यन्त्रगोलकान् ।
जेतुं च नगरं दुर्गे चिक्षिपुर्बहुनाशकान् ॥2.267.३ ०॥ बहुभिर्दिवसैश्चापि प्रवेष्टुं नैव शेकिरे ।
तदा भेदं समुपायं चक्रुस्ते म्लेच्छपुङ्गवाः ॥३१ ॥ धनानि स्वर्णरूप्याणि दत्वा वाण्याऽपि खर्वटान् ।
गुप्तं पुरप्रवेशस्य मार्गं विज्ञाय भेदकात् ॥३२॥ दुर्गं विभिद्य तद्द्वारे प्रविश्य म्लेच्छजातयः ।
युयुधुश्च प्रजह्रुश्च राजसौधालयं ययुः ॥३ ३॥ राजसैन्यानि तु तदा युयुधुः प्राणदानतः ।
हता म्त्ठेच्छा हि बहवो हताश्च राजसैनिकाः ॥३४॥ सेनानां पतयश्चापि हता वै शस्त्रघाततः ।
यदा स्वभवनं प्राप्तं सैन्यं म्लेच्छजनाभिधम् ॥३५ ॥ तदा राजा स्वरक्षार्थं योद्धं ह्यवातरन्मृधे ।
अथ प्रजाऽपि सबला म्लेच्छानमारयद् बहून् ॥३६ ॥ क्षत्रियाणां महासैन्यं रक्षाङ्गारसमायुतम्
युयुधे तु महाम्लेच्छान् मारयामास जीवतः ॥३७॥ अन्ये प्रदुद्रुवुश्चापि नगरस्यैव मध्यतः ।
दुर्गं त्यक्त्वा दुद्रुवुश्च बहिर्म्लेच्छः समन्ततः ॥३८॥ राजा रणप्रमत्तो वै विस्मृत्य स्वसतीवचः ।
दुर्गाद् बहिर्ययौ योद्धुं हन्तुं म्लेच्छान् पलायितान् ॥३ ९॥ ते परावृत्त्य युयुधुः प्राणदानेन वै तदा ।
शस्त्राघातैश्च रक्षाङ्गारकं जघ्नुः समन्ततः ॥2.267.४०॥ राजा ममार भूमौ च प्राणान् निपतितो जहौ ।
राणिका निजसौधे वै देवपूजां करोति च ॥४१ ॥ रक्षार्थं निजकान्तस्य तावद् ददर्श पादयोः ।
चिह्ने रक्ते चाक्षते च यथारेखे ह्युभे भुवि ॥४२ ॥ पृथ्व्यां कुङ्कुमपादौ स्वौ दृष्ट्वा सती भयं गता ।
हा नाथेति समुच्चार्य सतीसत्यं व्यलोकयत् ॥४३ ॥ सती सत्यारूढभावा व्यजायत क्षणान्तरे ।
दिव्यदृष्ट्या स्वकान्तस्य दृष्ट्वा सूक्ष्मां तनुं तदा ॥४४॥ समागतां गृहे नैजे तां गृहीत्वा द्रुतं बिलात्॥ विनिर्गत्य स्वभवनात् पराजयप्रधर्षिता ॥४५॥ पुंवेषेण सती साध्वी ह्यपासरद्धि तत्स्थलात् ।
बहिर्गत्वा महोष्ट्रं च प्राप्य भाग्यवशाद्धि सा ॥४६॥ गुप्तां द्रुमसृतिं गत्वा निर्ययौ भयभूमितः ।
राज्यं त्यक्त्वा दुःखभोक्त्री ययावश्वसरः प्रति ॥४७॥ दिनैकेनैव सम्प्राप्ता सरसश्चोत्तरे तटे ।
सरस्तीरे चावरुह्य सस्नौ रुरोद चान्तरे ॥४८ ॥ जलाञ्जलिं ददौ तत्र कान्ताय सहगाय च ।
सूक्ष्मरूपाय च ततः कृष्णनारायणं प्रभुम् ॥४९॥ स्मृत्वा नत्वा चार्थयित्वा तस्थौ तटे स्थिराशया ।
अनादिश्रीकृष्णनारायणस्य सन्निधाविह ॥2.267.५० ॥ देहानलं समुत्पाद्य प्रयाम्येव दिवं शुभम् ।
एवं निश्चित्य वै सायं शीलव्रतपरायणा ॥५ १ ॥ सतीं सत्यं प्रतुष्टाव तदा कृष्णनरायणम् ।
‘सत्याः सत्यं नित्यसत्यं नारायणं नमाम्यहम् ॥५२ ॥ ओं नमो ब्रह्मसवित्रे सत्यानाथाय ते नमः ।
पातिव्रत्यस्वरूपाय पञ्चाग्नये च ते नमः ॥५३ ॥ त्रेताऽग्नये बीजस्वरूपाय च ते नमः ।
गर्भरूपाय बाल्याय युवरूपाय ते नमः ॥५४॥ कान्तायै चापि कान्ताय सवंशाय च ते नमः ।
युगलाय स्थविराय त्र्यात्मकाय च ते नमः ॥५५॥ नमो भगवते कृष्ण भगवत्यै च ते नमः ।
शीलरूपाय धर्माय धर्मलाभाय च ते नमः ॥५६॥ नमश्चितास्वरूपाय पतिरूपाय ते नमः ।
नमः पान्थस्य सार्थायाऽतिवाहिकायै ते नमः ॥५७ ॥ नमः सूर्याय मेघाय विद्युते शशिने नमः ।
नमो दिवास्वरूपाय निशारूपाय ते नमः ॥५८॥ अयनद्वयरूपाय नमो युगप्रवर्तिने ।
नमो दिवाय सत्याय नमो वैकुण्ठवासिने ॥५९ ॥ सतीनां पतये कृष्ण सतीलोकेशिने नमः ।
नमो गोलोककान्ताय नमोऽक्षरनिवासिने ॥2.267.६० ॥ नमो मुक्तप्रपूज्याय सतां च पतये नमः ।
मुक्तेश्वरेशाय ब्रह्मप्रियेश ते नमः ॥६ १ ॥ नमो माणिक्यमुक्तानां रमायाः पतये नमः ।
पद्मावतीसतीलक्ष्मीराधाश्रीपतये नमः ॥६२ ॥ सर्वशाय परेशाय नमः श्रीपरमात्मने ।
लक्ष्मीशाय नमः श्रीपुरुषोत्तमाय ते नमः ॥६३ ॥ अनादिश्रीकृष्णनारायणाय स्वामिने नमः ।
अन्तर्यामिस्वरूपाय सयुजे ते नमोनमः ॥६४॥ गोपालनन्दनायेश कम्भराजाय ते नमः ।
अश्वपट्टस्य चन्द्राय मायासूर्याय ते नमः ॥६५॥ स्मृद्धिदाय विरागाय सर्वहर्त्रे च ते नमः ।
एषाऽहङ्गृहसञ्ज्ञाऽस्मि गृहं सत्यं भवान्मम ॥६६॥ रक्षाङ्गारकनामा त्वं त्वत्परा गीश्च यावती ।
त्वां सहायं परं प्राप्य जुहोम्येनां गृहाण माम् ॥६७॥ विदित्वा चाऽविदित्वाऽपि सर्वं जुह्वति चान्ततः ।
उभयेन विधानाऽत्र होमो भवामि वै त्वयि ॥६८॥ त्वं यज्ञस्त्वं यज्ञकुण्डे चाहवनीयरूपवान् ।
गार्हपत्यस्वरूपस्त्वं चावसथ्यस्वरूपवान् ॥६९॥ यज्ञकुण्डाग्निरेवाऽसि सर्वकुण्डाग्निरेव च ।
नय मां सत्यधर्मेण सतीलोके कृपां कुरु ॥2.267.७०॥ सतीधर्मो हि नारीणां जगदुद्धारकारकः ।
सती दाक्षी पुरा जाता वह्निना त्वदहद् वपुः ॥७ १॥ रेणुका च सती जाता शबरी चापि वै पुरा ।
कृतधर्माश्रिता नार्यः सतीत्वमुपयान्ति च ॥७२॥ तथाऽहं श्रीहरे कृष्ण सतीत्वमुपयामि च ।
इत्येवं भूपते सा तु कोमलाङ्गी हि राणिका ॥७३ ॥ चितामारुह्य यावच्चेन्धितुं वह्निं समिच्छति ।
तावच्छ्रीलोमशो देवश्चेशानश्च सुरादयः ॥७४॥ अनादिश्रीकृष्णनारायणो लक्ष्मीश्च गोचराः ।
अभवन् सन्निधौ तत्र सती नेमे समन्ततः ॥७५॥ सती त्वं जयमाप्नुहि सतीलोकं प्रगच्छसि ।
पत्या समं सुखं भुङ्क्ष्व यावत् स्वर्गं प्रविद्यते ॥७६॥ इत्युक्त्वा प्रददुराशीर्वादान् पुष्णाणि चन्दनम् ।
सन्ती विष्णुं नमस्कृत्वा सस्मार च पुनः पतिम् ॥७७॥ स्थूलदेहात्मकं तावत् शङ्करस्य गणस्तदा ।
नन्दी गत्वाऽऽनयच्छ्रीघ्रं रक्षाङ्गारशवं च खे ॥७८॥ ददौ चितायां सत्यै तत् सापि हृष्टाऽमिलत्तनुम् ।
आश्लिष्यत् विधिना प्रेतं पश्यतां द्युसदां तथा ॥७९॥ मनुष्याणां पश्यतां साऽनलमौत्पादयत् पदात् ।
कृष्णकृष्णेति कृष्णेति राधाकृष्णेति सा जगौ ॥2.267.८ ०॥ गोपीनाथ सतीकान्त रमानाथ विलोकय ।
इत्युक्त्वा च चितायां साऽस्वपत् शवेन लम्बिका ॥८ १॥ तावद् वह्निर्नाऽस्पृशत्तां पादे एव प्रकाशते ।
तावत्तत्र हरिः कृष्णो राधाकृष्णो बभूव ह ॥८२॥ मुरल्या सहितश्चास्ते दर्शनं प्रददन् प्रभुः ।
स्वहस्तेन जलं सर्पिः पुष्पाणि च तिलानि च ॥८३ ॥ चन्दनं प्रददौ तत्र चितायां भगवान् स्वयम् ।
आत्मानौ द्वौ सतीकान्तौ दिव्यरूपौ बभूवतुः ॥८४॥ निर्ययतुः शवदेशात् तस्थतुश्चाम्बरे क्षणम् ।
विमानं चागतं स्वर्गाद् दिव्यं सूर्यनिभं तदा ॥८५॥ निषेदतुश्च तौ तत्राऽपश्यतां शवदाहनम् ।
अग्निर्ददाह देहौद्वौ नत्वा तौ परमेश्वरान् ॥८६॥ सतीलोकं ययतुश्च तत्र कल्पायुषौ च तौ ।
स्थित्वा यास्यत एवाऽस्याऽक्षरं धाम परात्मनाः ॥८७॥ देवाश्चात्र सतीतीर्थं कृत्वा नारायणगृहम् ।
गत्वा सम्पूज्य च श्रीमदनादि श्रीनरायणम् ॥८८॥ ययुर्निजं दिव्यलोकं कृष्णश्चान्तरधीयत ।
शम्भोर्गणाश्चिताभस्म जले चिक्षिपुरेव तु ॥८९॥ राणिकातीर्थमेवाऽपि रक्षाङ्गारकतीर्थकम् ।
समभूत् तत्परं ख्यातं स्त्रीणां सतीत्वबोधकम् ॥2.267.९०॥ सतीधर्माऽवनकर्तृ पापतापप्रणाशकम् ।
अत्र राजन् स्नानदानाज्जलपानाद्विशेषतः ॥९१ ॥ सतीपूजाकरणाच्च सतीलोकफलं व्रजेत् ।
या नारी विधवा चात्र पतिं स्मृत्वाऽऽप्लविष्यते ॥९२॥ सा तत्पुण्येन कान्तं वै सतीलोके हि नेष्यति ।
या कन्या जलपानं च स्नानं वात्र करिष्यति ॥९३॥ सतीत्वं वै समासाद्य पतिं लब्ध्वा सुखप्रदम् ।
पूर्णायुष्यं प्रभुक्त्वाऽत्र सतीलोकान् गमिष्यति ॥९४॥ सौभाग्ययुक्ता प्रमदा स्नानदानादिना त्विह ।
पातिव्रत्यफलं लब्ध्वा सतीलोकान् गमिष्यति ॥९५॥ वृद्धापि स्नानमात्रेण शतैककुलमुक्तिदा ।
नरोऽपि स्नानमात्रेण सत्यधर्मपरायणः ॥९६ ॥ गतां मृतां प्रियां प्राप्य स्वर्गलोकं प्रयास्यति ।
एतादृशं सतीतीर्थं नारीणां पावनं त्विदम् ॥९७॥ राज्ञ्याद्याश्चात्र कुर्वन्तु स्नानं दानं जलाञ्जलिम् ।
यथा च देवगङ्गायां सतीतीर्थं महत्तमम् ॥९८॥ यथा रेवापगायां च रेणुकातीर्थमित्यपि ।
तथाऽत्र राणिकातीर्थं त्रैलोक्यां पावनोत्तमम् ॥९९॥ कृते युगे समारब्धे जातं पुरातनं नृप ।
इप्युक्तोऽश्वपाटलश्च तत्स्त्रियो दासिका अपि ॥2.267.१० ०॥ राधिके सरसो वारौ सस्नुः सतीस्थले जले ।
ते तर्पणं प्रचक्रुश्च दत्वा दानानि वै ततः ॥१० १॥ राजाद्याः प्रययुश्चाग्रे तीर्थं परं हि पावनम् ।
लोमशेन च सहितास्तीर्थमाहात्म्यवेदिनः ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सौराष्ट्रे स्वर्णपत्तने म्लेच्छैः रक्षाङ्गारकनृपे हते तत्पत्नीराणिकासत्याः कुङ्कुमवाप्यामागत्याऽश्वपट्टसरस्तटे
सतीभवनं सतीतीर्थं चेत्यादिनिरूपणनामा सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥२६७ ॥