२२८

श्रीकृष्ण उवाच-
राधिके सप्तमीप्रातर्मुहूर्ते चोत्तमे पुनः ।
मखकार्यं लोमशाद्यैः कृतं पूर्वदिने यथा ॥१ ॥ प्रोक्षणं स्वस्तिवागादि पुण्याहवचनं तथा ।
देवानां सम्प्रबोधश्च पूजनं च विधानतः ॥२ ॥ आरार्त्रिकं बलेर्दानं महानैवेद्यकानि च ।
जलार्पणं तथा ताम्बूलार्पणं पितृतर्पणम् ॥३ ॥ अग्नावाहुतयश्चापि सर्वेषां हव्यलाभनम् ।
आरार्त्रिकं च देवानां विप्राणां दक्षिणादिकम् ॥४ ॥ पुष्पाञ्जलिस्ततः परिहारश्चेत्यभवन् क्रमात् ।
एवं निवर्तिते कार्ये राजभिर्यजमानकैः ॥५ ॥ श्रीहरेराज्ञया सर्वे महीमानोत्तमादयः ।
हव्यानि मिष्टभोज्यानि बुभुजुश्च ततः परम् ॥६ ॥ लक्षायुताद्या मनुजा बुभुजुर्दीनवर्गिणः ।
अथ विश्रान्तिमासाद्य सायं तत्राऽभवत्सभा ॥७ ॥ अनादिश्रीबालकृष्णस्वामी नारायणाधिपः ।
प्रजाभ्यो हितकृद्वाक्यान्यादिदेश कृपापरः ॥८ ॥ यज्ञश्चाहं परब्रह्म वह्निर्मुखं तु मे मतम् ।
तन्मुखेन हविः सर्वं ग्रसामि भक्षयामि च ॥९ ॥ मन्मूर्तौ ब्रह्मरन्ध्रे मेऽक्षरन्धाम विराजते ।
केशेषु सर्वमुक्ता मे मुक्तान्यो भ्रकुटौ मम ॥2.228.१० ॥ मुखे नेत्रे गण्डयोश्च कपोलयोश्च कर्णयोः ।
श्मश्रुषु चाप्यवताराः सर्वे वसन्ति मस्तके ॥११ ॥ चिबुके नासिकादण्डेऽवतारिण्यो वसन्ति मे ।
कण्ठे व्यूहा वासुदेवादयो वसन्ति चेश्वराः ॥१२॥ स्कन्धे पृष्ठे महामाया प्रकृतिर्या प्रकीर्त्यते ।
प्रधानपुरुषः कालो भूमा पुरुष इत्यपि ॥१३॥ महाविष्णुस्तथा रुद्रः सदाशिवो विराडपि ।
सर्वे त्वेते पार्श्वयोर्मे वर्तन्ते कुक्षिसंश्रिताः ॥१४॥ ईश्वराण्यो महादेव्यो महालक्ष्म्यश्च वै श्रियः ।
सर्वास्ताः शक्तयो वक्षोभागे वसन्ति मे स्त्रियः ॥१५॥ ब्रह्मविष्णुमहेशाद्याः सिद्धाश्चेश्वरकोटयः ।
वसन्ति नाभिभागे मे सपत्नीका ममोदरे ॥१६॥ ऋषयः पितरो देवा वसन्ति जघने मम ।
यक्षा रक्षांसि दैत्याश्च दानवा गुप्तरोमसु ॥१७॥ गुप्ते कामादिका देवा वसन्ति राजसा नृपाः ।
नितम्बे भूतकूष्माण्डाः प्रेतपिशाचकोटयः ॥१८॥ सक्थ्नोर्मे मानवाद्याश्च जान्वोर्मे चारणादयः ।
जङ्घयोर्मे तलवासा दैत्याद्याः संवसन्ति हि ॥१९॥ पत्फणयोः सर्पनागा वसन्ति च सरीसृपाः ।
वृक्षवल्लीप्रभृतयो वसन्ति रोमसु द्रुमाः ॥2.228.२०॥ कीटपतङ्गशलभाः पक्षिणः पशवस्तथा ।
शारीरक्षरणस्था मे वसन्ति परितः सदा ॥२१ ॥ इत्येवं मयि सर्वा वै जडचेतनसृष्टयः ।
वसन्तीति मयि तृप्ते तृप्ताः सर्वे मदात्मकाः ॥२२॥ विष्णुयागे महायागे मां प्रपूज्य परेश्वरम् ।
मद्भक्तान् भोजयेद् यस्तु फलं तस्याऽश्वमेधजम् ॥२३॥ लक्ष्मीनारायणं मां यः पूजयित्वा मखे द्विजान् ।
भोजयेत् स लभेदत्र वाजपेयक्रतोः फलम् ॥२४॥ काम्भरेयं बालकृष्णं मखे यः पूजयेच्च माम् ।
साधून् सम्भोजयेत्तस्य राजसूयक्रतोः फलम् ॥२५॥ गोपालबालं गोविन्दं मखेऽत्र पूजयेत्तु माम् ।
सतीः साध्वीर्भोजयेच्च फलं तस्यातिरात्रजम् ॥२६॥ पुरुषोत्तमसञ्ज्ञं मां मखेऽत्र पूजयेत्तथा ।
भोजयेद्बालकान् यः स पौण्डरीकफलं लभेत् ॥२७॥ कृष्णनारायणं मां यः पूजयेदध्वरे तथा ।
अनाथान् भोजयेत्तस्याऽग्निष्टोमाऽध्वरजं फलम् ॥२८॥ ब्रह्मप्रियापतिं मां योऽध्वरेऽत्र पूजयेत्तथा ।
कन्यका भोजयेद् यः स गवायनफलं लभेत् ॥२९॥ पिशङ्गीकान्तं मां भक्त्याऽध्वरेऽत्र पूजयेत्तु यः ।
ब्रह्मयतीन् भोजयेच्च लभेत् सोमक्रतोः फलम् ॥2.228.३० ॥ श्रीराधामाणिकीनाथं श्रीकृष्णं मां प्रपूजयेत्॥ गोपगोपीर्भोजयित्वा यायाद्विश्वजितः फलम् ॥३ १ ॥ प्रभापारवतीनाथं पूजयेन्मां मखे तथा ।
भोजयेच्च महीमानान् सौत्रामण्याः फलं लभेत् ॥३२॥ गौरीनाथं च मां भक्त्या पूजयेदध्वरेऽत्र यः ।
रुद्रयागफलं यायाद् भोजयित्वा हि कर्मठान् ॥३३॥ अमरीस्वामिनं मां यः पूजयेदत्र वै मखे ।
अमरीर्भोजयित्वा च ब्रह्मयज्ञफलं लभेत् ॥३४॥ ब्राह्मीनाथं च मां भक्त्या मखेऽत्र पूजयेत्तथा ।
ब्राह्मीः साध्वीर्भोजयित्वा महारुद्रफलं लभेत् ॥३५॥ लाक्ष्मणीस्वामिन मां च मखेऽत्र पूजयेत्तथा ।
लभेन्नारायणफलं प्रभोज्य साङ्ख्ययोगिनीः ॥३६॥ आब्रिक्तिस्वामिनं मां च मखेऽत्र पूजयेत्तथा ।
जलहारीर्भोजयित्वा जलमेधफलं लभेत् ॥३७॥ उष्णालीस्वामिनं मां च मखेऽत्र पूजयेत्तथा ।
पाचिनीर्भोजयेद् यः स लभेदन्नक्रतोः फलम् ॥३८॥ ईश्वरीस्वामिनं मां च मखेऽत्र पूजयेत्तथा ।
मखभृत्यान् भोजयेद् यः स लभेन्मखजं फलम् ॥३९॥ अनादिश्रीकृष्णनारायणं सर्वावतारिणम् ।
मुक्तपतिं च दुःखहालक्ष्मीकान्तं तु योऽध्वरे ॥2.228.४० ॥ पूजयेद् भोजयेत् सर्वान् सर्वमेधफलं लभेत् ।
मूर्तिमन्तं गोचरं मां प्रीणयित्वाऽत्र चाध्वरे ॥४१॥ यद्यदिच्छेन्मम भक्तस्तत्तत्सर्वं समाप्नुयात् ।
दाताऽहं सर्वनाथोऽस्मि सर्वं ददामि सेविने ॥४२॥ दानान्यत्र मखे शक्त्या देयानि धर्मकर्मिणे ।
दानैर्यत् सुकृतं चात्र तद्भवेदक्षयं ध्रुवम् ॥४३॥ यज्ञविधो गृही दिव्यं किङ्किणीजालमण्डितम् ।
अर्कप्रभं समारुह्य विमानं याति मत्पदम् ॥४४॥ अन्नानां च फलानां च दानं वै समिधां तथा ।
ओषधानामम्बराणां पत्राणां दानमित्यपि ॥४५॥ भवेद् ददानो दीर्घायुः स्वर्गभाङ् मोक्षभाक् ततः ।
संहितापुस्तकदानं यः करोति स गच्छति ॥४६ ॥ स्वर्गं सत्यं च वैराग्यं मोक्षं मे चाऽक्षरं पदम् ।
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ॥४७॥ तत्तत् स्वार्थं प्रदेयं वै तदेवाऽक्षयमिच्छता ।
न दानं यशसे दद्यान्न भयेन न लोभतः ॥४८॥ परलोकहितायैव देयं पात्राय मुक्तये ।
विद्यावते ह्यनाथाय चार्थिने शीलयोगिने ॥४९॥ साधवे दीयते स्यादक्षयं तद्वै महाफलम् ।
मम भक्ताः सर्वसहा निस्पृहा जितमानसाः ॥2.228.५०॥ सर्वभूतहिताः सन्तस्तेभ्यो दत्तं महाफलम् ।
सन्तस्तुष्टास्तारयन्ति दातॄन् सहस्रवंशजान् ॥५१ ॥ देवालयं धर्मशालां सन्मठान् कारयेद् दृढान् ।
यावत्य इष्टिकास्तत्र चिता देवालयादिषु ॥५२॥ तावन्त्यब्दसहस्राणि स्वर्गेषु मोदते कृती ।
मम मन्दिरनिर्माता मम धामाभिगच्छति ॥५३॥ प्रतिष्ठया पारमेष्ठ्यं प्रासादेनैश्वरं पदम् ।
पूजावृत्त्या ब्रह्मलोकं प्राप्नुयान्नात्र संशयः ॥५४॥ सुधादिभिर्लेपयित्वा जीर्णोद्धारं प्रकारयेत् ।
सम्मार्जयेल्लेपयेच्च सेवयेत् प्रतिमां मम ॥५५॥ कूपवापीतडागानि मदर्थम्ं कारयेदपि ।
गावः पिबन्ति सलिलं साधवो मानवास्तथा ॥५६ ॥ सर्वाणि चापि सत्त्वानि तृषार्तानि पिबन्ति च ।
तीर्थालये च तत्पुण्यमप्रमेयं हि जायते ॥५७॥ प्रासादस्याऽभितो रोपणीया वृक्षा हि शाखिनः ।
आरामाश्चापि कर्तव्या विश्रान्त्यर्थं तु देहिनाम् ॥५८॥ फलोपयोगिनो वृक्षास्तथा पुष्पोपयोगिनः ।
समित्पत्रोपयोगाश्च पितृदेवोपभोगदाः ॥५९॥ एततत्पुण्यमनन्तं वै सर्वस्मृद्धिप्रदं भवेत् ।
भक्तियुक्तं कृतं तत्तु मम धामप्रदं भवेत् ॥2.228.६ ० ॥ गृहस्थैर्वा धनाढ्यैश्च राजभिस्तु विशेषतः ।
तीर्थभूमिः सदा कार्या सजीवना महोत्सवैः ॥६ १ ॥ यज्ञभूमिः सदा पुण्या नदी पुण्या क्रतोस्तटी ।
गोयाजनी मेदिनी सा सदा मोक्षकरी मता ॥६२॥ अत्र वासेऽपि लोकानां याम्यानां दर्शनं न वै ।
अत्र मनुर्धृतो येन वैष्णवस्तस्य मोक्षणम् ॥६३ ॥ मम पूजा कृता येन तस्यापि मोक्षणं भवेत् ।
पत्रं पुष्पं फलं तोयं चान्नं येन मखेऽर्पितम् ॥६४॥ तस्य मुक्तिं करिष्यामि नयिष्ये मेऽक्षरं पदम् ।
अहो यज्ञ इति प्राज्ञो गुणग्राही भवत्यपि ॥६५॥ तस्य पापाब्धिमेवाऽहं ज्वालयिष्यामि केशवः ।
यज्ञे धृतं च वस्त्रं च पात्रं पायसमित्यपि ॥६६॥ यः प्रदास्यति भक्त्या तं नयिष्ये मेऽक्षरं पदम् ।
गोदानं पृथिवीदानं गृहदानं विधास्यति ॥६७॥ कन्यादानं पुत्रदानं कुमारदानमित्यपि ।
स्वर्णदानं रूप्यदानं यानवाहनदानकम् ॥६८॥ वाटिकोद्यानदानं च छत्रदानं गजार्पणम् ।
यः करिष्यति यज्ञेऽत्र तं नयिष्येऽक्षरं पदम् ॥६ ९॥ आत्मार्पणं तथा ब्रह्मार्पणं च गुरवेऽर्पणम् ।
सद्भ्योऽर्पणं च यत्किञ्चिद् यथाशक्ति मखेऽत्र वै ॥2.228.७०॥ यः करिष्यति भक्तात्मा दास्येऽस्मै चाक्षरं पदम् ।
एवमुक्त्वा ततो राधेऽनादिश्रीबालकृष्णकः ॥७१ ॥ मन्त्रान् ददौ मनुष्येभ्यो मखिभ्यस्तत्र वैष्णवान् ।
ततः सन्ध्यां हरिश्चक्रे देवारार्त्रिकमाचरत् ॥७२॥ ईशानपानशिष्टाद्या राजाद्याः श्रीहरेरपि ।
आरार्त्रिकं प्रचक्रुश्च पूजां पूष्पाञ्जलीन् ददौ ॥७३॥ प्रजाश्च भोजयामासुर्महीमानान् समागतान् ।
यज्ञीयान् कर्मठान् देवान् सर्वाश्च देहिनोऽपि च ॥७४॥ आगन्तुकान् कौतूहलान्निरीक्षकान् जनानपि ।
आगतान् विगताँश्चापि भोजनानि जनादयः ॥७५॥ कारयामासुरत्यर्थं हरेः कुटुम्बकानि च ।
मिष्टान्नाद्यैर्विचित्रैश्च तत्तत्सृष्ट्युचितैरपि ॥७६ ॥ सर्वसृष्टिनिवासाँश्च भोजयामासुरीश्वराः ।
जलपानानि मिष्टानि ताम्बूलानि ददुस्ततः ॥७७॥ रात्रावासन् कथाश्रावाः प्रदर्शनानि वै ततः ।
निद्रारामास्ततश्चासन् सर्वे वै देहिनो निशि ॥७८॥ यथोचितं विरामस्थाः प्रातर्जजागरुर्द्रुतम् ।
मङ्गलैर्वाद्यघोषैश्च गीतिभिर्देवयोषिताम् ॥७९॥ सूतमागधबन्दीनां यशोगानैः समन्ततः ।
अष्टम्यां राधिके प्रातर्जजागार हरिः स्वयम् ॥2.228.८०॥ कृताह्निकः कृतपूजः पितरौ स्वौ पुपूज ह ।
ब्रह्मप्रियाद्याः सर्वाश्च हरिं पुपूजुरीश्वरम् ॥८ १ ॥ श्रीहरिर्लोमशं नत्वा जग्राहाशीर्वचस्ततः ।
राजानो राजभृत्याश्च राज्ञ्यः कृष्णं परेश्वरम् ॥८२॥ पुपूजुश्चन्दनाद्यैश्च पपुश्च चरणामृतम् ।
ततो मुहूर्तसद्भावे श्रुत्वा वाद्यध्वनिं शुभम् ॥८३॥ हरिर्यज्ञस्थले भक्तैः समेतो मण्डपे ययौ ।
कृतशुद्धिर्हरिश्चापि राजानः कर्मठास्तथा ।
अपरा देवकोट्यश्चेश्वरावतारकोटयः ॥८४॥ मानवाः ऋषयो देवाः पितरः स्थावरास्तथा ।
जङ्गमा नरनार्यश्च मण्डपे तूर्णमाययुः ॥८५॥ सामग्र्यो हव्यरूपिण्यो हव्यवाहाश्च वह्नयः ।
हव्यदा यजमानाश्च यज्ञे तत्र समाययुः ॥८६ ॥ विप्राः कर्मप्रयोक्तारो वेदाः स्वराश्च गीतयः ।
काश्यप्यश्च प्रजाः सर्वा मण्डपे तत्र चाययुः ॥८७॥ प्रोक्षणं स्वस्तिवाचश्च पुण्याहवचनान्यपि ।
अभवन् देवतानां प्राबोधनं च समन्त्रकम् ॥८८॥ स्नानं प्रपूजनं पत्रपुष्पाक्षतादिवस्तुभिः ।
सर्वोपचारैः सुभगैर्धूपदीपादिभिस्तथा ॥८९॥ आरार्त्रिकं च नैवेद्यं जलपानं तथा तदा ।
ताम्बूलादिप्रदानं च महाऽऽहुतिप्रदानकम् ॥2.228.९० ॥ पूर्वतोऽप्यधिकं जातं हव्यदानं तदाऽनले ।
चरोर्दानं पायसादिप्रदानं च फलार्पणम् ॥९१ ॥ एवं यावत्प्रदेहिभ्य आहुतयः समर्पिताः ।
तृप्युत्तरं च पितॄणां तर्पणं चाभवद् बहु ॥९२॥ देवीनां मातृकाणां चेश्वरीणां तर्पणं तथा ।
शक्तिनां वामिनीनां च श्राद्धं च तर्पणं ह्यभूत् ॥९३॥ सृष्टित्रयं प्रतप्तं च परिहारं क्रतोस्ततः ।
चकार श्रीहरिः पश्चाद् भोजनान्यभवँस्तदा ॥९४॥ मध्याह्नोत्तरवेलायां सर्वे बुभुजिरे जनाः ।
मिष्टान्नानि विचित्राणि सुधाऽमृतानि यानि च ॥९५॥ दिव्यान् रसाँस्तथा दिव्यपीयूषाणि शुभानि च ।
ब्रह्मरसान् धामरसान् सिद्धरसान् परोत्तमान् ॥९६॥ पपुर्बुभुजिरे देवाः सृष्टित्रयनिवासिनः ।
तृप्ता भोजनमासाद्य जलपानं ततः परम् ॥९७॥ तक्रपानं प्रचक्रुश्च फलादनं च तत्परम् ।
ताम्बूलग्रहणं कृत्वा विशश्रमुर्निवासके ॥९८॥ ततः सायं बालकृष्णः सभायां वै समाययौ ।
प्रजाभ्यो राधिके नैजं चोपदेशं ददौ हरिः ॥९९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सप्तम्यां प्रातर्मखकार्याणि निर्वर्त्य श्रीहरिणा कृतं स्वस्य सर्वात्मकत्वाद्युपदेशनं भोजनं रात्रावुत्सवः, ततः
प्रातरष्टम्यां मखकार्यविनिर्वर्तनं भोजनम चेत्यादिनिरूपणनामाऽष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥२२८ ॥