२४९

श्रीकृष्ण उवाच-
राधिकेऽथ ततः सर्वे निद्रां जगृहुरेव ह ।
त्रयोदश्यां कृतस्नानार्हणा विदायमाप्नुवन् ॥१ ॥ लोमशर्षिः सभायां वै ह्युपादिदेश देहिनः ।
श्रद्धायज्ञाः फलवन्तश्चाऽश्रद्धाः फलवर्जिताः ॥२ ॥ आज्येन पयसा दध्ना सोमेन च फलेन च ।
पूर्णाहुत्या श्रद्धया च फलवन्ति क्रतवस्त्विह ॥३ ॥ अशक्ताश्च मखे ते तु पुच्छाभिषेचनेन वै ।
अभिषेकेण वा पादरजसा सन्तरन्त्यपि ॥४ ॥ श्रद्धां पत्नीं विधायैव सुसत्येन व्रतेन तु ।
यजमानो यजेतेशं तरत्येव न संशयः ॥५ ॥ इष्टं तु दैवतं कृत्वा यजेत श्रद्धया मुहुः ।
भावेनाऽर्पणविधिना तरत्येव स यागकृत् ॥६ ॥ पुरोडाशः सदा मेध्यो देवानां तृप्तिकारकः ।
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः ॥७ ॥ सर्वा पृथ्वी हरेर्धाम ब्रह्मनिष्ठस्य देहिनः ।
श्रद्धा तु पोषिता येन सा तु पुष्णाति तं जनम् ॥८ ॥ श्रद्धां निहन्ति यो धर्मे सा हता हन्ति तं जनम् ।
साधूनां श्रद्धधानानां कुर्वतां यज्ञविस्तरम् ॥९ ॥ फलं सम्पद्यते सर्वं प्रसवित्री हि सा यतः ।
ज्ञानवृद्धं मनोवृद्धं श्रद्धा देवे हि रक्षति ॥2.249.१० ॥ श्रद्धावृद्धं हरिर्नारायणः क्वापि न मुञ्चति ।
अश्रद्दधानो देवानां नार्हति हविरर्पणे ॥११ ॥ अहविरन्नदातुश्च भोक्तव्यं नैव सर्वथा ।
अश्रद्धा परमं पाप तन्मयं ग्राह्यमेव न ॥१ २ ॥ पावयित्री ज्यायसी च निवृत्तिदा सुखप्रदा ।
श्रद्धा शान्तिप्रदा परब्रहारूपा हि पावनी ॥१३ ॥ श्रद्धा ब्रह्मप्रदा तद्वदहिंसा व्रह्मदायिनी ।
अहिंसा सर्वधर्मेभ्यो भूतानां ज्यायसी मता ॥१४॥ सर्वयज्ञेषु वै विष्णुर्भुङ्क्ते हव्यं हि पायसम् ।
पायसैः सुमनोभिश्च फलैर्गुन्द्रै रसैर्हवः ॥१५ ॥ पावनस्तृप्तिदो विप्णोर्जायते शुद्धभावनः ।
औषध्यादि पवित्रं वै सर्वं देवार्हमेव तत् ॥१ ६॥ यथा शरीरं न ग्लेयात्तथौषधैः प्रजीवयेत् ।
कन्दमूलफलाद्यैश्च यज्ञं सन्तोषयेत् सदा ॥१ ७॥ श्रद्धा वै जननी सर्वफलावाप्तिप्रकारिणी ।
अहिंसा भगिनी तस्यास्ते ह्युभे देवदर्शिके ॥१८ ॥ जननी नैव हन्तव्या सदा बालोपकारिणी ।
अहिंसा परमो धर्मः स्वधर्मो मातृरक्षणम् ॥१ ९॥ श्रद्धां हत्वा मातरं च को हि जातु सुखी भवेत् ।
माता शरीरहेतुः सा मात्रा सनाथता सदा ॥2.249.२ ० ॥ श्रिया ह्रीनोऽपि सुजनश्चाम्वेति गेहमृच्छति ।
पुत्रपौत्रयुतश्चापि जननीं प्रति बालकः ॥२१ ॥ असमय विचित्तं वा सुतं माता प्ररक्षति ।
तदा वार्धक्यमायाति दुःखदोषसमन्वितम् ॥२ २॥ तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ।
नास्ति मातृसमः कश्चिदाधारो भूतलेऽपि च ॥२३ ॥ नास्ति मातृसमं त्राणे प्रियं प्राणस्य भाजनम् ।
कुक्षिसन्धारणाद् धात्री जननाज्जननी हि सा ॥२४॥ अङ्गानां वर्धनादम्बा माता मानकरी शिशोः । (अम्बा)
श्रद्धा धात्री स्वर्गकुक्षौ जननी देवयोनिषु ॥५॥ अम्बाऽक्षरप्रदत्वाश्च माता मुक्तिप्रदा यतः ।
स्वर्गकामो यजेतेति श्रद्धया यजनं मतम् ॥२६ ॥ ओषध्यः समिधो वृक्षा वीरुदाज्यं. पयो दधि ।
हविर्भूमिर्दिशः श्रद्धा कालः ऋचो यजूंषि च ॥२७॥ सामानि यजमानाग्निः सप्तदशाङ्गकः क्रतुः ।
आज्येन पयसा दध्ना शकृताऽऽमिक्षया फलैः ॥२८॥ रसैश्च श्रद्धया विष्णुः प्रसीदत्येव चाध्वरे ।
ब्राह्मणप्रभवो यज्ञो ब्रह्मार्पणपरायणः ॥२९ ॥ अनुयज्ञं जगत् सर्वे यज्ञश्चानु जगत् सटा ।
ओमिति ब्रह्मणो नाम नमः स्वाहा स्वधा वषट् ॥2.249.३ ० ॥ यस्यैतानि प्रयुज्यन्ते तस्य भयं न विद्यते ।
तस्याऽभयप्रदः श्रीमत्कृष्णनारायणः प्रभुः ३१ ॥ काम्भरेयो हरिः साक्षादक्षरात्परतः परः ।
कुङ्कुमवापिकाक्षेत्रे भवद्भिरीक्षितो मखे ॥३२ ॥ स एव सर्वयज्ञानां फलं जानाति वै प्रभुः ।
ददात्येव फलं सम्यग् जनन्या चानुमोदितः ॥३३ ॥ तस्माद् यजेद् याजयेच्च यशं श्रीकृष्णवल्लभम् ।
विधिना यजतः स्वर्गे शाश्वतं चाक्षरात्परम् ॥३४॥ नाऽयं लोकोऽस्त्ययज्ञानां नापि परश्च निश्चितः ।
नापि धर्मोऽस्ति गतिदश्चाऽयज्ञानामिह क्षितौ ॥३५॥ अश्वपाटल उवाच-
कथं लोकोऽयमुत्कृष्टः परलोकस्तथाऽऽप्यते ।
कथं धर्मश्च गतिदः क्षितौ स्यात्तद्वदाऽत्र मे ॥३६ ॥ श्रीलोमश उवाच-
साध्वाचारस्य च जितात्मनः समस्य देहिषु ।
सर्वसत्कारकार्यस्योत्कृष्टोऽयं लोक इष्यते ॥३७॥ सर्वत्र ब्रह्मदृष्टेश्च ब्रह्मपूजारतस्य च ।
ब्रह्मनिष्ठस्य भक्तस्य परलोकः प्रकाशते ॥३८ ॥ सर्वप्रसन्नतार्हस्य सर्वोपकारशालिनः ।
अहिंसासत्यधर्मस्य धर्मो वै गतिदो भवेत् ॥३ ९॥ मायाभावविहीनस्याऽक्षरभावगतस्य च ।
परब्रह्माश्रितस्यैव त्रयं करगतं हि तत् ॥2.249.४०॥ सैषोपनिषद्विद्या वै सन्निधियोजिका हरेः ।
ययाऽऽप्यते परब्रह्म धामाऽक्षरं च शाश्वतम् ॥४१ ॥ ज्ञानेन चाप्यते ब्रह्म ज्ञानं चोपनिषन्मता ।
भक्त्या सम्प्राप्यते ब्रह्मा भक्तिश्चोपनिषन्मता ॥४२॥ भागवतेन धर्मेणाऽऽप्यते कृष्णः स एव सा ।
वैराग्येण च दुःखेन यदि गत्वा हरिं प्रति ॥४३ ॥ वासः सञ्जायते येन तत्तदुपनिषन्मता ।
देवस्य मन्दिरे वासो जायते येन हेतुना ॥४४॥ शुभाशयः स वै हेतुर्ब्रह्माप्त्युपनिषन्मता ।
बालः प्रसादलोभेन यदि गच्छति मन्दिरम् ॥४५॥ हरेर्वै सन्निधौ तस्योपनिषत् स प्रसादकः ।
कर्मणा शत्रुणा वापि वाञ्च्छया चेहयाऽपि वा ॥४६॥ हरे सान्निध्यमाप्येत येन सोपनिषन्मता ।
यज्ञेन सेवया चापि सार्थेन स्वार्थकेन वा ॥४७॥ दानेन तृष्णया वापि देवसन्निधिराप्यते ।
येन केनापि वै सात्रोपनिषत् सम्मता भुवि ॥४८॥ साधुसङ्गोऽतिवेलं यो ब्रह्मप्राप्तिकरोऽस्ति वै ।
स चोपनिषत् सम्प्रोक्ता सत्सङ्गिना हरिप्रदा ॥४९॥ कथाश्रवणमेवाऽत्र नारीणां ब्रह्मयोगदम् ।
सा चोपनिषद् बोध्यैव येन नारायणो मिलेत् ॥2.249.५०॥ स्नेहस्तानं भावना च वृत्तिः रागोऽपि चेद् यदि ।
ब्रह्मप्राप्तिकरस्ते वै सर्वे चोपनिषन्मता ॥५ १ ॥ गोपीनां कामतः प्राप्तिर्विप्राणां यज्ञतस्तथा ।
गोपानां मैत्र्यतः प्राप्तिदैत्यानां द्वेषतोऽपि च ॥५२॥ सुदाम्नो लोभतः प्राप्तिजीवनार्थॆ तु हस्तिनः ।
तपसा च ध्रुवस्याऽपि प्रह्लादस्य तु निश्चयात् ॥५३॥ पूतनाया वैरभावान्नारदस्य तु कीर्तनात् ।
एवं येनैव केनैव हेतुना चाप्यते हरिः ॥५४॥ हेतुः स चोपनिषत् सा ब्रह्मप्राप्तिकरी मता ।
ज्ञानं भक्तिश्च वा कर्म भावना वा समर्पणम् ॥५५॥ सर्वं चोपनिषत् प्रोक्ता यया ब्रह्म ह्यवाप्यते ।
अश्वपट्टल! यज्ञेनाऽनादिकृष्णनरायणः ॥५६॥ प्राप्तस्त्वयाऽत्र वै दिव्यमूर्तिः श्रीकृष्णवल्लभः ।
सोमयज्ञस्तवाऽत्रैवोपनिषत्सम्मता ध्रुवा ॥५७॥ अनुग्रहेण जीवानां क्वचिद् योगः प्रभोर्मतः ।
क्वचिद् यत्नेन वा क्वचिज्जात्या योगो भवेदपि ॥५८॥ सा तेषां योगिनां हेतुः शुभ्रोपनिषत् सम्मता ।
यथा कर्माणि सर्वाणि फले परिसमाप्यते ॥५९॥ फलं शान्तौ सा च भोगे ब्रह्मण्येव समाप्यते ।
ब्रह्मभावः परे देवे परमेशे समाप्यते ॥2.249.६ ० ॥ यतयस्तं विजानन्ति पश्यन्ति यान्ति तं प्रति ।
निर्द्वन्द्वा निर्बन्धनाश्च विमुक्ताः शुचयोऽमलाः ॥६ १ ॥ अपवर्गे कृतनिष्ठा ब्रह्मिष्ठा ब्रह्मवासिनः ।
विमाया ब्रह्मभूताश्च गतिस्तेषां सनातनी ॥६ २॥

अनारम्भाः सुधृतयः शुचयो ब्रह्मसञ्ज्ञिताः ।
देवं परेश्वरं यज्ञैस्तर्पयन्त्यनृतैषिणः ॥६३॥ सर्वभूतात्मभूतस्य पश्यतः स्वेतराणि च ।
मार्गं यान्ति तत्प्रदत्तनेत्रवान् तस्य भक्तिमान् ॥६४॥ नवद्वारप्रगुप्तिं च कृत्वा हृदयोद्घाटनम् ।
ब्रह्ममार्गेण यातस्य परब्रह्मगृहे स्थितिः ॥६५॥ अग्निहोत्रं पूर्णमासो दर्शः प्रयाजकास्तथा ।
स्विष्टकृच्चानुयाजाश्च पितृयज्ञोऽङ्गयागकः ॥६६॥ चातुर्मास्यं वैश्वदेवः साकमेधश्च वारुणः ।
सोमयागश्च सवनं चाग्रयणेष्टिरित्यपि ॥६७॥ अवभृथेष्टिश्चोक्थं च षोडशी चातिरात्रकम् ।
अत्यग्निष्टोम एवापि वाजपेयश्च विष्टुतिः ॥६८॥ वायव्यः शतरुद्रीयो वासवो राजसूयकः ।
सौत्रामणिश्चाश्वमेधः पुम्मेधः सर्वमेधकः ॥६९॥ गोमेधो ब्रह्ममेधश्च यज्ञा येऽन्ये क्रियापराः ।
ज्ञानपरास्तपःपरा द्रव्यपराश्च ये मखाः ॥2.249.७० ॥ स्वागतार्थाश्चोपकारास्तथा ये दानदक्षिणाः ।
सर्वे ते कल्पिता कृष्णे मोक्षदा ब्रह्ममार्गिणः ॥७ १ ॥ कृता वा न कृता वापि नास्य किञ्चित् प्रशिष्यते ।
हरिः सन्तोषितः प्राप्तस्तेनाऽऽप्तं सर्वमेव ह ॥७२॥ कृतेष्वपि च यज्ञेषु तोयितेषु सुरेषु च ।
कृष्णभानविहीनेन कृतं चेन्मोक्षदं न तत् ॥७३॥ तस्मात् तेषु चाध्वरेषु कृष्णो धर्मः सनातनः ।
साधवो ब्रह्मयतयो बाह्यद्वारनिरोधिनः ॥७४॥ सर्वयज्ञेषु तं कृष्णं तर्पयन्त्यमृतैषिणः ।
अन्यद्वारं पिधायैव ब्रह्मद्वारं प्रसारयेत् ॥७५ ॥ अश्वपाटल उवाच-
कथं लोमश द्वाराणि पिधातव्यानि तद्वद ।
पिधानोत्तरमेवापि कृत्यं स्याद् वा फलं वद ॥७६ ॥ श्रीलोमश उवाच-
अमृतं ब्रह्मकोशेऽस्ति चात्मना रक्षितं परम् ।
अपिहितेन द्वारेण प्रयात्यन्यत्र दुर्लभम् ॥७७॥ देवनं यत्कराभ्यां वै पद्भ्यामन्यत्र धावनम् ।
कामना या च निकृष्टा चासनं त्वन्यचत्वरे ॥७८॥ वर्णनं चान्यविषयं रूपणं लोकमिश्रितम् ।
आस्वादनं प्रसादान्ये घ्राणनं क्लिन्नवर्ष्मणः ॥७९॥ स्पर्शनं मृदुमायायाः श्रवणं चलनाफलम् ।
मननं ममकारस्य बोधनं बहु मे भवेत्॥2.249.८०॥ चिन्तनं चामरौ मे स्तोऽहम्पदं नास्ति मादृशः ।
इत्येवं चामृतं सर्वं जाग्रति स्वप्नकेऽपि च ॥८१ ॥ सर्वं स्रवत्यजस्रं वै पात्रं रिक्तं भविष्यति ।
तस्मात् पिधानं कर्तव्यं विवेकेन विजानता ॥८२॥ नाऽक्षतुल्यैवैं दीव्येच्च न धावेत् कर्दमस्थलीम् ।
न कामयेन्निकृष्टां क्ष्मां नासीत मोहचत्वरे ॥८३॥ न वर्णयेदुशत्याऽन्यद् रूपयेन्नहि रूपकम् ।
नाऽऽस्वादयेच्चार्पणाऽन्यत् जिघ्रेन्नैव हि दैहिकम् ॥८४॥ न स्पृशेन्मार्दवीं शय्यां शृणुयान्न कथेतरत् ।
मननं मापतेः कुर्याद् बोधनं ब्रह्म मे भवेत् ॥८५॥ चिन्तनं चामृतं मेऽस्तु चाहं तस्मिन् वसामि च ।
इत्येवं द्वारगुप्तिं वै कुर्याच्छ्रीहरिरूपिणीम् ॥८६ ॥ वृष्टेर्जलाद् यथा भौमं जलं वृद्धिं समेति वै ।
तथा गुप्त्याऽमृतं नैजं ब्रह्मगुप्त्या विवर्धते ॥८७॥ ग्रीष्मतापाद् यथा भौमं जलं शुष्कं विलीयते ।
तथा द्वाराऽपिधाने तु स्वामृतं लयमीयते ॥८८॥ वृथा गच्छेन्न वै लोके वृथाऽऽददीत नैव ह ।
वृथा कामं न भुञ्जीत वृथा नोपाविशेत् क्वचित् ॥८९॥ वृथा भाषां सत्यहीनां कृष्णहीनां न वै वदेत् ।
वृथा रूपं कृष्णहीनं न वै पश्येन्निरर्थकम् ॥2.249.९०॥ वृथा स्वाद्ं न गृह्णीयाद् देहयात्रातिरेकिणम् ।
वृथा गन्धं नाऽऽददीत श्वासपूर्तं समाचरेत् ॥११ ॥ वृथा स्पर्शं न कुर्वीत हरेः स्पर्शं विना सदा ।
वृथा ददीत कर्णौ न परमेशश्रवं विना ॥१२॥ मनने श्रीहरेः कुर्याच्छ्रीपतेः कमलापतेः ।
बोधनं श्रीपतेः कुर्याच्चिन्तनं श्रीहरेः सदा ॥९२॥ अहन्ता तस्य चैवाऽस्मि नाऽन्यस्याऽहं कदाचन ।
एवं लक्ष्मीपतेरर्थं सर्वं चाहं तदात्मकः ॥९४॥ सर्वेन्द्रियनिवासो मे परमेशे नरायणे ।
भवत्वेवेति वै द्वारगुप्तिर्बोध्याऽमृतार्थिनी ॥९५॥ यस्य द्वाराणि सर्वाणि विहारवर्जितानि वा ।
हरेः प्राप्तिर्भवेत्तस्याऽमृतवार्धि पिबत्ययम् ॥९६॥ गुप्तद्वारस्य भक्तस्याऽमृतं शाश्वततो भजेत् ।
सर्वे यज्ञाः समाप्यन्तेऽमृतशाश्वततार्थिनः ॥९७॥ किं तस्य तपसा कृच्छ्रैर्यज्ञैः क्लेशैस्तथेतरैः ।
अर्जनीयं चार्जितं वै हृदि नारायणामृतम् ॥९८॥ अश्वपाटल! सञ्ज्ञात्वा कोशस्थं त्वमृतं निजम् ।
न स्रावयेदमार्गेण मोघतां न नयेत्तथा ॥९९॥ यथापेक्षं त्वम्बरं च यथापेक्षं तृणासनम् ।
यथापेक्षोपधानं च यात्रामात्रादनं तथा ॥2.249.१ ००॥ द्वन्द्वारामान् विहायैवाऽऽन्तरारामं भजेत् सदा ।
अन्यसार्थं विहायैवान्तरसार्थ समाश्रयेत् ॥१०१ ॥ तेन दीर्घस्य मार्गस्य पारं यायात् सुगत्वरः ।
इत्येव राधिके राज्ञे लोमशः प्राह चामृतम् ॥१० २॥ इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलनृपतये श्रद्धोपनिषदमृतगुप्त्यादिरूपं लोमशदत्तज्ञानमितिनिरूपणनामा नवचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४९ ॥