२३८

श्रीकृष्ण उवाच-
राधिके नूतने वर्षे प्रभुर्ब्रह्मप्रियापतिः ।
चकार कुङ्कुमवापीक्षेत्रेऽन्नकूटकोत्सवम् ॥१ ॥ भोजयामास सर्वान् स कुङ्कुमवापिकाजनान् ।
नरान्नारीर्बालवर्गान् यूनो वृद्धान् समस्ततः ॥२ ॥ पशून् चागन्तुकाँश्चापि पक्षिणश्च जलेशयान् ।
भूशयान् चेतनान् सर्वान् भोजयामास वै हरिः ॥३ ॥ प्रतिपद्दिवसे श्रीमद्बालकृष्णो निजालये ।
लक्ष्मीं तथाऽन्नपूर्णां च प्राह भोजनकाम्यया ॥४ ॥ अद्य मे वर्तते वाञ्च्छा सर्वेषां भोजनार्थिकीम् ।
मध्याह्नोत्तरवेलायां यदि स्यात् कुरुतं तथा ॥५ ॥ आज्ञां प्राप्याऽन्नपूर्णा च प्राह श्रीपरमेश्वरम् ।
भगवन् पक्वभावार्थं घटिकापञ्चकं खलु ॥६ ॥ अपेक्ष्यतेऽद्य समयो वर्तते च तथाविधः ।
करिष्यामोऽन्नसामस्त्यं शृतं नास्त्यत्र संशयः ॥७ ॥ इत्युक्त्वा सा चान्नपूर्णा सस्मार स्वसखीं भुवम् ।
श्रियं सस्मार तूर्णं च वार्क्षी सस्मार तत्र च ॥८ ॥ सुधां सस्मार धान्यानां लक्ष्मीं सस्मार वै द्रुतम् ।
चुल्लिकाश्च सखीः सर्वाः सस्मार समिधस्तथा ॥९ ॥ शाकपत्राणि सस्मार वेशवारान् समस्तकान् ।
नदीः सस्मार गङ्गाद्या धेनूः सस्मार कामदाः ॥2.238.१ ०॥ पाकलक्ष्मीः प्रसस्मार वह्नीन् सस्मार तत्र च ।
पात्राण्यक्षयनामानि तथा सस्मार सद्रसान् ॥११ ॥ ब्रह्मप्रियाः समस्ताश्च सस्मार चान्नपूर्णिका ।
आन्धसिकीः प्रसस्मार सस्मार परिवेषिकाः ॥१२॥ आरनालादिकर्त्रीश्च तक्रपेयविधायिनीः ।
प्रसस्मार तदा सर्वा सखीस्ताश्च समाययुः ॥१३॥ भुवं चाज्ञापयामास कुरु शीघ्रं महानसम् ।
क्रोशार्धं वर्तुलं शीघ्रं क्षणात् साऽपि तथाऽकरोत् ॥१४॥ नदीः प्राह जलार्थं च ता जलानि समानयन् ।
चुल्लिकाः प्राह योग्ये च स्थले स्थातुं स्थिताश्च ताः ॥१५॥ वह्नीन् प्राह निवासार्थं चुल्लीषु वह्नयः स्थिताः ॥ कटाहान् प्राह चुल्लीनां मस्तके स्थातुमास्थिताः ॥१६॥ दर्व्याद्यास्तूर्णमेवाऽऽसन् स्वस्वकार्यनियोजिताः ।
सस्यानि चापि धान्यानि रसादीनाह पात्रके ॥१७॥ चुल्लीपात्रेषु च स्थातुं घृताद्याश्च तथाऽभवन् ।
आसमन्तात्ततो लक्ष्म्यश्चान्धसिक्यः स्थिताः पुरः ॥१८॥ ब्रह्मप्रियाः समस्ताश्चोपकारिण्यस्तदाऽभवन् ।
लक्ष्मीनां वै समस्तानामिच्छया च घृतादिकम् ॥१९॥ कटाहेषु च पात्रेषु त्वायान्ति च तपन्ति च ।
यथापेक्षं कणाद्याश्च पिष्टादिकानि तत्र च ॥2.238.२० ॥ पक्वतार्थं समागत्य प्रविशन्ति समन्ततः ।
शर्कराद्यास्तथा पक्वा वेशवारादयोऽपि च ॥२ १॥ अन्नपूर्णेच्छया तूर्णं समागत्य विशन्ति च ।
अष्ट वै सिद्धयस्तत्र सेवन्ते सर्वतः स्थिताः ॥२२॥ घटीद्वयान्ते सिद्धानि पक्वान्नानि बहून्यपि ।
आमन्त्रणानि शम्भोश्च पार्षदाः क्षेत्रपा ददुः ॥२३॥ आक्षरक्षेत्रवासेभ्यो भोजनार्थं समस्ततः ।
पक्वान्नानामभवैंश्च पर्वता वै महानसे ॥२४॥ अशार्करादिपाकाश्च ततोऽजायन्त भूरिशः ।
भक्षान्यपि ततो जातान्यसङ्ख्यरूपकानि च ॥२५॥ भोज्यान्यपि द्रुतं जातान्यसङ्ख्यरूपकानि च ।
लेह्यान्यपि कृतान्येव बहुसङ्ख्यानि तत्र च ॥२६॥ चोश्यान्यपि समस्तानि कृतानि सुबहून्यपि ।
पेयान्यपि समस्तानि रचितानि तदा द्रुतम् ॥२७॥ आरनालादीनि चापि चटन्यो विविधास्तथा ।
क्षारचणकमाषाद्यास्तत्र शृतास्तथाविधाः ॥२८॥ शाकान्यपि विविधानि भाजा भाज्यस्तथाविधाः ।
मुरब्बारससाराश्च रायतानि बहून्यपि ॥२९॥ दधिघृतनवनीतपायसक्षीरतक्रकम् ।
सर्वं यथापेक्षकं तु पक्वापक्वं विधापितम् ॥2.238.३०॥ सर्वाभिर्ब्रह्मयोषिद्भिर्लक्ष्मीभिः कन्यकादिभिः ।
सतीभिः सिद्धिभिश्चापि सर्वं कृत्वोपरक्षितम् ॥३ १॥ घटिकापञ्चमध्ये तु सर्वं सम्पादितं हितम् ।
प्रार्थयामासुरीश्वर्यः श्रीपतिं पुरुषोत्तमम् ॥३२॥ वर्तते सर्वमेवाऽत्र सिद्धं विभिन्नजातिकम् ।
वैश्वदेवं विधेहि त्वं घण्टानादं प्रकारय ॥३ ३॥ भोजनार्थं जनानां वै पङ्क्तयः सन्तु सर्वतः ।
मध्याह्ने भगवान् कृष्णनारायणो हि राधिके ॥३४॥ स्नात्वा कृत्वा वैश्वदेवं तर्पित्वाऽग्निं च पितृकान् ।
तर्पित्वा देवताः सर्वा घण्टानादमकारयत् ॥३१॥ आगच्छन्तु महाभागा भोजनार्थं हि पङ्क्तिषु ।
यथाज्ञं सर्वपात्राणि तदाऽभवन् हि पङ्क्तिषु ॥३६॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽपि मानवाः ।
आययुस्तत्र शीघ्रं वै भोजनार्थं समन्ततः ॥३७॥ ब्राह्मणेभ्यो ब्रह्मवर्गाः परिवेषणमाचरन् ।
भोजयामासुरत्यर्थं नरनारीः समस्ततः ॥३८॥ दक्षिणाः प्रददौ तेभ्यो बालकृष्णो हि मुद्रिकाः ।
लडडुऽकान् शष्कुलीश्चापि शतच्छिद्राणि खाजकान् ॥३९॥ मेशुभान् मोहनस्थालान् पर्पिकाखण्डकाँस्तथा ।
पिण्डकान् गुडकान् श्रेष्ठान् ग्रन्थिकान् मोदकाँस्तथा ॥2.238.४० ॥ कलिकालडडुऽकाँश्चापि मुद्गलडडूँऽश्च मण्डकान् ।
सोहिलकाँश्च संयावं कंसारं घृतपूरकान् ॥४१॥ सेविकाः पोलिका मिष्टाः पूरिकाः पायसं तथा ।
विरञ्जं सुखदां फेणीं गुन्द्रपाकमपूपकान् ॥४२॥ पूपाँश्च घुर्घुरांश्चापि वटकान् तिलपिष्टकान् ।
शाटकान् स्थिरकाँश्चापि रम्भाचूतफलानि च ॥४३॥ शाकानि भिण्डकान् स्वर्णदुग्धां कोशातकीं तथा ।
राजकोशातकीं गवाहाराँश्च मार्गरीं तथा ॥४४॥ कर्कोटिकां शिम्बिकां च कर्कटीं चिर्भटं तथा ।
रक्तालुं राजमाषादीन् शिम्बीबिम्बीफलानि च ॥४५॥ शर्कराकन्दमेवापि खर्बूजं कारवेल्लकम् ।
कूष्माण्डं सूरणं चापि मुनिशिम्बीः पटोलकम् ॥४६॥ कर्कटीर्मेथिकाश्चापि पारवल्लं च मूलकम् ।
शतपुष्पामम्ब्ललोणीं जीवन्तीं स्यन्दिकां तथा ॥४७॥ वृन्ताकं भर्जितं चापि राजिकाक्तानि यानि च ।
द्राक्षाखारिकसम्मिश्रान् दधिमिश्रवटीवटान् ॥४८॥ पुष्पवटीश्च भोज्यानि सौरभोदनमित्यपि ।
सूपः क्वथिकास्तक्राणि दधिमन्थानि यानि च ॥४९॥ तलितान् हरिमन्थाँश्च निष्पावान् पर्पटाँस्तथा ।
नवनीतं चारनालं चटनीं धान्यकादिजाम् ॥2.238.५०॥ दुग्धं च क्वथितं मिष्टं दधि घृतं सकेसरम् ।
मरीचानि सुतिक्तानि तथैलाकणकानि च ॥९१॥ भूफलीशर्कराबीजान्यपि वल्लान् वटाणकान् ।
कलिका मिष्टपोलीश्च घारिका मिष्टजम्बुकान् ॥५२॥ रोटकान् मूशलीपाकान् वासुदेवीं च मल्लिकाम् ।
श्रीखण्डं तरलां चापि माषलडडून् कलावकम् ॥५३॥ एकोत्तरशतं तत्र पदार्थान् वाडवादयः ।
भुक्त्वा तृप्तिं परां प्राप्य ययुर्गृहाणि वै ततः ॥५४॥ क्षत्रिया वैश्यवर्गाश्च शूद्रा बुभुजिरे मुदा ।
दीना अनाथवर्गाश्च भिक्षुकाश्च निराश्रिताः ॥५५॥ दासवर्गा दासिकाश्च सर्वा बुभुजिरे तदा ।
कुङ्कुमवापिकाक्षेत्रस्थिता बुभुजिरेऽखिलाः ॥५६॥ तत्र तत्र पदार्थेषु न्यूनं नैव प्रजायते ।
वर्धते त्वक्षये पात्रे वस्तुनि परिवेषिते ॥५७॥ अक्षयं चाऽव्ययं सर्वं दीयमानं प्रजायते ।
महर्षयस्तथा सन्तः साध्व्यो बुभुजिरे तथा ॥५८॥ आबालवृद्धगोपालाः सर्वे बुभुजिरे तदा ।
क्षेत्रपाला देवताद्याः सर्वे बुभुजिरेऽपि च ॥५९ ॥ हरेः सर्वं कुटुम्बं च बुभुजे श्रीशवाञ्च्छया ।
ब्रह्मप्रियाद्याः सर्वाश्च भोजयितुं प्रियं पतिम् ॥2.238.६०॥ सोत्साहाश्चाययुर्बालकृष्णस्वामिपुरस्तदा ।
स्वर्णपट्टिकसंस्थानि पात्राणि च हरेः कृते ॥६१ ॥ पक्वान्नपूर्णकान्येव न्यधुर्हरेः पुरश्च ताः ।
स्वर्णासने हरिः सम्यङ्निषद्योर्णोसने प्रभुः ॥६२॥ भोक्तुं चाचम्य च समारेभे व्याहृतिपूर्वकम् ।
आर्चिचन् श्रीहरिं ताश्चन्दनकुङ्कुमकेसरैः ॥६३ ॥ भोजयामासुरत्यर्थं प्रेमाल्यश्चातिभावतः ।
लक्ष्मीर्विशालं स्थालं च कानकं निदधौ पुरः ॥६४॥ राधे त्वया समन्ताच्च स्थापिता लघुवाटिकाः ।
माणिक्या कलशं पानपात्रं जलयुतं न्यधात् ॥६५॥ रमा च व्यजनं धृत्वा वायुदानं करोति हि ।
पद्मावती नक्तकं च धृत्वा पार्श्वे स्थिताऽभवत् ॥६६॥ ब्रह्मप्रियास्तथा सर्वाः सर्वदेशोद्भवास्तदा ।
विदधुर्वै पदार्थानां सर्वेषां परिवेषणम् ॥६७॥ अन्नपूर्णादिका देव्यः प्राहुः श्रीपरमेश्वरम् ।
भुङ्क्ष्व नाथ कृपाकान्त दिदृक्षामोऽत्र भाविताः ॥६८॥ अथ कृष्णः करे कृत्वा कवलं बुभुजे मुदा ।
अहो मिष्टमहो भोज्यं कयेदं रन्धितं शुभम् ॥६९॥ पृष्ट्वा तत्कर्त्रीनामानि प्रशशंस तु ता मुहुः ।
अतिस्वादु कृतं चेदं प्रशंस्य बुभुजे पुनः ॥2.238.७० ॥ ब्रह्मप्रियाद्याः सर्वाश्च भुञ्जानं ददृशुर्हरिम् ।
वीक्षमाणाः प्राणपतिमाश्चर्यं लेभिरे स्त्रियः ॥७१ ॥ स्वल्पं भुक्त्वा समुत्थातुं समैहत यदा हरिः ।
शारदा तं स्थापयन्ती जगौ भुङ्क्ष्वेति कीर्तनम् ॥७२॥ सरस्वती सवादित्रा प्रीतये श्रीहरेः पुरः ।
जगौ भोजनपद्यानि भोजयितुं विशेषतः ॥७३॥ भोजनं विधेहि नाथ जीवन योगिन्
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।
कवलं गृहाण कृष्ण मिष्टमिष्टमेनम्,
प्रास्वादय प्रकृष्टसौरभान्नकूटम् ॥७४॥ पुमर्थदातृ भगवन् प्रभुङ्क्ष्व काममेतत्,
समस्तपक्वमेतत् रे जीवन योगिन् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७५॥ मेशुभमोहनस्थालं रसालपायसान्नं,
सुशष्कुलीं च फेणीं श्रीखण्डमिष्टपोलीम् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्तजीवन योगिन् ॥७६॥ सुपर्पिकां रसाढ्यां च मोदकान् विरञ्जं,
सुगुन्द्रपाकमिष्टं सुशाटकांश्च घुर्घुरान् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त जीवन योगिन् ॥७७॥ स्वादुमिष्टचणकान् सुराजमाषवटकान्,
प्रशाकभाजिकादिप्रभोज्यपुष्पवाटीः ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७८॥ पर्पराँश्च चटनीं शुभाऽऽरनालकानि,
सुतक्रदुग्धकानि समस्तभोजनानि ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७९॥ सुगन्धि वारि मिष्टं सूपौदनं यदिष्टं,
प्रफुल्लपूरिकादिप्रपक्वघुर्घुरादीन् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥2.238.८०॥ एलालवङ्गमिश्रं ताम्बूलकं सुधाक्तं,
चाऽऽकण्ठपूर्तमद्यं प्रभुङ्क्ष्व देहि शिष्टम् ।
भोजनं विधेहि नाथ वल्लभ स्वामिन्,
प्रसादं प्रदेहि कान्त कामनेश भोगिन् ॥८ १॥ इत्येवं राधिके सर्वा भोजयामास सत्पतिम् ।
भगवान् वुभुजे पूर्णं ततः सर्वा अपि स्त्रियः ॥८२॥ कवलानि करे कृत्वा भोजनाय निजं पतिम् ।
विश्वम्भरं प्रसह्यैव यत्नं तत्र प्रचक्रिरे ॥८३॥ योगेश्वरो हरिस्तासां तादृङ्मानससिद्धये ।
सर्वपत्नीसमसङ्ख्यस्वरूपोऽभूदसङ्ख्यकः ॥८४॥ सर्वासां ब्रह्मपत्नीनां करेभ्यः कवलानि तु ।
बुभुजे समकालेन स्नेहेन ताः प्ररञ्जयन् ॥८५॥ जलं ताम्बूलकं चापि प्रत्येककरतो हरिः ।
पपौ प्रजगृहे तत्र पूर्णकामाश्च तास्ततः ॥८६॥ अथ सर्वसखीभ्यश्च पक्वान्नानि मुहुर्मुहुः ।
भोजयामास भगवान् प्रसादानि करेण वै ॥८७॥ भोजयित्वा च ताम्बूलरसं ताम्बूलकानि च ।
पाययामास ताः सर्वाः कोट्यर्बुदाब्जकन्यकाः ॥८८॥ कृतकृत्याश्च ता जाता ब्रह्मप्रियास्तथाऽपराः ।
परिवेषणकर्त्र्यश्च पाककर्त्र्यस्तथा स्त्रियः ॥८९॥ पाकसाहाय्यकर्त्र्यश्च वस्तुहारिण्य इत्यपि ।
वस्तूद्भावनकर्त्र्यश्च रसदा योषितस्तथा ॥2.238.९०॥ अन्नपूर्णादिभिस्तत्र या याश्चाकारितास्तु ताः ।
सर्वाः श्रीमद्बालकृष्णप्रसादं दुर्लभं ह्यपि ॥९१ ॥ सुलभं प्राप्य च बुभुजिरे तृप्तिं गताश्च ताः ।
एवं भुक्त्वा त्वन्नकूटं प्रचक्रुः परिहारकम् ॥९२॥ जलजन्तुभ्य एवापि ददौ प्रसादमुत्तमम् ।
पक्षिभ्यश्च पशुभ्यश्च कीटादिभ्यः समन्ततः ॥९३॥ प्रददौ भगवाँस्तत्र प्रसादं त्वनिवारितम् ।
वृक्षेभ्यो वनवल्लीभ्यः स्तबकेभ्यः समन्ततः ॥९४॥ द्रवत्प्रासादिकं खाद्यं ददौ मूलेषु वै हरिः ।
प्रसादग्रहणार्थं वै देवा महर्षयस्तथा ॥९५॥ पितरश्चापि मुक्ताश्च दिव्यदेहाः समाययुः ।
यत्र यत्र प्रसादः स दृष्टस्तत्र तथाविधाः ॥९६॥ भूत्वा ते जगृहुः सर्वे प्रसादं त्वप्रकाशिताः ।
एवं चानुग्रहं प्राप्य स्वस्वलोकान् ययुर्हि ते ॥९७॥ ताः सर्वाः सिद्धयो भुक्त्वा लब्ध्वाऽऽज्ञां पारमेश्वरीम् ।
महानसप्रदेशस्य तिरोभावं व्यधुस्तदा ॥९८॥ सर्वं वै लीनतां यातं नगरी तृप्तिमागता ।
जयकारं जगौ कृष्णवल्लभस्य सुहर्षिता ॥९९॥ ततो निजालयं गत्वा विश्रान्तिमापुरेव तु ।
एवं महोत्सवं चक्रे राधिके कृष्णवल्लभः ॥2.238.१० ०॥ पठनाच्छ्रवणादस्य त्वन्नकूटफलं लभेत् ।
भुक्तिं मुक्तिं लभेच्चापि बालकृष्णस्य तर्पणात् ॥१०१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरिणाऽन्नकूटोत्सवो विहितः सर्वप्रजाभोजनादि कारितं चेत्यादिनिरूपणनामाऽष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥२३८ ॥