२३६

श्रीकृष्ण उवाच-
राधिके बालकृष्णस्तु धनत्रयोदशीदिने ।
धनलक्ष्म्याः पूजनं सम्प्रचकार विधानतः ॥१ ॥ लक्ष्मीं निजां प्रियां श्रीं च सौवर्णी प्रतिमात्मिकाम् ।
कारयामास दानार्थं तां सुमूर्तिं विधानतः ॥२ ॥ प्रापूजयत् षोडशाद्योपचारैश्चन्दनादिभिः ।
भोजयामास बहुधा पक्वान्नैर्नवधान्यजैः ॥३ ॥ प्रत्यक्षां च ततो लक्ष्मीं पत्नीं निजां श्रियं तथा ।
स्वर्णसिहासने निषाद्याऽऽर्चयच्चन्दनादिभिः ॥४ ॥ केशवेषादिकं चक्रे स्वयं कृष्णो हि योषितोः ।
कबरीं कृत्वा धम्मिलं ग्रन्थयामास वै स्वयम् ॥५ ॥ पुष्पहारान् विभूषाश्च ग्रन्थयामास तत्र च ।
शृङ्गारद्रव्यसद्रत्नैर्हीरकैः कज्जलादिभिः ॥६ ॥ कुङ्कुमैर्गन्धसाराद्यैः केसरैः करकादिभिः ।
पुष्पस्रग्भिश्च बिन्द्वाद्यैस्तयोः शृङ्गारमाचरत् ॥७ ॥ तयोश्चारार्त्रिकं चक्रे प्रत्यक्षयोर्हि कन्ययोः ।
ते ह्युभे सुप्रसन्ने च तदाशीर्वचनानि वै ॥८ ॥ प्राहतुः श्रीपते लक्ष्मीपते विवाहमावह ।
श्रीपतिश्च तथा लक्ष्मीपतिर्लग्नेन सम्भव ॥९ ॥ राधापतिः रमापतिः पद्मावतीपतिर्भव ।
माणिकीपतिरेवापि ब्रह्मप्रियापतिर्भव ॥2.236.१ ०॥ दुःखहालक्ष्मीपतिस्त्वं विवाहविधिना भव ।
असङ्ख्यानीतपत्नीनां पतिर्लग्नेन सम्भव ॥११ ॥ समयोऽयं विवाहस्य तव कृष्ण उपागतः ।
योग्यो युवा भवस्यद्य यौवनाङ्कुरवान् प्रभो ॥१२॥ शुभे समये श्रीकृष्णो लक्ष्मीकृष्णो द्रुतं भव ।
कन्यकाश्च वयं सर्वाः प्रतीक्षामो बिवाहनम् ॥१३ ॥ लक्ष्मीवान् धनवान् श्रेष्ठः स्मृद्धिमान् वंशवान् भव ।
अद्यापि ब्रह्मचारी त्वं महायोगी प्रशस्यसे ॥१४॥ योगैश्वर्येण चास्माकं कामपूरो भवस्यपि ।
अविप्लुतः सदा चास्ते किमसाध्यं हि योगिनः ॥१५॥ तथापि विधिना कृष्णोत्सवं वैवाहिकं वह ।
इत्युक्तो भगवान् कृष्णस्तथास्त्वेवं जगाद ह ॥१६ ॥ मार्गशीर्षे करिष्येहं लग्नं मे सर्वयोषिताम् ।
तावद्धैर्यं भवत्यौ चावहतां त्वपरास्तथा ॥१७॥ इत्युक्त्वा दक्षिणां दत्वा व्यसर्जयत् प्रपूजनम् ।
दक्षिणा विविधाश्चापि ददौ श्रीलोमशर्षये ॥१८॥ स्वर्णमूर्तिद्वयं चापि ददौ श्रीलोमशर्षये ।
विप्रेभ्यो दक्षिणाः स्वर्णपात्राण्यपि धनं ददौ ॥१ ९॥ एवं महोत्सवं कृत्वा सरोवरमगाद्धरिः ।
वासुदेवीयकं तीर्थं यत्र चाण्डाल उद्धृतः ॥2.236.२० ॥ तत्र स्नात्वा व्यूहतीर्थे वटवृक्षं ययौ हरिः ।
तत्र ब्रह्मप्रियाः सर्वा विहर्तुं समुपागताः ॥२१ ॥ ताभ्यो दत्वा धनान्येव कुबेरोपहृतानि वै ।
प्रपूज्य सर्वपत्नीः स कन्यका दक्षिणादिभिः ॥२२ ॥ प्रसाद्य सर्वसामग्रीश्चेष्टा दत्वा तटान्तिकम् ।
विहर्तुं बर्बुरं वृक्षं दन्तधावनकैतवात् ॥२३ ॥ स्प्रष्टुं चापि ययौ बालकृष्णो हि राधिके ततः ।
ब्रह्मप्रियाद्याः सर्वास्ताः प्रपश्यन्ति तु माधवम् ॥२४॥ यान्तं बर्बुरवृक्षाग्रं गत्वा स्पृशन्तमेव तम् ।
दन्तधावनयोग्यां च प्रान्तप्रशाखिकां तदा ॥२५॥ गृहीत्वाऽऽकर्षयन्तं च प्रपश्यन्ति स्म योषितः ।
तावद् बर्बुरवृक्षः सः समूलश्चोत्पपात ह ॥२६ ॥ ननाम भूतले चापि तस्माद् दिव्यो महानरः ।
प्राविर्बभूव सहसा माहेन्द्रसदृशोऽपरः ॥२७॥ दृष्ट्वा हरिं नमश्चक्रे पृथ्व्यां पपात पादयोः ।
चकार दण्डवत्तूर्णं तुष्टाव परमेश्वरम् ॥२८ ॥ परमेश कृपासिन्धौ स्मृत्वाऽहं तारितस्त्वया ।
त्वं जीवानां समुद्धर्ता मोक्षकर्ता परेश्वरः ॥२९ ॥ वर्तसेऽनुग्रहकर्ता समुद्धर्तुं जनानिह ।
चर्मचक्षुर्न जानाति भवन्तं पुरुषोत्तमम् ॥2.236.३० ॥ मया प्राप्तः परेशस्त्वं वृक्षयोनिप्रमोक्षकः ।
अद्याऽहं वै प्रगच्छामि दिव्यं स्वर्गं तवाऽऽज्ञया ॥३१ ॥ इत्युक्त्वा प्रणनामापि पुष्पाणि बर्बुरस्य तु ।
अर्पयित्वा माधवस्य पादयोर्गन्तुमिच्छति ॥३ २॥ तावत्तत्र समायाता आश्चर्यं परमं गताः ।
ब्रह्मप्रियाः समस्तास्ताः पप्रच्छुः कान्तमेव ताः ॥३३ ॥ कोऽयं वृक्षात् समुत्पन्नः कथं वृक्षो निपातितः ।
कौतूहलं परं नोऽत्र वदैतत्कारणं प्रभो ॥३४॥ श्रुत्वैतद् बालकृष्णोऽपि वर्णयितुं तु तं नरम् ।
वृत्तान्तं च निजं सर्वमाज्ञापयद्धि तत्पुरः ॥३ ५॥ राजा प्रणम्य सर्वास्ता आह वृत्तान्तमद्भुतम् ।
पुराहमासं सम्राड् वै गौर्जरे साभ्रिकातटे ॥२६, ॥ बर्बुरो नाम राजा वै धर्मकर्मपरायणः ।
प्रजापालनदक्षश्च देवसाधुप्रपूजकः ॥३७॥ व्रतदानपरो नित्यं नित्यवृद्धोपसेवनः ।
कृष्णकथापरश्चापि वैष्णवो दुष्टशासकः ॥३८॥ एकदा त्वगमं दीर्घेऽरण्ये साभ्रमतीतटे ।
वनानि वीक्षितुं परिमेयभृत्योऽतिगो वने ॥३९॥ दूरारण्ये प्रयातेन पद्भ्यां चाश्वो विलोकितः ।
सप्तरूपाश्रयो दिव्यः कान्तिमद्रोमवर्मकः ॥2.236.४० ॥ मुखे शुक्लः शफे चौष्ठे रक्तश्च पुच्छपृष्ठयोः ।
भ्रमरेऽप्युदरे भागे श्यामो नीलस्तु वै गले ॥४१ ॥ पीतः कर्णे पार्श्वभागे जङ्घायां कपिशस्तथा ।
नाडीमार्गेषु हरितश्चित्रः सर्वाङ्गसन्धिषु ॥४२॥ एवंविधं विचित्राश्च दृढं पुष्टं बलान्वितम् ।
शोभनं संविलोक्यैव धर्तुं चाऽकरवं मनः ॥४३॥ शनैः पार्श्वं तथा गत्वा यथा विश्वसितो भवेत् ।
धृतवाँस्तं कर्णदेशे रश्मिना च गले ततः ॥४४॥ गृहीत्वैव च तत्पृष्ठासनं च कृतवानहम् ।
सोऽपि मया यथा सम्प्रेरितस्तथा जगाम ह ॥४५॥ न जाने त्वस्य सारल्यं कुतश्चार्जवमागतम् ।
यथा सञ्चालयाम्येनं तथाऽग्रे स तु गच्छति ॥४६॥ एवं दैवतुरङ्गं तं ज्ञात्वा निन्ये पुरीं मम ।
निजं भाग्यं मन्यमानो हर्षितश्चाऽभवं मुहुः ॥४७॥ दैवं तं तुरगं नाहं क्षणं दूरं करोमि वै ।
ततः स कोपमापन्नो मां शशाप रुषा वदन् ॥४८॥ यस्मान्मां मुञ्चसि नैव नैव जानासि मां तथा ।
नैव तृप्तिं प्रयात्येव दृष्ट्वा मां बन्धनान्वितम् ॥४९॥ नैव विज्ञाय तत्त्वं मे मिष्टं ददासि भावतः ।
पशुं ज्ञात्वा बन्धनेऽत्र निजं कृत्वा रुणत्सि माम् ॥2.236.५०॥ ततो राजन् मम शापाद् भव बर्बुरपादपः ।
कण्टकी सुवने तत्र दुःखं याहि दिवानिशम् ॥५ १ ॥ इत्युक्तोऽहं तदा शीघ्रं ज्ञात्वा पूज्योत्तमं मुनिम् ।
पतितः पादयोस्तस्याऽश्वस्य शीघ्रं विमुक्तये ॥५२॥ प्रार्थितः स मया देवो मुनिर्वाऽन्योऽपि यो भवान् ।
अज्ञातो मम पूज्योऽसि क्षमां कुर्वत्र बालिशे ॥५३॥ शापदुःखं यथा शीघ्रं निवर्तेत तथा कुरु ।
निजरूपं च मे देव प्रदर्शय नमामि ते ॥५४॥ अपराद्धं मया चाविजानता नान्यथा प्रभो ।
तस्मात् क्षमां परां कृत्वा निजरूपं प्रदर्शय ॥५५॥ इत्यर्थितो मुहुः सोऽश्वस्तिरो भूत्वा महानृषिः ।
आश्वलायननामाऽभूद् राजवंशगुरुः स्वयम् ॥५६॥ अहं रुरोद बहुधा ज्ञात्वा कुलगुरुं तु तम् ।
क्षमां दिनतरो भूत्वाऽयाचं शापनिवृत्तये ॥५७ ॥ पुत्रोऽपराद्धान् सन्धत्ते पिता क्षमतेऽहर्निशम् ।
शिष्याद्धि गुरवश्चापि समिच्छन्ति पराभवम् ॥५८ ॥ मया ह्यजानता चाऽश्वलोभेन नृपभावतः ।
अपराद्धं तव पूज्य क्षमां कुरु विधेहि शम् ॥५९ ॥ इत्यर्थितो हि भगवान्नाश्वलायनको मुनिः ।
क्षमां कृत्वाऽऽह मां तत्र किं ते वदामि भूपते! ॥2.236.६ ० ॥ महतामवमानाद्वै महदासनलङ्घनात् ।
पूज्यपूजाविलोपाच्च पुण्यं नश्यति सर्वथा ॥६१ ॥ तव पुण्यं समग्रं वै नष्टं मत्पृष्ठरोहणात् ।
राजभाक्त्वं न चाऽद्याऽस्ति शापदग्धो भवस्यपि ॥६ २ ॥ शापभोगोत्तरं स्वर्गं तव शीघ्रं भविष्यति ।
परस्त्रीसङ्गमाद् राजन् गुरूणामवमाननात् ॥६५ ॥ परपीडाकरणाच्चाऽऽयुष्यनाशो हि जायते ।
असत्पक्षग्रहाच्चापि देवसाधुविनिन्दनात् ॥६४ ॥ सतां द्रोहकरणाच्चायुष्यनाशो हि जायते ।
पित्रोः कष्टप्रदानाच्च पत्नीनां पीडनादपि ॥६५॥ हिंसायाः करणाच्चाप्यायुष्यनाशो हि जायते ।
मद्यमांसव्यवायादिदोषाद् धर्मप्रपीडनात् ॥६६ ॥ भूताऽऽवेशादिदोषाच्चाप्यायुर्नाशः प्रजायते ।
त्वयाऽपराद्धं चात्यर्थं मया नोक्तं तु लज्जया ॥६७॥ यदहं गुरुरस्याऽस्मि ह्यश्वरूपो वनेऽस्मि च ।
राजाऽयं दृष्टवान् मां स न जानीयाद् गुरुं यथा ॥६८ ॥ तथा रूपं मया न व्यावर्तितं तव सन्निधौ ।
दूरं क्षणान्तरे राजा गमिष्यति ततः परम् ॥६ ९ ॥ मम रूपं धरिष्येऽहं विचार्येत्थं तुरङ्गमः ।
अभवं चाऽवर्तयं च तावत्त भवताऽन्तिकम् ॥2.236.७ ० ॥ समागत्य धृतश्चास्मि वाहितश्च गृहं प्रति ।
तथाप्यचिन्तयं नाऽस्मै दर्शयितव्यमन्ततः ॥७ १ ॥ मद्रूपं यन्मन्दुरायां गृहे मोक्ष्यति मां यदा ।
निर्जनेऽत्राऽन्धकारे वा रूपं धृत्वा निजं गृहात् ॥७२ ॥ प्रयास्ये वै वनं तेन शोको नाऽस्य भविष्यति ।
गुरोरत्यपराधस्येत्येवमचिन्तयं नृप ॥७३ ॥ त्वया तु लोभभावेन नाहं त्यक्तो हि निर्जने ।
चौरवद् बन्धने क्षिप्तः कारागारे स्थिरो यथा ॥७४॥ ततोऽहं क्रोधमापन्नः शापं वै सृष्टवाँस्त्वयि ।
पुण्यं तेन विनष्टं ते कृपा मे कियती वद् ॥७५ ॥ ततो राजत्वमद्यैव दग्धं ते दोषकारणात् ।
वर्बुरस्य द्रुमस्यैव शरीरं ते भविष्यति ॥७६ ॥ करोम्यनुग्रहं तेऽत्र शीघ्रं शापविनाशने ।
कुङ्कुमवापिकाक्षेत्रेऽक्षरभूमौ सरोऽन्तिके ॥७७॥ बर्बुरो भव राजेन्द्र जलपानसुखादिमान् ।
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ॥७८॥ ‘राजते भगवाँस्तत्र तद्योगं त्वं प्रयास्यसि ।
दन्तधावनलाभार्थं तव शाखां ग्रहीष्यति ॥७९॥ स्वहस्तेन यदा साक्षात् तस्य स्पर्शेन वै भवान् ।
दिव्यभावं दिव्यदेहं समासाद्य हि दैवतम् ॥2.236.८० ॥ शीघ्रं यास्यसि नाकं तद् यत्रेन्द्रो वर्तते सदा ।
तत्र कल्पं स्वर्गसुखं भुक्त्वाऽक्षरं प्रयास्यसि ॥८ १ ॥ त्यज चिन्तां वासनां च राज्ये पुत्रे प्रियास्वपि ।
गताः पूर्वे हि राजानो गमिष्यन्त्यपरेऽपि च ॥८२॥ हरेर्योगाद् गता ये ते गता भवन्ति नेतरे ।
इत्येवं मां जगादाऽथ मुनिर्वनान्तरं ययौ ॥८३ ॥ स्वस्ति तेऽस्त्विति मां चोक्त्वा यान्तं दृष्ट्वा मृतोऽप्यहम् ।
अश्वपट्टसरस्तीरेऽभवं बर्वुरपादपः ॥८४॥ दशवर्षाणि जातानि मेऽत्र बर्बुरवर्ष्मणि ।
त्वया समुद्धृतः कृष्ण शापपापं विनाशितम् ॥८५॥ पुण्यवानस्मि सञ्जातस्तव स्पर्शेन मुक्तिद ।
किङ्करोऽस्मि शरण्यस्त्वं देहि मन्त्रं च वैष्णवम् ॥८६॥ येन त्वन्ते भवेन्मोक्षो मे तथा त्वं विधत्स्व वै ।
राजाऽहं राजरूपं त्वं नैजं मे त्वं प्रदर्शय ॥८७॥ यत्स्वरूपं सदा ध्यात्वा स्वर्गान्मोक्षमवाप्नुयाम् ।
इत्यर्थितस्तदा राधे हरिः राजस्वरूपधृक् ॥८८॥ पृथुराजस्वरूपोऽभूद् भक्तेच्छापूरणाय वै ।
ददौ मन्त्रं च तस्मै स वैष्णवं षोडशार्णकम् ॥८९॥ ‘ओः नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
गृहीत्वा तु मनुं त्वेनं विमानवरमास्थितः ॥2.236.९ ०॥ पुष्पाद्यैर्वर्धयित्वैव श्रीकृष्णं पुरुषोत्तमम् ।
ब्रह्मप्रियास्तथा सर्वा ययौ स्वर्गं सुरार्चितः ॥९१ ॥ बालकृष्णं तदा ब्रह्मप्रियाः पृथुस्वरूपिणम् ।
व्यलोकयन् पतिं नैजं त्रैलोक्यनृपतिं प्रभुम् ॥९ २॥ धनुश्चक्रधरं विष्णुं दृढं युवानमच्युतम् ।
मोहमाप्ताश्च ताः पत्न्यो रेमिरे पृथुना तदा ॥९३ ॥ आम्रवणे चिरं पश्चात् पूजयित्वा कृपानिधिम् ।
प्रययुः सरसस्तीरे सस्नुश्च पतिना सह ॥९४॥ तीर्थं तद् वर्बुराख्यं च पृथुतीर्थं ततोऽभवत् ।
तत्र वासाद् भवेत् स्वर्गं शापनाशश्च मोक्षणम् ॥९५॥ अनादिश्रीबालकृष्णः स्नात्वा धृत्वाऽम्बराणि च ।
ब्रह्मप्रियाः सुखयित्वा प्रेषयित्वाऽऽश्रमं ततः ॥९६॥ स्वगेहं चाययौ रात्रौ लक्ष्मीपूजां पुनस्ततः ।
चकार भगवान् रात्रौ घृतदीपान् चकार ह ॥९७॥ आरार्त्रिकं च नैवेद्यं प्रार्थयद्वै श्रियै तदा ।
प्रसन्ना साऽभवल्लक्ष्मीः स्मृद्धाऽभवद् गृहे गृहे ॥९८॥ इत्येवं राधिके कृत्वोत्सवं निद्रां जगाम सः ।
पठनाच्छ्रवणादस्य लक्ष्मीवान् मोक्षगो भवेत् ॥९९॥ शापितानां शापमोक्षश्चापराधविनाशनम् ।
अपुण्यानां पुण्यलब्धिर्भवेन्नात्राऽस्ति संशयः ॥2.236.१० ०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरिणा धनत्रयोदश्यां धनलक्ष्मीपूजा ब्रह्मप्रियापूजा बर्बुरनृपस्य आश्वलायनर्षिशप्तस्य बर्बुरवृक्षीभूतस्य
मोक्षणं पृथुतीर्थस्थापनं बर्बुरस्य स्वर्गं प्रति प्रेषणं चेत्यादिनिरूपणनामा षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३६ ॥