२१५

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽब्धिस्थे द्वीपे कूपेशभूपतिः ।
सम्मानं श्रीहरेश्चक्रे क्यूबाख्ये बहुशोभिते ॥१ ॥ जलयन्त्रैर्वाहनैश्च नौकाभिश्च प्रजास्तदा ।
हवानाया नगर्याः सन्निधौ तूद्यानकेऽगमन् ॥२ ॥ विमानं त्वब्धितीरस्य सन्निधौ भूतले शुभे ।
अवातरत् ततो राजा श्रीकृष्णसन्निधिं ययौ ॥३ ॥ ननाम पादयोश्चापि पुष्पहारान् ददौ गले ।
राज्ञी पुपूज देवेशं पुष्पलाजाऽक्षतादिभिः ॥४ ॥ हेयतायनराजर्षिः पुपूज परमेश्वरम् ।
नगर्यां श्रीहरिं राजा भ्रामयामास वाहनैः ॥५ ॥ सुवर्णशकटीमध्ये निषाद्य छत्रचामरैः ।
शोभितं श्रीहरिं लोकाः पूजयामासुरादरात् ॥६ ॥ द्रव्यैः फलैश्चाम्बराद्यै रत्नैश्चन्दनकेसरैः ।
पूगीफलादिभिर्नारिकेलैश्च शर्करादिभिः ॥७ ॥ ततः कृष्णं तु नौकायां निषाद्य भूपतिः स्वयम् ।
अब्धौ विहारयामास द्वीपस्य सन्निधौ तदा ॥८ ॥ अथ भोजनवेलायां मध्याह्ने भोजनं व्यधात् ।
भगवान् सार्थयुक्तो वै तदा राज्ञी समागता ॥९ ॥ पूजनार्थं हरिं तत्र तत्पुत्रीं हरये ददौ ।
ताम्बूलं कान्तमालां च कण्ठे न्यधाद्धरेर्हि सा ॥2.215.१० ॥ कन्या प्राप्य पतिं कृष्णं कृतकृत्या बभूव सा ।
माता चातिप्रसन्नाऽभूद् राजोत्सवं चकार ह ॥१ १॥ ततो विश्रान्तिमापाऽयं भगवान् भवनोत्तमे ।
अथाऽऽयाद् दर्शनार्थं हि कन्याया मातुलो नृपः ॥१२॥ कुलम्बायनराष्ट्रेशो विगोष्ठानगरीपतिः ।
नाम्ना कालीमण्डलीनः पुपूजापि स माधवम् ॥१३ ॥ श्रीहरिं चार्थयामास स्वराष्ट्रगमनाय हि ।
हरिस्तथास्त्विति प्राह तदा सज्जोऽभवद् द्रुतम् ॥१४॥ कूपेशश्च विदायं श्रीहरये यौतकं ददौ ।
ययौ कालीमण्डलीनः पूर्णासनर्षियुक् पुरः ॥१५॥ भगवान् स्वविमानस्थो व्योम्ना ययौ विगोष्ठिकाम् ।
समुद्रं समतीत्यैव सायं त्ववाप तां पुरीम् ॥१६॥ राजा सैन्येन सहितः सम्मानं बहुधा व्यधात् ।
अवाततार भगवान् विगोष्ठिकान्तिकक्षितौ ॥१७॥ प्रजास्तं वर्धयामासुरत्यर्थं चाक्षतादिभिः ।
भगवान् स्वविमानाच्चाऽवतीर्यार्पितकाञ्चने ॥१८॥ निषसादासने दिव्ये राजा ननाम पादयोः ।
पुष्पस्रजो ददौ कण्ठे गन्धसारं ददौ तथा ॥१९॥ ताम्बूलकं जलं चापि ददौ सार्थेभ्य इत्यपि ।
सैन्येन सहितो राजा भ्रामयामास वाहनैः ॥2.215.२० ॥ गजाश्वशकटीभिश्च तथा मानववाहनैः ।
विगोष्ठाख्यनगर्यां वै प्रजाः पुपूजुरच्युतम् ॥२१ ॥ गजयाने स्थितं कृष्णं पितरौ च कुटुम्बकम् ।
ईशानं लोमशं चापि सतीं लक्ष्म्यादिकास्तथा ॥२२॥ अश्वयानस्थिताँश्चान्यान् सेवकानृषिसत्तमान् ।
ब्रह्मप्रियादिकाः सर्वाः शिबिकास्थाश्च योषितः ॥२३ ॥ प्रजाः प्रधाना विप्राद्याः श्रेष्ठिनो धनिनस्तथा ।
दीना नराः स्त्रियः सर्वाः पुपूजुश्च यथाधनम् ॥२४॥ नमनैः स्तवनैश्चापि हृदयैर्नेत्रकैः करैः ।
भावनैः पुष्पहाराद्यैः फलैश्च शर्करादिभिः ॥२५॥ पुपूजुः परमेशानं प्राप्तं दिव्यगुणोदधिम् ।
एव नगरीं सर्वां तां भ्रमित्वा भगवान् प्रभुः ॥२६॥ आययौ चार्षितावासं सभां चकार शोभनाम् ।
उपदेशं ददौ तत्र योग्यं योग्यतरं हरिः ॥२७॥ येषां देवेऽस्ति विश्वासस्तेषां फलति विश्वसृट् ।
येषां नास्ति तु विश्वासस्तेषां फलं न जायते ॥२८॥ भवतां चातिविश्वासात् प्राप्तिर्मेऽत्र सुखावहा ।
जाता कालीमण्डलीनभूभृता द्वाररूपिणा ॥२९॥ अहं चास्मि परेशो वै सर्वावतारधृक् प्रभुः ।
परब्रह्म हृदयस्थश्चान्तर्यामी फलप्रदः ॥2.215.३ ०॥ पूजने सेवने चापि दर्शने वन्दनेऽर्पणे ।
पादसंवाहने दाने फलदोऽस्मि न संशयः ॥३ १ ॥ मम भक्तो महादेवः पुरा बालमजीवयत् ।
विश्वस्तानां जम्बुकस्य वाक्यादपीति तत्तथा ॥३२॥ देवा विश्वासपूज्याश्च नृपा विश्वासवर्तिनः ।
शरणागतिमाप्तानां विश्वासः प्रथमा स्थितिः ॥३३॥ वरणं च ततः प्रोक्तं चार्पणं च ततः परम् ।
दीनवत् सेवनं चापि स्थैर्यभावस्ततः परम् ॥३४॥ यथा यथा हरिस्तुष्येत्तथा तथाऽनुवर्तनम् ।
न तुष्येत्तु यया रीत्या तस्या तस्या विवर्जनम् ॥३५॥ एवमादीनि कर्माणि साधनानि विमुक्तये ।
सन्तीह मानवे भावे सर्वत्रापि तथा स्थितिः ॥३६॥ तस्मात् सेव्योऽहमेवात्र मुक्तये स्मृद्धये सुराः ।
शाश्वतानन्दलाभाय सेव्योऽहं परमेश्वरः ॥३७॥ श्रद्धया सेवितश्चाहं विश्वासेन विनोदितः ।
ददामि श्रेयःसर्वस्वं स्वं लक्ष्मीं प्रददाम्यहम् ॥३८॥ जीवनं धनसम्पत्तिं चारोग्यं वंशविस्तरम् ।
भोगान् भोग्यान् भोगशक्तीर्ददामि नात्र संशयः ॥३९॥ पुरा पापकृतश्चापि पश्चात् पुण्यनिषेविणः ।
मृता अपि पुरा ते वै जीविता इति निश्चयः ॥2.215.४०॥ पुरा पुण्यकृतश्चापि पश्चात् पापनिषेविणः ।
जीवितास्ते पुरा पश्चान्मृता एव हि ते मताः ॥४१ ॥ तस्मान्मृतानां जीवाशा जीवनं दीयते तु यः ।
जीवनस्य प्रदाता स गुरुर्बोध्यः परमेश्वरः ॥४२॥ जीवन्नपि हरिं नैव जानाति गोचरं प्रभुम् ।
मृत एव श्वसन् भस्त्रासदृशो मत एव ह ॥४३॥ तादृशोऽपि सतां योगाद् भगवन्तमुपागतः ।
भजन् स्थितश्चालसोऽपि जीवत्येवाऽमृतो हि सः ॥४४॥ जीवनं जीवनीयं वै मिष्टं श्रीहरिसेवनात् ।
रूक्षं तु जीवनं त्याज्यं विषयादिप्रसेवितम् ॥४५॥ मरणेऽपि निकटेऽपि स्मर्ता मे याति मद्गृहम् ।
तथा बुद्ध्या स्मरेन्मां वै विश्वासेन मिलाम्यहम् ॥४६॥ अश्वपट्टसरस्तीर्थेऽक्षरक्षेत्रे पुराऽभवत् ।
विप्रस्य वृद्धदेवस्य वार्धक्ये त्वेकपुत्रकः ॥४७॥ ययौ जले सुतः स्नातुं जलमध्ये पपात ह ।
मृतः सोऽयं मृतकल्पो जलपानेन सोऽभवत् ॥४८॥ प्राणस्तस्याऽभवन् मूर्ध्नि न चायाति च नेत्रयोः ।
नाड्यो नैव प्रसरन्ति चोष्मा नापि च विद्यते ॥४९॥ मृतो वा मृतकल्पो वा दृश्यते स्थापितो भुवि ।
गोमयेन प्रलिप्तायां जना ज्ञात्वा मृतं च तम् ॥2.215.५०॥ पित्रा साकं खातभागं निन्युर्यत्र श्मशानकम् ।
तत्राऽऽसीद् वृद्धगृध्रोऽपि ददर्श मृतबालकम् ॥५१ ॥ धृतं चाङ्के जनकेन रुदताऽत्यजता तदा ।
पिता बालं परित्यज्य गन्तुं शक्नोति नैव तु ॥५२॥ अन्येऽपि बालकं त्यक्त्वा प्रतिगन्तुं न शेकिरे ।
तदा गृध्रः समागत्याऽब्रवीद् गच्छत वै गृहम् ॥५३॥ इह नार्यो नरा नित्यं सहस्राधिकतः खलु ।
आयान्ति तु मृताँस्त्यक्त्वा प्रयान्ति स्वगृहं सदा ॥५४॥ नहि कश्चित् समायाति मृतः पुनः शरीरके ।
जगत् सर्वं तथाभूतं सङ्क्लृप्तं वर्तते यतः ॥५५॥ सुखदुःखादिसंव्याप्तं तत्र का परिदेवना ।
मृता याता मृतवाहाः मरिष्यन्ति क्षणान्तरे ॥५६॥ इति ज्ञात्वा ये भजेरन् हरिं ते चिरजीविनः ।
न पुनः प्राणवान् कश्चिन्महाकालमुखं गतः ॥५७॥ प्रियेऽप्रियेऽपि समता कालस्य गतिरीदृशी ।
सर्वेण खलु गन्तव्यं जन्मवतेह देहिना ॥५८॥ कर्मान्तजीवने याते पुनर्जीवो न लभ्यते ।
यान्तु गृहाणि सन्त्यज्य मृतं शवं प्रयान्तु शम् ॥५९॥ एवं ज्ञानं समासाद्य समुत्सृज्य क्षितौ नराः ।
प्राक्रोशन्तो ययुः स्नानह्रदं ज्ञात्वा मृतं हि तम् ॥2.215.६०॥ तत्राऽभूज्जम्बुकवृद्धश्चागत्योवाच ताञ्जनान् ।
निर्घृणा मानवाः सर्वे निर्दयाः स्नेहवर्जिताः ॥६ १ ॥ कथं त्यक्त्वा गमने वै हृदयं वः प्रजायते ।
दिवसोऽस्ति मुहूर्तश्च बहुरूपो विवर्तते ॥६२॥ कदाचिन्मृत एवापि जीवन् याति श्मशानतः ।
यूयं वै निर्वृणास्त्यक्त्वा कथं याथ हि निर्दयाः ॥६३॥ तस्य चक्षुः श्रुतिर्नासा देहः सर्वोऽपि विद्यते ।
न वोऽस्त्यस्मिन् किमु स्नेहः पशुपक्षिसमोऽपि न ॥६४॥ अस्वार्थवर्धितानां तु बालानां सदृशोऽपि न ।
चतुष्पात्पक्षिकीटानां पोषितानामपि क्वचित् ॥६५॥ फलागमो न चैवाऽस्ति न गुणोऽपि कथञ्चन ।
तथापि मृतबालाँस्ते यावत्पश्यन्ति भूतले ॥६६॥ तावन्नैव त्यजन्त्येते तावान् स्नेहोऽपि नास्ति वः ।
ततो मा यान्तु विसृज्य कुलदं पुत्रमुत्तम् ॥६७॥ चिरं पश्यत पुत्रं तं यावद्देहोऽस्ति चाक्षतः ।
यत्र नाऽन्ये हि तिष्ठन्ति तत्र तिष्ठन्ति बान्धवाः ॥६८॥ जम्बुकस्य वचः श्रुत्वा स्नाता अपि नराश्च ते ।
पुत्रस्नेहपराभूताः समायाताः श्मशानकम् ॥६९॥ गृध्रस्तावद् विलोक्यैवोवाच जनान् शुचान्वितान् ।
अहो वै मानुषा भूत्वा किमायाता विमोहिताः ॥2.215.७०॥ प्राणेन्द्रियैः परित्यक्तं भूतात्मकं शवं त्विदम् ।
शुष्कं काष्ठत्वमापन्नं कथं शोचथ वेदिनः ॥७१ ॥ किन्न शोचथ चात्मानं गत्वरं किन्नु शोचथ ।
तपसा नाश्यते पापं भक्त्या भवान्तरादि च ॥७२॥ विलापेन भवेत् किं वै गतस्य बालकस्य नु ।
ऋणं दत्वा च वा नीत्वा यान्ति देहधरा भुवि ॥७३॥ बालोऽयं गतवान् तद्वद् दत्वा शोकमनन्तकम् ।
गृहं स्वर्णं धेनवश्चापत्यं रत्नानि भूतयः ॥७४॥ सर्वं तपोऽर्ज्यमेवाऽस्ति भक्त्या लभ्यं तथा मतम् ।
पुण्यलभ्यं च वै सर्वं पुण्यं शोचय यद्धितम् ॥७५॥ स्वकृतेन तु धर्मण पापेन सुखिदुःखिता ।
पिता पुत्रोऽथवा बन्धुः सुखी दुःखी स्वकर्मभिः ॥७६॥ तस्माद् यात निजान् गेहान् धर्मं कुरुत सत्तमाः ।
वर्तध्वं च हरेर्भक्तौ सत्सु सुरेषु पितृषु ॥७७॥ शोकं त्यजत मोहं च निवर्तध्वं विहाय तत् ।
विद्वान् वा यदि वा चाऽज्ञो राजा धनी च निर्धनः ॥७८॥ सर्वः कालवशं प्राप्तः पुनरायाति नैव ह ।
यूनो बालान् स्थवीराँश्च गर्भान् नारीर्नरानपि ॥७९॥ सर्वानाविशते मृत्युर्नयत्येवाऽपुनर्गमान् ।
इत्युक्ता मानवास्ते तु हित्वा शवं प्रयान्त्यथ ॥2.215.८० ॥ तावद्वै जम्बुक आह केन स्नेहो हतो हि वः ।
स्नेहहीनस्य वाक्येन स्नेहहीनाः कृताः कथम् ॥८ १॥ दैवं पुरुषकारश्च श्रद्धा विश्वास इत्यमी ।
कृतान्तं चापि दूरं वै द्रावयन्ति कदाचन ॥८२॥ अनिर्वेदेन भाव्यं वै निर्वेदे वै कुतः फलम् ।
प्रयत्नात्प्राप्यते सर्वं मा यान्तु निर्दयाः कथम् ॥८३॥ आत्ममांससमुत्थं तु पितृवंशस्य साधनम् ।
शवं त्यक्त्वा स्थिते सूर्ये निर्दयाः क्व प्रयास्यथ ॥८४॥ अस्तङ्गते हि गन्तव्यं स्थातव्यं चात्र वा पुनः ।
आराधिताः सुराश्चापि ददत्यसून् दयालवः ॥८५॥ इत्युक्तास्ते ऋतं मत्वा समायाताः शवं प्रति ।
अथ गृध्रो जगादेनान् बालिशाः स्थेति भाति मे ॥८६॥ अत्र बहूनि वर्षाणि मे जातस्य गतानि हि ।
न दृष्टं जीवितं मृत्वा पुनः स्त्रीपुन्नपुंसकम् ॥८७॥ गर्भा बालाः किशोराश्च युवानो जरठा अपि ।
मृताः पुनर्न जीवन्ति सम्बन्धिस्नेहिता अपि ॥८८॥ शोकितास्तु गृहं यान्ति सम्बन्धिबान्धवादयः ।
त्यज्यतामेष देहोऽपि शून्यः काष्ठसमः सुतः ॥८९॥ अन्यत्र वै गतं त्यक्त्वा कथं गृहं न यास्यथ ।
नात्रेन्द्रियाणि प्राणाश्च त्यक्त्वा कथं न गच्छथ ॥2.215.९०॥ परलोके सुखार्थं वै यत्नं कुरुत सत्तमाः ।
श्रुत्वैवं विनिवृत्तास्ते जम्बुकस्तावदाह तान् ॥९ १ ॥ अहो स्वर्णसमं पुत्रं त्यक्त्वा यान्ति हि निर्घृणाः ।
राक्षसा अपि पुत्रं स्वं त्यक्त्वा नैव प्रयान्ति हि ॥९२॥ येषां नास्ति स्वयं प्रज्ञा तेषां किमुपदेशनैः ।
श्वेतराजस्य वै पुत्रो मृतः सञ्जीवितः पुनः ॥९३॥ सत्यवान् जीवितः पत्न्या सावित्र्याऽपि पतिः पुनः ।
हरिश्चन्द्रसुतश्चापि मृतः सञ्जीवितः पुनः ॥९४॥ रुक्माङ्गदस्य पुत्रोऽपि मृतः सञ्जीवितः पुनः ।
नचिकेतस्य पुत्रोऽपि मृतः सञ्जीवितः पुनः ॥९५॥ मरुतो नाम देवाश्च गर्भे हताश्च जीविताः ।
तथा भाग्याल्लभेत् कश्चिन्मृतं तु जीवितं पुनः ॥९६॥ देवः कुर्यात् कृपणानामनुक्रोशं ददात्यसून् ।
इत्युक्तास्ते न्यवर्तन्त लब्धाशाः स्नेहिलाः पुनः ॥९७॥ गृध्रः पुनः समागत्योवाच तानाशया हतान् ।
तपसाऽपि भृताश्चैवैश्वर्यवन्तो महाधियः ॥९८॥ मृत्युं गता न चायान्ति प्रेतपत्तनतः पुनः ।
अलमाशाबन्धनेन मृतस्य जीवने त्विह ॥९९॥ नैव शृगालशतकं जीवयिष्यति प्रेतकम् ।
अथेशानो हरिर्ब्रह्मा यमराजोऽथवेश्वराः ॥2.215.१ ००॥ यदि त्वेनं जीवयेयुस्तदा जीवेन्न चान्यथा ।
नैव वस्त्वत्र वासेन रोदनेनापि जीवनम् ॥१० १॥ बाष्पस्रावेण वा श्वासैः कुट्टनैरपि जीवनम् ।
देवस्याऽऽराधनं कुर्मो मिलित्वा धर्मसंयुताः ॥१ ०२॥ यदि स्याज्जीवनं यावदाप्रातः कुर्म एव ताम् ।
श्रुत्वैवं ते निराशाश्च त्यक्त्वा शवं प्रयान्ति तु ॥१ ०३॥ जम्बुकस्तावदागत्योवाच शान्तिमयं पुनः ।
मा प्रयान्तु निराशा वै धिग् गृध्रं स्नेहवर्जितम् ॥१ ०४॥ सुखस्याऽनन्तरं दुःखं दुःखस्याऽनन्तरं सुखम् ।
अवश्यं जायते तस्मान्मा विसृज्य प्रयान्त्विह ॥१ ०५॥ जीवन्तमेव पश्यामि क्षणान्तरे न संशयः ।
इत्याशायोजिताः सर्वे स्थिताः प्रतीक्षया पुनः ॥१ ०६॥ गृध्रः प्राह श्मशानाख्यः प्रदेशोऽयं हि दारुणः ।
आशां त्यक्त्वा शवं त्यक्त्वा कुर्वन्तु प्रेतकार्यकम् ॥१०७॥ सूर्ये त्वस्तं गते प्रेता यक्षा भूताश्च राक्षसाः ।
युष्मान् प्रधर्षयिष्यन्ति रौद्राः पललखादकाः ॥१ ०८॥ जम्बुकोक्तौ श्रद्दधाना द्रुतं सर्वे विनङ्क्ष्यथ ।
इत्युक्तास्ते प्रयान्त्येव तावच्छृगालकोऽवदत् ॥१ ०९॥ मा भयं यात मा यात क्रव्यादवाक्यमोहिताः ।
वो विद्राव्य स्वार्थिगृध्रः शवं वै भक्षयिष्यति ॥2.215.११ ०॥ गृध्रः प्राह न चाहं वै स्वार्थी स्वार्थी तु जम्बुकः ।
अन्धकारे निजं भक्ष्यं शवं चेच्छति वञ्चनात् ॥११ १॥ इत्युक्ता ज्ञातवन्तस्ते तौ स्वार्थसाधकाविति ।
स्वार्थार्थबद्धकक्षौ च क्षुधान्वितौ च जल्पिनौ ॥१ १२॥ वञ्चकाभ्यां शवं नैव दातव्यं चेति निश्चिताः ।
सायं शम्भुं सस्मरुस्ते पुत्रस्नेहसमाकुलाः ॥१ १३॥ तावद् देव्या नोदितः श्रीशम्भुस्तत्र समागतः ।
नेमुः शम्भुं तु ते दुःखं न्यवेदयँस्ततो हरः ॥१ १४॥ जीवितं प्रददौ तस्मै दशवर्षसहस्रकम् ।
स्वार्थपरौ वञ्चितौ च पुत्रो जीवनमाप्तवान् ॥१ १५॥ हरमाराध्य ते पुत्रं प्राप्ताश्च सुखिनोऽभवन् ।
गृहं याता हि विश्वस्ताः फलमाप्ता हि जीवनम् ॥१ १६॥ प्राप्तं च वञ्चकाभ्यां तु कर्मणा परियापितम् ।
तस्माद् विश्वासमासाद्य मां हरिं पुरुषोत्तमम् ॥१ १७॥ भजन्त्वनन्यभावेन रक्षयिष्ये न संशयः ।
दास्ये च जीवनं धाम्नि शाश्वतानन्दसम्भृतम् ॥१ १८॥ इत्युक्त्वा प्रददौ मन्त्रान् प्रजाभ्यो भगवान्स्वयम् ।
वैष्णवान् कृतवान् कृष्णनारायणो निजाश्रितान् ॥११९ ॥ राधिके श्रीहरेर्वाणीं श्रुत्वाऽऽश्रयं व्यधुस्ततः ।
पूजयित्वा हरिं नैजान् गृहान् ययुः प्रजाजनाः ॥2.215.१ २०॥ राज्ञः कन्याश्चतस्रश्च कृष्णं कान्तं महाप्रभुम् ।
वरमालां ददौ कण्ठे व्यधुर्नैजं पतिं प्रभुम् ॥१२१॥ राजोत्सवं व्यधाद्रात्रौ भोजनादीन्यकारयत् ।
सेवनं कन्यकाश्चक्रुर्निद्रां कृष्णो ह्यवाप च ॥१२२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः रायकूपेशभूपराष्ट्रगमनं हवानानगर्यां भ्रमणं पूजनं ततः कालीमण्डलीनभूपराष्ट्रगमनं विगोष्ठिकानगर्यां भ्रमणं
पूजनं चोपदेशनं भोजनं रात्रौ विश्रमणं चेत्यादिनिरूपणनामा पञ्चदशाधिकद्विशततमोऽध्यायः ॥२१५ ॥