२५१

श्रीकृष्ण उवाच-
राधिके च ततो राजा चाऽश्वपाटलको गुरुम् ।
पप्रच्छ लोमशं धर्मक्रतुं ब्रूहीह कीदृशम् ॥१ ॥ लोमशः प्राह राजन् यत् प्राणिनां द्रोहकृत् भवेत्॥ तत्सर्वथा परित्याज्यं धर्मक्रतुः स एव सः ॥२ ॥ प्राणिनो दुःखिनः कृत्वा देवास्तुष्यन्ति नैव ह ।
सर्वे भवन्तु सुखिनो यथा देवास्तथाविधाः ॥३ ॥ वर्तन्तेऽनुग्रहपरास्तस्मादद्रोहकः क्रतुः ।
अहिंसा वै धर्ममखो हिंसा यमगृहं मतम् ॥४ ॥ अद्रोहः सर्वजन्तूनां. यज्ञः सतां स्वभावजः ।
स्नेहवृत्त्योपकारो वै धर्मयज्ञोऽस्ति भूतले ॥५ ॥ अश्वपाटल उवाच-
आत्मा शुद्धोऽस्ति चेत् केन पापात्मा जायते हि सः ।
कथं धर्मभृदात्मा च कथं रागं प्रमुञ्चति ॥६ ॥ कथं मुक्तिं प्रयात्येव कुत्र वासं करोति च ।
कीदृशं वर्तनं तत्र यस्मान्नावर्तते पुनः ॥७ ॥ श्रीलोमश उवाच-
सच्चिदानन्दरूपोऽयं चात्मा मायाविवर्जितः ।
अहम्ममत्वहीनश्च सङ्गात् तद्वान् भवत्यपि ॥८ ॥ सङ्गो मायाप्रसङ्गश्च सान्निध्यं चान्तरे सदा ।
तेनाऽऽकृष्टो भवत्येव पापात्मा दोषसम्भृतः ॥९ ॥ ज्ञानाभावे च मायायाः सङ्गं वै लभते यतिः ।
ज्ञानेन सङ्गदोषाश्च नश्यन्त्येव विवेकिनः ॥2.251.१ ०॥ ज्ञात्वा ज्ञात्वा विषयाँस्तु चेच्छा तत्र प्रवर्तते ।
तदाप्त्यर्थं प्रवृत्तिश्च निवृत्तिर्वा प्रजायते ॥११ ॥ रागः प्रवर्तकस्तत्रेष्टताज्ञानेन जायते ।
द्वेषो निवर्तकश्चाप्यनिष्टताबोधनाद् भवेत्॥१२॥ यदर्थं यतते तत्रारभते कर्म देहजम् ।
ऐन्द्रियिकं च वाऽभ्यासं तेन करोति देहभाक् ॥१ ३॥ रागाद्याः सुदृढास्तेन दोषा भवन्ति दुःखदाः ।
लोभो मोहः प्रजायेते धर्मस्थितिविनाशकौ ॥१४॥ व्याजेन जायते धर्मो व्याजतश्चरति वृषम् ।
वृषवद् रोचतेऽर्थ व्याजेनैव धनैस्ततः ॥१५॥ कुरुते देहवानज्ञः पापं परात्मदुःखकृत् ।
वर्धतेऽस्याऽधर्मसर्गश्चिन्तनात् कारणात्ततः ॥१६॥ एकशीला मिलित्वैव वर्धयन्ति च पापकम् ।
पापवृद्धावशान्तिश्चोद्वेजनं विघ्नदर्शनम् ॥१७॥ कलहो रोगयोगश्च धननाशो दरिद्रता ।
जननाशोऽवमानं चाऽयशश्चाऽगणना जने ॥१८॥ चौर्यं तेनाऽनृतवादः कापट्यं छलधर्मिता ।
प्रवर्तन्तेऽभयाः सर्वे पापात्मसु प्रकर्षतः ॥१ ९॥ न ते सुखिनश्चात्र कुत एव परत्र तु ।
पुनर्याम्यगतिश्चापि तिर्यग्योनिः पुनः पुनः ॥2.251.२० ॥ अथ धर्मभृतां मार्गं शृणु राजन् सुखप्रदम् ।
पूर्वपूर्वानुपुण्येन सार्थसङ्गेन वा जनः ॥२१ ॥ सत्सङ्गेन सदा देही शुभं सर्वं प्रवाञ्च्छति ।
कुशलं प्रकरोत्येव सत्यं वदति नाऽनृतम् ॥२२॥ सत्यं विचिन्तयत्येब सत्यं करोति साधनम् ।
सत्येन वर्तते नित्यं रागं द्वेषं न विन्दति ॥२३ ॥ विज्ञवृत्त्या हितं स्वस्य परस्यापि करोति च ।
लोभं मोहं विहायैव प्रवर्तते शुभाय वै ॥२४॥ कुशलेनैव धर्मेण देहयात्रां करोति च ।
दानेन सेवया सङ्कीर्तनेन भजनेन च ॥२५॥ यज्ञेन मालया देवपूजया तपसा तथा ।
सत्सङ्गवृद्ध्या नित्यं च विन्दति धर्ममुत्तमम् ॥२६॥ वृद्धानां सेवया लोकसेवया वर्धते वृषः ।
दोषान् विज्ञाय सर्वान् स त्यजत्येव च दूरतः ॥२७॥ गुणान् विज्ञाय गृह्णाति गुणेषु रमते सदा ।
सत्सङ्गसार्थमासाद्य वर्धयत्येव सद्वृषम् ॥२८॥ साधून् प्रसेवते नित्यं साधुधर्मान् प्रसेवते ।
साध्वाचाराऽभ्यासवशाद् वर्धन्तेऽस्य वृषाः सदा ॥२९॥ प्रज्ञा वृषे स्थिरा चास्य नान्यत्र रमते क्वचित् ।
धर्मप्रवृत्तिमान् देही धनार्थं यततेऽपि च ॥2.251.३ ०॥ धर्मधनं समवाप्य धर्मे व्ययं करोति च ।
धर्ममित्राणि जायन्ते धर्मिणो वै स्वभावतः ॥३ १ ॥ धर्मात्मा धर्मशीलश्च धर्मसत्सङ्गशोभितः ।
धर्मजन्यं सुखं चात्र लभतेऽपि परत्र च ॥३२॥ स्वर्गे स्वर्गपरे लोके प्रभुत्वं लभते तथा ।
शब्दे स्पर्शे रसे रूपे गन्धे भोगे प्रभुत्वकम् ॥३३॥ एवं धर्मफलं लब्ध्वा मोदते निस्पृहो यथा ।
ज्ञानदृष्ट्या च निर्वेदं पोषयत्येव मानसे ॥३४॥ भोगेषु सत्स्वपि विद्वान् नैव बध्नाति तत्र हि ।
अभावयतस्तस्यैव मनो वैराग्यवेगवत् ॥३५॥ न कामाननुसञ्चारं करोत्यस्य कदाचन ।
धर्मं नैव जहात्येव कष्टे चापदि वैशसे ॥३६ ॥ लोकं क्षयात्मक दृष्ट्वा धर्मेऽपि रागहीनताम् ।
प्राप्यात्मनो मुक्तिमार्गं मार्गयत्येव यत्नवान् ॥३७॥ यतते चान्वहं मोक्षाभ्यासे ह्युपायमाश्रयन् ।
शनैः शनैश्च सोपानं मोक्षस्य लभते ततः ॥३८॥ पाप्मानं सर्वमेवाऽयं करोत्येव न वै क्वचित्॥ जहात्येव समायातं पापं शुद्धिं प्रविन्दति ॥३९॥ विमलात्मा च सन्तोषी देवाश्रयपरायणः ।
व्यर्थवार्तादिरहितो मोक्षं वै लभते परम् ॥2.251.४० ॥ वैकुण्ठे चापि गोलोकेऽक्षरे धाम्नि परे च वा ।
यथोपास्तिं प्रयात्येव मोक्षस्थलं परात्परम् ॥४१ ॥ तत्र ब्रह्महदे स्नात्वा ब्रह्मतनुः हरिर्यथा ।
सम्पद्यते सुरूपेण दिव्यरूपेण तादृशः ॥४२॥ जक्षन् क्रीडन् रममाणश्चास्तेऽश्नुतेऽखिलेप्सितम् ।
एकधा वहुधा चापि भवत्येव यथेप्सितम् ॥४३ ॥ सर्वरसः सर्वगन्धः सर्वानन्दः प्रजायते ।
सर्वसुखः सर्वरूपः सर्वसिद्धिगुणाश्रयः ॥४४॥ परब्रह्मस्वरूपश्च तत्सामर्थ्यसमन्वितः ।
तत्सेवातत्परो मुक्तः प्रजायतेऽतिमोदनः ॥४५॥ ब्रह्ममूर्तेर्महत् सौख्यं प्रवाहैः स समेत्यपि ।
कराग्रे सर्वसृष्टीश्च प्रपश्यत्येव मुक्तराट् ॥४६॥ सार्वज्ञ्यं जायते चास्येश्वरत्वं सम्प्रजायते ।
नात्र वाऽन्यत्र लोकेऽस्याऽऽवर्तनं जायते क्वचित् ॥४७॥ यत्र यत्र प्रयात्येव तत्र धामाऽक्षरं पुरः ।
प्रकाशतेऽस्य नाऽन्यद्वै दिव्यनेत्रस्य सर्वथा ॥४८॥ क्रिया दिव्या भवत्यस्य मायाऽस्य सङ्गतोऽपि च ।
दिव्यैव जायते तूर्णं तत्त्वादीनां तु का कथा ॥४९॥ मानवे सुरलोके वै पैतृके चार्षकेऽपि वा ।
ऐश्वरे वाऽवतारभ्यां दिव्यो मुक्तोऽयमेव ह ॥2.251.५०॥ यत्र क्वापि वसेद् वापि यत्र क्वापि चरेदपि ।
सर्वं दिव्यं करोत्येव मोक्षं ददाति देहिने ॥५१ ॥ अस्यैव दर्शनान्मुक्ताः स्पर्शनादपि मोक्षिणः ।
सङ्गात् प्रसेवया मुक्ता जायन्ते स्त्रीनरादयः ॥५२॥ यथा धाम्नि तथा सृष्टौ देहे वा मुक्तसंस्थितौ ।
सर्वं समं भवेदस्य भिन्नता नाऽस्य वर्तने ॥५३॥ एवं प्राप्तां गतिं नित्यां सुखिनीं मोदिनीं सतीम् ।
आनन्दिनीं प्रियां मुक्तोऽनुभवत्येव सर्वदा ॥५४॥ राजँस्त्वं धर्ममार्गं वै साधूनामवलम्ब्य च ।
गतिं लभस्व वै प्रोक्तां किमन्येन विनाशिना ॥५५॥ विज्ञानं सारथिं कृत्वा भक्तिं कृत्वा सहायिनीम् ।
धर्मं चाग्रगतिं कृत्वा याहि ब्रह्म सनातनम् ॥५६॥ अश्वपाटल उवाच-
कथं दोषविनाशः स्याद् येन धर्मगतिर्भवेत् ।
विज्ञापय महर्षे त्वं येन श्रेयो हि देहिनः ॥५७॥ श्रीलोमश उवाच-
जयेत् क्रोधं क्षमयैव विचारेण पुनः पुनः ।
जयेत् कामं ह्यनाभोगात् सङ्कल्पसङ्गवर्जनात् ॥५८॥ स्वप्नं जयेच्च तपसाऽनाहारेण च सत्त्वतः ।
भयं जयेत्तदुत्थानपरित्यागाद् विवेकतः ॥५ ९ ॥ आत्मशीलाभ्यसनाच्च मृत्युभीतिं सदा त्यजेत्॥ धैर्येण कामनामिच्छां द्वेषं जयेत् कलिं तथा ॥2.251.६ ० ॥ भ्रान्तिं मोहं ममकार भेदज्ञानान्निवर्तयेत् ।
याथार्थ्यज्ञानलाभेन विपर्यदादिकं त्यजेत् ॥६ १ ॥ उपद्रवान् जयेत् सर्वान् कौशल्येन विधानतः ।
रोगान् जयेत् हेतुजयात् पथ्यजीर्णमिताशनात् ॥६ २॥ लोभं तृष्णां विवेकाद्वा सन्तोषात् प्रजयेदपि ।
विषयान् विषबोधाद्वा तत्त्वदृष्ट्या जयेदपि ॥६ ३ ॥ अधर्मं चात्मकृपया जयेदनर्थभावतः ।
धर्मं पालनबुद्ध्या च जयेन्मोक्षप्रदं चरेत् ॥६ ४॥ आशां जयेन्निरुत्थानाद् भाविफल्गुविधानतः ।
अर्थं चानर्थबुद्ध्या च जयेत् सङ्गविवर्जनात् ॥६५ ॥ स्नेहं चानित्यदृष्ट्या च बन्धनादिविवेकतः ।
क्षुधां जयेद् यात्रया च योगेनाऽऽवश्यकेन च ॥६६॥ मानं जयेदनावृत्त्या कारुण्येन विवेकतः ।
सन्तोषाच्च जयेद् गृध्ना विवेकज्ञानतस्तथा ॥६७॥ तन्द्रां जयेत् स्वस्थभावादुत्थानाच्च बलादपि ।
संशयं शास्त्रवचनाच्च निर्णयात् प्रजयेत् सदा ॥६८॥ वाग्दोषान् मुनिभावेन मनोदोषाँश्च विद्यया ।
पावित्र्येण जयेच्चापि कल्मषं तामसं सदा ॥६९॥ ज्ञानदृष्ट्या तमश्चापि जयेदज्ञानसञ्ज्ञितम् ।
आत्मबोधेन च ज्ञानं मानसं प्रजयेद् यतिः ॥2.251.७०॥ आत्मानं च जयेत्परमेशे समर्पणेन तु ।
तदर्पणात् सर्वदोषा शिष्टा नश्यन्ति द्राक् खलु ॥७१ ॥ तदा विवर्धते तेजो ब्रह्मलोकप्रकाशकम् ।
सिद्धयश्चोद्भवन्त्यस्य विज्ञानं सम्प्रवर्धते ॥७२॥ सतामाचारमाप्तः सन् वर्तमानः सताश्रये ।
स्वेच्छयैव निनीषेत् स ब्रह्माऽक्षरं परं पदम् ॥७३॥ एष मार्गो विमुक्तेर्वै राजन् शुभाश्रयः सदा ।
यत्र विघ्ना न जायन्ते निर्विघ्नस्य हरेः श्रयात् ॥७४॥ दिव्येन्द्रियक्रियाहारो दिव्यसद्गुणवर्तनः ।
दिव्यकृष्णे कृतस्थानो याति ब्रह्म सनातनम् ॥७५॥ सङ्घाते संस्थितेश्चापि मुक्तो नैव हि तप्यते ।
बद्धो हि तप्यते तस्य सम्बन्धास्तापदायिनः ॥७६ ॥ नात्माऽस्ति कस्यचित् कश्चिन्नास्य कश्चन विद्यते ।
कथं गृह्णात्ययं दुःखं परोत्पन्नं निजात्मनि ॥७७॥ नैव सञ्जायते चात्मा नापि विपद्यते क्वचित् ।
मुक्त्वा देहं प्राप्य कृष्णं प्रयाति परमां गतिम् ॥७८॥ पुण्यपापमयो देहः कर्मक्षयेन नश्यति ।
ततो देही प्रमुक्तः सन् ब्रह्मत्वमुपगच्छति ॥७९॥ पुण्यपापक्षयार्थं हि कृष्णार्पणं विधीयते ।
तथा नैर्गुण्यमासाद्य याति ब्रह्मपरां गतिम् ॥2.251.८०॥ अर्थाः स्मृद्धिभराश्चापि बाढं दुःखभरा यतः ।
स्वादलालावगूढास्ते मोहयन्त्यविचक्षणम् ॥८ १ ॥ सर्वेन्द्रियसुखं दिव्यं वितृष्णस्य तु कल्मषम् ।
सतृष्णेन ममत्वेन कल्पितं स्वार्थपूर्तिकम् ॥८२॥ तदेव परितापाय नाशे सम्पद्यतेऽधिकम् ।
तस्मात् तापकरं पूर्वं तापं मत्वा न चार्जयेत् ॥८३॥ कृतकृत्यः सदा मत्वा भूत्वाऽप्येवं न सञ्ज्वरेत् ।
इष्टानिष्टावुभौ त्यक्त्वा परेशे सर्वमर्पयेत् ॥८४॥ प्राणान्तिकं परं रोगं तृष्णात्मकं परित्यजेत् ।
अपूर्यमाणं पातालं तृष्णात्मकं च चाविशेत् ॥८५॥ शीलं सन्तोषमेवापि शान्तिं भक्तिं क्षमां मतिम् ।
सेवां समर्पणं कृत्वा ब्रह्मधाम समाविशेत् ॥८६ ॥ पश्यन् मृत्युं शिखावासं कालं च प्राणवासिनम् ।
कर्म चात्मकृतावासं ब्रह्मवासं समर्जयेत् ॥८७॥ अहोरात्राणि यान्त्येव यात्रा भवति खण्डिता ।
रात्र्यां रात्र्यां व्यतीतायामायुर्विन्दति हस्वताम् ॥८८॥ पुष्पवद् देहिनं मृत्युर्नयत्यपूर्णकामिनम् ।
आत्मकार्यं तु प्रथमं कुर्वीत दैहिकं ततः ॥८९॥ देहसम्बन्धजं पश्चाद् येन न स्यात् प्रतारितः ।
अकृतेष्वपि कार्येषु मृत्युरादाय गच्छति ॥2.251.९० ॥ नहि कश्चिद् विजानाति कदा मृत्युर्भविष्यति ।
सुप्तं वा जाग्रतं स्वस्थं मृत्युरादाय गच्छति ॥९ १ ॥ कुर्वन्तं बहुसङ्कल्पान् पुत्रस्मृद्धिपशुस्थितिम् ।
अन्यव्यासक्तहृदयं मृत्युरादाय गच्छति ॥९२॥ न मृत्युपृतनां कश्चिन्निवर्तयितुमुद्बलः ।
ब्रह्मबलो भक्तिबलो मृत्युं दूरयितुं क्षमः ॥९३॥ ब्रह्मविद्याप्रकाशाढ्यः सत्सङ्गयानवाहनः ।
श्रीकृष्णसारथिं प्राप्तो मृत्युं तीर्त्वाऽक्षरं व्रजेत् ॥९४॥ मा मोहं व्रज राजेन्द्र कृते पुण्ये कथञ्चन ।
स्वर्गे च गत्वरसञ्ज्ञे सन्नद्धो भव केशवे ॥९५॥ केशवः कालकालोऽस्ति मृत्योर्मृत्युः परेश्वरः ।
सर्वकर्मफलज्योष्टा तस्मिन् कार्यं समर्पय ॥९६ ॥ निर्भीको भव राजेन्द्र भयं कोशो हि कर्मणाम् ।
मुञ्च नारायणे देवे विकोशो भव पार्थिव ॥९७॥ गृह्णाऽनादिकृष्णनारायणपादं हि निर्भयम् ।
काम्भरेयपदे स्थित्वा शाश्वतानन्दभाग् भव ॥९८॥ इत्युक्त्वा राधिके तत्र लोमशो विरराम ह ।
राजाऽश्वपाटलः शान्तिं चावाप पारभेश्वरीम् ॥९९॥ बहु मत्वाऽमृतं श्रीमल्लोमशाननवाहितम् ।
तृप्तोऽपि च पुनस्तृप्तिं नाधिजगाम भक्तराट् ॥2.251.१०० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलकृतानाम् आत्मनः पापात्मकत्वे पुण्यात्मकत्वे मुक्तिभावे दोषविनाशभावे च प्रश्नानां
श्रीलोमशकृतोत्तरदानमित्यादिनिरूपणनामैकपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५१ ॥