२२२

श्रीकृष्ण उवाच-
राधिके श्रीबालकृष्णश्चोपादिदेश तत्प्रजाः ।
प्रातरेव नृपसौधे विशाले हितकृत्प्रभुः ॥१ ॥ रायसोमननृपतिः शुश्राव सकुटुम्बकः ।
नरा नार्यः प्रधानाद्याः सहस्रशोऽपि शुश्रुवुः ॥२ ॥ हरौ त्यागः सदा कार्यः प्रवृत्तेः कर्मणां तथा ।
एवं त्यागी तु नैर्गुण्यं विन्दति मोक्षसाधनम् ॥३ ॥ त्यागे यस्य हुतं कर्म न तस्य फलदं भवेत् ।
निर्बन्धान् सम्परित्यज्य रागहीनो भवेत् सदा ॥४ ॥ अशोकं मां परब्रह्माऽऽतिष्ठेद् येन महत्सुखम् ।
अजितं तु जयेत् प्राज्ञो मनः सङ्गेष्वसङ्गतः ॥५ ॥ इन्द्रियैर्गृह्यते यत् तत् त्याज्यं ग्राह्यं न भावतः ।
मनो निगृह्य वै प्राणान् धारयेत् परमात्मनि ॥६ ॥ एवं धारणया स्याद्वै निर्वाणं शाश्वतं सुखम् ।
सुखं वै ब्रह्मणः प्राप्यं ब्रह्मार्पणेन सर्वथा ॥७ ॥ सत्यं ब्रह्म सदा ग्राह्यं चानृतं हेयमेव च ।
अनृतं तु तमः प्रोक्तमान्ध्यप्रदं च गर्तदम् ॥८ ॥ वासनारज्जुयुक्तस्य गर्ते पतनमास्थितम् ।
अवासनस्य तृप्तस्य प्रकाशो धामदः स्मृतः ॥९ ॥ प्रकाशं तु समालम्ब्य यतेत दुःखहानये ।
तमोनाशाय सततं सतां समागमादिभिः ॥2.222.१ ०॥ शारीरैर्मानसैर्वापि दुःखैर्नोद्विजते तु यः ।
मम सङ्गी सुखं वेत्ति स एव मम मार्गगः ॥११ ॥ यत्र दुःखं स निरयः सुखं तु परमं पदम् ।
त्यक्तदुःखसमारम्भः स्वर्गस्तस्य न दुर्लभः ॥१२॥ ब्रह्मव्रतेन दोषांश्च दग्ध्वा जयेत्परं पदम् ।
मुक्त्याश्रमं यश्चरते मुक्तबुद्धिर्हरिप्रियः ॥१३ ॥ सर्वं हुत्वा हरौ ब्रह्मलोकं जनः स विन्दति ।
सन्तः सेव्या ब्रह्मभक्ता ब्रह्माप्तिस्तेन जायते ॥१४॥ आचारनिरताः सन्तो मम भक्तिपरायणाः ।
पाल्यः सदा शुभाचारो गृहस्थैरपि भूतये ॥१५ ॥ शौचमावश्यकं कार्यं देवानां पूजनं तथा ।
पितॄणां तर्पणं चापि वृद्धानां माननं तथा ॥१६ ॥ सूर्यं सदोपतिष्ठेत सन्ध्याकाले हरिं स्मरेत् ।
शुचिः कुर्याद् भोजनं च न निन्द्यान्मानवादिकान् ॥१७॥ देवालयं गुरुं साधुं साध्वीं वृषं चतुष्पथम् ।
धार्मिकं दिव्यपुरुषं नित्यं कुर्यात् प्रदक्षिणम् ॥१८॥ अतिथीनां च भृत्यानां रक्षणं भोजनादिभिः ।
अनाथानां चोपकारं कुर्याच्छक्तो भवेद्यदि ॥१ ९॥ द्विवारं चैकवारं वा भोजनं नाऽन्तरा तु तत् ।
एवं भक्षयिता प्रोक्तश्चोपवासी सदा सुखी ॥2.222.२० ॥ यज्ञकार्ये प्रदाता च ऋतौ दानी न चान्यथा ।
एवं दान्तो ब्रह्मचारी सदा भवति शोभनः ॥२१ ॥ अमृतं देवभुक्तं वै पथ्यं तथाऽमृतं मतम् ।
पाङ्क्तं ग्राह्यं यस्य सोस्ति देववन्मानवः सुखी ॥२२॥ सन्तस्तूपासते देवप्रसादं चायुषः प्रदम् ।
सन्तश्चोपासनीया वै प्रसादकामनावता ॥२३॥ गुरोः सेवा प्रकर्तव्या कर्तव्यं चाभिवादनम् ।
गुरूनभ्यर्च्य युज्यन्ते ह्यायुषा यशसा श्रिया ॥२४॥ तीर्थानां गुरवस्तीर्थं शुचीनां गुरवः शुचिः ।
शिष्टकृतं प्रशस्तं तद् गोपुच्छं पावनं सदा ॥२५॥ दर्शने स्पर्शने नित्यं गुरुं साधुं हि सेवयेत्॥ साधोर्वै मस्तकं केशाः रोमाणि पावनानि वै ॥२६ ॥ सतां पादरजो मोक्षप्रदं पापप्रणाशकम् ।
साधूनां स्पर्शनं पुण्यं नेत्रे पुण्ये सदा मते ॥२७॥ कर्णौ पुण्यौ हि साधूनां नासा पुण्या सुगन्धिनी ।
भालं वै तु सतां पुण्यं गण्डगालौ हि पुण्यकौ ॥२८॥ कपोलौ सर्वथा पुण्यौ हास्यं पुण्यं मनोहरम् ।
दन्ता जिह्वा तथौष्ठौ च पुण्यदाः पावनाः सताम् ॥२९॥ कण्ठः पुण्यस्तथा शब्दो वाणी पुण्या सरस्वती ।
कथा पुण्या हि साधूनां पुण्यदा सङ्गतिः सताम् ॥2.222.३०॥ स्कन्धौ पुण्यौ बाहुहस्तौ पुण्यौ कराङ्गुलिध्रजाः ।
नखाः पुण्याश्च रेखाश्च प्रकोष्ठः पुण्यदस्तथा ॥३ १॥ कफोणिका तथा चिपीटिका पुण्या सतां सदा ।
हस्ततले सदा पुण्यप्रदे वक्षश्च पुण्यकृत् ॥३२॥ स्तनचिह्नो सदा पुण्यौ नाभिः पुण्या च पावनी ।
उदरं पुण्यकृच्चापि कटिः पुण्यतमा सताम् ॥३३॥ गुप्तं सुपावनं चापि जघनं पावनं सदा ।
नितम्बौ पावनौ चापि सक्थिनी पावने तथा ॥३४॥ इन्द्रियाणि पावनानि जानू च पावनौ सदा ।
जङ्घे पावनकारिण्यौ घूटिके पावने तथा ॥३५॥ पत्तले चरणौ चाङ्गुलिका नखाश्च पावनाः ।
त्वङ्मांसं रुधिरं दिव्यं दिव्यं तथाऽस्थिमण्डलम् ॥३६ ॥ मज्जा मेदो रसश्चापि पावना धातवः सताम् ।
श्रीहरेरिव साधूनां सर्वे पावनकारकम् ॥३७॥ त्रिविधा भगवत्पुत्राः पावना भगवानिव ।
सन्तो वै भगवत्पुत्रा दीक्षिताश्च गृहाश्रमाः ॥३८॥ वंशोद्भवास्तथा पुत्रास्त्रयस्ते पावनोत्तमाः ।
भगवद्भक्तिसम्पन्नास्तुर्यास्ते पावना अपि ॥३९॥ दीक्षया कर्मणा भक्त्या ज्ञानेन च समन्विताः ।
सन्तः श्रीहरितुल्यास्ते पावना जगतां मताः ॥2.222.४०॥ तत्प्रसादः पापहर्ता तज्जलं गाङ्गतोऽधिकम् ।
तत्सेवा पापहा सर्वा ब्रह्मार्पणं तदर्पणम् ॥४१॥ साधवो यं तु वृक्षादि स्पृशन्ति तरवोऽपि ते ।
दिव्या मोक्षप्रदा लोके जायन्ते पापनाशकाः ॥४२॥ यद्वस्त्रं धार्यते सद्भिः कार्पासं वौर्णमेव वा ।
कौशेयं द्रुत्वक्स्वरूपं दिव्यं तत्पावनं सदा ॥४३॥ पशुः पक्षी जनो वाऽन्यः साधुना स्पृष्ट एव यः ।
स वै दिव्यो भवत्याशु भूतपिण्डोऽप्यलौकिकः ॥४४॥ अशुद्धं जायते शुद्धं साधुस्पर्शेन पावनम् ।
पापं पापतरं वापि साधुस्पर्शाद् विशुद्ध्यति ॥४५॥ साधुना यद् धृतं देहे तच्छुद्धं नात्र संशयः ॥ जलं तीर्थं भवत्याशु साधुना सेवितुं तु यत्॥४६॥ पृथ्वी सता सेविता च तीर्थीभूता भवत्यति ।
पत्रं पुष्पं फलं तोयं धार्यं भक्ष्यं च वाऽपरम् ॥४७॥ यद्यत् साधुप्रसङ्गं वै प्राप्तं शुद्धं हि तन्मतम् ।
साधुसेवी सदा शुद्धः साध्वी दिव्या हरेस्तनूः ॥४८॥ वाहनं चासनं वाच्यं शुद्धं साधुप्रसेवितम् ।
सायं प्रातश्च साधूनां पूजनं स्वर्गमोक्षदम् ॥४९॥ साधुसेवा परो धर्मः साधुसेवा धनं परम् ।
साधुसेवा परः कामो मोक्षोऽपि साधुसेवनात् ॥2.222.५०॥ हृदयं साधुवृत्तानां साधुतां याति सर्वथा ।
सञ्चितं साधुताद्रव्यं पदे धाम्नि सहायदम् ॥५१ ॥ साधुता सर्वभूतानां शान्तिदा क्षेमवाहिनी ।
अर्जयेत् साधुतां तस्माद् धाममार्गे सहायिनीम् ॥५२॥ देवर्षिपितॄणां योनिः साधुता ब्रह्मसेविनाम् ।
मुक्तानां साधुता योनिस्तां सेवेत सदा बुधः ॥५३॥ मरणं ध्रुवमेवाऽस्ति कृतं भुक्तं गतं तु तत्॥ नूतनं नार्जितं पुण्यं भविष्यति किमत्स्यसि ॥५४॥ इत्येवं सम्विचार्यैव पुण्यप्रदा हि साधवः ।
सेवनीया हि सततं पितरो देवतास्तथा ॥५५॥ सेवाफलं महत्स्वर्गं त्वग्रे स्थास्यति निश्चितम् ।
प्रसन्नताफलं गुरोश्चाग्रे स्थास्यति निश्चितम् ॥५६॥ इति निर्णीय सततं सेव्यन्तां साधवोऽमलाः ।
भगवन्मूर्तयः सन्ति साधवः सुप्रतिष्ठिताः ॥५७॥ यस्मात् सृष्टिरियं जाता यतोऽवतारकोटयः ।
यस्मादैश्वर्यमासाद्य जायन्ते चेश्वरादयः ॥५८॥ ऋषयः पितरो देवा यमर्चयन्ति नित्यशः ।
यतः सूर्यादयस्तेजःप्रधानाः सम्भवन्त्यपि ॥५९॥ यतो भूतानि जायन्ते यस्मात् ह्रियन्त एव च ।
इन्द्रियाणि मनो बुद्धिर्यस्माज्जातानि सन्ति च ॥2.222.६० ॥ तत्र साक्षी स्थितो देवश्चेतनोऽनुक्रियापरः ।
तं नियम्याऽऽन्तरे चास्ते यः प्रभुः पुरुषोत्तमः ॥६१ ॥ येन सर्वमिदं व्याप्तं वर्तते चापियाति च ।
तं समाश्रित्य देवेशं लभते शममुत्तमम् ॥६२॥ त्यक्त्वा वै प्राकृतं भावं दिव्यभावमुपेत्य यः ।
आत्मरतिर्भवेद् भक्तः स गच्छेत्परमां गतिम् ॥६३॥ यथा वारिचरः पक्षी वारिणा नहि लिप्यते ।
कृतप्रज्ञस्तथा लोके स्थितश्चापि न लिप्यते ॥६४॥ इष्टदेवकृपाप्राप्ततुष्टिसन्तोषवान् नरः ।
अशोचन्नप्रहृष्येश्च तिष्ठते चोर्णनाभिवत् ॥६५॥ वासनाख्यां दृढां ग्रन्थिं हृदयस्थां निजात्मनः ।
विच्छित्वा सुखमासीत परन्धाम स चाप्नुयात् ॥६६॥ मलिनो जलमादाय यथा शुद्धति चाप्लुतः ।
तथा मायाकलुषोऽपि शुद्धिं याति सतां ग्रहात् ॥६७॥ महारण्यस्य पारज्ञो न वै मुह्यति तत्र वै ।
तथा मायान्तविज्ञाता न वै तत्त्वेषु मुह्यति ॥६८॥ त्रिवर्गो यस्य विदितः प्रेक्ष्य भुक्त्वा प्रमुञ्चति ।
अबद्धस्य निरीहस्य ब्रह्ममार्गः प्रकाशते ॥६९॥ विदुषां न भयं चास्ति त्वज्ञानां निर्भयं न वै ।
उभयेषां हरेर्योगे चात्यन्तिकभयं न वै ॥2.222.७०॥ यत्कार्यं जायते लोकेऽनभिसन्धिप्रपूर्वकम् ।
न तद् बन्धाय जायेत प्रियं वाऽप्रियकं समम् ॥७१ ॥ लोकमातुरमालोक्य साधूंश्चाऽनातुराँस्तथा ।
साधुवृत्तिं समाश्रित्य मां भजेद् यस्तरेद्धि सः ॥७२॥ शोचतो नैव पश्येद्वै येन शोको न नश्यति ।
अशोचतः सदा पश्येद् येनाऽऽप्येत सतां सुखम् ॥७३ ॥ सतां मार्गानुसारेण ये प्रयान्ति जनास्त्विह ।
सतां गतिं लभन्ते ते प्रयान्ति परमं पदम् ॥७४॥ यत्राऽहं सततं चाऽस्मि विराजितो महाहरिः ।
अनन्तकोटिमुक्तैः संसेवितो ध्यात एव च ॥७५ ॥ इत्युक्त्वा राधिकेऽनादिकृष्णनारायणः प्रभुः ।
विरराम ददौ मन्त्रान् वैष्णवान् वै तदा स्वयम् ॥७६॥ राजा प्रजाः पुनः कृष्णं पुपूजुर्बहुवस्तुभिः ।
हरिर्गन्तुमियेषाऽथ राजा ददौ विदायकम् ॥७७॥ यौतकं च ददौ श्रेष्ठं हरिः सज्जो बभूव ह ।
तावत्तत्र समायातो राजारायपतिर्नृपः ॥७८॥ राजगिरर्षिसहितः प्रार्थयितुं प्रभुं हरिम् ।
नेतुं स्वकीयभवनम् आर्षजतनुराष्ट्रकम् ॥७९॥ व्येनोजराशानगरीं परीभासरितस्तटे ।
आवासयितुं सततं भगवन्तं तदाऽऽर्थयत् ॥2.222.८० ॥ हरिः कृपावशस्तस्मै तथास्त्विति न्यवेदयत् ।
अद्य वै समयो नास्ति गन्तव्यं त्वधरे द्रुतम् ॥८ १ ॥ श्वः पञ्चम्यां भवेद् यज्ञारम्भो ब्राह्मीलराष्ट्रके ।
तस्माद् यज्ञं समाप्यैव त्रयोदश्यां प्रगे नृप ॥८२॥ भवद्राज्ये समायास्ये सायं नैवात्र संशयः ।
भवन्मनोऽनुसारेण स्थास्ये तवाऽऽलयेऽधिकम् ॥८३॥ भवता तु मखे तत्राऽऽगन्तव्यं पञ्चमीप्रगे ।
एकादश्यां तु मध्याह्ने समाप्तिः सम्भविष्यति ॥८४॥ इत्युक्तो हरिणा भूपः स्वीचकार हरेर्वचः ।
पूजयित्वा ययौ नैजं राष्ट्रं तूर्णं विमानगः ॥८५॥ अथ राजा द्वितीयोऽपि समायाच्छ्रीहरिं प्रति ।
उरुगवाक्षनृपतिः रायग्रामापुरीपतिः ॥८६॥ उरोगमनराष्ट्रेशः प्रार्थयत्परमेश्वरम् ।
मानत्रिवेदऋषिराट् प्रार्थयच्चापि माधवम् ॥८७॥ मम राष्ट्रं प्रजाश्चापि पावयाऽऽगत्य केशव ।
हरिस्तथाऽस्त्विति प्राह सज्जो विमानगोऽभवत् ॥८८॥ सार्था विमानगाश्चाप्यभवँस्तदा प्रजाजनाः ।
राजाद्याश्च विदाये वै जना नादान् समूचिरे ॥८९ ॥ बहुवाद्यान्यवाद्यन्त विमानं चाम्बरेऽभवत् ।
नतं प्रजाजनैः पुष्पाक्षताद्यैः पूजितं तु खे ॥2.222.९० ॥ प्रससार ततश्चाग्रे उरोगमनराष्ट्रकम् ।
आययौ शीघ्रमेवेति राजा ह्यवातरत् पुरः ॥९ १ ॥ सम्मानं स्वागतं चक्रे रायग्रामापुरीपतिः ।
शृङ्गारिताऽभून्नगरी प्रासादः शोभितोऽभवत् ॥९२॥ ध्वजाद्यैः पत्रकदलीस्तम्भतोरणस्वस्तिकैः ।
कलशै_ रङ्गवल्ल्याद्यैर्जलसेचनकैस्तथा ॥९३ ॥ एवंविधाया पुर्याश्च सन्निधौ सागरान्तिके ।
विमानं श्रीहरेर्नैजं सङ्केतेनाऽनयद्भुवम् ॥९४॥ तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।
भेर्याद्या नेदिरे नारीगीतयश्चाऽभवन् शुभाः ॥९५॥ यन्त्रीशब्दा गर्जनाश्च प्रजानां हर्षसद्गिरः ।
अभवन् स्वागतार्थं वै विमानं समवर्धयन् ॥९६॥ प्रजाः पुष्पाक्षताद्यैश्च हरिस्त्वग्रे समाययौ ।
वन्दितः पूजितो राज्ञा राज्ञ्या प्रजाभिरित्यपि ॥९७॥ निषसाद शुभे स्वर्णासने श्रीभगवाँस्तदा ।
राधिके स्तबकान् हारान् हरेर्गले ददौ नृपः ॥९८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पात्रगोनयराष्ट्रीयप्रजाभ्य उपदेशनं विदायं ततो राजारायपतिराज्यम् आर्षजतनुराष्ट्रं प्रति गमनप्रार्थनां स्वीकृत्य तत उरोगमनराष्ट्रं प्रति गमनं सम्माननमित्यादिनिरूपणनामा द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥