२१६

श्रीकृष्ण उवाच-
राधिके पञ्चदश्यां वै प्रभाते बालकृष्णकः ।
मङ्गलैर्गीतिकाभिश्च वाद्यैर्बुबोध संस्तवैः ॥१ ॥ कृतस्नानः कृतपूजः कृतदुग्धादिपानकः ।
सिंहासने निषसाद पितरावभिवन्द्य च ॥२ ॥ तावद्राजा समायातः पूजनार्थं हरेः पुरः ।
ददौ वै मुकुटं मूर्ध्नि कुण्डले कटके तथा ॥३ ॥ सुवर्णस्योर्मिकाश्चापि शृङ्खलां मौक्तिकस्रजम् ।
रत्नहीरकहाराँश्च द्रव्यं लक्षाधिकं ददौ ॥४ ॥ आत्मार्पणं ददौ चापि पुष्पहारान् ददौ तथा ।
पादौ प्रक्षाल्य च पपौ राजा सम्बन्धिसंयुतः ॥५ ॥ नीराजनं चकाराऽथ ननाम पाहि मां जगौ ।
राज्ञी पूजां यौतकं च ददौ वव्रेऽवनं सदा ॥६ ॥ एवंस्थिते तु तद्भ्राता कालीमण्डलिनाग्रजः ।
पूर्वराज्यप्रशास्ता वै वनजेलेशभूपतिः ॥७ ॥ वनज्वालाप्रदेशेशः सानुज्योष्ट्रीपुरीपतिः ।
आययौ स्वविमानेन समानेतुं हरिं तदा ॥८ ॥ आगत्य दण्डवच्चक्रे पुष्पमालां गले न्यधात् ।
आर्पयत् स्वर्णपात्रे च सौवर्णमुद्रिकाशतम् ॥९ ॥ प्रार्थयच्च प्रदेशान् स्वान् पावयितुं परेश्वरम् ।
हरिस्तथास्त्विति प्राह सज्जोऽभवत् क्षणान्तरे ॥2.216.१ ०॥ चक्रे कालीमण्डलीनो नृपो विदायमाननम् ।
अर्हणां महतीं चक्रे चन्दनाऽक्षतकुङ्कुमैः ॥१ १॥ द्रव्यैर्नानाविधै रत्नैर्हारैः शेखरकुण्डलैः ।
यौतकैश्चोपदाभिश्च नीराजनं ततोऽकरोत् ॥१२॥ हरेः सार्थस्य पूजां च कृत्वा सैन्येन तूर्यकैः ।
जयनादैस्तथा मानं विदायं श्रीहरेर्व्यधात् ॥१ ३॥ श्रीहरिः स्वविमानस्थोऽभवत्तत्र तदाम्बरे ।
प्रजास्तु दर्शनं चक्रुर्नेमुस्तुष्टुवुरुत्सुकाः ॥१४॥ आगन्तव्यं रक्षितव्या वयमाहुः पुनः पुनः ।
हरिर्दर्शितमार्गेण व्योम्ना विमानमैरयत् ॥१५॥ राकासनो महर्षिश्च राजगुरुविमानके ।
सार्धं कृष्णेन चायाति राजा पूर्वं ययौ पुरीम् ॥१६॥ सम्मानार्थं हरेस्तत्र सैन्यं सज्जं ह्यभूत् तथा ।
प्रजाः सर्वाः साक्षताश्च पुष्पमालासमन्विताः ॥१७॥ स्वागतार्थं महोद्याने सानुज्योष्ट्रीसमीपतः ।
पुरःस्थिता अभवँश्च प्रतीक्षन्त्यो हरेर्दिशम् ॥१८॥ गुरुः कालीमण्डलीनस्य पूर्णासनको मुनिः ।
आययौ हरिणा सार्धं तथा राकासनो मुनिः ॥१९॥ व्योम्नि प्रजा विमानं वै समालोक्याऽतिहर्षिताः ।
राजा सैन्येन सहितः स्वागतं वाद्यनादनैः ॥2.216.२०॥ चकार जयशब्दैश्च ध्वजः पताकिकादिभिः ।
नमनैः पुष्पदानैश्च गीतिकाभिश्च मङ्गलैः ॥२१ ॥ विमानं भूतले स्थैर्यमाप्तं हरिर्बहिर्ययौ ।
राजा ददौ बालकृष्णकण्ठे पौष्पीः स्रजः शुभाः ॥२२॥ पादयोश्च जलैश्चक्रेऽभिषेचनं तदमृतम् ।
पपौ कुटुम्बसहितो दण्डवत् प्रचकार ह ॥२३॥ राज्ञी नेमे कम्भरायै महालक्ष्म्यै पुपूज ताम् ।
गोपालकृष्णं पितरं पुपूज नृपतिस्ततः ॥२४॥ कुटुम्बं ब्रह्मकान्ताश्च पुपूजुश्च कुटुम्बिनः ।
हस्तियाने हरिं राजा न्यषादयत् सुवर्णजे ॥२५॥ तथाऽन्यानश्वगन्त्र्यादौ शिबिकादौ न्यषादयत् ।
हारशेखरगुच्छाद्यैः सम्पूज्य सैन्यसंयुतः ॥२६॥ वाद्यघोषैः कीर्तनैश्च निन्ये पुर्यां हरिं नृपः ।
गोपुरे पूजयामासुः राजकुमारकाः पृथक् ॥२७॥ चत्वरे श्रेष्ठिनश्चापि प्रधाना महति स्थले ।
प्रातिरथ्यं पूजनं च हरेस्तत्र प्रजा व्यधुः ॥२८॥ प्रमदा हारपुष्पाद्यैश्चन्दनाऽक्षतसत्फलैः ।
कुङ्कुमैः पूजयामासुर्हृदयैर्भावनादिभिः ॥२९॥ अम्बरैश्च तथा भूषाभिश्च द्रव्यैः सुवर्णकैः ।
पादस्पर्शैर्मस्तके च दुःखहावर्धनैरपि ॥2.216.३ ०॥ अञ्जलिभिश्चक्षुषां च भावनाभिरपूजयन्।
दृष्ट्वा कान्तं बालकृष्णं रूपरूपातिशोभितम् ॥३ १ ॥ दध्युर्वै हृदये कान्ता अविस्मरणशाश्वतम् ।
अपरा दूरतः स्थित्वा लोकयामासुरच्युतम् ॥३२॥ दिव्यतेजोमयं शान्तं कोटिकन्दर्पसुन्दरम् ।
कृष्णं राधादिसहितं गोपगोपीगणार्चितम् ॥३३॥ तथाऽन्यास्तं चतुर्हस्तं नारायणं रमार्चितम् ।
लोकयामासुरेवेशं चेतरा बदरीपतिम् ॥३४॥ तापसं श्रीहरिं कृष्णं परास्तु शेषशायिनम् ।
काश्चिदन्याः सूर्यसंस्थं हिरण्मयं प्रभुं हरिम् ॥३५॥ तथाऽन्या वह्निमध्यस्थं दिव्यं सत्पुरुषं प्रभुम् ।
युवत्यो ददृशुः कान्तं पूर्णकामसुखप्रदम् ॥३६॥ भक्ता ददृशुस्तं देवं महाऽक्षरनिवासिनम् ।
प्रजा नरास्तथा नार्यो ददृशुर्विष्णुरूपिणम् ॥३७॥ राधारमासतीवृन्दातुलसीश्रीप्रसेवितम् ।
रमापद्मावतीहासामञ्जुलासद्गुणार्चितम् ॥३८॥ माणिकीदुःखहालक्ष्मीदुर्गिकाकमलार्चितम् ।
ददृशुर्बहुधा तत्र हस्तियानगतं हरिम् ॥३ ९॥ ब्रह्मप्रियादिभिश्चापि पिशङ्गिनीप्रपूजितम् ।
गौरीभिश्चामरीभिश्च कन्याभिरर्चितं प्रभुम् ॥2.216.४०॥ ददृशुर्वै योषितश्च दिव्यं श्रीहरिमेव ताः ।
एवं हरिर्ददौ नैजं दर्शनं बहुधा तदा ॥४१ ॥ सानुज्योष्ट्रीनगर्यां वै प्रजाभ्यो विहरन् मुहुः ।
एवं भ्रमित्वा नगरीं राजसौधं समाययौ ॥४२॥ सिंहासने व्यराजच्च राज्ञी पूजां चकार ह ।
जलपानं ददौ चापि तस्यास्तु पञ्चकन्यकाः ॥४३॥ पुपूजुः श्रीपतिं कान्तं सुन्दरं मनसेप्सितम् ।
वरमालां न्यधुः कण्ठे कृष्णस्य पारिजातिकीम् ॥४४॥ वव्रिरे तमलभ्यं वै सुलभं स्वगृहागतम् ।
कृतकृत्या अभवँश्च प्राप्य कान्तं हरिं च ताः ॥४५॥ नृपो राज्ञी कुमाराश्च सद्भाग्यं मेनिरे निजम् ।
राजोत्सवं चकारापि मध्याह्ने भोजनं ददौ ॥४६॥ भुक्त्वा सार्थाः सुविश्रान्तिमापुस्त्रिवादनोत्तरम् ।
यौतकं च विदायं च ददौ राजा तु शार्ङ्गिणे ॥४७॥ दर्शनार्थं नरा नार्यश्चाययुश्च तदाऽऽलयम् ।
तेभ्यो हरिर्ददौ बोधं मन्त्रं च वैष्णवं शुभम् ।४८॥ बलं सदा हरेः रक्ष्यं सर्वसौख्यप्रदं नृणाम् ।
आपत्काले मृत्युकाले यमकाले ह्यसद्गतौ ॥४९॥ गतिरेव बलं मेऽस्ति चापदादिनिवारकम् ।
शाल्मलिर्बलहीनोऽपि पुरा ब्रह्माश्रयाज्जयी ॥2.216.५० ॥ अभवद् वायुदेवस्य कृत्वा पराभवं खलु ।
हिमाचले महानासीद् वृक्षः शाल्मलिसञ्ज्ञकः ॥५१ ॥ शाखी स्कन्धी च पत्री च पशुपक्ष्याश्रयप्रदः ।
पुष्पफलादिभिः क्षुद्वारकश्चाश्रयिणामपि ॥५२॥ विशालां प्रति गच्छन् वै नारदस्तं विशालिनम् ।
पप्रच्छ त्वं कथं वृक्ष निर्भयो वर्तसे सुखी ॥५३ ॥ वायुना तव शाखां च भग्नां पश्यामि नैव यत् ।
किन्नु ते पवनश्चास्ते मित्रं यस्त्वां प्ररक्षति ॥५४॥ महाबलो हि पवनः पर्वतानपि नाशयेत् ।
स त्वां त्यक्त्वा वर्ततेऽत्र ततो हेतुर्भविष्यति ॥५५॥ हस्तिनो गवयाश्चान्ये मृगास्तिष्ठन्ति ते ह्यधः ।
शोभसे त्वं परसेव्यश्चोपकारी हि सर्वथा ॥५६॥ तर्कये पवनस्तेऽस्ति बन्धुः सखाऽथवा सुहृत्॥ यद्वा त्वं पवनस्य स्याच्छरणागत एव ह ॥५७॥ श्रुत्वा तु शाल्मलिः प्राह न मे वायुः सखा सुहृत् ।
न बन्धुर्न शरण्यश्च येनाऽहं रक्षितोऽभवम् ॥५८॥ मम तेजो बलं श्रेष्ठं वायोश्चाष्टादशाधिकम् ।
तेन विष्टम्भितो वायुर्मयैवं स पराकृतः ॥५९॥ तस्माद् बिभेमि वायोर्न कुद्धात्वा वेगवत्तमात् ।
नारदस्तु तदा प्राह महाश्चर्यमिदं श्रुतम् ॥2.216.६० ॥ वरुणो यमराजश्च कुबेरो न मरुत्समाः ।
सर्वचेष्टाकरो वायुस्तं त्वं वै जीतवान् यतः ॥६ १ ॥ यद्वा मिथ्या भाषसे त्वं द्रुपते बुद्धिलाघवात् ।
कथयिष्येऽनिलं गत्वा तव दुर्भाषितं खलु ॥६२॥ पर्वतैः सागरैश्चापि ग्रहैर्वा देवपादपैः ।
नैव क्षिप्तः कदाचिद्वै वायुर्यथा त्वयोदितः ॥६३॥ ते तं सर्वे नमस्यन्ति त्वं मोहात् कत्थसेऽफलम् ।
इत्युक्त्वा नारदश्चायाद् यत्र वायुः स्थितोऽभवत् ॥६४॥ शाल्मलिवचनान्याह व्याक्षेपसम्भृतानि तम् ।
श्रुत्वा तु पवनस्तत्राऽऽययौ यत्र हि शाल्मलिः ॥६५॥ क्रुद्धः प्राह त्वया वृक्ष नारदाय विगर्हणम् ।
मम प्रोक्तं यतस्त्वां दर्शये बलं स्थिरो भव ॥६६॥ पितामहः प्रजासर्गे त्वयि विश्रान्तवान् यतः ।
त्वां त्यजामि सदा वेगेन स्पृशामि हरामि च ॥६७॥ तद्गुणं त्वं परित्यज्य बलं त्वग्रे करोषि मे ।
समूलं त्वां नयिष्येऽद्य वंशविस्तारवर्जितम् ॥६८॥ एवमुक्तः शाल्मलिश्च प्राह मे भयमेव न ।
यथाबलं समायाहि त्यज्यतां क्रोधनं मयि ॥६९॥ न मे भयं तव वायो बलं मेऽस्ति त्वदूर्जितम् ।
ये तु बुद्ध्या हि बलिनस्ते सत्यं बलिनः सदा ॥2.216.७०॥ देहमात्रबला नैव बलिनो वै यथार्थतः ।
इत्युक्तः पवनः क्रुद्धो झञ्झावातमयोऽभवत् ॥७ १ ॥ शाल्मलिस्तं विलोक्यैव शातयामास वै निजान् ।
दलान् शाखाः कुसुमानि फलानि स्वल्पशाखिकाः ॥७२॥ तस्थौ दण्डसमो भूत्वा पवनः किङ्करिष्यति ।
तावद्वायुश्चातिवेगी ददर्श हीनशाखकम् ॥७३ ॥ शीर्णपर्णदलाद्यं प्रोवाच वनस्पतिं हसन् ।
पश्य मे बलमैश्वर्यं यद्भयात् त्वं विशीर्णितः ॥७४॥ ब्रह्माश्रयात्तथा मेऽत्र कृपालेशादभूः सुखी ।
महतामाश्रयं त्यक्त्वा महान्तमवमन्यसे ॥७५॥ ततस्त्वं दुःखितो जातो वंशविस्तारवर्जितः ।
त्वां भक्तुं प्रसमर्थोऽस्मि मा गर्वं वह वै क्वचित् ॥७६॥ उत्खातुं च समर्थोऽस्मि मा गर्वं वह निष्फलम् ।
एवमुक्त्वातिवेगात्मप्रवाहेण ववौ बलात् ॥७७॥ वक्रीभूतोऽभवत् स्तम्बो भङ्क्तुं च तत्परोऽभवत् ।
उत्खातुं च भुवः कम्पोऽभवद् वायुप्रवेगतः ॥७८॥ शाल्मलिस्तु तदा नम्रो ब्रह्माणं स्मृतवान् हृदि ।
ननाम वायवे चापि ब्रह्मा शीघ्रमुपाययौ ॥७९॥ अभयं प्रददौ वायुर्निर्वेगो ह्यभवत्तदा ।
पूजितौ देववर्यौ तौ ययतुश्च निजस्थलीम् ॥2.216.८०॥ इत्येवं बलहीनोऽपि देही वृक्षजडोऽपि च ।
यदि मां ब्रह्मधामानं समाश्रयति कानने ॥८ १॥ मायामयेऽपि तमहं रक्षामि मायिकानिलात् ।
कालाच्च कर्मणश्चापि यमदूतादवामि च ॥८२॥ मद्बलं मम साधूनां बलं त्यजति चेत् पुमान्।
वायुरूपाः कालकर्ममायास्तं नाशयन्ति वै ॥८३॥ पत्रं पुष्पं फलं शाखाः पौत्रान् धनं सुखं सुतान् ।
त्यक्त्वापि संश्रयेत् साधून् भयं तस्य न विद्यते ॥८४॥ सर्वत्यागेऽपि चेन्नास्ति ममाश्रयस्तदा भयम् ।
कालानिलाद् भवत्येव तस्मान्ममाश्रयं लभेत्॥८५॥ इत्यादिष्टाश्च राजाद्याः प्रजाजना नराः स्त्रियः ।
चक्रुः श्रीमद्बालकृष्णाश्रयं मनुं च जगृहुः ॥८६॥ जगृहुस्तौलसीं कण्ठीं मूर्तिं हरेश्च जगृहुः ।
पुपूजुः श्रीहरिं प्रेम्णा तथेशानादिकानपि ॥८७॥ जलपानं व्यधाच्चापि विश्रान्तिमाप यावता ।
तावद् राजा विमानेन पारावारपिबाभिधः ॥८८॥ अम्बिकर्षियुतश्चायान्नेतुं कृष्णं स्वराष्ट्रके ।
प्रार्थयद्बहुधा त्वीशं कृष्णस्तथेत्यमानयत् ॥८९॥ सज्जोऽभवत्तदा शीघ्रं ततो विदायकं नृपः ।
यौतकं च ददौ मानं वनज्वालेशभूपतिः ॥2.216.९०॥ प्रजाभिर्भूभृता सम्मानितः श्रीभगवाँस्ततः ।
विमानगोऽभवच्छीघ्रं व्योममार्गे विमानकम् ॥९ १॥ सम्मानेन ययौ राष्ट्रं गतैनसं पवित्रकम् ।
गतैनाराष्ट्रके राजा सम्मानार्थं ययौ पुरा ॥९२॥ कायन्याख्यनगर्याः सन्निधौ चाब्धेस्तटे तदा ।
महाविशाले भूदेशे महोद्याने महालये ॥९३॥ सैन्येन सहितो राजा सम्मानं स्वागतं व्यधात् ।
विमानं चागतं शीघ्रं चावातरत् सुभूतले ॥९४॥ प्रजा राजा तथा चान्ये जयशब्दान् जगुस्तथा ।
सैन्यानि नेमिरे कृष्णं प्रजाश्चक्रुश्च वर्धनम् ॥९५॥ माङ्गलिकसुतूर्याणां निनादास्त्वभवन् मुहुः ।
कृष्णं द्रष्टुं प्रजाः सर्वा नरा नार्यः समन्ततः ॥९६॥ आजग्मुस्तत्र सुखदे महोद्याने मुदान्विताः ।
पुष्पहारादिभिर्युक्ता लाजाऽऽक्षतादिशोभिताः ॥९७॥ प्रेम्णा हलहलाशब्दैर्गोगोशब्दातिहर्षिताः ।
सवेगाः कक्षबालाश्च नार्योऽपि द्रुतमाययुः ॥९८॥ मेदिनी द्यौरिवाऽऽसीद्वै तदोज्ज्वलप्रजायुता ।
हरिर्विमानतस्तूर्णं त्वग्रे बहिः समाययौ ॥९९॥ राजा ननाम चरणे पुष्पहारं गले ददौ ।
राज्ञी पुपूज पुष्पाद्यैर्जलं चामृतवद् ददौ ॥2.216.१०० ॥ प्रधाना नेमिरे चापि पुष्पहारैः समार्चयन् ।
हरिर्जग्राह सर्वेषां नमस्कारादिमाननम् ॥१०१ ॥ स्वागतं स्वीचकारापि मधुपर्कादिकं शुभम् ।
फलं जलं पयश्चापि यददाद्वै प्रजाजनः ॥१ ०२॥ राधिके वीक्ष्य कमलाकान्तं मनोहरं प्रभुम् ।
वृत्तयो निश्चलभावं प्रापुस्तत्र हि योषिताम् ॥१ ०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः पञ्चदश्यां प्रभाते प्रबोधनं कृताह्निकत्वं पूजनं ततो वनज्वालाराष्ट्रगमनं सानुज्योष्ट्रीनगर्यां भ्रमणं पूजनं दिव्य-
दर्शनमुपदेशनं भोजनं ततो गतैनसराष्ट्रगमनं स्वागतं चेत्यादिनिरूपणनामा षोडशाधिकद्विशततमोऽध्यायः ॥२१६ ॥