२१८

श्रीकृष्ण उवाच-
राधिके प्रतिपत्प्रातश्चाश्वीनकृष्णपक्षके ।
पेयिस्थायाः सन्निधौ वै महोद्याने हि कोटिशः ॥१ ॥ नृपः सैन्येन कृष्णस्य स्वागतं स्वं व्यधारयत् ।
विमानं बालकृष्णस्य दिव्यसूर्यनिभप्रभम् ॥२ ॥ जना दृष्ट्वा जयशब्दान् चक्रुर्हर्षसमन्विताः ।
राजदर्शितमार्गेणाऽवातारयद् विमानकम् ॥३ ॥ पेयिस्थाया नगर्या उद्याने ध्वजादिशोभिते ।
विमानं चाऽवर्धयँश्च प्रजा अक्षतचन्दनैः ॥४ ॥ पुष्पाञ्जलिभिश्चात्यर्थं गीतिभिः स्वागतं व्यधुः ।
अनादिश्रीकृष्णनारायणो विमानतो बहिः ॥५ ॥ आययौ च तदा सूर्याननं विलोक्य मानवाः ।
क्षणं तेजोधर्षिताश्चाऽभवैंस्ततः कृपानिधिः ॥६ ॥ चन्द्राननोऽभवच्छीघ्रं शान्तसुधाप्रवर्षणः ।
ददृशुश्च जनाः सर्वे तदा श्रीकृष्णवल्लभम् ॥७ ॥ कोटीश्वरो नृपः कृष्णकण्ठे हारं ददौ शुभम् ।
पपौ पादामृतं चापि ततोऽन्येऽपूजयन् प्रभुम् ॥८ ॥ गजे निषाद्य सर्वेशं पेयिस्थायां महापथे ।
महासैन्येन राजा सोऽभ्रामयन्मानपूर्वकम् ॥९ ॥ प्रधानैश्च तथाऽमात्यैः श्रेष्ठिभिश्च प्रजाजनैः ।
धनाम्बरैर्हीरकैश्च मौक्तिकै रत्नहारकैः ॥2.218.१० ॥ फलैः पुष्पैर्दलैर्मिष्टैः सुवर्णाद्यैश्च पूजितः ।
नीराजितो वन्दितश्च योषिद्भिः सन्निरीक्षितः ॥११ ॥ मनोहरस्वरूपः श्रीकाम्भरेयो नरायणः ।
दत्वैवं दर्शनं चायान्नृपावासं मनोहरम् ॥१२ ॥ राजा स्वमन्दिरे दिव्ये सिंहासने जनार्दनम् ।
निषाद्य चरणौ नत्वा पुरः स्वर्णायुतं न्यधात्॥१३ ॥ राज्ञी पुपूज भक्त्याढ्या चन्दनाक्षतपुष्पकैः ।
कन्ये द्वे च तदा कृष्णकण्ठे मात्राज्ञया शुभे ॥१ ४॥ वरमाले न्यधातां ते जाते पूर्णमनोरथे ।
परेश्वरं पतिं प्राप्यानन्दमग्ने बभूवतुः ॥१ ५॥ राजा भाग्यं निजं मेने सर्वश्रेष्ठं नृपाङ्गना ।
नीराजनं चकाराऽथ हरिश्चोपादिदेश ह ॥१ ६॥ क्रोधो लोभो रसास्वादो मानः स्तैन्यं च पैशुनम् ।
एते प्रमत्ताः सततं तुदन्ति पुरुषं स्त्रियम् ॥१ ७॥ एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते ।
लोभात् क्रोधः प्रभवति मानाच्च जायते भृशम् ॥१८ ॥ परदोषैस्तथा क्रोधो भवेदिच्छाविघातकः ।
अवमानाद् भवेत् क्रोधो वाक्काठिन्यश्रवात्तथा ॥१ ९॥ क्षमया क्रोधनं साधौ द्रागेव विनिवर्तते ।
क्रोधमूलं क्वचित् कामो भवत्येव वियोजितः ॥2.218.२० ॥ काममूलं तु सङ्कल्पो हेतुवृद्धौ विवर्धते ।
सेव्यमानस्तु सुतरां त्यज्यमानस्तु नश्यति ॥२१ ॥ असूया जायते मानाद् यशःखण्डनतस्तथा ।
दारिद्र्यात् स्वापकर्षाच्चाऽवनतेर्निम्नसंस्थितेः ॥२२॥ अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते ।
ज्ञानमार्गेण विहतो मोहो मूलान्निवर्तते ॥२३ ॥ विधित्सा कर्मफलिका मय्यर्पणान्न बन्धदा ।
प्रीत्या शोकः प्रभवति चेष्टावियोजनात्तथा ॥२४॥ यदा नैरर्थ्यमानं स्याच्छोकः सर्वो निवर्तते ।
पारवश्यं तृष्णया वा लोभात् कामात् सुखेहया ॥२५॥ जायते तत्तु वैराग्यान्निवर्तते समूलकम् ।
असत्याश्रयिणो नित्यं मात्सर्यं प्रविवर्धते ॥२६ ॥ साधूनां सेवनात् सत्योद्बोधात्तत्तु निवर्तते ।
अवस्थागुणसम्पत्तिकुलख्यातिकलादिभिः ॥२७॥ ऐश्वर्याद् विद्यया चापि जायते तु मदोद्भवः ।
तेषामंशं सुखदं च प्राप्याऽन्यांऽशं विवर्जयेत् ॥२८॥ एवं वै वर्तमानस्य मददुःख न जायते ।
ईर्ष्या परोन्नतिश्रैष्ठ्याऽसहिष्णुना वितन्यते ॥२९॥ उपेक्षया नाशयेद् वै संहर्षाद् वा विचारतः ।
कुत्सा सञ्जायते श्रैष्ठ्यगर्वेणाऽन्यत्र वस्तुनि ॥2.218.३ ०॥ अवस्थाभेदसाम्यज्ञः कुत्सां जयति नान्यथा ।
इति कर्तुं न शक्ता ये बलस्थाय महात्मने ॥३ १॥ असूया जायते तेषां भाग्यतुष्ट्या निवर्तते ।
कृपा सञ्जायते लोके ह्युपकारविवेकतः ॥३२॥ कृपणेषु तथाऽन्येषु दौर्गुण्येन निवर्तते ।
अज्ञानप्रभवो लोभो यत्र यत्र प्रजायते ॥३३ ॥ तत्र तत्र भावयेच्चाऽस्थिरत्वं दुःखदायिताम् ।
अनपेक्षस्वभावेन लोभोऽप्यत्र निवर्तते ॥३४ ॥ नृशंसं वर्जयेन्नित्यं विज्ञाय च यथातथम् ।
सस्पृहो गर्वितश्चाप्याक्रोष्टा च वञ्चकस्तथा ॥३५॥ शठः क्षुद्रो नैकृतिको विषमश्च विकत्थनः ।
सङ्गी मान्यसंविभागी सर्वशङ्की च निर्दयः ॥३६ ॥ कृपणो द्वेषवान् हिंसाविहारो बह्वलीककः ।
लुब्धः पाषण्डवान् निन्दाकर्ता त्वेते नृशंसकाः ॥३७॥ धर्मशीलं गुणोपेतं पापमित्यवगच्छति ।
श्रेष्ठान् पूज्यान् सतः साध्वीः स्वार्थार्थमुपहन्ति यः ॥३८॥ स्वपैशुन्यप्रमाणेन न विश्वसिति कस्यचित् ।
गुणिनां स्वल्पदोषं वा बहुत्वेन च वक्ति यः ॥३९॥ यश्चोपकारिणं मित्रं मन्यते वञ्चकं परम् ।
हितकृतेऽपि च मुहुस्तपत्येव निरर्थकम् ॥2.218.४०॥ भोजनं साधु नीत्वैव भुङ्क्ते प्रेक्षकपङ्क्तिषु ।
नारीं प्रतापयेद् यश्च पितरौ तापयेच्च यः ॥४१ ॥ एते नृशंसा ज्ञातव्यास्तेषां सङ्गं न चाचरेत् ।
सद्भ्यो दत्वा भुञ्जते ये सुहृद्भिर्बान्धवैः सह ॥४२॥ प्रेत्य लभन्ते स्वर्गं ते स्वर्गात् स्वर्गं तथोत्तरम् ।
नृशंसान् वर्धयेद् ज्ञात्वाऽऽश्रयेत् साधून् हरिं तथा ॥४३॥ निःस्वेभ्यो देयमेवेति विद्याऽन्नाऽम्बरमुत्तमम् ।
यक्ष्यमाणो दानपात्रं सर्वविद्याधरस्तथा ॥४४॥ आचार्यपितृकार्यश्च धर्मार्थदत्तजीवनः ।
एते वै साधवः प्रोक्ताः परमेशपरायणाः ॥४५॥ तेषामाश्रयणान्मोक्षो महास्वर्गादिकार्जनम् ।
सर्वैश्वर्यप्रलाभश्चेश्वरभावस्तदाश्रयात् ॥०६॥ मद्रूपः साधवस्ते वै येषु मे सद्गुणाः शुभाः ।
मद्गुणो वै मदंशोऽस्ति नरो नारायणाह्वयः ॥४७॥ त्यक्तव्याँश्च जनान् वच्मि येषां सङ्गो भयावहः ।
लुब्धं क्रूरं धर्महीनं मम भक्तिविवर्जितम् ॥४८॥ निकृतिं च शठं क्षुद्रं पापाचारं विवर्जयेत्॥ अलसं सर्वशङ्कं च दीर्घसूत्रं विवर्जयेत् ॥४९॥ अनृजुं च सदा क्रुष्टं गुरुदारप्रधर्षकम् ।
व्यसनेयं दुरात्मानं पितृहं निरपत्रपम् ॥2.218.५० ॥ सर्वतः पापचक्षुष्कं नास्तिकं निन्दकं खलम् ।
असंयमेन्द्रियं कामासक्तं प्रमत्तमुत्सृजेत्॥५१ ॥ असद्वृत्तं च विद्विष्टं समये चाऽनवस्थितम् ।
पिशुनं चाऽकृतप्रज्ञं मत्सरिणं च पापिनम् ॥५२॥ दुःशीलं चाऽकृतात्मानं कितवं च नृशंसकम् ।
मित्राऽपकृतिकं चान्यद्रव्यार्थलालसान्वितम् ॥५३॥ दानद्वेषिणमेवापि चासन्तुष्टं परित्यजेत् ।
अधीरं बलखण्डं चाऽस्थानक्रोधपरायणम् ॥५४॥ अयुक्तं चाऽविवेकं चाऽकस्माद् विरोधिनं त्यजेत् ।
अकल्याणकरं दुष्टं व्यसनाढ्यं विवर्जयेत् ॥५५॥ अपकारपरं मूढं पुण्यप्रध्वंसकारकम् ।
शत्रुर्मित्रमुखो यश्च मित्रद्वेषी सुहृत् त्वपि ॥५६॥ जिह्मप्रेक्षी स्वार्थमात्रमेलनो यशसां क्षयी ।
प्रत्यक्षे शंसको यश्च परोक्षे निन्दको नरः ॥५७॥ स्वार्थे मृदुः कृते स्वार्थे स्तब्धो यस्तान् परित्यजेत् ।
पानपं द्वेषिणं ऋद्धं निर्घृणं परुषं त्यजेत् ॥५८॥ परतापकरं प्राणिवधे रक्तं कृतघ्नकम् ।
अधमं छिद्रपश्यं च दूरतो वर्जयेत् सुधीः ॥५९॥ तेन हानिर्न वै लोके नात्मविक्षेपणं क्वचित् ।
बुद्धिनाशो न चैवापि नाभ्युदयेऽस्य विघ्नता ॥2.218.६०॥ एवं परीक्ष्य मतिमान् साधून् हितान् समाश्रयेत् ।
कुलीनान् ज्ञानसम्पन्नान् कोविदान् सुबहुश्रुतान् ॥६ १ ॥ गुणोपेतानलुब्धाँश्चाऽजितान् जितश्रमाँस्तथा ।
सन्मित्राणि कृतज्ञाँश्च सर्वज्ञान् लोभवर्जितान् ॥६२॥ माधुर्यगुणसम्पन्नान् सत्यसन्धान् जितेन्द्रियान् ।
व्यायामशीलान्निर्दोषान् सदाचारान् समाश्रयेत् ॥६३॥ नाऽस्थाने क्रोधिनश्चाप्यकस्मान्नैव विरागिणः ।
विरक्ताँश्चार्थवेतॄँश्च सुहृत्कार्यपरायणान् ॥६४॥ विश्वस्तान् घातहीनाँश्च रक्षकान् धर्मवत्सलान् ।
लोष्टकाञ्चनतुल्यार्थान् सुहृदो दृढबुद्धिकान् ॥६५॥ स्वाम्यर्थं कृतसर्वस्वान् श्रयेद् विचार्य सज्जनान् ।
ईदृशैर्भगवद्भक्तैर्यः सन्धिं कुरुते जनः ॥६६॥ तस्य नित्यं भवेच्छ्रेयः कल्याणं मोक्षणं तथा ।
शास्त्रनित्या जितदोषाः सन्तोषिणो हरिस्थिताः ॥६७॥ शीलशान्तिगुणोपेताः सन्धेयाः पुरुषोत्तमाः ।
नृशंसाश्च तथा दुष्टा ये चोक्ताश्च ततोऽधमाः ॥६८॥ कृतघ्ना मित्रघाताश्च त्यक्तव्या धर्मवर्जिताः ।
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ॥६९॥ अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ।
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ॥2.218.७०॥ मित्रध्रुङ् नरकं घोरं दुःखं याति विपत्तिदम् ।
कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह ॥७१ ॥ मित्राच्च लभते सर्वं मित्रात् पूजां प्रपद्यते ।
मित्राद्भोगानवाप्नोति गित्रादापद् विनश्यति ॥७२॥ मित्राणि साधवो लोके जीवानां पापनाशकाः ।
वासनाक्षालकाश्चापि स्वर्गमोक्षप्रदास्तथा ॥७३ ॥ भवमृत्युहरास्ते च शरणागतरक्षकाः ।
सर्वथा दुःखहर्तारो दयालवोऽतिसात्त्विकाः ॥७४॥ नरैश्चाबालवृद्धैश्च नारीभिः शीलशोभनाः ।
सेवनीयाः सदा सन्तः सर्वदोषविवर्जिताः ॥७५॥ दिव्या दिव्यगुणोपेता आश्रितदिव्यताप्रदाः ।
अनादिश्रीकृष्णनारायणस्य मेऽनुसेवकाः ॥७६॥ यत्प्रसादोऽपि दिव्योऽस्ति दर्शनं दिव्यमेव च ।
स्पर्शनं दिव्यमेवाऽपि सेवनं दिव्यमित्यपि ॥७७॥ वन्दनं वर्तनं चाज्ञापालनं चरणामृतम् ।
सर्वं दिव्यं दिब्ययोगात्ते सेव्याः सततं जनैः ॥७८॥ नैतादृशं परं पुण्यं परो धर्मोऽपि नेदृशः ।
पराभक्तिश्च मे साधौ साधवो भवतारकाः ॥७९॥ इत्युपादिश्य भगवान् ददौ मन्त्रान् सुवैष्णवान् ।
भोजनं कारयामास राजा कोटीश्वरो हरिम् ॥2.218.८० ॥ महीमानाँस्तथा सर्वान् ताम्बूलानि ततो ददौ ।
दक्षिणाः स्वर्णमुद्राद्या ददौ चौर्णाम्बराण्यपि ॥८ १॥ मध्याह्नोत्तरवेलायां कुष्ठकर्षिस्तदा हरिम् ।
आर्थयन्निजराष्ट्रं त्वागन्तुं पारूपनामकम् ॥८२॥ श्रीसतीशो नृपः पूर्वं गतोऽभूत् स्वागताय च ।
हरिस्तथाऽस्त्विति प्राह सज्जोऽभवद् द्रुतं तदा ॥८३॥ कोटीश्वरो नृपः प्रादाद् यौतकं च धनं बहु ।
विदायं स्वर्णरत्ननादि हरिः प्राप्य निजान्वितः ॥८४॥ आरुरोह विमानं च प्रससार पुरोदिशम् ।
तदा विदायवाद्यानि ह्यवाद्यन्त नृपाज्ञया ॥८५॥ जयशब्दाः प्रजाभिश्च कृताः कृष्णो नतो जनैः ।
वर्धितो भावनाभिश्च ययावम्बरमार्गतः ॥८६॥ पारूपराष्ट्रमायाच्च सञ्चालानगरीं प्रति ।
महोद्याने राजसौधे राजा सैन्यसमन्वितः ॥८७॥ स्वस्थोऽभूत् स्वागतार्थं वै विमानं त्वागतं द्रुतम् ।
सूर्यतुल्यं विलोक्यैव प्रजाः सैन्यानि चाभितः ॥८८॥ जयशब्दान् प्रचक्रुश्च दर्शयामासुरानतिम् ।
ध्वजान् पताकिकाँश्चापि दर्शयामासुरुत्सुकाः ॥८९॥ चन्द्रतुल्या गृहचित्रा वावटिकाश्च वावटान् ।
दर्शयामासुराकाशे यशोश्लोकसमन्वितान् ॥2.218.९० ॥ राजदर्शितमार्गेण विमानं श्रीहरिस्तदा ।
उद्याने मन्दिराग्रेऽवातारयच्छनकैः स्थले ॥९१ ॥ प्रजाभिस्तु विमानं तत् पुष्पपत्रादिभिः शुभम् ।
वर्धितं पूजितं चापि नतं प्राञ्जलिभिस्तदा ॥९२॥ श्रीहरिस्त्वाययौ चाग्रे विमाने कृपया द्रुतम् ।
दातुं स्वदर्शनं सर्वलोकेभ्यः परमेश्वरः ॥९३ ॥ सूर्यनिभोऽतितेजस्वी चन्द्रशीतलमानसः ।
पद्माक्षः प्रेमभृन्नेत्रो मन्दहास्याननो हरिः ॥९४॥ तेजःपरिधिसंव्याप्तविग्रहः कानकीप्रभः ।
कोटिकन्दर्पसौन्दर्यो वात्सल्यवारिधिः प्रभुः ॥९५॥ जनेभ्यो दर्शनं प्रादाज्जग्राह नमनादिकम् ।
भावनां हृदयैर्दत्तां स्वीचकार हृदा तदा ॥९६॥ अथ राजा पुष्पहारान् स्वर्णहारान् गले ददौ ।
शीतसुगन्धसाराँश्च सिषेच मस्तकादिषु ॥९७॥ करे ददौ पुष्पगुच्छान् तिलकं कैसरं व्यधात् ।
पादप्रक्षालनं चक्रे प्रसादामृतमापपौ ॥९८॥ राज्ञी तस्याऽपूजयच्च श्रीपतिं पार्वतीपतिम् ।
आरार्त्रिकं व्यधात् तत्र विमाने बहुवर्तिकम् ॥९९॥ पूजाश्चक्रुः पूजनं च हारावल्यादिभिस्तदा ।
अथ कृष्णः पपौ वारि शीतलं मधुरं तदा ॥2.218.१०० ॥ राधिकेऽथ तदा सैन्यं सञ्चालानगरीं प्रति ।
सज्जं ह्यभूत् हरिं भ्रामयितुं राजा समुत्सुकः ॥१० १॥ भगवान् श्रीबालकृष्णो विमानादवरुह्य च ।
शृङ्गारिते गजे श्वेते स्वर्णासने ह्युपाविशत् ॥१०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पेयिस्थानगर्यां भ्रमणं पूजनं चोपदेशनं भोजनं विदायं ततः सायं पारूपराष्ट्रागमनं पूजनं चेत्यादिनिरूपणनामाऽष्टा-
दशाधिकद्विशततमोऽध्यायः ॥२१८ ॥