२६५

श्रीकृष्ण उवाच-
राधिके च ततश्चापि शृणु तीर्थं क्षयापहम् ।
अश्वपाटलराजाऽसौ गत्वा पप्रच्छ लोमशम् ॥१ ॥ अश्वपाटल उवाच -
एतत्तीर्थस्य माहात्म्यं वद मे नामसंयुतम् ।
फलं कीदृक् कदा जातं कस्येति ब्रूहि मे गुरो ॥२ ॥ श्रीलोमश उवाच-
राजन् पुराऽभवच्छूद्रः पार्ष्णिरदाभिधः शुभः ।
अजासंरक्षको भद्रानदीतीरनिवासकृत् ॥३ ॥ आजबालान्नरवर्गानर्भकानेव वै वने ।
क्षुद्रबदरिकाजाले निक्षिपत्येव निर्दयः ॥४ ॥ स्वार्थपरो हि लोकोऽयं विना स्वार्थे न रक्षति ।
अजापुत्र्यो द्विवर्षान्ते भवन्त्येव पयःप्रदाः ॥५ ॥ अजापुत्रास्तु विफला बहवोऽस्य निरर्थकाः ।
रक्षणीया वृथा चेति मत्वा त्यजति निर्जने ॥६ ॥ अजाप्रसवकाले वै बालां बालं प्रवीक्ष्य सः ।
नराँस्त्यजति जालादौ कण्टकादौ हि निर्दयः ॥७ ॥ बालिकास्तु सदा चाजापाला रक्षन्ति चाशया ।
एवं वै जालके त्यक्ता अर्भका वनचारिभिः ॥८ ॥ शृगालादिभिश्च रात्रौ भुज्यन्ते क्रूरप्राणिभिः ।
अर्भका बहुकष्टेन निधनं यान्ति वै तदा ॥९ ॥ शपन्ति चार्भकास्तत्र क्षेपकान् दुःखदाँस्तथा ।
यथा वयं वने क्षिप्ता व्यापादिताश्च भक्षिताः ॥2.265.१ ०॥ वनिभिः प्राणिभिस्तद्वत् त्वद्बालाः स्युश्च भक्षिताः ।
एवं शपन्ति पशवः पुत्रतुल्या हि पालिनः ॥११ ॥ एवं दुःखप्रदातॄणां बाला नश्यन्ति वै मुहुः ।
निर्वंशास्ते तु जायन्ते यैर्हताः पुत्ररूपिणः ॥१२॥ पुत्रा वै बहुधा प्रोक्ताः पत्न्यां चौरस एव सः ।
अपत्न्यां स तु दायादः परस्मादङ्कके कृतः ॥१३ ॥ कुटुम्बपुत्रकश्चापि तथा भृत्योऽपि पुत्रकः ।
शिष्यश्च पुत्र एवापि शरणागतपुत्रकः ॥१४॥ पालितश्चापि पुत्रश्चाऽध्यापितः पुत्र इत्यपि ।
त एते मानवाः पुत्राः पुत्र्यः प्रोक्ताश्च भूमिप ॥१५॥ तातेति च वदन् नित्यं पुत्रो भवति सदृशः ।
अथ गोपशवश्चोष्ट्रा अश्वा मृगा अजावयः ॥१६॥ महिष्यो वृषभाः श्वानो गजा गर्दभगोवृषाः ।
पालिताः पशवः सर्वे पुत्राः पुत्र्यो भवन्ति ते ॥१७ ॥ स्वामिना पुत्रवत्पाल्याः सिंहाद्या वानरा अपि ।
शुका मेनाः शशाद्याश्च कपोताश्चक्रकादयः ॥१८॥ हंसाश्च गरुडाश्चापि दासा दास्यश्च पुत्रकाः ।
राज्ञां प्रजाः सदा पुत्र्यो गुरोः शिष्या हि पुत्रकाः ॥१९॥ वृद्धानां बालवर्गाश्च पुत्रतुल्या हि पुत्रकाः ।
फलिवृक्षाः पुष्पद्रुमा वर्धिता बीजतो हि ये ॥2.265.२०॥ सर्वे पुत्राः पुत्रसमा न घात्याः स्वामिना हि ते ।
हनने तु यथा हत्या तथैव निर्जने वने ॥२१ ॥ प्रक्षिप्ते मरणार्थं वै क्षुधातृषाप्रपीडिते ।
द्विगुणा बालहत्या सा जायते क्षेपिणो हि सा ॥२२॥ तत्पापं रौरवे दुःखं निर्वंशत्वमिहापि च ।
आपद्यते हि तत्कर्तुर्बालहत्याफलं नृप ॥२३॥ पार्ष्णिरदो ह्यजापालो बहुहत्याभिदूषितः ।
मृतपुत्रोऽभवच्चापि मृतभार्यस्ततोऽभवत् ॥२४॥ मृतवंशोऽभवच्चापि सर्वनाशार्दितस्त्विह ।
गृहं तस्याऽभवत् सस्यपुलाकैः छादितं तु यत्॥२५॥ सर्वं तद् वह्निना दग्धं सोपस्करं हि भस्मसात् ।
नाऽवशिष्यत एवाऽस्य विना वै कम्बलद्वयम् ॥२६ ॥ अजाशाला प्रदग्धा च अजा दुद्रुवुरातुराः ।
रात्रौ चौरेण नीतास्ता अजाहीनो बभूव च ॥२७॥ इत्येवं सर्वपापानां बालहत्या महत्तमा ।
तत्फलं त्वाप्तवान् पार्ष्णिरदो जीवनवर्जितः ॥२८॥ समभूद् दुष्टभाग्याच्च क्षयरोगी प्रदुःखितः ।
त्यक्त्वा भद्रानदीं त्यक्त्वा वंशवटं पुरं निजम् ॥२९॥ श्रुत्वा जनेभ्यस्तीर्थं च कुङ्कुमवापिकास्थितम् ।
आश्वपट्टसरः श्रेष्ठं सर्वपातकनाशनम् ॥2.265.३ ०॥ उत्तरेऽत्र तटे राजन्नागत्य वीक्ष्य निर्मलम् ।
जलं पपौ ततस्तत्र सस्नौ नारायणं स्मरन् ॥३ १ ॥ कम्बलद्वययुक्तोऽसौ तटेऽत्र वासमाचरत् ।
हरेकृष्ण हरेकृष्ण कृष्णकृष्ण जपत्यपि ॥३२॥ बालकृष्ण हरेकृष्ण नारायण जपत्यपि ।
प्रदक्षिणं चकाराऽपि सरसः परितस्तथा ॥३३॥ लोमशस्याऽऽश्रमे दिव्यां कथां शुश्राव -मोक्षदाम् ।
लक्ष्मीनारायणसंहिताया नारायणाश्रयाम् ॥३४॥ महापापातिपापानि नश्यन्ति भजनाद्धरेः ।
साधूनां सेवया सर्वपापानि प्रज्वलन्ति हि ॥३५॥ रोगा नश्यन्ति भजनात् सौभाग्यं चाभिवर्धते ।
हरेः सङ्कीर्तनात् कष्टं सर्वं विलीयते द्रुतम् ॥६॥ अनादिश्रीकृष्णनारायणेप्यष्टोत्तरं शतम् ।
कीर्तितं येन भावेन कष्टं तस्य विलीयते ॥३७॥ हरेर्वशे भवन्त्येव कालकर्मस्वभावकाः ।
मृत्युभाग्यादिकं चापि लीयन्ते हरिकीर्तनात् ॥३८॥ हरेकृष्ण बालकृष्ण सततं येन कीर्तितम् ।
भुक्तिर्मुक्तिर्भवेत्तस्य स्वर्गं वा कामनान्वितम् ॥३९॥ साधूनां सेवया चापि भाग्योदयो भवेदिह ।
सतामाशीर्वचोभिश्च दारिद्र्यं प्रविलीयते ॥2.265.४० ॥ अपि जन्मसहस्रस्य पापं पर्वतसन्निभम् ।
सत्सङ्गाल्लीयते तूर्णं सेवया च सतां तथा ॥४१ ॥ इत्येवं चाशृणोद् वार्ता कथां वै संहितागताम् ।
हर्षं चावाप बहुधा भजनं प्रचकार ह ॥४२॥ हरेकृष्ण बालकृष्ण नारायण हरेहरे ।
वासुदेव परब्रह्म परमात्मन् श्रियःपते ॥४३ ॥ एवं चकार भजनं शृण्वतां सर्वदेहिनाम् ।
लज्जां विहाय सततं तालीवादनपूर्वकम् ॥४४॥ क्वचित्तु नर्तनं चापि करोत्येव सुतानवान् ।
क्वचित्तिष्ठन् समासीनः सुप्तश्चाऽकीर्तयत् प्रभुम् ॥४५॥ लोकयन्ति जनास्त्वेनं नाऽयं पश्यति कञ्चन ।
कीर्तने दत्तचित्तश्च दत्तजिह्वः सदाऽभवत् ॥४६॥ साधून् साधुसमाचारान् वीक्ष्य यतीन् सतो जनान् ।
काषायाम्बरधर्तॄंश्च नत्वा करोति दण्डवत्॥४७ ॥ मूर्ध्नि देहे मुखे चापि साधुपादरजः शुभम् ।
निक्षिपत्येव च स्तौति दासं मां पावनं कुरु ॥४८ ॥ साधूनां पर्णशालासु ऋषीणामाश्रमेषु च ।
रटन्नारायणं गत्वा मार्जनादि करोति च ॥४९ ॥ पादसंवाहनं चापि करोति भावतः सदा ।
साधूनां भक्षितं चान्नं शिष्टं चादाय वै ततः ॥2.265.५ ० ॥ मत्वा प्रसादमेवाऽन्नं सरोजलेऽवधूय च ।
पापहर्तृ समश्नाति मन्यते कृतकृत्यकम् ॥५१ ॥ राजन्नेवं तटे चात्र पार्ष्णिरदोऽतिभक्तिमान् ।
व्याजायत दिने याते भक्तिरस्य व्यवर्धत ॥५२ ॥ नारदो ब्रह्मणः पुत्रस्त्वेकदा भगवान् स्वयम् ।
अनादिश्रीकृष्णनारायणदर्शनहेतवे ॥५३ ॥ समाजगाम सजटः साधुवीणां निनादयन् ।
हरेकृष्ण बालकृष्ण नारायण हरेहरे ॥५४॥ वासुदेव परब्रह्म परमात्मन् श्रियःपते ।
कीर्तयन् स निजवीणास्वरैर्मेलं विधापयन् ॥५५ ॥ व्योम्नश्चावाततारैतत्तटे तद्दैवनोदितः ।
पार्ष्णिरदो द्रुतं दृष्ट्वा नारदान्तिकमाययौ ॥५६ ॥ मत्वा प्रभुं वा देवं वा नेमे तूर्णं ह्रि दण्डवत् ।
धूलीं तस्य निजे देहे धृत्वा निक्षिप्य चानने ॥५७ ॥ ‘हरेकृष्ण बालकृष्ण नारायण हरेहरे ।
वासुदेव परब्रह्म परमात्मन् श्रियःपते’ ॥५८ ॥ इत्येवं व्याजहाराऽपि सन्नृत्यन् तालिकायुतः ।
नारदस्तं विलोक्यैव प्रसन्नोऽभूत् हृदा तदा ॥५९ ॥ स्वस्ति तेऽस्तु तथाऽऽरोग्यं भक्तिस्तेऽस्तु परेश्वरे ।
भक्तैवं भज गोविन्दं सदा नारायणं प्रभुम् ॥2.265.६० ॥ इत्येवं प्रददौ तत्राशीर्वादान् वै निसर्गजान् ।
तावत्तस्य तु पापानि निर्गतानि शरीरतः ॥६१ ॥ यानि तीर्थाऽवशिष्टानि जज्वलुर्भस्मसात्तदा ।
काकरूपाणि सर्वाणि जज्वलुर्भस्मसात्तदा ॥६२॥ ततो हत्या नरीरूपा विकृताः कृष्णवर्णिकाः ।
निर्ययुः शतशस्तस्य शरीरान्नग्निकाः स्त्रियः ॥६३ ॥ जज्वलुस्ताश्च तूर्ण वै भस्मसात्तत्र चाऽभवत् ।
ततोऽस्य देहतस्तत्र निर्ययुः क्षीणदेहिनः ॥६४॥ वृद्धाः स्थूलशिरसश्च क्षीणोदराः कृशोरसः ।
मक्षिकामशकाव्याप्ताः पुरुषाः पापरूपिणः ॥६५ ॥ कृष्णवर्णाः क्षुधिताश्च निर्दयाः पापमूर्तयः ।
प्रजज्वलुश्च सहसा तदोत्थितेन वह्निना ॥६६॥ भस्मसादभवँस्तेऽपि ततश्चास्य शरीरतः ।
कफतन्तुप्रवाहाश्च रक्तजन्तुमयाः खलु ॥६७॥ विनिर्ययुर्द्रुतं तत्र रोगगृहात्मका हि ते ।
जज्वलुस्ते धूम्रभूताश्चाऽम्बरे विगतास्तदा ॥६८॥ पार्ष्णिरदोऽभवच्छुद्धो देवतुल्यशरीरवान् ।
नारदेन कृतो दिव्यो दिव्यतीर्थप्रभावतः ॥६९॥ सस्नौ शीघ्रं जले तत्र पपौ वारि शुभं तदा ।
नारदस्य चरणौ वै प्रक्षाल्याचमनं पपौ ॥2.265.७० ॥ स्वर्णाम्बरयुतो जातः स्वर्णकुण्डलमण्डितः ।
चन्द्रकान्त्याननः सूर्यप्रभः सुरालयोचितः ॥७ १ ॥ ननर्त दिव्यदेहोऽपि धूलीं कृत्वा च वर्ष्मणि ।
मुहुर्नारदपादस्थां महिमानं विभाव्य सः ॥७२॥ हरेकृष्ण बालकृष्ण नारायण हरेहरे ।
वासुदेव परब्रह्म परमात्मन् श्रियःपते ॥७३ ॥ कीर्तयत्येव सततं नान्यद् वदति वै तदा ।
देवभूतोऽभवच्चापि विसस्मार न कीर्तनम् ॥७४ ॥ नारदोऽपि महाश्चर्यं प्राप्तो दृष्ट्वा तथाविधम् ।
भक्तं भक्तोत्तमं तत्र क्षणं तस्थौ हि सन्निधौ ॥७५॥ अहो भक्तोऽयमेवाऽस्ति वैकुण्ठयोग्य एव ह ।
अनादिश्रीकृष्णनारायणस्य दर्शनोत्तरम् ॥७६॥ एनं नेष्ये हि वैकुण्ठं कीर्तने सहयोगिनम् ।
विचार्येत्थं च तं नीत्वा ययौ कृष्णनरायणम् ॥७७॥ पुपूज परया प्रीत्या कुसुमाद्यैः परेश्वरम् ।
आरार्त्रिकं तथा कृत्वा कृत्वा नृत्यं च गायनम् ॥७८ ॥ नामसङ्कीर्तनं कृत्वा लब्ध्वा स्वागतमाननम् ।
पार्ष्णिरदं च वैकुण्ठं नेतुमाज्ञामवाप्य च ॥७९ ॥ नारदस्तेन युक्तश्च श्रीमद्गोपालकृष्णकम् ।
पितरं मातरं देवीं कम्भरां सम्प्रणम्य च ॥2.265.८ ० ॥ ईशानं लोमशं चापि नत्वा ब्रह्मप्रियास्तथा ।
स्मारयित्वा विवाहस्य क्षणं कृष्णस्य मार्गके ॥८ १ ॥ शुक्ले चतुर्थदिवसे विहस्य च प्रसाद्य च ।
ययौ पार्ष्णिरदस्थानं पार्ष्णिरदं जगाद ह ॥८२॥ अत्र तीर्थं तव नाम्ना पार्ष्णिरदं भविष्यति ।
नारदाख्यं तथा तीर्थं नृत्यतीर्थं भविष्यति ॥८ ३ ॥ भक्त मासं वसात्रैव कुरु मत्पर्णकालयम् ।
मृत्तिकानारदं स्थाप्य दृष्ट्वा कृष्णविवाहनम् ॥८४॥ ततो यास्यसि वैकुण्ठं दिव्यदेहश्चतुर्भुजः ।
इत्युक्त्वा तं तटे त्यक्त्वा ततः कृष्णनरायणम् ॥८५॥ पुनर्गत्वा हरिं प्राह वक्तुकामोऽस्मि सेवकः ।
काश्यां श्रीदुःखहालक्ष्मीः शिवराजस्य पुत्रिका ॥८६॥ समीक्षते विवाहं च तथा ब्रह्मप्रियाः प्रभो ।
मार्गशीर्षस्य धवले चतुर्थ्यां श्रेयसां निधौ ॥८७॥ समये भगवाँस्तत्र विवाहविधिमाचर ।
स्मारयामि भगवन्तं सर्वज्ञमपि भक्तितः ॥८८॥ ब्रह्मप्रियाणां सर्वासां मानसैर्विनिवेदितः ।
इत्युक्त्वा प्रययौ चापि नारदश्च यदा तदा ॥८९॥ अनादिश्रीकृष्णनारायणः प्राह हि नारदम् ।
याहि त्वं काशिकां तत्र शिवेश्वरगृहं प्रति ॥2.265.९०॥ गत्वा सर्वं यथायोग्यं ज्ञात्वा मां विनिवेदय ।
तथास्त्वितिनिदेशं च प्राप्य नारदको मुनिः ॥९ १॥ ययौ तीर्थनिमित्तेन ज्ञातुं वृत्तान्तकं नृप ।
तदिदं नारदं तीर्थं पार्ष्णिरदं च तीर्थकम् ॥९२॥ पापहं क्षयहं तीर्थं देवतीर्थं समुच्यते ।
अत्र स्नानात् समग्राणि नश्यन्ति पापकानि हि ॥९३॥ अत्र दानाश्च जायन्ते स्मृद्धयः स्वर्गसन्निभाः ।
अत्र वै तपसा चापि भजनेन च कीर्तनात् ॥९४॥ नर्तनाच्च भवेद् दिव्यं शरीरं देवसन्निभम् ।
आयुष्यं वर्धते चापि भाग्यं प्रकाशते तथा ॥९५॥ सतां सेवासमो लाभश्चात्र वासाद् भवेन्नृप ।
सतां प्राप्तिर्भवेच्चापि शान्तानां मोक्षदायिनाम् ॥९६॥ अकामो लभते मुक्तिं सकामो लभते दिवम् ।
विष्णुभक्तस्तु वैकुण्ठं लभते नात्र संशयः ॥९७॥ राजन्नत्र जलं पीत्वा स्नात्वा नत्वा च नारदम् ।
देहि दानानि धेनूनां राजसूयफलानि वै ॥९८॥ इत्युक्तौ राधिके राजा धेनुदानानि वै ददौ ।
दत्वा तथाऽन्यदानानि स्नानादिविधिमाचरत् ॥९९॥ ततस्तीर्थं पश्चिमं च ततो जगाम सान्वयः ।
लोमशेन तु सहितो राजाऽश्वपाटलः शुचिः ॥2.265.१० ०॥ पठनाच्छ्रवणादस्य पापनाशो भवेत्तथा ।
भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टां च गतिं लभेत् ॥१०१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पार्ष्णिरदनामकाऽजापालशूद्रस्याऽश्वपट्टसरोवरे स्नानादिना क्षयरोगनिवारणं नारदतीर्थं चेत्यादिनिरूपणनामा
पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥२६५ ॥