२३१

श्रीकृष्ण उवाच-
चतुर्दश्याः प्रगे राधे आश्विनकृष्णपक्षके ।
माङ्गलिकैस्तूर्यनादैर्गीतिभिः प्रबुबोध सः ॥१ ॥ बालकृष्णः कृतस्नानपूजः स्वासनमाविशत् ।
राजारायपतिः कृष्णं पूजयितुमुपाययौ ॥२ ॥ ननाम पादयोर्भक्त्याऽभिषेकं पयसा तदा ।
पादयोः प्रचकाराऽथ प्रसादाऽमृतमापपौ ॥३ ॥ सकुटुम्बः श्रीपतिं तं चान्दनं तिलकं व्यधात् ।
सचन्द्रकं तथा रम्यनेत्रयोः कज्जलं ददौ ॥४ ॥ मुकुटं मस्तके चापि कुण्डले कर्णयोर्ददौ ।
कण्ठे सुवर्णरत्नाढ्यहारान् प्रशृङ्खलां ददौ ॥५ ॥ भुजबन्धौ च कटकावङ्गुलीयकमूर्मिकाः ।
रशनां नूपूरकौ च कट्यां पादप्रकोष्ठयोः ॥६ ॥ निधारयामास राजा भगवन्तं रमापतिम् ।
सुगन्धिगन्धसारादि व्यलेपयत्तदाऽङ्गके ॥७ ॥ यथोचितं पुष्पहारान् प्रददौ च सुगन्धिनः ।
राजवेषं रमणीयं धारयामास भूपतिः ॥८ ॥ हरिर्दधार प्रमुदा राज्ञः स्नेहाभिवृद्धये ।
ततो नीराजनं चक्रे राजा राज्ञीसमन्वितः ॥९ ॥ कन्याश्चास्य त्रयस्त्रिंशन् महानीराजनं व्यधुः ।
वरमाला ददुर्मुग्धा बालकृष्णस्य वक्षसि ॥2.231.१ ०॥ पतिं प्राप्य प्रभेशं ताः कृतकृत्यास्तदाऽभवन् ।
राजा तं कानके सिंहासने रम्ये नृपार्चिते ॥१ १॥ निषाद्य श्रीहरेः राज्यमुकुटं मस्तके ददौ ।
राज्यं च कन्यकाः कृष्ण! मोक्षार्थं ते प्रदीयते ॥१ २॥ अत आरभ्य राज्यं ते वयं ते दासदासिकाः ।
अत्रैव भगवँस्तिष्ठ कृपासिन्धो परात्पर ॥१ ३॥ त्वमात्मा त्वं त्वन्तरात्मा परमात्मा प्रभुर्मतः ।
सर्वप्राणपते विष्णो पाहि संसारसागरात् ॥१४॥ भवद्दत्तं मया राज्यं निर्वाहितं मखावधि ।
अथ श्रीभगवान् स्वामी समायातो धुरं वह ॥१५॥ त्वन्निदेशं पालयिष्ये भृत्यवत् तिष्ठ राज्यपः ।
अनायासेन भगवान् कृपयाऽस्माभिरर्जितः ॥१६॥ योगिनो यस्य लब्ध्यर्थं तपःसु कृच्छ्रसाधिषु ।
होमं निजायुषः प्रकुर्वन्त्यपि त्वं न चाप्यसे ॥१७॥ सिद्धाः समाधिभाजोऽपि सततं त्वामुपासते ।
साक्षात्तथापि त्वं तेषामक्षिदृश्यो न जायसे ॥१८॥ सोऽयं विना तपो मेऽत्र गृहेऽनुग्रहतः प्रभो ।
समागतो ममोद्धारकृते कुटुम्बिनश्च मे ॥१ ९॥ सर्वं समर्प्य ते हस्ते कृतकृत्यो भवामि तत् ।
गृहाण भगवन् दत्तं राज्यं मे मोक्षमर्पय ॥2.231.२०॥ मया ज्ञातो दिव्यरूपस्तथा मानुषवर्तनः ।
अवतारावतारी त्वं श्रुत्युक्तः परमेश्वरः ॥२१ ॥ ब्रह्मप्रियापते त्वं वै साङ्ख्ययोगिनिकापते ।
लाक्ष्मणीकान्त कृष्ण त्वं चारक्तानां पतेऽव माम् ॥२२॥ उष्णोनां कान्त कृष्ण त्वं पिशङ्गीनां पते प्रभो ।
प्राचीनीनां पते कृष्ण हारितीनां पतेऽव माम् ॥२३॥ गौरीणां कान्त भगवन्नमरीणां पते विभो ।
ब्राह्मीलीनां परीणां च पते राधापतेऽव माम् ॥२४॥ लक्ष्मीपते कृपासिन्धो रमास्वामिन् सतां पते ।
राजपते सुरादीनां पते चेशपतेऽव माम् ॥२५॥ कमला चरणौ ते या सेवते ललिताऽपि यौ ।
बहुपुण्येन मिलितौ पुत्रीणां मम केशव ॥२६॥ सेवते दुःखहालक्ष्मीर्जया यौ मञ्जुला च यौ ।
नारायणी सद्गुणा यौ तौ दिव्यौ मिलितौ मम ॥२७॥ माणिक्या सेवते यौ च मुक्ता यौ सेवते सखी ।
पद्मावती सती हासा सेवते यौ प्रमुक्तिदौ ॥२८॥ चत्वारिंशत् शतं चापि तथाऽपरास्तु कोटिशः ।
सृष्टित्रयनिवासिन्यस्तव दास्यो भवन्ति हि ॥२९॥ ईश्वरा अवताराश्च मुक्ता देवा महर्षयः ।
चरणौ यौ प्रसेवन्ते ते कृपाप्लाविता यदि ॥2.231.३ ०॥ तौ सुप्राप्तौ मया कृष्ण चरणौ पावनौ गृहे ।
यत्र सर्वार्पणं पूर्वे राजानश्चक्रुरात्मनः ॥३ १ ॥ आसादितौ मया तौ वै ततोऽर्पयेऽव मां विभो ।
महाकालभयं मायाभयं कर्मप्रबन्धनम् ॥३२॥ दूरयितुं समर्थं नेतरत् ततो भजेऽव माम् ।
शरणागतरक्ष त्वं शरण्योऽसि जनार्दन ॥३३॥ भवप्रवाहपतितं मामुद्धर महेश्वर ।
तव योगेन दिव्यं मे राज्यं गृहं धनादिकम् ॥३४॥ तीर्थरूपं महज्जातं धामाऽक्षरसमं भुवि ।
अहो भाग्यमहो भाग्यं राजारायस्य भूतले ॥३५॥ यद्गृहे कन्यकाकान्तः स्वयं श्रीपुरुषोत्तमः ।
अहो भाग्यमहो भाग्यं परीनासरितोऽपि च ॥३६॥ यत्र तीर्थानि सर्वाणि समायान्ति ते बलात् ।
आर्षजतन्तुराष्ट्रस्य महाभाग्यं प्रवर्तते ॥३७॥ यत्र नारायणः साक्षाद्वर्तते परमेश्वरः ।
व्येनोजराशानगरी तवोपस्थितितः प्रभो ॥३८॥ सार्थकाऽद्य तु सञ्जाता सर्वपापविनाशिनी ।
मृत्युजरादिरहिता तव वासादजायत ॥३९॥ सदा तिष्ठ हरेऽचात्र करिष्ये तव सेवनम् ।
इत्युक्त्वा श्रीहरेश्चाऽग्रे दण्डवत् प्रचकार ह ॥2.231.४०॥ राधिके सा ततो राज्ञी चकार दण्डवद्धरिम् ।
महोत्सवं ततश्चक्रे चतुर्दश्यां महत्तमम् ॥४१॥ प्रजाः प्रधाना नार्यश्च नराः समन्ततस्तदा ।
आययुर्दर्शनार्थ वै दूरातिदूरदेशतः ॥४२॥ तेभ्यो हरिर्ददौ मन्त्रान् सुखं दर्शनजं तथा ।
मानसानां निजमूर्तावाकर्षणेन सर्वथा ॥४३॥ भगवद्भावनां चापि कारयामास शाश्वतीम् ।
तत्कृतां सुप्रपूजां च जग्राह परमेश्वरः ॥४४॥ तेभ्यः प्रासादिकं दत्वा तोषयामास केशवः ।
दिव्यं स्वदर्शनं चापि प्रददौ पारमेश्वरम् ॥४५॥ अक्षरस्य तथा गोलोकस्थं वैकुण्ठगं तथा ।
अव्याकृतस्थं रूपं स्वं चामृतस्थं तथा विभुः ॥४६॥ हिरण्मयं तथा वह्निमण्डलस्थं तथा पुनः ।
विशालास्थं श्वेतधामगतं क्षीराब्धिवासिनम् ॥४७॥ तथा कुङ्कुमवापीस्थं बालकृष्णं च गोचरम् ।
एवं त्वनेकरूपैर्वै परेशं स्वमदर्शयत् ॥४८॥ तेन ते कृतकृत्या वै नरा नार्योऽभवँस्तदा ।
तेभ्यो मन्त्रान् ददौ श्रीमत्स्वामिश्रीकृष्णवल्लभः ॥४९॥ राजा प्रपूज्य देवेशं भोजयामास वै ततः ।
पर्यः सर्वाः कृतकृत्याः पर्यसेवन्त तं पतिम् ॥2.231.५० ॥ हरिः प्राह च राजानं मम राज्यं न संशयः ।
त्वयाऽर्पितं मया लब्धं पुनर्ददामि ते नृप ॥५१ ॥ ममाज्ञया महद्राज्यं प्रपालय यथोचितम् ।
दृढं च मन्दिरं साप्तशिखरं सम्प्रकारय ॥५२॥ तत्र मां श्रीसमेतं वै प्रतिष्ठापय कानकम् ।
स्वर्णमूर्तौ सदा स्थास्ये ग्रहिष्ये च त्वया कृतम् ॥५३॥ पूजनं सर्वदा राजन् ममाज्ञां परिपालय ।
तथाऽस्त्विति नृपः प्राह राधिके द्रुतमेव ह ॥५४॥ सुवर्णमूर्तिं तत्रैव कारयामास सन्निधौ ।
श्रीसहितां तत्र कृष्णो विवेश गोचरः स्वयम् ॥५५॥ राजा गृहे ररक्षैव ततः कालेन मन्दिरे ।
न्यवेशयद्धरिं चैवं सिषेवे परमादरात् ॥५६॥ चतुर्दश्यां च मध्याह्ने भोजयामास भूपतिः ।
सायकाले पितृपूजां परीनासरितस्तटे ॥५७॥ श्राद्धानि विविधान्येव चकार भगवान् स्वयम् ।
पितॄणां जलपिण्डाद्यैस्तृप्तिं चकार केशवः ॥५८॥ ततः सन्ध्यां प्रचकार ततः सौधं समाययौ ।
रात्रौ कन्यास्तु ताः सर्वाः पतिं नैजं सिषेविरे ॥५९॥ प्रातर्हरिः प्रबुबोध माङ्गलिकप्रगीतिभिः ।
प्रवाद्यैश्च यशोभिश्च ततः सस्नौ नदीजलैः ॥2.231.६ ०॥ अमावास्यादिने पितृजलदानं चकार ह ।
प्लक्षमूले ददौ वारि सर्वसृष्टिभ्य एव सः ॥६ १ ॥ आगताः पितरस्तत्र तृप्त्यर्थं हरिहस्ततः ।
मुक्ता अक्षरसञ्ज्ञाश्च गोलोकावासगोपकाः ॥६ २॥ पार्षदा वैकुण्ठवासा अव्याकृतनिवासिनः ।
अमृतस्थास्तथा मुक्ता अन्यवैकुण्ठवासिनः ॥६३ ॥ सत्यस्था ब्राह्मसञ्ज्ञाश्च सिद्धा महर्षयस्तथा ।
ब्रह्मविष्णुमहेशाद्या मुनयो देवतादयः ॥६४॥ अर्यमाद्याश्च पितरो मातृकाः पितृयोषितः ।
तथान्ये याम्यलोकस्थास्त्रिलोकिस्थाश्च सर्वतः ॥६५॥ तृप्त्यर्थं त्वाययुस्तत्र नारायणजलेच्छया ।
श्रीहरिं स्वकराभ्यामञ्जलिभिः सलिलं ददौ ॥६६॥ पपुः सर्वेऽपि पितरो मुक्तिं गताश्च मोक्षिणः ।
स्थानिनस्तृप्तिमापुश्च जग्मुर्निजं स्वरादिकम् ॥६७॥ सर्वे तृप्तिं गता ये ये पितृयोनिस्थितास्तदा ।
अथ श्रीभगवान् स्वस्यालयं सौधं समाययौ ॥६८॥ पितृश्राद्धानि विविधप्रकाराणि ततोऽकरोत् ।
पिण्डदानैः पायसाद्यैः क्षीरान्नभोजनादिभिः ॥६९॥ फलपुष्पौदनाद्यैः शर्कराद्यैर्मिष्टसद्रसैः ।
सुधामिष्टान्नकैश्चापि मुन्यन्नैस्तानतर्पयत् ॥2.231.७०॥ श्राद्धानि विधिना कृत्वा परिहारं ततोऽकरोत् ।
प्रासादिकानि भोज्यानि भोजयामास वाडवान् ॥७ १ ॥ दीनाऽनाथान् कृपणांश्च सतीः साध्वी सतो यतीन् ।
आश्रितान् कन्यकाश्चापि कुमारान् कर्मचारिणः ॥७२॥ भक्तान् सर्वांश्च भृत्यान् सम्भोजयामास वै प्रभुः ।
राज्ञश्च राजवर्गाश्च वैश्यान् सेवापरायणान् ॥७३॥ भोजयामास भगवान् स राजाऽप्याज्ञया हरेः ।
बुभुजे तत्प्रसादान्नं मध्याह्नोत्तरमेव तु ॥७४॥ हरिः सभां सुमहतीं चक्रे तूपादिदेश वै ।
गृहस्थैः सर्वदा माता सेवनीया पिता तथा ॥७५॥ गुरुश्च सेवनीयोऽथ तदाज्ञायां यथोचितम् ।
स्थातव्यं मनसा वाण्या देहेन च धनेन च ॥७६ ॥ दशश्रोत्रीयसदृशश्चैकोपाध्याय उच्यते ।
दशोपाध्यायसदृशः पिता लोके महान् मतः ॥७७॥ माता दशगुणी श्रेष्ठा पितुः पुत्रप्रपालिनी ।
मात्रा धृतः स गर्भे वै बाल्येऽपि सेवितस्तथा ॥७८॥ यौवने योजितः पत्न्या तस्मान्माता गरीयसी ।
गुरुर्दशगुणो मातुर्गरीयान् ज्ञानदो मतः ॥७९॥ जन्ममृत्युजराहो यो वासनाबन्धनाशनः ।
पापनाशकरः पूज्यो गुरुर्जीवस्य मोक्षकृत् ॥2.231.८०॥ माता पिता गुरुर्मान्याः पूजनीया हितैषुभिः ।
त्रयस्ते पूजिता येन तस्य स्मृद्धिर्न रिष्यति ॥८१ ॥ त्रयस्ते देवरूपा वै त्रयोऽग्नयश्च ते मताः ।
तेषां सेवा कृता येन प्राप्तं जन्मफलं शुभम् ॥८२॥ भर्त्सनीया न ते पुत्रैस्ताडनीया न वै क्वचित् ।
उद्वेजनीया नाऽप्यत्र पोषणीयास्त्रयोऽपि ते ॥८३ ॥ मातरं यः प्रकुर्याद्वै प्रदक्षिणां नमस्तथा ।
तेन प्रदक्षिणा पृथ्व्याः कृता स्यान्नात्र संशयः ॥८४॥ पिता सम्पूजितो येन विष्णुस्तेन प्रपूजितः ।
गुरुश्च पूजितो येन तेनार्चिताः सुरादयः ॥८५॥ तेभ्यो देयं यथाशक्ति धनमन्नं तथाऽम्बरम् ।
यद्यद्योग्यं तथाऽपेक्ष्यं तत्तद्देयं हि सर्वथा ॥८६॥ वृथा क्लिश्यन्ति तीर्थेषु येषां तीर्थत्रयं गृहे ।
त्रयाणां सेवया सर्वाध्वरपुण्यं भवेद् ध्रुवम् ॥८७॥ त्रयाशीर्वादलाभेन याम्याः प्रयान्ति दूरतः ।
लक्ष्म्यः सर्वविधास्तस्य गृहे त्वायान्ति चान्यतः ॥८८॥ त्रयस्ते पितरः प्रोक्ताः सजीवाः सेवनाय वै ।
अत्रैते सेविता येन परलोकोऽस्य शोभनः ॥८९॥ एते दुःखीकृता येन स दुःखी स्यात्परत्र च ।
पुत्रादिभिः सेविताश्च तृप्ता मृत्युं प्रयान्ति ये ॥2.231.९० ॥ पितरस्ते भवेयुर्वै मुक्ताः स्वर्गादिगामिनः ।
प्रेतत्वं नहि तेषां वै नैव कनीयसी गतिः ॥९ १॥ न जन्म दुःखकृत् तेषां प्रसन्ना ये मृतिं गताः ।
अप्रसन्ना दुःखिताश्च मृतिं गताश्च ये जनाः ॥९२॥ क्रूरभावा हि ते वंश्यस्थानां रक्तं पिबन्ति वै ।
तेषां सद्गतिलाभार्थं श्राद्धं दद्यात् सुतादिभिः ॥९३॥ वंशे विघ्नानि नश्येयुर्वंशवृद्धिर्भवेत् तथा ।
अद्य कृतं प्रदत्तं च श्राद्धमन्नं जलं फलम् ॥९४॥ स्वर्गं प्रयाति यत्रैव सन्ति पितर एव ह ।
तृप्यन्ति पितरस्तत्र गृहीत्वा सुखिनः सदा ॥९५॥ तस्माच्छ्राद्धं प्रकर्तव्यं पितॄणां मोक्षसिद्धये ।
तन्नाम्नाऽन्नं जलं वस्त्रं फलं पायसमित्यपि ॥९६॥ शय्या पात्राणि धान्यानि रसा देया विशेषतः ।
भोजनानि प्रदेयानि पितृतृप्त्यर्थकानि हि ॥९७॥ तीर्थेषु सत्सु पात्रेषु देयं शक्त्या यथोचितम् ।
स्वर्णं च रजतं ताम्रं धनं देयं विशेषतः ॥९८॥ वाहनं यानमेवापि यदासीत्तस्य वै प्रियम् ।
तत्तद्देयं हि पात्राय तत्पुण्यं स्यादनन्तकम् ॥९९॥ इत्युक्त्वा विररामाथ प्रजाः पूजां प्रचक्रिरे ।
धनान्नाम्बरपात्राद्यैश्चन्दनाक्षतपुष्पकैः ॥2.231.१०० ॥ ततो धनं विशेषेणाऽऽगतं पूजात्मकं तु यत् ।
राजगिरर्षये कृष्णः प्रददौ दानरूपकम् ॥१० १॥ रात्रौ निद्रां च विश्रान्तिं प्राप गोपालनन्दनः ।
राधिके सेवितः सर्वप्रियाभिः परमेश्वरः ॥१ ०२॥ प्रातर्मङ्गलवाद्यैश्च नारीणां गीतिभिस्तथा ।
प्रबुबोध हरिकृष्णो ध्यानं स्वहृदयेऽकरोत् ॥१०३ ॥ कृतस्नानादिकः कृताह्निकः कृतगुरुस्तवः ।
निषसादाऽऽसने दिव्ये तावद् राजा समाययौ ॥१ ०४॥ कृतवान् स महापूजां श्रीहरेश्चन्दनादिभिः ।
पायसं पाययामास महीमानान् समस्तकान् ॥१ ०५॥ राज्ञी पूजां चकारापि पुपूजुश्च ततः प्रजाः ।
राजा चेयेष नगरान्तराणि नेतुमच्युतम् ॥१० ६॥ हरिस्तथाऽस्त्विति प्राह सद्यः सज्जो बभूव ह ।
राधिके स्वविमानस्थोऽभवत् सह कुटुम्बकैः ॥१ ०७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः पूजनमुपदेशनम् पितृश्राद्धदानवारिदानादिकममावास्यायां कृत्वा रात्रौ विश्रम्याऽऽश्विनशुक्लप्रतिपदि प्रातः
पूजनादिकं चेत्यादिनिरूपणनामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥२३१ ॥