२०३

श्रीकृष्ण उवाच-
राधिके वै ततः प्रातः कृताह्निकः कृतादनः ।
कृताभिवृद्धसेवश्च बालकृष्णः सभां ययौ ॥१ ॥ राजा तत्राऽऽययौ तूर्णं पूजादर्शनलालसः ।
कृत्वा पूजां चन्दनाद्यैर्हरिं तदाऽऽह सन्नतिः ॥२ ॥ अद्य कर्तव्यविषयं त्वाज्ञापय दयानिधे ।
सर्व शक्त्या साधयिष्ये क्रत्वर्थं सेवनं प्रभो ॥३ ॥ हरिस्तमाह सौवर्णी प्रतिमां शोभनां शुभाम् ।
लक्ष्मीनारायणस्याऽद्य प्रकारय सरत्नकाम् ॥४ ॥ नवाङ्गुलां चतुर्बाहुं नारायणस्य मूर्तिकाम् ।
लक्ष्म्याश्चाष्टाङ्गुलां चापि प्रकारय नु कानकीम् ॥५ ॥ मम प्रतिमां रम्यां च प्रकारय दशाङ्गुलाम् ।
माणिकीं स्वर्णमूर्तिं च मत्कर्णोर्ध्वां प्रकारय ॥६ ॥ लक्ष्मीं मत्स्कन्धपर्यन्तां मत्कर्णोर्ध्वा च पद्मजाम् ।
मत्स्कन्धोर्ध्वां रमां चापि राधां मत्कण्ठकोच्छ्रयाम् ॥७ ॥ अमरीशां तव कन्यां ज्येष्ठां मन्मुखकोर्ध्वकाम् ।
राजन् कारय सौवर्णीं यज्ञार्थं बहुशोभनाम् ॥८ ॥ मूर्त्यष्टकं कारयित्वा सतीशिवौ प्रकारय ।
सौवर्णौ च गणनाथं सौवर्णं सम्प्रकारय ॥९ ॥ नन्दिनं कार्तिकेयं च तथा सम्यक् प्रकारय ।
पञ्चमूर्तीस्तथा राजन् कारयित्वा च भास्करम् ॥2.203.१ ०॥ विष्णुं च कानकं ब्रह्माणं प्रकारय कानकम् ।
कम्भरां मातरं चापि गोपालं पितरं मम ॥११ ॥ प्रकारय च सौवर्णं पञ्चकं शोभनं ततः ।
वास्तुदेवं कानकं च प्रकारय विशालकम् ॥१२॥ यूथं च कानकं सर्वदेवावासं प्रकारय ।
इत्याज्ञां प्रददौ कृष्णो देवगृहं विधापय ॥१३॥ आज्ञां लब्ध्वा नृपस्तूर्णं कारयामास मूर्तिकाः ।
बालकृष्णोऽथ सस्मार नारदं लोकवेदिनम् ॥१४॥ सनत्कुमारं साधुं च गरुडं वाहनं निजम् ।
चक्रं सुदर्शनं चापि सच्चिदानन्दयोगिनम् ॥१५॥ पञ्चैते दिव्यबोधाश्च तूर्णं तत्राययुः पुरः ।
कृत्वाऽर्हा दण्डवच्चक्रुराज्ञां योग्यां समार्थयन् ॥१६॥ बालकृष्णस्तदा तेभ्यो ददौ प्रसादभोजनम् ।
पानं हारान् करौ मूर्ध्नि ततः कार्यं समादिशत् ॥१७॥ आमन्त्रणदलं तेभ्यो ददौ यज्ञार्थबोधकम् ।
सप्तम्यां वैष्णवो यज्ञः प्रारप्स्यतेऽत्र भूतले ॥१८॥ अमरीणां प्रदेशेषु केनाटकाभिधे स्थले ।
मणिसेवानगर्याः सन्निधौ विशालभूतले ॥१ ९॥ शेषकाष्ठावनानद्याः सङ्गमे विनिपारगे ।
सरस्तीरेऽत्र धामस्थैर्मुक्तैर्मुक्ताभिरुत्सवे ॥2.203.२० ॥ अवतारैः समस्तैश्च तथा तद्धामपार्षदैः ।
सर्वावतारिणीभिश्च पार्षदानीभिरादरात् ॥२१ ॥ व्यूहैर्व्यूहानिकाभिश्च नारायणैः समस्तकैः ।
नारायणीभिः सर्वाभिरागन्तव्यं मखोत्सवे ॥२२॥ विष्णुभिर्वैष्णवीभिश्चेश्वरैरीश्वरशक्तिभिः ।
वैराजेन च वैराज्ञ्या सत्या गणैः शिवेन च ॥२३॥ मायया मायिकैस्तत्वैः पुरुषेणापि सर्वथा ।
आगन्तव्यं महोत्साहैर्ब्रह्मणा ब्रह्मशक्तिभिः ॥२४॥ ब्रह्मचारियतिभिश्च ऋषिभिः साधवैस्तथा ।
पितृभिर्मातृभिश्चापि देवैर्देवीभिरित्यपि ॥२५॥ दिक्पालैर्लोकपालैश्चागन्तव्यं स्वप्रियायुतैः ।
सुरैः सुराभिः स्वर्गस्थैर्भुवर्लोकनिवासिभिः ॥२६॥ ग्रहनक्षत्रताराभिर्ग्रहैः प्रेतपिशाचकैः ।
भूतकुष्माण्डकैर्विनायकैर्गणैः समन्ततः ॥२७॥ यक्षै रक्षोभिश्चैवागन्तव्यं दैत्यैश्च दानवैः ।
काश्यपीभिः प्रजाभिश्च वेतालकैश्च शक्तिभिः ॥२८॥ राजसैस्तामसैश्चापि मानवैः सकुटुम्बकैः ।
यतिभिर्योगिभिश्चापि वृक्षैस्तृणैश्च वल्लिभिः ॥२९॥ स्तम्बैर्घासैर्जन्तुभिश्च जराजैरण्डजैरपि ।
स्वेदजैः कणजैश्चापि कन्दजैर्जलजैस्तथा ॥2.203.३ ०॥ आगन्तव्यं पर्वतैश्च नदीभिश्च सरोवरैः ।
तीर्थैर्वनैररण्यैश्च खाताऽखातैः समुद्रकैः ॥३ १ ॥ आगन्तव्यं क्षेत्रपालैर्गृहदेवैः समन्ततः ।
कुलदेवैरायतनैर्गन्धर्वैश्चारणादिभिः ॥३ २॥ सूतैर्मागधकैर्बन्दीजनैर्नर्तकनाट्यिभिः ।
बहुरूपधरैर्मल्लैर्विद्याध्रैः किन्नरादिभिः ॥३३॥ गणैर्गणिकवर्गैश्चाऽनाथैश्च भिक्षुकैरपि ।
वनिभिश्चातलावासैः पातालान्तनिवासिभिः ॥३४॥ फणिभिर्बलिभिश्चापि समागन्तव्यमादरात् ।
शास्त्रैर्वेदैश्च विद्याभिर्व्यवहारैः समन्ततः ॥३५॥ जडैश्च चेतनैः सर्वैरागन्तव्यं महामखे ।
अहं ब्रह्मपतिर्ब्रह्मप्रियास्वामी परेश्वरः ॥३६॥ अवतारी बालकृष्णो निमन्त्रयामि चाध्वरे ।
देवदैत्यगुरुभिश्चाचार्यैरैश्वर्यशालिभिः ॥३७॥ विप्रैर्मुनिभिर्ब्राह्मीभिश्चागन्तव्यं मखे मम ।
सप्तम्यां प्रातरारभ्यैकादश्यां भाद्रशुक्लके ॥३८॥ मखकार्यं मतं श्रेष्ठं चागन्तव्यं कुटुम्बिभिः ।
अनागतानां शपथं ददाम्यहं नरायणः ॥३९॥ अवश्यं चामरीदेशं पवित्रयन्तु पावनाः ।
नरनारायणाद्याश्च शेषनारायणादयः ॥2.203.४० ॥ स्वस्वमुक्तादिसहिताः समायान्तु सुखप्रदाः ।
श्रीरमाराधिकागङ्गाशारदातुलसीप्रभाः ॥४१ ॥ तत्तद्धामनिवासिन्यः समायान्तु महाध्वरे ।
योगिन्यो मातरः सर्वाः कुलदेव्यश्च चण्डिकाः ॥४२॥ सर्वा वै ब्रह्मचारिण्यः समायान्तु ममाऽध्वरे ।
सपतिकाः सपुत्राश्च सवंशाः सानुगाः समाः ॥४३॥ आयान्तु चाध्वरेऽनादिकृष्णनारायणाऽर्थिताः ।
समाजोऽत्र महान् भावी ब्रह्माण्डेश्वरशोभितः ॥४४॥ शतसहस्रवदना ब्रह्माद्या विष्णवोऽपि च ।
तथोत्तमाः समायान्तु सर्वे श्रीवैष्णवेऽध्वरे ॥४५॥ आह्वयाम्यामन्त्रयाम्याकारयाम्यहमच्युतः ।
परब्रह्माऽक्षरातीतः स्वामिश्रीकृष्णवल्लभः ॥४६॥ इत्येवं राधिके यज्ञाऽऽमन्त्रणार्थां सुपत्रिकाम् ।
ददौ श्रीबालकृष्णो वै नारदादिभ्य एव तु ॥४७॥ ददावनन्तरूपाणां धर्तृत्वं परमाद्भुतम् ।
ऐश्वर्यं चापि गतिकां सर्वज्ञत्वं च सत्वरम् ॥४८॥ सर्वे ययुर्हरेराज्ञां प्रगृह्यामन्त्रणार्थिकाः ।
मध्याह्ने यमराजं च सस्मार परमेश्वरः ॥४९॥ यमलोकं बन्धशून्यं कारयामास चाज्ञया ।
सर्वान् विमोचयामास जीवान् यमवशङ्गतान् ॥2.203.५०॥ यमदूताँस्तदा यज्ञे कर्मचारान् चकार ह ।
एवं निर्वर्त्य भगवान् मध्याह्ने भोजनादिकम् ॥५ १ ॥ कारयामास सर्वेभ्यो मखार्थिभ्यस्ततः स्वयम् ।
बुभुजेऽथ च विश्रान्तिं लेभे क्षणं ततः परम् ॥५२॥ आदिदेश हरिस्तत्र ब्रह्मणे विष्णवे तथा ।
शङ्कराय च सर्वेषामागम्यमानदेहिनाम् ॥५३ ॥ मखार्थिनां नराणां च नारीणां स्वागताय वै ।
सत्यै लक्ष्म्यै सरस्वत्यै चादिदेश तथैव च ॥५४॥ नरनारायणाभ्यां चादिदेश स्वागताय वै ।
धर्मदेवाय च वासुदेवायाऽप्यादिदेश च ॥५५॥ स्वागतार्थं हि सर्वेषामागन्तुकमखार्थिनाम् ।
अथ श्रीलोमशं प्राह भारद्वाजं तथा मुनिम् ॥५६॥ दिविमानायनं चापि गाङ्गेयान् यवक्रीतिनः ।
भवन्तः स्वागतं सर्वे कुर्वन्तु सर्वदेहिनाम् ॥५७ ॥ आगतानां जलैश्चान्नैः फलैः पुष्पैश्च मन्दिरैः ।
आवासनप्रदानैश्चाऽपेक्ष्यवस्तुभिरादरात् ॥५८ ॥ कल्पवृक्षान् कल्पलताः कल्पमणींश्च कल्पगाः ।
प्राह सर्वनिवासेषु यज्ञपत्तनकेऽभितः ॥५९ ॥ उपतिष्ठन्तु सर्वत्र स्वागतार्थं समन्विताः ।
यथापेक्षं यथेष्टं च विधायापि नवं नवम् ॥2.203.६० ॥ अर्पयन्तु महीमानेभ्यस्तदा सार्ववाञ्च्छिकम् ।
ब्रह्मह्रदं च विरजां रसकूपं तथाऽमृतम् ॥६ १ ॥ ब्रह्मसरो हरिः प्राह तिष्ठन्तु च स्थले स्थले ।
सर्वाभिवाञ्च्छितं सर्वं पेयं समर्पयन्तु वै ॥६२ ॥ पवनं वह्निदेवं च प्राह व्यजनदो भव ।
उष्णदो भव चाप्यत्र बहुरूपधरो भवान् ॥६३ ॥ व्योम प्राह भवानत्र दूरश्रुतिं करोतु वै ।
सिद्धीः प्राह भवत्योऽत्र कुर्वन्तु प्रापणादिकम् ॥६४॥ एवं मन्त्राँस्तदा प्राह घोषयन्तु मखस्थले ।
मङ्गलानि विचित्राणि चागतानां हि मानने ॥६५ ॥ शारदाश्च तदा प्राह कुर्वन्तु गीतिकाः शुभाः ।
आगतानां स्वागतार्थे वाद्यानि वादयन्तु वै ॥६६ ॥ राजभ्यश्च हरिः प्राह सैन्यैश्चरन्तु माननम् ।
स्वागतं सर्वलोकानामागतानां मखार्थिनाम् ॥६७ ॥ वाद्यैर्यन्त्रध्वानकैश्च कुर्वन्तु बहुमाननम् ।
विश्वकर्माणमाहूय बालकृष्णो जगाद ह ॥६८ ॥ मुक्तानां तु निवासान् वै व्योम्नि क्षणात्प्रकल्पय ।
अवतारेश्वराणां च तथा व्योम्नि प्रकल्पय ॥६९ ॥ देवानामृषिवर्याणां व्योम्नि पितॄणां कल्पय ।
ब्रह्माण्डान्तरवासाना भूतले यज्ञपत्तने ॥2.203.७ ० ॥ उत्तरोत्तरभूभागान् प्रकल्पय क्षणान्ननु ।
दिव्यां ददामि शक्तिं ते सङ्कल्पोत्थफलात्मिकाम् ॥७ १ ॥ कल्पक्लृप्त्यभिधां श्रेष्ठां तया साधय सत्वरम् ।
इत्युक्त्वा विररामाऽसौ भगवान् स्वासनेऽभवत् ॥७२ ॥ तावद् राजा रायरोकीश्वरः सम्प्रार्थयद्धरिम् ।
अद्य चेद् भवतो वाञ्छा मम राज्यं पवित्रय ॥७ ३ ॥ स्फूर्तिनारीवनां दिव्यां महाकञ्जीनदीतटे ।
नगरी मे समागत्य द्विमानायनराष्ट्रकम् ॥७४॥ पवित्रय हरेकृष्ण तवाऽऽगम्यं न किञ्चन ।
तथास्त्विति हरिः प्राह पीत्वा जलं सुशीतलम् ॥७५ ॥ विमानं चारुरोहापि मात्रा पित्रा समन्वितः ।
लालायनेन सहितो माणक्या सहितस्तथा ॥७६॥ पार्षदैर्दिव्यदेहैश्च भृत्यैर्दासीशतैरपि ।
द्वादशभिश्च मुख्याभिः सतीभिः सहितो ययौ ॥७७॥ स्फूर्तिनारीवनापुर्यामम्बरात् क्षणमात्रतः ।
राजा ऋषिश्चक्रतुश्च सन्मानं सहगौ तदा ॥७८॥ उद्याने त्ववतीर्यैव राजसौधसमीपतः ।
सैन्येन स्वागतं विष्णोः कुरुतः स्म विधानतः ॥७९॥ पादौ प्रक्षाल्य विधिना पपतुर्जलममृतम् ।
चन्दनैः पुष्पहारैश्च पुपूजतुस्तमादरात् ॥2.203.८०॥ अन्यान् सहगताँश्चापि पुपूजतुर्नृपो मुनिः ।
अथ सौधे निन्यतुश्च श्रीपतिं नृपमन्दिरे ॥८ १ ॥ आरार्त्रिकं चकाराऽस्य राज्ञीदशकमेव तु ।
कुमाराश्च कुमार्यश्च चक्रुर्निराजनं ततः ॥८२॥ हरिर्दिव्यं दर्शनं स्वं चतुर्भुजं ददौ च तान् ।
आश्चर्यचकिताश्चासन् कुमार्यश्चैकविंशतिः ॥८३॥ राजकन्या मातृवश्या मात्राज्ञया च मोहिताः ।
वरमालां बालकृष्णकण्ठे समार्पयँस्तदा ॥८४॥ कृतकृत्यास्ता अभवन् प्राप्य कान्तं जनार्दनम् ।
राजा तदुत्सवं चक्रे राजसौधे हि शोभनम् ॥८५॥ हरेश्च पादयोर्द्रव्यं कोटिसङ्ख्यं न्यधान्नृपः ।
यौतकं प्रददौ चापि स्वर्णहारादिकाँस्तथा ॥८६ ॥ भूषाम्बराणि प्रददौ नीराजनमकारयत् ।
नत्वा हरिं ततः शीघ्रं क्षमामयाचत प्रभोः ॥८७॥ पावितोऽहं धृतो हस्ते कन्या स्वीकृत्य मे त्वया ।
नैजीकृतोऽस्मि भगवन् सदा रक्षय मायिकात् ॥८८॥ राज्ञ्यस्ततो हरिं नत्वा चन्द्रकं भालके व्यधुः ।
क्षमां हरेरयाचन्न समुद्धरेति चार्थयन् ॥८९॥ हरिः प्राहोद्धरिष्येऽहं नयिष्येऽन्ते परं पदम् ।
ततो दिव्यस्वरूपं स्वं चतुर्भुजं व्यलोपयत् ॥2.203.९० ॥ सर्वतो राजसौधेषु विहृत्य च ततः परम् ।
प्रधानानां गृहाण्येव गत्वाऽपावयदच्युतः ॥९ १ ॥ कृतां पूजां परिगृह्य सैन्येन शोभितः प्रभुः ।
स्फूर्तिनारीवनापुर्यां राजमार्गे गतोऽभवत् ॥९२॥ दर्शकैः पूजकैश्चापि प्रजाजनैः सुपूजितः ।
वन्दितोऽर्चितपादश्च द्रव्यादिभिः समर्पितः ॥९३ ॥ अमरीभिर्यशोगानैः श्रावितो रञ्जितोऽर्चनैः ।
वर्धितश्चाशिषा पुष्पैर्विकीरितोऽतिमानितः ॥९४॥ जयशब्दैर्वाद्यशब्दैः कीर्तितः परमेश्वरः ।
नेत्रपद्मैस्तथा पीतो भावैश्चाकर्षितो ययौ ॥९५॥ प्रधानाः श्रेष्ठिनः सर्वे प्रजाजनाश्च योषितः ।
ददुः पूजां परिगृह्य भ्रमित्वा नगरीं ततः ॥९६॥ राजसौधं समागम्य महाकाञ्चीजलं पपौ ।
महाकाञ्चननामानऋषिं सम्मानयन् प्रभुं ॥९७॥ द्रव्यं तस्मै ददौ तत्र राजा मुनिर्धनं तु तत् ।
यज्ञार्थं तु विमाने वै कृत्वाऽप्रापयदध्वरम् ॥९८॥ हरिर्विमानमारुह्य कुटुम्बसहितस्तदा ।
राज्ञा राज्ञ्या कन्यकाभिः सह द्विमानराष्ट्रकम् ॥९९॥ भ्रमित्वा व्योममार्गेण दृष्ट्वा देशप्रदेशकान् ।
विनिपारसरस्तीरं सायम्पूर्वं समाययौ ॥2.203.१० ०॥ राजसौधे त्ववतीर्य विश्रान्तिं प्रययौ हरिः ।
कन्यकास्ता ब्रह्मसत्यः कान्तासु वासमाचरन् ॥१० १॥ रायरोकीश्वरो महाकाञ्चनर्षिर्धनानि वै ।
ददतुर्यज्ञकार्यार्थं कुबेराय तदा ह्युभौ ॥१ ०२॥ अथाकाशे महीमानविमानानि महाम्बरात् ।
अक्षराच्चापि गोलोकाद् वैकुण्ठादमृतादपि ॥१०३ ॥ अव्याकृतादीशलोकाद्वैराजाच्च हिरण्मयात् ।
सत्यात् स्वर्गाज्जनादेश्च मेरोर्दिग्भ्यः समन्ततः ॥१ ०४॥ पुर्यष्टकाद् भुवनानामन्तरालेभ्य आययुः ।
पातालेभ्यस्त्रिसृष्टिभ्यो विमानानि समाययुः ॥१०५ ॥ आमन्त्रितानां यानानि कोट्यर्बुदानि चाययुः ।
अम्बरं छन्नभावं वै प्राप्तं विमानकोटिभिः ॥१०६ ॥ स्वर्गं स्वर्गं महास्वर्गं ब्रह्मस्वर्गं तदाऽभवत् ।
सूर्यवत्काशमानं वै दिवं द्वितीयकं ह्यभूत् ॥१ ०७॥ राधिके जीवसृष्टिश्चेश्वरसृष्टिस्तथा परा ।
ब्रह्मसृष्टिः सर्वविधा त्वाययौ वै निमन्त्रणात् ॥१० ८॥ निशा लयं गता तत्र श्रीहरेश्चैकरोमके ।
स्वागतं स्म प्रकुर्वन्ति ब्रह्मविष्णुमहेश्वराः ।
महीमानाश्चाम्बराच्चावतरन्त्युचितस्थलीः ॥१०९ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रायकिन्नरनृपाय सौवर्णमूर्तिविधापनादेशः, नारदादीनां कुङ्कुमामन्त्रणपत्रिकायुक्तानां सृष्टिषु प्रेषणं, हरेः रायरोकीश्वरनृपराष्ट्रगमनं पूजनं स्फूर्तिनारीनगर्यां
देशे च भ्रमणं पुनर्यज्ञस्थलागमनं, महीमानानामागमश्चेत्यादिनिरूपणनामा त्र्यधिकद्विशततमोऽध्यायः ॥२०३ ॥