२१९

श्रीकृष्ण उवाच-
राधिकेऽनादिकृष्णस्य गजपृष्ठे गजान्तरे ।
पितरौ च ततो गजान्तरे स्वभ्रातरस्त्रयः ॥१ ॥ ततो ब्रह्मप्रियादीनां शिबिकाद्यास्तथाऽभवन् ।
अमर्यश्चाऽभवन् पश्चाद् गीतिकारसिकास्तथा ॥२ ॥ अग्रे डङ्कानिशानादि पटहाद्यास्तथाऽभवन् ।
सैन्यवाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ॥३ ॥ यन्त्रशब्दा विप्रघोषा जायन्ते स्माऽतिगर्जनाः ।
सञ्चालायां गोपुरादौ चन्द्रशालासु शाखिषु ॥४ ॥ रथ्यासु राजमार्गेषु गृहेषु वल्लभीष्वपि ।
हष्टेषु वेदिकास्वेव चैत्येषु दुर्गमस्तके ॥५ ॥ सौधेषु मध्यमार्गेषूद्यानेषु च समन्ततः ।
प्रजानना नरा नार्यो बालकृष्णं विलोकितुम् ॥६ ॥ उपस्थितास्तदाऽऽसँश्च धृतपूजाः करादिषु ।
नगर्यां गोपुरे कृष्णं पुपूजामात्यमण्डलम् ॥७ ॥ चत्वरेषु धनाढ्याश्चोद्यानकेषु प्रधानकाः ।
रथ्यासु चापणेष्वेते चत्वरेषु प्रजाजनाः ॥८ ॥ अपूजयन् हरिं पुष्पाम्बरभूषाफलादिभिः ।
हारैः पौष्पैर्हीरकाद्यैः रत्नमालाभिरित्यपि ॥९ ॥ अमर्यः कन्यकाश्चापि पुपूजुरक्षतादिभिः ।
स्थलपद्मादिहारैश्चोर्मिकाभिः शर्करादिभिः ॥2.219.१० ॥ एवं भ्रमित्वा भगवान् नगर्यामथ मन्दिरम् ।
राज्ञः समाययौ तूर्णं जलपानमथाऽकरोत् ॥११ ॥ उपादिदेश भगवान् प्रजाभ्यश्च नृपादये ।
भुक्तिमुक्तिप्रदान् रम्यान् सद्धर्मान् वै निशीथके ॥१२॥ देशे काले तथा व्यक्तौ कालपर्याय उल्बणः ।
अनिष्टोऽपि समायाति विरागजनकः सदा ॥१३॥ लोकोऽयं बहुदोषोऽस्ति निर्दोषाः साधवोऽत्र वै ।
भगवद्योगयुक्तास्ते कालपाशविवर्जिताः ॥१४॥ आत्ममोक्षकराः सन्तो मम योगाद् भवन्ति वै ।
सर्वं विलोक्य निःसारं दुःखबाहुल्यसम्भृतम् ॥१५॥ आत्ममोक्षनिमित्तं वै यतेत मतिमान् जनः ।
नष्टे धने च दारेषु पुत्रे पितरि स्वामिनि ॥१६ ॥ दुःखं याति विमूढोऽयं लोको ममत्वकर्षितः ।
तच्छोकं नाशयत्येव साधुरेव न चेतरः ॥१७ ॥ यथा काष्ठं च काष्ठं च समेयातां महाजले ।
समेत्य च व्यपेयातां तद्वद् देहिसमागमः ॥१८ ॥ एवं पौत्रास्तथा पुत्रा दाराः पुत्र्यश्च बान्धवाः ।
सत्यश्च पतयश्चापि वियोगोत्तरनिर्णयाः ॥१९ ॥ तत्र स्नेहो न कर्तव्यो वियोगो तैर्हि वै ध्रुवः ।
अदृष्टश्चागतः पूर्वं गते पुनर्न दर्शनम् ॥2.219.२० ॥ एवं ज्ञात्वा जगत् सर्वं महीमानस्वरूपवत् ।
यथा शोको न जायेत तथ वृत्त्यं सुधाजनैः ॥२१ ॥ तृष्णास्नेहोत्थदुखं वै दुःखाद् दुःखं पुनः पुनः ।
प्राप्तौ सुखं गते दुःखं शोको दुखं पुनः पुनः ॥२२ ॥ सुखदुःखे जनानां वै जायेते चक्रमे मुहुः ।
शरीरं विद्यते त्वायतनं द्वयोर्विवर्ततोः ॥२३ ॥ तद् दुःखं न पुनः स्याद्वै वर्तितव्यं तथा पथि ।
अनादिश्रीहरिः पन्थाः सर्वदुःखविनाशकृत् ॥२४॥ आश्रयणीयः सोऽहं दुःखान्तौषधमस्मि यत् ।
अनाश्रितास्तु साधून् ये मां तथा परमेश्वरम् ॥२५॥ विदन्ति दुःखभागं ते सुखशून्या भवन्ति हि ।
स्नेहपाशैरनेकैस्ते निबद्धा विषयेहया ॥२६॥ अकृतार्था हि सीदन्ति मृगतृष्णाजलभ्रमाः ।
स्नेहेन तिलवद् यन्त्रे सर्गे सर्वं निपीड्यते ॥२७॥ स्नेहबद्धः करोत्यस्मै कर्म पापभरं ततः ।
तेन क्लेशानवाप्नोति परत्रेह पुनः पुनः ॥२८ ॥ पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वदेहिनः ।
शोकसागरमग्नास्ते सुखिनो न भवन्ति वै ॥२९ ॥ इष्टनाशे यथा प्राप्तो दावाग्निस्तत्समो जनः ।
दह्यते वै वृथा भस्मीभवितुं न फलं शुभम् ॥2.219.३ ० ॥ नालं सुखं प्रदातुं वै सुहृदो बान्धवा अपि ।
नाऽलं दुःखं प्रदातुं च शत्रवोऽन्ये परेऽपि च ॥३१ ॥ नालं चार्थाः सुखं दातुं नालं तत्साधनान्यपि ।
न दारिद्र्यं दुःखदातृ प्राज्ञो जानाति नोऽपरः ॥३ २॥ विवेकी च विरागी च मद्भक्तो वै भवेत् सुखी ।
अहं धेनुस्वरूपोऽस्मि दोग्धारः सुखिनो मम ॥३३ ॥ धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।
पयःपिबस्य सर्वस्य सुखदा वै तथान्वहम् ॥३४॥ मम भक्तेः पानकर्ता सुखी स्यान्नात्र संशयः ।
बुद्धिमाश्रित्य जननीं विवेकिनीं च पोषिणीम् ॥३५॥ सुखं समर्जयेत् प्राज्ञो नाऽन्तरे क्लेशवान् भवेत् ।
विवेकाल्लभ्यते शान्तिः सुखं चानन्द इत्यपि ॥३६॥ ये विवेकसुखं प्राप्ता द्वन्द्वातीता निरीहका ।
तान्नैवाऽर्था न चाऽनर्था व्यथयन्ति कदाचन ॥३७॥ अबुद्धाश्चाऽविवेकाश्च मूढाः स्वभावकर्षिताः ।
प्रहृष्यन्ति च यावन्तस्तप्यन्ते शतधाऽधिकम् ॥३८॥ विवेकप्रसवा शान्तिः सन्तोषसहकारिणी ।
भूतिः स्मृद्धिः श्रिया सार्धं दक्षे वसति नाऽलसे ॥३ ९॥ मूढं स्मृतिहनं तृष्णायुतं च स्पर्द्धिनं तथा ।
ईर्ष्यायुक्तं जनं शोकश्चाविशति सहस्रधा ॥2.219.४०॥ ममाश्रितं सतां भक्तं विवेकिनं सुबुद्धिकम् ।
असूयेर्ष्यावर्जितं तु शोको न स्पृशति क्वचित् ॥४१ ॥ आत्मसत्तासमोपेतं ब्रह्मनिष्ठानिषेविणम् ।
सत्समागमकर्तारं न शोकः स्प्रष्टुमर्हति ॥४२॥ यन्निमित्तो भवेच्छोकस्तापो दुःखं च विग्नता ।
अशान्तिर्वा यतो मूलात् तत् त्यजेत् स सुखी भवेत्॥४३॥ ममत्वेन निजस्वार्थे कल्पितं यत्नितं च वा ।
सद्यस्तत्परितापार्थं सम्पद्यते निजात्मनि ॥४४॥ कामानां त्यागकर्ताऽत्र सुखेन पूर्यते सदा ।
कामानुपाती सतृष्णः कामाननु विनश्यति ॥४५॥ तृष्णाक्षयो महान् प्रोक्तो योगिनां सुखरूपकः ।
तृष्णायुतस्य लोकस्य धावतश्चेहयाऽभितः ॥४६॥ अतिशोकोऽभिपद्येत किल देहात्मवादिनः ।
खङ्गधारेऽमृतं लिप्तं जिह्वया लेढुमिच्छतः ॥४७॥ अप्राप्तिर्भेदनं कष्टं त्रेधा दुःखं प्रजायते ।
तथा प्रियेषु मग्नस्य कामलेढुर्जनस्य वै ॥४८॥ क्षणाद्दुःखं प्रजायेत कामं त्यक्त्वा सुखी भवेत् ।
सर्वान् कामान् जुगुप्सेद्वै कामो मृत्युर्मनोभवः ॥४९॥ संहृत्य कामसङ्कल्पान् भयं त्यक्त्वा भवेत् सुखी ।
यदा नेच्छा न च द्वेषस्तदा ब्रह्मगतो भवेत् ॥2.219.५०॥ दुर्मतिभिर्या दुस्त्याज्या न या जीर्णा तु जीर्यतः ।
प्राणग्रासकरो रोगस्तां तृष्णां त्यजतः सुखम् ॥५ १ ॥ मृत्युनाऽभ्याहतो लोको जरया वेष्टितः सदा ।
कालग्रस्तोऽपि न वेत्ति त्वात्मश्रेयःप्रसाधनम् ॥५ २॥ दिवा रात्रिर्विना भक्तिं मोघा यातो हि देहिनः ।
एवं जानन् भजेत् कृष्णनारायणं तु मां हरिम् ॥५३॥ याते प्रयाते दिवसे जनायुः श्रीयते सदा ।
विना भक्तिं दिवा वन्ध्यो देहिना याति सर्वथा ॥५४ ॥ अतीव तृष्णया याति सुखार्थी गहने तले ।
अनवाप्ते तु कामे वै मृत्युरभ्येति भक्षकः ॥५५॥ विचिन्वन्तं सुखं रक्तं दूरे चासक्तमानसम् ।
सर्पो भेकीमिवाऽऽसाद्य मृत्युर्ग्रस्त्वा प्रगच्छति ॥५६ ॥ अद्यैव श्रेयः कर्तव्यं कालक्षेपो न लाभकृत् ।
असम्पूर्णेषु कार्येषु मृत्युरादाय यास्यति ॥५७ ॥ आत्मकार्यं द्रुतं चाऽद्य कुर्वीत सावधानकः ।
अस्याऽपूर्णमिदं कार्यं चेति कालो न पश्यति ॥५८ ॥ कदा मृत्युर्भवेत् कस्य नैव जानाति कश्चन ।
तस्मान्मोक्षार्थकं कार्यं प्राक् कर्तव्यं विजानता ॥५९ ॥ आबाल्याद्वै भजनीयः श्रीपतिः पुरुषोत्तमः ।
तुष्टे कृष्णे भवेत् सौख्यं शाश्वतं निर्मलं यशः ॥2.219.६० ॥ मोहाविष्टं धनदारपुत्रक्षेत्रातिमग्नकम् ।
क्षेत्रपश्वादिसम्पन्नं सुप्तं मृत्युर्हरिष्यति ॥६१ ॥ अवितृप्तं यतमानं कामार्थं बहुवेगिनम् ।
धावन्तं चानुधावन् वै मृत्युरादाय गच्छति ॥६२ ॥ करिष्ये श्वः परं कार्यं ततोऽन्यच्च ततः परम् ।
एवं वै चिन्तयानं तं कृतान्तः सन्नयिष्यति ॥६३ ॥ आरब्धानां फलं नाऽऽप्तं संसक्तं चान्यकर्मणि ।
कृतानां दुःखभोक्तारं यमश्चादाय गच्छति ॥६४॥ राजानं च दरिद्रं च विज्ञं भृत्यमनाथकम् ।
सर्वथा रक्षितं चापि मृत्युरादाय गच्छति ॥६५ ॥ मृत्युं जरां च शैथिल्यं पारवश्यं विमाननाम् ।
व्याधिमशक्तिं देहेऽत्र वीक्ष्य विज्ञो हरिं भजेत् ॥६६ ॥ जातोऽनिर्धारितो बालोऽनिर्धारिता मृतिस्तथा ।
आगमिष्यत्यकस्माद्वै तद्विचार्य हरिं भजेत् ॥६७॥ मृत्युस्थानं विषयेषु रतिरेव हि देहिनः ।
विरतिर्वै महारण्यं योगिनामिव शान्तिदा ॥६८ ॥ पाशरज्जुर्विषयाढ्या वृत्तिर्या देहिनां सदा ।
छित्वा तां श्रीहरेः पादौ समाश्रयेत् स बुद्धिमान् ॥६९ ॥ न योद्धा जयति केश्चिदायान्तीं मृत्युवाहिनीम् ।
सत्ययोद्धा जयप्येनां हरौ सत्येऽमृतं स्थितम् ॥2.219.७० ॥ सत्यं ब्रह्मेति वै प्रोक्तं परब्रह्मपरो भवेत् ।
सत्यव्रते स्थितश्चापि सत्ययोगं समाश्रितः ॥७ १ ॥ सत्समागमनिरतः सद्योगेनाऽन्तकं जयेत् ।
मोहमृत्युं विजित्यैवाऽमृतं सत्सङ्गतो लभेत्॥७२॥ साध्वर्थी परमेशार्थी सेवार्थी चात्मनिष्ठितः ।
मृत्युं तीर्त्वा महानन्दाऽमृतं प्राप्नोति मोदते ॥७३॥ साधुयज्ञस्थितो दान्तो ब्रह्मयज्ञे रतिं गतः ।
परब्रह्मार्पणमग्नो महामोक्षं प्रयाति हि ॥७४॥ यस्य कृष्णः सदा तुष्टः साधवोऽनुग्रहान्विताः ।
कृपावर्षिणः पितरः स वै सर्वमवाप्नुयात् ॥७५॥ विद्याचक्षुर्दिव्यनेत्रं ब्रह्मव्रतं परं तपः ।
साधुसेवा परं पुण्यं त्यागः सुखं तु शाश्वतम् ॥७६॥ आत्मना वर्तमानस्य परमेशे स्थितस्य च ।
वीतरागस्य मुक्तस्य किं पुनस्तारकान्तरम् ॥७७॥ वित्तं दिव्यं साधवो वै रत्नं दिव्यं हरिः स्वयम् ।
प्रवृत्तिर्भजनं यस्य तस्य किमन्यसाधनैः ॥७८॥ अकिञ्चनः सुखं शेते सुखं प्रबोधतेऽपि च ।
सुखं पथ्यं शिवं कृष्णं प्राप्य प्रमोदते सुखी ॥७९॥ हरिं विना न यस्याऽस्ति द्रव्यं चाकिञ्चनो हि सः ।
आकैञ्चन्यं परं सौख्यं सृष्टित्रयातिरेकि तत् ॥2.219.८० ॥ आकैञ्चन्ये तथा राज्ये विशेषो वर्तते महान् ।
राज्यवान्नित्यमुद्विग्नो निरुद्वेगो ह्यकिञ्चनः ॥८ १ ॥ नाऽग्नेर्मृत्योश्चाऽस्य भीतिर्न चौराऽरिष्टकादपि ।
न शत्रोः कालवेगाद्वा भयं तस्य प्रजायते ॥८२॥ त्यागिनं भगवद्भक्तं देहगृहं हरिश्रयम् ।
साधुसेवापरं शान्तं प्रशंसन्ति हरादयः ॥८३ ॥ नाऽत्यक्त्वा सुखमाप्नोति नाऽत्यक्त्वा ब्रह्म विन्दति ।
नाऽत्यक्त्वा निर्भयश्चास्ते त्यागं लब्ध्वा सुखी भवेत्॥८४॥ ईहाकृष्टस्य दीनस्य प्रमादमाविशेद् भृशम् ।
प्रमत्तं त्यक्तमर्यादं ह्युपयान्ति महापदः ॥८२॥ तासां विनाशकं श्रेष्ठं भेषजं साधुसेवनम् ।
येषां सङ्गाज्ज्ञानलाभश्चेहानां विलयो भवेत् ॥८६॥ स्नेहधारा भवेत् कृष्णे मयि श्रीशे परेश्वरे ।
शाश्वतानन्दसम्पूर्णे मद्योगान्मामकः सुखी ॥८७॥ शाश्वतानन्दपूर्णः स्यात् तत्कार्यं मानवैरिह ।
इत्युक्त्वा राधिकेऽनादिश्रीशनारायणः प्रभुः ॥८८॥ ‘ओन्नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ।
इतिमन्त्रं ददौ सर्वेभ्यश्च सर्वाभ्य इत्यपि ॥८९॥ ‘शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा’ ।
इत्येवं शरणं ददौ सर्वेभ्य एव सः ॥2.219.९०॥ ‘कालमायापापकर्मशत्रुयाम्य कुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव’ ॥९ १ ॥ इत्येवं रक्षणमन्त्रं जनेभ्यः प्रददौ तदा ।
‘ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥९२॥ अनादिश्रीकृष्णानारायणः स्वामी पतिश्च मे’ ।
इत्येवं वै ब्रह्मभावमनुं ददौ च वै हरिः ॥९३ ॥ ‘बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः’ ॥९४॥ आत्मनिवेदनमन्त्रं ददावेव हरिः स्वयम् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः’ ॥९५॥ इत्येवं श्रावयामास नमस्कारार्चनं ततः ।
‘श्रीश्रीकृष्णस्य भक्तोहं श्रीहरिः शरणं मम’ ॥९६ ॥ ‘श्रीकृष्णवल्लभेशोऽयं श्रीस्वामी शरणं मम’ ।
‘श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम’ ॥९७॥ इत्येवं निजमन्त्राँश्च प्रददौ भगवान् स्वयम् ।
अथ प्रजा हरिं नत्वा पूजयामासुरादरात् ॥९८॥ श्रीसतीशनृपराज्ञी पुपूज परमेश्वरम् ।
श्रीसतीशनृपकन्यास्तिस्रो युवत्य एव तम् ॥९९॥ हरिं कान्तं मनोभाव्यं प्राप्य कण्ठे तु मालिका ।
वरमालात्मिका दत्वाऽर्पणं न्यवेदयन् स्वकम् ॥2.219.१०० ॥ हरिस्तासां करान् धृत्वा तासां नाथो बभूव ह ।
राज्ञी राजा मुमुदाते कृतकृत्याश्च कन्यकाः ॥१०१ ॥ तदुत्सवं नृपश्चक्रे यौतकं बहुधा ददौ ।
आरार्त्रिकं ततश्चक्रे राजा स भोजनं ददौ ॥१ ०२॥ महीमानान् मिष्टवर्यैर्भोजयामास वै ततः ।
विशश्राम हरी रात्रौ त्रिकन्यास्तं सिषेविरे ॥१०३ ॥ प्रातर्माङ्गल्यवाद्यैश्च गीतिकाभिः स्तवादिभिः ।
प्रबुबोध हरिकृष्णो नारायणो नराधिपः ॥१ ०४॥ कृताह्निकं कृतपूजं हरिं राजा ह्युपाययौ ।
दुग्धं वै पाययामास सर्वान् सुखेन भूपतिः ॥१०५ ॥ सिषेवे चेष्टदानाद्यैराशीर्वादानवाप च ।
तावत्तत्र समायातो नेतुं श्रीहरिमच्युतम् ॥१०६ ॥ त्रेताकर्कशराजर्षिः कर्णफालर्षिसंयुतः ।
बालावित्तकराष्ट्रेशः फान्कलाशीपुरीं प्रति ॥१ ०७॥ नेतुं समार्थयत् कृष्णं दण्डवत् प्रचकार ह ।
तथास्त्विति हरिः प्राह स्वागतं भूपतेर्नृपः ॥१०८ ॥ व्यधात्ततोऽभवत्सज्जो राधिके परमेश्वरः ।
राजा विदायं प्रददौ सैन्येन माननं ददौ ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सञ्चालानगर्यां हरेर्भ्रमणं पूजनं चोपदेशनं भोजनं रात्रौ विश्रमणं द्वितीयाप्रातर्विदायं सम्माननं चेत्यादिनिरूपणनामा नवदशाधिकद्विशततमोऽध्यायः ॥२१९॥