२०७

श्रीकृष्ण उवाच-
श्रीपतिं राधिके राजाऽनादिकृष्णनरायणम् ।
अपूजयन्महामहोपचारैः सकुटुम्बकम् ॥१ ॥ ध्यानमावाहनं सम्यगासनं पाद्यमर्घ्यकम् ।
आचमनं मधुपर्कं पयो दधि घृतं मधु ॥२ ॥ शर्करां प्रददौ तस्मै चाभ्यङ्गं निर्मलोदकम् ।
अभिषेकं सुगन्धाढ्यं वस्त्रामार्जनमाददौ ॥३ ॥ वस्त्रं यज्ञोपवीतं चाऽलङ्कारान् मालिकां ददौ ।
गन्धसारं कुङ्कुमं च कज्जलं चाक्षतान् ददौ ॥४ ॥ पुष्पमञ्जरिकाश्चापि तुलसीपत्रमाददौ ।
अङ्गपूजां कृतवाँश्चाऽवरणाना प्रपूजनम् ॥५ ॥ श्रीहरेस्तत्सेविकानां व्यूहानां च प्रपूजनम् ।
पार्षदानामवतारमूर्तीनां च प्रपूजनम् ॥६ ॥ तथाऽवतारिणीनां पूजनं पार्षदपूजनम् ।
हेतीनां च तदैश्वर्यविभूतीनां प्रपूजनम् ॥७ ॥ वाहनानां तथा भृत्यदासानां च प्रपूजनम् ।
दासीनां पुत्रपौत्राणां कुटुम्बानां प्रपूजनम् ॥८ ॥ गृहपालार्हणं द्वारपालार्हणं चकार ह ।
श्वेतचूर्णं रक्तचूर्णं सिन्दूरकं हरिद्रिकाम् ॥९ ॥ धूपं दीपमलक्तं च नैवेद्यं च जलं फलम् ।
अपोशनं करोद्वर्त्तं ताम्बूलं दक्षिणां ददौ ॥2.207.१ ०॥ छत्रं चामरकं चापि व्यजनं दर्पणं ददौ ।
पादुके सर्वशृङ्गारं ददौ नीराजनं ततः ॥११ ॥ वस्त्रनीराजनं वारिनीराजनं नमःक्रियाम् ।
प्रदक्षिणां दण्डवच्च स्तुतिं पुष्पाञ्जलिं ददौ ॥१२॥ अथ होमं ततो वह्नौ चकार नृपतिः स्वयम् ।
आदावधिश्रिते चरोः स्रुवस्य तपनं व्यधात् ॥१३॥ मार्जनं चाऽभ्युक्षणं च तपनं च निधानकम् ।
आज्योद्वासनमेवाऽपि चरोरुद्वासनं तथा ॥१४॥ पवित्राभ्यां तत आज्योत्पवनं चाप्यवेक्षणम् ।
अपद्रव्यनिरासं च प्रोक्षिण्युत्पवनं तथा ॥१५॥ पर्युक्षणं निधानं च कृत्वा होमं ददौ नृपः ।
आघारावाज्यभागौ च ब्रह्मा होमे ददौ तदा ॥१६॥ समिच्चरुतिलाज्यादिहविर्द्रव्याणि सन्ददौ ।
परेशाय महेशाय प्रजानां पतये तथा ॥१७॥ दिक्पालेभ्यस्तथेशेभ्यो लोकपालेभ्य इत्यपि ।
नवग्रहेभ्यो देवेभ्यः प्रत्यधिदेवकोटये ॥१८॥ अधिदेवेभ्य एवापि होमं ददौ नृपस्तदा ।
वास्तुमण्डलदेवेभ्यो होमं ददौ ततः परम् ॥१९॥ समित्तिलान् पायसादीनुदुम्बरसमिद्वराः ।
अश्वत्थादीन् घृतमधुक्षीराणि प्रददौ तदा ॥2.207.२०॥ तथामण्डलदेवानां होमं ददौ यथोचितम् ।
फलैर्भिन्नैर्विभिन्नैश्च द्रव्यैर्होमं ददौ नृपः ॥२१ ॥ ब्रह्मादिदेवताभ्यश्च होमं ददौ घृतादिभिः ।
पीठदेवताभ्यश्चापि होमं ददौ घृतादिभिः ॥२२॥ ततः समित्तिलाज्यैश्च चरुणा पायसेन वै ।
होमं प्रधानं प्रददौ सहस्राऽयुतमेव च ॥२३॥ आवरणसुरेभ्यश्च होमं ददौ ततो नृपः ।
द्राक्षेक्षुपूगनारिङ्गैस्तिलाज्यैर्व्याहृतेर्हवम् ॥२४॥ ददौ च जम्बिरं बीजपूरकं खारिकां तथा ।
नारिकेलं दाडिमं च गुग्गुलं सर्षपादिकान् ॥२५॥ लक्ष्म्यै ददौ ततो दुग्धं शर्कराकदलीघृतम् ।
फलदूर्वाऽक्षताँश्चापि होमं चक्रे नृपः स्वयम् ॥२६॥ गन्धं पुष्पं धूपदीपौ नैवेद्यं च ददौ ततः ।
ब्रह्मा ददौ ततः स्विष्टकृद्धोमं च नवाहुतीन् ॥२७॥ सर्वेभ्यश्च सुरेभ्यश्च बलिदानं यथोचितम् ।
दिक्पालेभ्यो दीपयुक्तं पायसान्नं बलिं ददौ ॥२८॥ गणेशाय च मातृभ्यो वास्तुदेवेभ्य एव च ।
वास्तुपुंसे तथाऽऽदित्यादिभ्यो बलिं ददौ नृपः ॥२९॥ योगिनीभ्यः क्षेत्रपालेभ्यश्च बलिं ददौ नृपः ।
मण्डलस्य प्रधानस्य देवेभ्योऽपि बलिं ददौ ॥2.207.३०॥ षटपञ्चाशद्देवताभ्यो बलिं ददौ सपूजनम् ।
लक्ष्मीनारायणराधाकृष्णाभ्यां च बलिं ददौ ॥३ १ ॥ नरनारायणवासुदेवनारायणाय च ।
अनादिश्रीकृष्णनारायणाय स्वबलिं ददौ ॥३२॥ सर्वाभ्यश्च हरेः शक्तिभ्यश्च बलिं ददौ नृपः ।
ब्रह्मप्रियाभ्यः सर्वाभ्यो बलिं राजा ददौ ततः ॥३३॥ धामपालबलिं चापि दारपालबलिं तथा ।
सृष्टिपालबलिं चापि क्षेत्रपालबलिं ददौ ॥३४॥ नगरग्रामक्षेत्रादिस्थितेभ्योऽपि बलिं ददौ ।
गृहारण्यवनस्थेभ्यो बलिं राजा ददौ ततः ॥३५॥ पातालादिस्थितेभ्यश्च भूमिस्वर्वासिने तथा ।
भुवर्लोकस्थितेभ्य सत्यान्तेभ्यो बलिं ददौ ॥३६॥ आवरणस्थितेभ्यश्च वैराजलोकवासिने ।
हिरण्मयाऽव्याकृतगोलोकवासेभ्य आददौ ॥३७॥ वैकुण्ठाऽक्षरधामस्थमायास्थेभ्यो बलिं ददौ ।
चेतनेभ्यो जडेभ्यश्च देह्यदेहिभ्य इत्यपि ॥३८॥ बलिं ददौ तदा राजा तत्त्वेभ्यश्च यथोचितम् ।
श्रेष्ठेभ्यश्च कनिष्ठेभ्यो ददौ बलिं यथोचितम् ॥३९॥ आमन्त्रितेभ्यः सर्वेभ्यः स्थितेभ्यो मण्डपे तदा ।
नरनारीसमेतेभ्यो बलिं राजा ददौ शुभम् ॥2.207.४०॥ आमन्त्रिता ये चागता अनागतास्तथाऽध्वरे ।
सकुटुम्बाः सभृत्याश्च सदासाः सानुगास्तथा ॥४१ ॥ सपत्नीकाः सवंशाश्च सत्त्वरजस्तमोन्विताः ।
त्रिगुणेभ्यश्च ये जाताः साध्याः साधनरूपिणः ॥४२॥ यज्ञात्मका यज्ञदेहा यज्ञाङ्गानि मखाश्रिताः ।
सर्वेभ्यस्तत्र राजाऽसौ बलिं यथोचितं ददौ ॥४३॥ सर्वकुण्डेषु राजानस्तत्तद्गुर्वर्षिनोदिताः ।
ददुर्बलिं तथैवैते सर्वं कर्म व्यधुस्तथा ॥४४॥ ग्राहका भोजकाश्चापि ये चाऽऽहुत्यदनाः सुराः ।
असुरा वा मूर्तिमन्तो जगृहुः स्वबलिं करे ॥४५॥ प्रत्यक्षं ते भुक्तवन्तः प्रत्यक्षाः स्वक्षणेऽनले ।
सर्वे वै देहिनस्तत्र भुञ्जानास्तृप्तिमाययुः ॥४६॥ येषां येषां यदन्नं तत् तत्र तत्र यथोचितम् ।
अनादिश्रीकृष्णनारायणः सङ्कल्प्य वै ददौ ॥४७॥ आकण्ठतृप्ताः सर्वे ते सृष्टित्रयनिवासिनः ।
माया तत्त्वानि मायोत्था मायिका देहिनस्तथा ॥४८॥ आत्मा तत्त्वानि चात्मोत्था आत्मीया देहिनस्तथा ।
ईशस्तत्त्वानि चेशोत्था ईशीया देहिनस्तथा ॥४९॥ मुक्तास्तत्त्वानि मुक्तोत्था मुक्तीया देहिनस्तथा ।
ब्रह्मतत्त्वानि ब्रह्मोत्था ब्रह्मीया देहिनस्तथा ॥2.207.५० ॥ शक्तिस्तत्त्वानि शक्त्युत्थाः शक्तीया देहिनस्तथा ।
गुणौश्वर्यायुधभूषादिका ये केचनापि च ॥५१॥ सर्वेभ्यः श्रीहरिस्तत्र बलिं दत्वा ह्यतर्पयत् ।
तृप्तिं वै शाश्वतीं नैजां ददौ सर्वेश्वरः प्रभुः ॥५२॥ सर्वे चोद्गारमापन्ना आकण्ठभक्षणास्तथा ।
बहुतृप्तिं गतास्तत्र परमेशमखे जनाः ॥५३॥ जरायूजाश्चाण्डजाश्चोद्भिज्जाः स्वेदजनास्तथा ।
भौतिकाः कोशजाश्चापि कर्दमोत्था रसोत्थिताः ॥५४॥ सर्वे तृप्तिं गतास्तत्र बालकृष्णमखेऽनले ।
अथाऽन्तिमाहुतिं प्रादाल्लोमशस्तत्र कुण्डके ॥५५॥ वसोर्धारायुतं बह्वाहुतिहोमं चकार सः ।
परिहारं ततश्चक्रे देवानां शयनं व्यधात् ॥५६ ॥ एवं नित्यं भवत्येव राधिकेऽर्हा हवादिकम् ।
आमध्यान्तं ततः श्रीमद्बालकृष्णादयश्च ते ॥५७॥ चक्रिरे भोजनान्येव महीमानादयस्तथा ।
सर्वप्रजा भोजनानि चक्रिरे नित्यमेव ह ॥५ ८॥ सप्तम्यां चापि चाष्टम्यां नवम्यां दशमीदिने ।
एकादश्यां मखकार्यं नित्यं प्रवर्तते तथा ॥५९॥ भोजनानि विचित्राणि नित्यं भवन्ति तत्र च ।
असङ्ख्यदेहिनस्तत्र भुञ्जते स्म दिवानिशम् ॥2.207.६ ० ॥ दीयतां दीयतामिति भुज्यतां भुज्यतामिति ।
घोषणा त्वन्नदानस्य सततं वै प्रवर्तते ॥६ १ ॥ अन्नपूर्णा तथा लक्ष्मीस्तद्दास्योऽनेकशक्तयः ।
सेवन्ते त्वन्नदानाद्यैर्यथालोकमपेक्षितैः ॥६२॥ कल्पलताः कल्पद्रुमाः कल्पगावो निरन्तरम् ।
कल्पकन्यास्तथा चिन्तामणयः कल्पचुल्लिकाः ॥६ ३ ॥ कल्पह्रदाः कल्पपात्राण्यपि कल्पनदादयः ।
कल्पपेटाः पूरयन्ति चेष्टभोज्यानि चार्थिषु ॥६४॥ भोजनान्ते जनाः सर्वे विश्राम्यन्ति विशेषतः ।
अनादिश्रीकृष्णनारायणस्तु भूभृदर्थितः ॥६५ ॥ आमन्त्रणानुसारेण प्रयाति राजमन्दिरम् ।
पुनः सायं मण्डपेऽत्र समायाति विमानतः ॥६६॥ एवं पञ्चदिनं राष्ट्रे भ्रमणं हरिणा कृतम् ।
पावितानि समस्तानि राष्ट्राणि गमनक्रमात् ॥६७॥ मखे ददाति भगवान् दक्षिणाः कोटिशस्तथा ।
मखाद् बहिश्चार्पयति यथेष्टं त्वर्थिनेऽपि सः ॥६८॥ देयं देयं च दातव्यं शब्दस्त्वेवं हि सार्थकः ।
हरेरग्रे जायते वै सर्वयज्ञफलप्रदः ॥६९॥ यथेष्टं दीयते नित्यं राजानोऽपि ददत्यपि ।
प्रजाश्चावसरं प्राप्य ददत्यपि धनान्यपि ॥2.207.७०॥ गृहदानानि च कन्यादानानि बहुधा व्यधुः ।
विद्याभूषाम्बरदानान्यपि व्यधुः प्रजाजनाः ॥७१ ॥ यत्र स्वामी परब्रह्म श्रीपतिः कृष्णवल्लभः ।
कर्ता दाता च भोक्ता च तत्राऽशुभं न वै क्वचित् ॥७२॥ विघ्नं नास्ति निषेधश्च नास्ति यत्र प्रभापतिः ।
कालो नास्ति यमो नास्ति बन्धो नास्ति परेश्वरे ॥७३॥ सूतकं न च शोको न न वाऽपशकुनान्यपि ।
कुमुहूर्तं च नैवास्ति यत्र श्रीपार्वतीश्वरः ॥७४॥ सर्वं शुभं भवत्येव यत्र लक्ष्मीपतिः प्रभुः ।
सर्वं पुष्टं भवत्येव यत्र श्रीमाणिकीपतिः ॥७५॥ सर्वं दैवं भवत्येवाऽनुकूलं प्रियमित्यपि ।
सर्वं सम्पत्प्रदं चास्ते यत्र देवः परेश्वरः ॥७६॥ सर्वं तु मङ्गलं तत्र जायते यत्र माधवः ।
विरुद्धा यद्वशे सन्ति को विरोधोऽस्य सन्निधौ ॥७७॥ राधिके श्रीहरिश्चैवं मखोत्सवं व्यधाच्छुभम् ।
सप्तम्यामथ मध्याह्नोत्तरं भुक्त्युत्तरं नृपः ॥७८॥ रायरणजिद्भूपश्च प्रार्थयत्परमेश्वरम् ।
निजं राष्ट्रं पावयितुं समायाहीति वै ततः ॥७९॥ हरिः प्राह तथाऽस्त्वेव सज्जस्तूर्णं तदाऽभवत् ।
आलायसर्षिमुनिराट् रणजिन्नृपतिस्तथा ॥2.207.८० ॥ शीघ्रमाज्ञां हरेः प्राप्य विमानेन निजालयम् ।
आलाक्षाकप्रदेशस्थं मीनार्ककृष्णपत्तनम् ॥८ १॥ यूकासनानदीतीरगतं गत्वाऽग्रतस्तदा ।
शीघ्रं सैन्यादिसहितं वाद्यमण्डलतत्परम् ॥८२॥ जनतापूरराजच्चाऽशृङ्गारयद् यथोचितम् ।
स्वागतार्थं सोपदाश्च जनता राजसेविकाः ॥८३॥ शीघ्रं शीघ्रं चोपतस्थुर्नृपोद्याने महायते ।
तदा वाद्यान्यवाद्यन्त ध्वजा धृतास्तथाऽम्बरे ॥८४॥ तूपशब्दाः प्राभवँश्च श्रीहरेः स्वागताय वै ।
घटिकायां कृतं सर्वं शृङ्गारितं नृपेण ह ॥८५॥ तावच्छ्रीकान्तभगवान् पितृभ्यां शङ्करेण च।
लोमशेन तथेशैश्चावतारैश्च सुरेश्वरैः ॥८६॥ यथापेक्षैः सह शीघ्रं राधालक्ष्म्यादिभिस्तथा ।
नैजं विमानमारुह्य प्रकाशयन् दिशो दश ॥८७॥ ययौ यूकासनातीरे मीनार्ककृष्णपत्तनम् ।
दृष्ट्वा श्रीमत्सूर्यतुल्यं विमानं पारमेश्वरम् ॥८८॥ रायरणजिद्भूपश्च आलायसर्षिसत्तमः ।
विमानावतरणार्थं ददतुः स्थलसूचनाम् ॥८९॥ भ्रमित्वाऽम्बरमेवैतद् विमानं तदवातरत् ।
तदा वाद्यानि तूर्याणि चावाद्यन्त मुहुर्मुहुः ॥2.207.९० ॥ जयशब्दा हर्षनादाः प्रजानामभवन् शुभाः ।
दुद्रुवुश्चातिवेगेन दर्शनार्थं समीपगाः ॥९ १॥ प्रजाजना वर्धयन्ति लाजाक्षतसुगन्धकैः ।
कुसुमैश्चाऽञ्जलिभिश्च नेत्रवृत्त्यर्पणैस्तथा ॥९२॥ भावदानैः स्वागताद्यैर्वर्धयामासुरच्युतम् ।
राधिके भूभृता कृष्णनारायणो विमानतः. ॥९३॥ हस्ते हस्तं गृहीत्वैवानीतोऽतिभावतो बहिः ।
राजा पुष्पस्रजं कण्ठे बालकृष्णस्य वै ददौ ॥९४॥ ऋषिश्चन्दनदानेनाऽपूजयत् परमेश्वरम् ।
राजपुत्रादयोऽप्येनं समानर्चुः सुमादिभिः ॥९५॥ विमानाग्रे क्षणं स्थित्वा दत्वा नैजं च दर्शनम् ।
अवतीर्य हरिः पूजां जग्राह जनताकृताम् ॥९६॥ सर्वाः प्रजाः सुखं प्राप्ताः पूजया दर्शनेन च ।
ततो नृपालयान्तर्वै प्रविवेश शुभासने ॥९७॥ निषसाद हरिश्चान्ये निषेदुर्योग्यकासने ।
राजा राज्ञी राजपुत्र्यः कुमाराश्च कुटुम्बिनः ॥९८॥ पुपूजुः परया प्रीत्या श्रीपतिं कृष्णवल्लभम् ।
दशलक्षं सुवर्णं च ददौ राजाऽतिभावतः ॥९९॥ कोटिमूल्यान् हीरकाँश्च ददौ कृष्णाय भूपतिः ।
कन्यका विंशतिः कृष्णगले न्यधुर्हि मालिकाः ॥2.207.१ ००॥ राज्ञी ददौ तदा श्रीमद्बालकृष्णाय ताः सुताः ।
विंशतिः कन्यका प्राप्य बालकृष्णं पति प्रभुम् ॥१०१ ॥ कृतकृत्या अभवँश्च हरिर्दुग्धं पपौ तदा ।
ततो मीनार्ककृष्णाख्ये पत्तने श्वेतहस्तिना ॥१ ०२॥ विजहार महासैन्यसम्मानितो गृहे गृहे ।
प्रधानाः श्रेष्ठिनः सर्वे समानर्चुः स्थले स्थले ॥१०३ ॥ भ्रमित्वा नगरीं रम्यां नृपसौधं समाययौ ।
राधिके श्रीहरिः शान्तिं चालम्ब्योपादिदेश ह ॥१०४॥ प्रजाजनाँस्तथा भूपं पारमार्थिकमुत्तमम्।
उभयत्र महानन्दप्रदं पुमर्थसाधकम् ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीयेत्रेतासन्ताने श्रीहरेः षोडशोपचारैः पूजनं वह्नावाहुतिप्रदानं सृष्टित्रयदेहिभ्यआहुतिप्रदानं सवेभ्य आहुतिप्रदानं, परिहारः, भोजनं, ततो रायरणजिद्राष्ट्रं प्रतिगमनम्, नगर्यां भ्रमणं
पूजनं कन्यकार्पणं चेत्यादिनिरूपणनामा सप्ताधिकद्विशततमोऽध्यायः ॥२०७ ॥