२०१

श्रीराधिकोवाच-
कान्त कान्त कृपासिन्धो राधापते रमापते ।
अमरीणां प्रदेशेषु किं किं चकार माधवः ॥१ ॥ क्व क्व कुत्र ययौ तस्थौ कैः कैः संसेवितो हरेः ।
चमत्काराश्च के तत्र दर्शिताः परमात्मना ॥२ ॥ प्रजाभिः किं कृतं तत्र प्राप्ते परेश्वरे प्रभौ ।
काँस्कान् देशान् जगामाऽयं भगवान् भूतभावनः ॥३ ॥ वदाऽमरीप्रदेशानां भगवच्चरितानि मे ।
यानि यान्यभवँस्तत्र ब्रह्मप्रियानिषेवितुः ॥४ ॥ बहुतृप्ता भवाम्यस्य भूत्वा नाथस्य सत्कथाः ।
पुनस्तृषा भवत्येव श्रोतुं तच्चरितानि मे ॥५ ॥ श्रीकृष्ण उवाच-
शृणु त्वं राधिके यावच्चरित्राणि वदामि ते ।
यज्ञः पूजा स्वागतादि समर्पणं निदेशनम् ॥६ ॥ भ्रमणं मन्त्रदानं च दिव्यदर्शनकानि च ।
मोक्षणं देहिनां तीर्थीकरणं सरितां तथा ॥७ ॥ सरसां सागराणां च पावनीकरणं शुभम् ।
कथयामि समासेन चमत्कारमयानि ते ॥८ ॥ यज्ञं चकार भगवान् विनिपारसरस्तटे ।
शेषकाष्ठवनासङ्गे विशाले भूतले शुभे ॥९ ॥ वैष्णवं सर्वदेवानां तृप्तिदं प्राणिनामिह ।
सृष्टित्रयस्थदेह्याद्या जडाश्च चेतनास्तथा ॥2.201.१ ०॥ बालकृष्णस्य हस्ताभ्यां तृप्तिं ते शाश्वतीं ययुः ।
केनाटकप्रदेशानां खण्डानां सार्वभौमकः ॥११ ॥ राजा पञ्चसरसां वै रायकिन्नरनामकः ।
दिविमानायनर्षिश्च साहाय्यं चक्रतुः क्रतौ ॥१ २॥ वैष्णवौ परमौ तौ द्वौ लालायनस्य सङ्गमात् ।
तुषितस्य प्रतापेन भक्तोत्तमौ बभूवतुः ॥१३ ॥ लालायनस्य शिष्यो वै राजा ऋषेर्निदेशतः ।
मङ्गलपत्रिकाः सम्प्रेषयामास मखार्थिनीः ॥१४॥ लालायनस्य योगेन चामरीणां प्रदेशकाः ।
वैष्णवीभिः प्रजाभिश्च वासिताः सन्ति धर्मिणः ॥१५॥ खण्डे खण्डे च राजानो भवन्तश्च प्रजाजनाः ।
वैष्णवत्वं चोपगता अहोभाग्यानि तानि नः ॥१६॥ यो वै नारायणानां श्रीनारायणः परेश्वरः ।
यद्भक्ताश्च वयं स्मोऽत्र स श्रीकृष्णनरायणः ॥१७॥ मम राज्ये समागत्य यज्ञं वै वैष्णवं शुभम् ।
करिष्यतीति सर्वैरागन्तव्यं तन्मखोत्सवे ॥१८॥ भाद्रशुक्लस्य सप्तम्यां क्रत्वारम्भो भविष्यति ।
पञ्चम्यां परमात्मा स विमानादागमिष्यति ॥१ ९॥ खण्डगैः राजभिश्चात्र संहितव्यं पुरा दिने ।
स्वागतार्थं हरेः सर्वैः प्रजाजनैश्च सात्त्वतैः ॥2.201.२० ॥ सैन्यशोभासुसहितैः कर्तव्यं हरिमाननम् ।
एकादश्यां समाप्तिश्च क्रतोरस्य भविष्यति ॥२१ ॥ लालायनाऽऽज्ञया रायकिन्नरोऽहं लिखामि च ।
उक्तैरनुक्तैः सर्वैरागन्तव्यं स्त्रीनरैरिह ॥२२॥ इत्येवं चामरीणां वै प्रदेशेषु सुपत्रिकाः ।
प्रेषयामास दूतैः स रायकिन्नरभूपतिः ॥२३॥ प्राप्याऽऽमन्त्रणपत्राणि त्वाययुस्त्वरितं जनाः ।
उत्सुका नरनार्याद्या दर्शनार्थं कुटुम्बिनः ॥२४॥ विमानैर्वाहनैर्यानैराजग्मुश्चोपदायुताः ।
स्वर्णरूप्यकधान्याद्यै रत्नहीरकसद्रसैः ॥२५॥ यज्ञीयवस्तुभिर्योग्यैर्देयैः सह समाययुः ।
कोटिशो मानवाः शेषकाष्ठावनानदीतटे ॥२६॥ विनिपारसरोयोगे राजानोऽपि तदाऽभवन् ।
सैन्यानि बहुरङ्गानि समायातानि भूभृताम् ॥२७॥ स्वागतार्थं हरेश्चासन्नुपस्थिताः सुवेषिणः ।
वाद्ययुक्ता ध्वजापताकिकावावटशोभिताः ॥२८॥ हेतिहस्ता गजवाहा अश्ववाहोष्ट्रवाहिनः ।
दशयोजनविस्तारे क्लृप्तनूतनपत्तने ॥२९॥ सम्मर्दोऽभूत्तदा शेषकाष्ठवनानदीतटे ।
सरस्तीरेऽनुशयिनां कोट्यब्जनरयोषिताम् ॥2.201.३ ०॥ स्वर्गवद्भ्राजते यज्ञपत्तनं नूतनं तदा ।
पत्तनं तद्धरिकृष्णोऽलोकयत्त्वम्बरान्मुहुः ॥३ १ ॥ मण्डपार्थं समालोक्य भूमिं सरसोरान्तरे ।
दिविमानायनर्ष्युक्तदिशां वीक्ष्य समस्थलीम् ॥३२॥ चक्रं विधाय सर्वोर्ध्वेऽवातारयद्विमानकम् ।
वादित्रनिनदाश्चासन्नमरीणां च गीतिकाः ॥३ ३॥ जयध्वानाः प्रजानां च तदाऽऽसन् व्योमयोगिनः ।
तूपशब्दा यन्त्ररवा मानने त्वभवन् हरेः ॥३४॥ श्रेष्ठा दश नृपस्तत्र सार्वभौमा ह्युपस्थिताः ।
गृहीत्वा चोपदाः स्वर्णपात्रेषु सप्रधानकाः ॥३५॥ रायकिन्नरनृपतिः रायरोकीश्वरो नृपः ।
रायरणजिद्भूपश्च रायवाकक्षको नृपः ॥३६॥ रायमारीशभूपश्च रायबालेश्वरो नृपः ।
रायलम्बारभूपश्च रायनवार्कभूपतिः ॥३७॥ रायहण्डेशभूपश्च रायकूपेशभूपतिः ।
एते सैन्यैः सुयुक्ताश्च स्वागतार्थं हरेस्तदा ॥३८॥ विमानैस्तत्र चागत्य प्रागेव समुपस्थिताः ।
हस्त्यश्वरथवाहाद्यैः शृङ्गारितसुविग्रहैः ।
सैन्यं स्वागतकार्यार्थं तदाऽभूत्तु व्यवस्थितम् ॥३९॥ वादका नीतिकर्तारश्चाग्निरञ्जनवेषिणः ।
जलवाद्यविधर्तारो नृत्यवाद्यप्रशब्दिनः ॥2.201.४० ॥ गलवाद्यप्रभावज्ञा मयूरवंशिवाद्यकाः ।
तारवाद्यातिकुशलाः पटहध्वानकारिणः ॥४१ ॥ सहशारीरचेष्टाकाः सशस्त्रा नमनार्थिनः ।
वेत्रधरा गणवेषा व्याघ्रवेषाश्च भाल्लुकाः ॥४२॥ पिङ्गवेषाः परीवेषा अवधूतस्वरूपिणः ।
शूलचक्रधराश्चापि चर्मखड्गधरास्तथा ॥७३ ॥ तांसकैः करतालैश्च विगुलैर्लक्षिता अपि ।
शङ्खिनो वज्रिणश्चापि सुकन्यावेषिणस्तथा ॥४४॥ जटावेषधराश्चापि योद्धृवेषातिशोभनाः ।
अर्जुनाम्बरयुक्ताश्च रक्ताम्बराः प्रचित्रिणः ॥४५॥ सुछत्रैर्व्यजनैश्चापि चामरैर्गुच्छकैस्तथा ।
वर्धयित्वा दर्पणैश्च स्वागतार्थं ह्युपस्थिताः ॥४६॥ अमर्यो योषितस्तत्र पाण्डुराभाः सुयौवनाः ।
कन्यका रक्तकाधराः पूरवेगातिसम्भृताः ॥४७॥ नीलपीतहरिद्वर्णवेषाः स्वर्णविभूषणाः ।
किङ्किणीजालमालाद्यैरम्बरैरतिशोभिताः ॥४८॥ धृतस्थाला हरेरर्चनार्थं लाजाक्षतान्विताः ।
कल्हारपद्मकुमुदैः कादम्बपारिजातकैः ॥४९॥ कुन्दसाहस्रपत्रैश्च स्थलपद्मैः सुकेसरैः ।
चाम्पकैः कामलैर्हारैः शेखरैः स्रग्भिरन्विताः ॥2.201.५०॥ कुङ्कुमवाटिकायुक्ताः पूजार्हचन्दनान्विताः ।
अमर्यस्तत्र चायाता लक्षशो दिव्ययोषितः ॥५१॥ सहस्रशो राजयोषा असङ्ख्याताः प्रजास्त्रियः ।
केनाटकाः सर्वदेशा मङ्गलामन्त्रणैस्तदा ॥५ २ ॥ सम्राजो मन्दिरे रायकिन्नरस्य मखोत्तमे ।
आयास्यतो बालकृष्णहरेर्दर्शनलब्धये ॥५३ ॥ आबालवृद्धा मनुजाः कोट्यर्बुदाब्जसङ्ख्यकाः ।
आययुस्ते स्वागतार्थ हरेः समुपतस्थिरे ॥५४॥ शेषकाष्ठवनानद्या विनिपारसरोवरे ।
सङ्गमस्याऽतिदीर्घ भूतले समुपतस्थिरे ॥५५॥ आगन्तुकानां वासार्हं नगरं बहुयोजनम् ।
मखसेवाभिधं व्यद्योतत स्वर्गमिवाऽपरम् ॥५६॥ मणिसेवानगर्याः सन्निधौ पूर्वं सरोवरात् ।
राजदर्शितमार्गेण भगवान् कृष्णवल्लभः ॥५७॥ विमानं सूर्यसदृशं चावातारयदम्बरात् ।
द्योतयत्तु दिशः सर्वाः स्वर्णवर्णमशोभत ॥५८॥ भूमौ स्थैर्य समवाप्य चन्द्रतुल्यं व्यदृश्यत ।
अन्यान्यपि विमानानि चावतेरुस्ततोऽम्बरात् ॥५९॥ आकृतिग्राहकयन्त्रैः कुशला जगृहुः कृतिम् ।
राजानस्तं त्वेकसूत्रे तिष्ठन्तश्चक्रुरानतिम् ॥2.201.६ ०॥ सैन्यानि नेमिरे देहैर्वाद्यैर्नृत्यकलादिभिः ।
सम्राजा सहिताः सर्वे नृपास्तन्निकटं ययुः ॥६ १ ॥ ईशानो लोमशश्चोभौ विमानाग्रं प्रजग्मतुः ।
वृकायनो नीलकर्णश्चोभौ पश्चात् समागतौ ॥६२॥ द्वारपालाः पार्षदाश्चांऽगणे तस्थुः सवेत्रकाः ।
निःश्रेणी समधिप्राप्य राजानस्तस्थुरीक्षकाः ॥६ ३ ॥ तावद्धरिर्बालकृष्णः पितृभ्यां सहितो बहिः ।
विमाने त्वाययौ चाग्रे सुभास्वरे तु गोपुरे ॥६४॥ कोटिकोट्यर्कचन्द्राग्निविद्युद्भास्वरविग्रहः ।
तोरणाऽधःस्थितं चञ्चद्विद्युदाभां तु वल्लभीम् ॥६५ ॥ करेण च मनाक् स्पृष्ट्वा मन्दहास्यं मनोहरम् ।
श्रीकृष्णं तं बालकृष्णं रायकिन्नरभूपतिः ॥६ ६ ॥ प्रणम्य गन्धविपुलां मालतीपुष्पमालिकाम् ।
चित्ररङ्गां ददौ कण्ठे रत्नहारं ददौ ततः ॥६७॥ गुच्छं पौष्पं ददौ हस्ते चन्दनार्क तु भालके ।
ददौ सुगन्धसाराणि पात्रेण सन्धृताम्बरे ॥६८॥ पादयोश्चाक्षतान् स्वर्णमयान् मूर्ध्नि सुतन्दुलान् ।
पुष्पाणि विग्रहे राजा चिक्षेपार्हणकर्मणा ॥६९॥ जलं दुग्धं ददौ ताम्बूलकं फलं च सन्निधौ ।
कृताञ्जलिः प्रार्थयच्च मखार्थक्ष्मां विलोकितुम् ॥2.201.७०॥ हरिः शनैः स्वर्णसोपानकैरवाततार ह ।
ततो दत्तासने सैंहे क्षणं वा निषसाद ह ॥७१॥ रायरोकीश्वरः पुष्पहारै रत्नैरपूजयत् ।
रायरणजिद्भूपश्च मण्याद्यैस्तमपूजयत् ॥७२॥ रायवाकक्षको राजा स्वर्णाद्यैस्तमपूजयत् ।
रायमारीशभूपोऽपि रत्नाद्यैस्तमपूजयत् ॥७३ ॥ रायबालेश्वरो राजा हीरकैस्तमपूजयत् ।
रायलम्बारभूपश्च धनाद्यैस्तमपूजयत् ॥७४॥ रायनवार्कभूपश्च माणिक्यैस्तमपूजयत् ।
रायहण्डेशभूपश्च मुक्ताभिस्तमपूजयत् ॥७५॥ रायकूपेशभूपश्च राजतैस्तमपूजयत् ।
अथ प्रधानाः सर्वेऽपि पुपूजुर्भूषणादिभिः ॥७६ ॥ श्रेष्ठिनोऽपि प्रभुमानर्चुश्च धनान्नसद्रसैः ।
हव्यकव्यादिभिश्चापि समिद्भिर्बहुवस्तुभिः ॥७७॥ पुपूजुश्च प्रजावर्गाः श्रीपतिं पुरुषोत्तमम् ।
पूजास्वागतमातः श्रीहरिः पप्रच्छ ताँस्तदा ॥७८॥ अनामयं सुकुशलं क्षेमं योगं सुखादिकम् ।
राजाद्याः सम्प्रणम्यैव प्राहुस्ते कृपया सुखम् ॥७९ ॥ सर्वविधं विद्यतेऽत्र दिनेऽद्य तु महत्सुखम् ।
स्वर्णसूर्योदयस्त्वद्य जातो नस्ते कृपा यतः ॥2.201.८० ॥ प्राप्तोऽद्य शाश्वतो लाभो यद्भवद्दर्शनं त्विह ।
सिद्धाश्चाद्य चतुर्वगाश्चत्वारश्च पुमर्थकाः ॥८ १ ॥ राज्यभारफलं त्वद्य लब्धं लब्धव्यलाभतः ।
श्रीः सर्वा चेन्द्रपदवीप्रदात्री नो गृहेऽद्य वै ॥८२॥ पुण्यं त्वक्षयमद्यैवाऽऽसादित तव दर्शनात् ।
पावना नोऽद्य देशा वै भवदागमनात् प्रभो ॥८३ ॥ सम्पदः सार्थकास्त्वद्य भवता विनियोजिताः ।
सत्कार्ये सफलाः सर्वा लक्ष्मम्बोऽपि विविधा ध्रुवाः ॥८४॥ मानवाः कृतकृत्याश्च वय माधवदर्शनात् ।
नरा नार्यो बालबाला वृद्धाः पुण्यतमा ननु ॥८९ ॥ पशवो वृक्षवल्ल्याद्या बहुपुण्या दिनेऽद्य वै ।
पक्षिणो जलगाश्चापि भूमिगा वनिनोऽपि च ॥८६ ॥ यदत्र भवतां पादौ स्पृशतो भूतलादिकम् ।
भूरियं बहुभाग्या च धामतुल्या हि मोदते ॥८७॥ जाताऽद्य पुलकाढ्या सा गन्धदानैर्विशेषतः ।
क्षा द्र्रुमास्तृगस्तम्बा धन्यभाग्या दिनेऽद्य वै ॥८८ ॥ यदत्र भवतां पादरजःपूता भवन्ति ते ।
धन्याः पिपीलिकाद्याश्च भवत्प्रसादभागिनः ॥८९॥ धन्या जनपदास्त्वेते यत्र नारायणागमः ।
प्राकट्यं मोक्षदं त्वद्य प्रावर्तत हरेस्तव ॥2.201.९० ॥ धनं धान्यं राज्यमृद्धिः पुत्राः पुरो गजादयः ।
यानवाहनसमृद्धिः सर्वं सफलमेव यत् ॥९ १ ॥ तवागमेन भगवन् किं किं न्यूनं भवेन्ननु ।
सर्वं नः पूर्णमेवाऽस्ति हरेर्लाभो हि दुर्लभः ॥९२॥ यज्ञं कृत्वा पावयाऽस्मान् कल्याणं कुरु शाश्वतम् ।
सदा देशेऽत्र वसतिं तवेच्छामोऽनुगास्तव ॥९३ ॥ इत्युक्त्वा तु नमस्कारं चक्रे राजा तु किन्नटः ।
अन्ये नृपाः प्रणेमुश्च ततो वै भगवान् स्वयम् ॥९४॥ समुत्थाय क्षितिं योग्यां द्रष्टुं चचार चाभितः ।
शेषकाष्ठवनानद्याः सङ्गमाद् दक्षिणे स्थले ॥९५॥ बहुयोजनविस्तारे मण्डपार्हां क्षितिं शुभाम् ।
वीक्ष्य चाज्ञापयामास राजानं मण्डपाय वै ॥९६॥ राजदूता विष्णुदूताः शिवदूतास्तथाऽपरे ।
स्मृतास्तत्राऽऽययुः शीघ्रं विश्वकर्मा समाययौ ॥९७॥ तानाज्ञाप्य नवकुण्डान् कर्तुं श्रेष्ठं च मण्डपम् ।
आप्रातः सर्वमेवैतद् यथा स्यात् समुपस्थितम् ॥९८॥ हरिर्निवाससौधं च ययौ मध्याह्नके ततः ।
भोजनादि चकाराऽथ विशश्राम ससार्थकः ॥९९॥ सर्वे ते मण्डपं चक्रुः रात्रावेव सुशोभनम् ।
कुण्डवेदीमहावेदीशोभितं कलशगृहैः ॥2.201.१०० ॥ वस्तुगृहैर्वह्निशालाभिश्च युक्तं मनोहरम् ।
मणिसेवानगर्यन्तं मण्डपं संविधाय च ॥१० १॥ पार्षदा यज्ञसमिधश्चाहर्तुं परितो गताः ।
ऋषयः सर्वगाङ्गेयास्तथा लोमशशिष्यकाः ॥१०२॥ यज्ञसम्भारकान् चक्रुर्देवा देव्यश्च तन्मयाः ।
षष्ठ्यां कृताह्निकः कृष्णो महीमानपुरीं नवाम् ॥१० ३॥ वीक्षितुं प्रययौ हस्तिपृष्ठासनो नृपैर्युतः ।
पाकशाला रसशालाः स्नानशाला महायताः ॥१ ०४॥ स्वापशालाः शान्तिशाला हव्यशाला व्यलोकयत् ।
राजभिः पूरिताः पात्रशाला महानसानि च १०५॥ व्यलोकयत्सुसामग्रीसम्भृताः सर्वसंविधाः ।
हरिः सस्मार वै प्रातर्देवेन्द्रं चाऽमृतान्वितम् ॥१ ०६॥ शीघ्रं समाययौ तत्र महेन्द्रोऽमृतसंयुतः ।
अमृतस्य ह्रदस्तत्र परितोऽक्षयतृप्तिकृत् ॥१ ०७॥ स्मृताः कल्पलतास्तत्र त्वाययुः फलसंयुताः ।
फलानां पर्वतास्ताभिः कृता यज्ञार्थमेव ह ॥१ ०८॥ स्मृताः पुष्पकणदाश्च वृक्षसस्यद्रुमादयः ।
कल्पवृक्षाः कणपुष्पादीनां वै पर्वतान् व्यधुः ॥१० ९॥ आगताः कामदुग्धध्राः स्मृता वै निजधामतः ।
घृतकुल्या दधिकुल्याः पयःकुल्याश्च धेनुभिः ॥2.201.११ ०॥ सम्भृता हव्यशालासु त्वक्षया द्रव्यपूरिताः ।
अन्नपूर्णा सती देवी शिवा लक्ष्मीस्तदा स्मृता ॥१११ ॥ आगतास्ताः पर्वताँश्च चक्रुः पक्वान्नकल्पितान् ।
पृथ्वी मूर्ता समागत्य मिष्टं शर्करपर्वतम् ॥११ २॥ व्यधाद्धरेर्वचनात् सा जलदेवो रसान् व्यधात् ।
ओषधयः समस्ताश्च वेषवारादिकान् व्यूधुः ॥११ ३॥ ब्रह्मा स्वयं स्मृतस्तत्र समायातश्चतुर्मुखः ।
निर्ममे योग्यसंवासाँस्तथोपकरणानि च ॥१ १४॥ कुबेरो दक्षिणार्थं च स्वर्णरूप्यादिकं न्यधात् ।
एवमन्ये राष्ट्रपाला लोकपालाः प्रजेश्वराः ॥१ १५॥ संस्मृतास्त्वाययुः शीघ्रं पूर्तये हव्यकव्ययोः ।
षष्ठ्यां मध्याह्नके जाते सर्वं सम्पूर्णमूर्जितम् ॥१ १६॥ सुसम्पन्नं समभूच्च न्यूनं किञ्चिन्न विद्यते ।
कोटिशो मानवान् राजा किन्नरो मिष्टभोजनैः ॥१ १७॥ तर्पयामास बहुधा समस्ताँस्तान्प्रजाजनान् ।
हरिः कुटुम्बसहितो महर्षिमण्डलान्वितः ॥१ १८॥ निजसार्थयुतस्तत्र जग्राह भोजनानि वै ।
ततो राजाऽऽर्थयत् कृष्णं रायकिन्नरभूपतिः ॥१ १९॥ राधिके स्वालये कृष्णं त्वागन्तुं सैन्यसत्कृतम् ।
नगरे भ्रमितुं चापि कृष्ण ओमाह तत्क्षणम् ॥2.201.१२० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने केनाटकेषु क्रतोर्मङ्गलपत्रिकाप्रेषणम् । समागतहरेर्दशभूपादिकृतं स्वागतम्, कुशलप्रश्नादिकम्, मण्डपादिनिर्माणाज्ञा, भोजनादिकं क्रतुपकरण-
सञ्चयादीत्यादिनिरूपणनामैकाधिकद्विशततमोऽध्यायः ॥२०१ ॥