श्रीकृष्ण उवाच-
राधिके तत आरभ्य शरद्रात्रिप्रभाततः ।
बालकृष्णं विना नाऽऽसां क्षणो याति सुखेच्छया ॥१ ॥
शयने भोजने याने वने स्नाने तथाऽऽसने ।
वार्तने रमणे गाने सखीभिः सह नर्मणि ॥२ ॥
बालकृष्णो हि नेत्राग्रे हृदयेऽपि स्फुरत्ययम् ।
स्मारं स्मारं महानन्दं भ्रमन्ति कृष्णवृत्तिकाः ॥३ ॥
कदाऽऽगच्छेत् पुनश्चैवं शारदोत्सवमाचरेत् ।
कान्ताऽऽनन्दप्रदं कान्तश्चेत्येवं संव्यचिन्तयन् ॥४ ॥
ब्रह्मानन्दं मुहुः स्मृत्वा कन्या निद्रां न लेभिरे ।
कृष्णस्तासां दिव्यरूपैः पूरयत्येव कामना ॥५ ॥
सदा सहैव ताः सर्वाः प्रार्थयामासुरच्युतम् ।
रक्षितुं मन्दिरे नैजे न तु वै लोमशाश्रमे ॥६ ॥
बालकृष्णस्तु ताः प्राह मार्गशीर्षे विधानतः ।
नयिष्ये मन्दिरे नैजे श्रुत्वा ता धैर्यमावहन् ॥७ ॥
अथोर्जकृष्णपक्षस्याऽष्टमी जनतिथिर्हरेः ।
आयाता चोत्सवं तत्र चक्रे गोपालकृष्णकः ॥८ ॥
चतुर्दशसमा जाता बालकृष्णस्य भूतले ।
पञ्चदशी जन्मजयन्त्यष्टम्यत्र प्रवर्तते ॥९ ॥
तत्र श्रीबालकृष्णस्य पिता कीर्त्यनुसारतः ।
महोत्सवं परं चक्रे पूर्वपूर्वातिवर्तिनम् ॥2.234.१ ०॥
सस्मार विश्वकर्माणं निर्मातुं मण्डपं शुभम् ।
शीघ्रं चोपाययौ विश्वकर्मा ननाम पादयोः ॥११ ॥
एष दासो हि कृष्णस्योपस्थितोऽस्मि ‘निदेशनाम् ।
देहि करोमि शीघ्रं वै यथेष्टं शोभनं यथा ॥१ २॥
श्रुत्वा पिताऽऽह पुत्रस्य बालकृष्णस्य शोभना ।
जन्मजयन्तिका प्राप्ता पञ्चदशीति मण्डपम् ॥१२ ॥
विशालं नूतनं दिव्यं दिव्यसामग्रिकोद्भवम् ।
प्रकारय विशेषेण देवेशसंसदुत्तरम् ॥१४॥
तथास्त्विति प्रणम्याथ श्रीकृष्णवल्लभं प्रभुम् ।
पूजयितुं ययौ पार्श्वे पूजयित्वा प्रसन्नताम् ॥१५॥
आज्ञां चाप्य द्रुतं दिव्यं मण्डपं हृद्यचिन्तयत् ।
अपूर्वं मण्डपं कर्तुं त्वाज्ञा जाताऽस्ति तत्तथा ॥१६॥
करोमि मण्डपं दिव्यं चतुःकम्मानिकोपरि ।
अश्वपट्टसरो यस्याऽधो निहितं यथा भवेत् ॥१७॥
इत्येवं सम्प्रकल्प्यैव प्रतिमां माण्डपीं हृदि ।
धनुश्चतुष्टयं तत्र सस्मार योजनायतम् ॥१८॥
ऐन्द्रं धनुः शाङ्करं च धनुर्धनुश्च वैष्णवम् ।
धनुर्मनोभवस्यापि दृढं भारसहं शुभम् ॥१ ९॥
अश्वपट्टसरःपूर्वदिशायां चैन्द्रमेव सः ।
दक्षोत्तरं दीर्घमस्थापयत् कम्मानिकात्मकम् ।
ऐशं धनुश्चोत्तरस्यामस्थापयत्तथैव च ॥2.234.२०॥
पश्चिमस्यां वैष्णवं चाऽस्थापयत् तत्तथैव च ।
दक्षिणस्यां च कामस्याऽस्थापयत्तत्तथैव च ॥२ १ ॥
योजनायतभूभागे प्रान्ताष्टकं न्यधापयत् ।
कृत्वैवं चतुरस्रां वै चतुष्कीं पादरूपिणीम् ॥२२॥
तत्र न्यधापयत् सूर्यरश्मीन् तेजोनिधानकान् ।
सूर्यकान्तैश्चन्द्रकान्तैः स्फाटिकैर्मणिभिस्तथा ॥२३ ॥
समसूत्रां चतुष्कीं तां कृत्वाभित्तिस्वरूपिणीम् ।
प्राकारं गोपुराढ्यं सौवर्णं कम्मानिकायुतम् ॥२४॥
कारयामास शीघ्रं सः मध्ये सभां शुशोभनाम् ।
चान्द्रकिरणसम्पाद्यसुधाद्रव्यवितानिकाम् ॥२५ ॥
अमृतोद्भववल्ल्याढ्यशोभास्तम्भसमन्विताम् ।
सौवर्णासनसंराजत्पार्श्ववर्तुलमध्यमाम् ॥२६॥
ग्रहनक्षत्रतारादिप्रदीपस्थानराजिताम् ।
कौस्तुभव्रातसंलग्नवितानच्छाययाऽन्विताम् ॥२७॥
यावल्लक्ष्मीस्वरूपाऽनुरूपश्रीधृतमालिकाम् ।
यावदप्सरसां नृत्याऽर्हणगीतिस्वभावगाम् ॥२८॥
सुधर्माब्राह्मभौमेशीसभाचतुष्टयांऽकिनीम् ।
कामधेनुकल्पलताचिन्तामणिसमन्विताम् ॥२९॥
कल्पवल्लीकल्पद्रुमाऽक्षयपात्रादिमण्डिताम् ।
सर्वगन्धरसास्वादसुखस्पर्शानिलान्विताम् ॥2.234.३ ० ॥
दूरश्रवणदृश्यादिसर्वशक्त्याश्रयां शुभाम् ।
यत्र यावत्पदार्थेषु दृश्यते मूर्तिमान् हरिः ॥३ १॥
स्वयम्प्रकाशो भगवान् बालकृष्णस्य भक्तराट् ।
यथाऽदिदेश रूपाणि तथा त्वष्टा व्यधारयत् ॥३२॥
मुक्तरूपाणि सर्वाणि चाक्षरस्य स्वरूपकम् ।
मुक्तानीनां स्वरूपाणि त्वष्टा व्यकल्पयत्तथा ॥३३॥
तेषु श्रीबालकृष्णश्चान्तरात्मा दृश्यते शुभः ।
अवतारान् सर्वविधान् तथावतारयोषितः ॥३४॥
व्यूहाँश्च व्यूहपत्नीश्चेश्वरानीश्वरिणीस्तथा ।
तेषु श्रीबालकृष्णश्चान्तरात्मा दृश्यते शुभः ॥३५॥
सिद्धाश्च साङ्ख्ययोगिन्यः सत्यः साध्यश्च साधवः ।
ऋषयः पितरो देवा देव्यस्तासां प्रयोषितः ॥३६॥
मानवा दिक्प्रपालाद्या लोकपालाः सयोषितः ।
काश्यप्यश्च प्रजाः सर्वा दिव्यतत्त्वानि सर्वशः ॥३७॥
आदित्या वसवो रुद्रा गणेशा भूभृतोऽपरे ।
पार्थिवाश्चापि विख्याता निहिता विश्वकर्मणा ॥३८॥
तेषु सर्वेषु दिव्यः श्रीबालकृष्णो विलोक्यते ।
एवंविधां सभां कृत्वा मण्डपाढ्यां सुनूतनाम् ॥३ ९॥
न्यवेदयद्धि सप्तम्यां पित्रे रात्र्यर्धके गते ।
प्रसन्नोऽभूत् पिता दृष्ट्वा सोपानानि समन्ततः ॥2.234.४० ॥
यानमार्गान् विमानानामवकाशान् तदन्तरे ।
हस्तिनां गतिमार्गाश्च रथानां पादचारिणाम् ॥४१ ॥
मार्गान् विश्रान्तिविश्रामान् दृष्ट्वा मुमोद वै पिता ।
क्लृप्तोद्यानानि परितः फलपुष्पयुतान्यपिं ॥४२॥
बहुरङ्गविचित्राणि वीक्ष्य जहर्ष वै पिता ।
तत्र सर्वत्र पुत्रं स्वं हृदयस्थं व्यलोकयत् ॥४३॥
सर्वं तत्त्वात्मकं चास्ते विशिष्टं तन्निदर्शनम् ।
रचितं चाऽऽज्ञया त्वष्ट्रा हरेः प्रेरणया भुवि ॥४४॥
दिव्यं भौमसरोमूर्ध्नि सरश्चाऽधः प्रदृश्यते ।
कोटिकमलशोभाढ्यं शेषकमठशोभितम् ॥४५॥
पातालदृश्यशोभाढ्यं तेजःपटं तथा कृतम् ।
इत्येवं मण्डपं दिव्यं वीक्ष्य सिहासनं हरेः ॥४६॥
व्यलोकयन्महादिव्यं परं सर्वाऽऽसनोच्छ्रयम् ।
दिव्यसत्त्वोत्थसौवर्णरचितं हस्तिपीठगम् ॥४७॥
सिंहासनेऽवयवेषु सर्वसिंहासनानि वै ।
अन्तःक्लृप्तानि दिव्यानि सदेवानि शुभानि वै ॥४८॥
कार्ष्णं नारायणं वासुदेवीयं भौममाच्युतम् ।
सादाशैवं च हैरण्यगार्भं वैराजकं तथा ॥४९॥
ब्राह्मं चैन्द्रं वारुणं च याम्यं कौबेरकं तथा ।
आग्निकं चाऽनिलीयं चैशानं नैर्ऋतिकं तथा ॥2.234.५०॥
शेषीयं सौरमेवापि तथाऽन्यानि च यान्यपि ।
सिंहासनानि सर्वाणि कृष्णासनोदरेऽभवन् ॥५१ ॥
एवंविधं दिव्यगजासनं त्वष्टा ह्यवाऽऽन्यसत् ।
दिव्यमुक्तानिकावृन्दैः करमालैर्गजासने ॥५२॥
स्थितैः पुष्पाञ्जलिभिश्चाऽक्षतचन्दनभृत्करैः ।
सुशोभिते महादिव्ये मण्डपे च सुगन्धिनि ॥५३ ॥
आक्षरैस्तैजसैर्द्रव्यैर्भ्राजमाने समन्ततः ।
शुशुभेऽन्तर्गतः कृष्णोऽसङ्ख्यरूपो महाप्रभुः ॥५४॥
श्रीमद्गोपालकृष्णः संवीक्ष्य पुत्रासनं परम् ।
दिव्योत्तमं हि मुमुदे मुमुदे च कुटुम्बकम् ॥५५॥
ब्रह्मप्रियाद्याः पत्न्यश्च मुमुदिरेऽतिकाष्ठया ।
निजकान्ताऽऽसने वीक्ष्य गौरवं सार्वभौमिकम् ॥५६॥
अथैवं संविधायैव त्वष्टा हर्षान्वितोऽभवत् ।
अपूर्वां स्वकृतिं दृष्ट्वा मेने कृपां हरेर्हि सः ॥५७॥
अनर्हं यत्स्वबुद्धेस्तत् समुद्भूतं महासनम् ।
आन्तरस्थं प्रभुं तस्य विधातारममन्यत ॥५८॥
अथ गोपालकृष्णोऽपि तेजोव्याप्यं हि मण्डपम् ।
वीक्ष्याऽक्षरं च तत्क्षेत्रं मण्डपस्य हि तेजसा ॥५९॥
दिनवद्भ्राजमानं च प्रातर्भ्रान्तोऽभवद् द्रुतम् ।
प्राबोधयद् गणेशं चेशानं सतीं च लोमशम् ॥2.234.६ ०॥
सच्चिदानन्दमेवापि तुषितं च सदाशिवम् ।
लक्ष्मीं नारायणीं चापि सनत्कुमारकम् ऋभुम् ॥६ १ ॥
शीघ्रं त्वाज्ञापयामास क्षणाद् यान्तु समन्ततः ।
कृष्णजन्मजयन्त्यां वै ह्याशीर्वादपरायणाः ॥६ २॥
ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिस्थिता भुवि ।
सौराष्ट्रे वै समायान्तु गोपालकृष्णमन्दिरम् ॥६३ ॥
अष्टम्यामुत्सवे सर्वे वर्धयन्तु समागताः ।
इत्याशां सङ्गृहीत्वैव द्रुतं लोकान्तरं ययुः ॥६४॥
मुक्ता धाम ययुश्चापि गणेशः शाङ्करं पदम् ।
ईशानः सत्यलोकं च सतीसाध्व्यालयान् ययौ ॥६५॥
लोमशस्तु महर्षींश्च तुषित पितृमण्डलम् ।
सदाशिवश्चेश्वराणां लोकेषु तूर्णमाययौ ॥६६॥
सच्चिदानन्दमुक्तश्च विष्णुधामानि वै ययौ ।
लक्ष्मीः सर्वप्रदेवीनां लोकेषु च ययौ तदा ॥६७॥
नारायणी बदर्यां च क्षीरे श्वेते ययौ तदा ।
सनत्कुमारो भगवान् सर्वलोकान् ययौ क्षणात् ॥६८॥
नैकरूपप्रधर्तारस्ते ययुः सर्वतोद्रुतम् ।
तत्तत्स्थानानि चासाद्य स्थानिभिश्च कृतार्हणाः ॥६९॥
निवेद्याऽऽमन्त्रणवाचोऽक्षरक्षेत्रमुपाययुः ।
आमन्त्रिताश्च सर्वे ते कुटुम्बपरिवारिताः ॥2.234.७०॥
प्रफुल्लहृदयास्तूर्णं शृङ्गारादिसमन्विताः ।
दिव्योपदाभिः संयुक्ता विमानैर्वाहनादिभिः ॥७१ ॥
आययुः कुङ्कुमवापीक्षेत्रं दिव्यसुमण्डपम् ।
प्रातरेव हरिः स्नातः कृतपूजाभिवन्दनः ॥७२॥
कृतवृद्धोपसेवश्च शृङ्गारितोऽपि सर्वथा ।
ब्रह्मप्रियाभिः सर्वाभिर्नतः प्रहर्षितस्तथा ॥७३॥
मात्राऽऽशीर्भिर्योजितश्च कृतकौतुकमङ्गलः ।
दिव्यरूपधरो भूत्वा महर्षिगणसेवितः ॥७४॥
ययौ तन्मण्डपे हस्त्यासने वाद्यसुघोषणैः ।
गीतिभिर्योषितां चापि वेदमन्त्रैः समन्वितः ॥७५॥
गत्वा कृष्णो निषसाद जयशब्दास्तदाऽभवन् ।
लोमशस्तं वेदमन्त्रैः पूजयामास चन्दनैः ॥७६ ॥
महर्षयोऽपि सर्वेऽपि पूजयामासुरच्युतम् ।
आशीर्भिर्वर्धयामासुश्चाऽक्षतैश्चक्रुरर्चनम् ॥७७॥
माता चक्रेऽस्य तिलकं पिताऽस्य मुकुटं ददौ ।
पुष्पहारान् ब्रह्मपत्न्यश्चन्द्रकं श्रीस्तदा व्यधात् ॥७८॥
आरार्त्रिकं व्यधुः सर्वाः सर्वे च मण्डपागताः ।
अथैवं दिव्यरूपं तं वीक्ष्य सौराष्ट्रवासिनः ॥७९॥
तल्लीनाश्चाऽभवँस्तत्र परं समाधिमागताः ।
विप्राणां तत्र जायन्ते वेदघोषाः समन्ततः ॥2.234.८ ०॥
भ्राता ज्येष्ठो भगवाँश्च शुकोऽपि वल्लभोऽप्यनु ।
महादानानि दानानि ददुस्तत्र समस्ततः ॥८१ ॥
अथाऽऽययुस्तदा मुक्ता मुक्तान्योऽक्षरलोकतः ।
प्रपूज्याऽऽरार्त्रिकं चक्रुर्बालकृष्णस्य ते ततः ॥८२॥
पार्षदैर्दर्शितरम्यासनेषु विविशुस्तदा ।
अथाऽऽययुश्चावताराः सपत्निकाः सपार्षदाः ॥८३॥
राधिके च त्वया सार्धमहं तत्राऽगमं तदा ।
नारायणोऽपि लक्ष्म्या युक् तत्राययौ मुदान्वितः ॥८४॥
अन्ये नारायणाः सर्वे स्वस्वशक्तिसमन्विताः ।
आययुश्च पुपूजुश्च विविशुर्दर्शितासने ॥८५॥
व्यूहास्तथेश्वराद्याश्चेश्वर्यस्तत्र समाययुः ।
पुपूजुश्चोपदाभिश्च विविशुर्दर्शितासने ॥८६॥
ब्रह्माद्याश्चाययुश्चापि त्रिलोकेशा ह्यसङ्ख्यकाः ।
पुपूजुश्चोपदाभिश्च विविशुर्दर्शितासने ॥८७॥
मुनयो योषितां तेषामाययुः पितरस्तथा ।
देवा देव्यो लोकपाला दिक्पालाः सकुटुम्बकाः ॥८८॥
आदित्या वसवो रुद्राः सशक्तयः समाययुः ।
पुपूजुश्चोपदाभिश्च विविशुर्दर्शितासने ॥८९॥
मानवाः साधवश्चापि सत्यः साध्व्यः समाययुः ।
पातालस्था वनस्थाश्च पर्वतस्थाः समाययुः ॥2.234.९०॥
सिद्धचारणगन्धर्वा विद्याध्रोरगराक्षसाः ।
किन्नराः किम्पुरुषाश्चाययुः पुपूजुरच्युतम् ॥९१ ॥
तीर्थानि सागरा नद्यः सरांसि चैत्यजातयः ।
द्रुमा वल्लिका दिव्याश्च गावः पतत्रिणस्तथा ॥९२॥
वाहनानि सुदिव्यानि दासा दास्यस्तथाऽऽययुः ।
पुपूजुश्चोपदाभिश्च वर्धयामासुराशिषा ॥९३ ॥
निषेदुश्चासनादौ च मण्डपे दिव्यतान्विते ।
लोकलोकनिवासानां देवादीनां हि मूर्तयः ॥९४॥
मण्डपे सर्वतश्चापि हस्त्यासने प्रवीक्ष्य ते ।
निजरूपाणि संवीक्ष्याऽऽश्चर्यं प्रपेदिरे ह्यति ॥९५ ॥
नेयं कृतिर्हि देवानां देवत्वष्टुर्न वा यतः ।
अक्षरादिस्वरूपाणां शिल्पने तस्य नो गतिः ॥९ ६ ॥
तस्मादस्य विधाता वै भवेत्त्वष्टाऽक्षरस्थितः ।
ब्रह्मधामनिवासेन निर्मितोऽयं प्रतर्क्यते ॥९७॥
इत्यासन् सन्देहभाजः सर्वे मण्डपमण्डिताः ।
लुलोकिरे हि तत्त्वेषु बालकृष्णं तदन्तरे ॥९८॥
मुग्धाः सर्वे तथा जाता वीक्ष्य कृष्णं हि गर्भगम् ।
आमध्याह्नं पूजनं चाशीर्भिः संवर्धनं तथा ॥९ ९ ॥
व्यवर्तत हरेस्तत्र नृत्यं चाप्सरसां तथा ।
गायनं त्वभवद् दिव्यं संहितावाचनं तथा ॥2.234.१० ०॥
आख्यानान्यभवँश्चापि यशोगानं हरेस्तथा ।
वेत्रधारेण च हेमन्तेन वसन्तकेन च ॥१०१ ॥
निनादनं महाकीर्तिर्विजयाढ्यं समीरितम् ।
सत्याऽम्बिकया च तत्र दुःखहाञ्जलिरास्थितः ॥१०२।
मात्रा सुचन्द्रको भालेऽक्षतयुक्तेऽस्य वै कृतः ।
आशीर्वादास्तथा दत्ता ताम्बूलकं तथाऽर्पितम् ॥१ ०३॥
सभायां शर्कराद्यं खारिकाद्यं च वितारितम् ।
पानताम्बूलकाद्यं च योग्यं सम्पादितं तथा ॥१०४॥
अथागतानां सर्वेषां स्वागतं स्वस्तिना च वै ।
नाथेशेन कृतं भावभरं मिष्टवचोयुतम् ॥१ ०५॥
अमृतानां सुधानां च मिष्टान्नानां प्रभोजनम् ।
पानानां मिष्टगन्धानां ताम्बूलानां प्रदानकम् ॥१ ०६॥
मालानां पुष्पहाराणां गुच्छानां च प्रदानकम् ।
मण्डपार्थाऽऽगतानां सम्मानं वै बहुशः कृतम् ॥१ ०७॥
त्रैलोक्यं तत्र सम्प्राप्तं तूत्सवेऽभूत् समस्ततः ।
राधिकेऽथ परिहारोऽभवत् प्रातर्विधेस्ततः ॥१ ०८॥
महीमाना ययुर्यत्राऽऽवासास्तेषां समर्पिताः ।
विश्रान्तिं लेभिरे दिव्यसौधेषु दिवसार्धजाम् ॥१ ०९’॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः पञ्चदशजन्मजयन्त्यष्टम्यां दिव्यमण्डपशोभा, आमन्त्रितानामागमः, श्रीकृष्णबालकृष्णस्वामि पूजनम्, महीमानसत्कारश्चेत्यादिनिरूपणनामा चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३४ ॥