१९४

श्रीकृष्ण उवाच-
राधिके विष्णुतुल्यायास्तटे विशालवर्तुले ।
उद्याने श्रीबालकृष्णो विमानाद् बहिराययौ ॥१ ॥ राजा पुष्पस्रजः कण्ठे ददौ नारायणस्य ह ।
ऋषिर्हारान् ददौ राज्ञी प्रधानाद्या ददुः स्रजः ॥२ ॥ सुपुष्पैः प्रजया कृष्णो वर्धितस्त्वक्षतादिभिः ।
गुच्छे करे न्यधाद् राजा श्रीकृष्णवल्लभप्रभोः ॥३ ॥ गन्धसारादिकं गन्धिजलं वेषेऽप्यदात्तदा ।
पादौ प्रक्षाल्य राजाद्या अमृतं च पपुस्ततः ॥८ ॥ वरसिंहो नृपः कृष्णं यन्त्रगन्त्र्यां न्यषादयत् ।
कुटुम्बं दीर्घगन्त्र्यां च महर्षीन् वातगासु च ॥५ ॥ ब्रह्मप्रिया गजयानेष्वेव राजा न्यषादयत् ।
महीमानयुतं शम्भुं शारभेयरथे शुभे ॥६ ॥ न्यषादयत्ततो वाद्यैः सैन्यसत्कारबोधनैः ।
वाशीलायां नगर्यां वै हरिं चाऽभ्रामयन्नृपः ॥७ ॥ गोपुरेऽपूजयत् कृष्णं ततो राजकुटुम्बकम् ।
प्रधानाश्चत्वरे कृष्णं पुपूजुश्च कुटुम्बिनः ॥८ ॥ श्रेष्ठिनस्त्वापणाग्रेषु स्थानिनो मार्गसङ्गमे ।
प्रजाः सर्वा महामार्गे पुपूजुः कृष्णवल्लभम् ॥९ ॥ तदानीं योषितो गौर्यः समारूक्षन् निजालयान् ।
हरिं विलोकयन्त्यश्चाऽवाकिरन् पुष्पकैर्हरिम् ॥2.194.१ ०॥ प्रोचुः परस्परं गौर्यो हृष्टाः शान्तिं गतास्तदा ।
नेत्रायतफलं प्राप्य तद्वीक्षाकृष्टमानसाः ॥११ ॥ करुणातिनोदितसुदत्तदर्शनं
ललना शरीरिभिरगम्यदर्शनम् ।
प्रसमीक्ष्यसुन्दरतरं हरिं न्वमुं
सफलं स्वकं कुरुत जन्म मा चिरम् ॥१२॥ विषयातिलुब्धमवशं प्रवासनं
नहि मानसं समुपगच्छति स्थितिम् ।
इति चाति लुब्धमवशं प्रदर्शना-
न्ननु योषितो भवति माधवः स्वयम् ॥१ ३॥ प्रणमत्सुराधिपतिभूपतीशधृक्-
मुकुटाग्रकल्गिकृतयोगितासनम् ।
चरणारविन्दयुगलं सतीनुतं
कमलाधृतं कुरुत मानसे न्विदम् ॥१४॥ परधाम्नि यश्च शुभदिव्यविग्रहः
परिवर्णितोऽस्ति निगमैर्गुणाश्रयः ।
विभवर्द्धिरूपगुणकैः प्रपूरितः
प्रभयावृतं कुरुत मानसे न्विमम् ॥१५॥ बहुकान्तिसम्भृतमिमं हि सुन्दरं
बहुपुष्टविग्रहमिमं ग्रहाश्रयम् ।
अबलाः पुनर्न तु गतं त्ववाप्स्यथ
तदयं सदा स्वहृदये निगृह्यताम् ॥१६॥ वदनाम्बुजं विविधतापनाशनं
मितमन्दमिष्टहसनातिलोभनम् ।
भुवि मुक्तिदं च परलोकमुक्तिदं
न्विषपूर्णचन्द्रसुखदं निपीयताम् ॥१७॥ पुरुषोत्तमोऽयमतिकर्षति द्रुतं
हृदयं तथेन्द्रियगणं च चेतनम् ।
तमवेत्य कान्तमिह शाश्वतं प्रभुं
हृदये मिलन्तु मिलितः प्रभुज्यताम् ॥१८॥ हृदयस्थितो बहिरुपागतो ह्ययं
कुसुमैश्च मानसभरैः प्रपूज्यताम् ।
रतिरत्नहीरकसमर्पणैरयं
परिरब्ध आलि! मिलितः प्रसेव्यताम् ॥१९॥ इत्थं गीतयशाः कृष्णो भ्रमित्वा नगरीं ततः ।
राजहर्म्यं समायातो वन्दितो नागरैर्जनैः ॥2.194.२०॥ राजा तूर्णं हरेः पादौ पूजयामास चन्दनैः ।
अक्षतैः कुसुमैश्चापि हरिः सिंहासनेऽभवत् ॥२१ ॥ निषीदन्तं पुष्पहारैः कुसुमैस्तं ववर्ष ह ।
लोकः प्रेमभरैर्हद्भिः स्थिरनेत्रो ददर्श च ॥२९॥ सभाऽतिमहती तत्र कृता श्रीपरमात्मना ।
उपादिदेश च तदा जनताहितहेतवे ॥२३ ॥ भगवान् परमेशो यो राजते परमेऽक्षरे ।
कृपया स समायाति निजप्रजावनाय वै ॥२४॥ प्रजाः पुत्र्यो भगवतः पालनीयाश्च मातृवत् ।
पोषणीयाः सुखनीया नेतव्याश्चाक्षरं पदम् ॥२५॥ सर्वावतारधर्ताऽहं श्रीस्वामिकृष्णवल्लभः ।
मायां प्रमृद्य लोकेऽत्र वर्ते भवत्प्रगोचरः ॥२६ ॥ काम्भरेयो राधिकेशो लक्ष्मीपद्मावतीपतिः ।
माणिकीशः रमानाथः स्वयं गोपालनन्दनः ॥२७॥ ब्रह्मप्रियाणां कान्तश्च सर्वसृष्टिपतिः प्रभुः ।
सद्गुणामञ्जुलाहंसाललिताविजयापतिः ॥२८॥ यत्र वासोऽत्र लोकेऽपि मे तद् धाममयं भवेत् ।
नारायणनिवासेन भूमिवैकुण्ठसदृशी ॥२९॥ जातेयं भगवान् हेतुर्दिव्यत्वे दिव्यभाविनि ।
तथा भक्तोऽपि मे हेतुः सद्देशादिसमर्जने ॥2.194.३ ० ॥ राजा भक्तो भवेच्चेद्वै तत्र कृतयुगो भवेत्॥ नीतिधर्मयुतो राजा कृतं प्रवर्तयेत् खलु ॥३ १ ॥ तत्र वै सर्ववर्णानां नाऽधर्मे जायते मतिः ।
क्षेमं प्रजानां सुभगं सर्वदा हि प्रवर्तते ॥३२॥ सत्कर्माणि समस्तानि क्रियन्ते तु द्विजातिभिः ।
सुसुखाः ऋतवः सर्वे भवन्त्यपि निरामयाः ॥३ ३॥ प्रसीदन्ति मानवाश्च हृदा च मनसा गिरा ।
न जायन्ते व्याधयश्च नाल्पायुर्जायते जनः ॥३४॥ कृपणा न जनास्तत्राऽपतिका न च योषितः ।
पृथ्वी चापि विना कृष्टिं जनयत्येव सस्यकम् ॥३५॥ ओषधयः फलन्त्येव क्ष्मारसेन सुखप्रदाः ।
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्त्यपि ॥३६॥ धर्म एव सुखं चैव तृप्तिश्चैव गृहे गृहे ।
जने जने च विश्वासः सुखं नोद्वेजनं क्वचित् ॥३७॥ एवं राजा धर्मयुक्तः सत्यकालस्य कारणम् ।
यदांऽशं त्यजते राजा धर्मस्यैव तदा भवेत् ॥३८॥ त्रेतानामयुगश्चात्र मानवेषु स्थले स्थले ।
अशुभांशश्चतुर्थांशस्तावन्मानं च कष्टकृत् ॥३९॥ कृष्टपच्या भूर्भवेच्च त्रिभागफलदा तदा ।
सर्वं त्रिभागफलदं फल्गु भागे चतुर्थके ॥2.194.४०॥ सुखे तत्साधने चापि लब्धव्ये विषयेऽपि च ।
सर्वं पूर्णं न फलति त्रेताहेतुर्नृपो यदा ॥४१ ॥ अर्धं राजा यदा धर्मं नीतिं त्यजति वै तदा ।
द्वापरं नृपतौ प्राप्तं प्रजास्वेवं प्रवर्तते ॥४२॥ मेघेऽरण्ये ऋतौ वृक्षे रसे गोषु प्रवर्तते ।
अशुभांशौ भवेतां द्वौ शुभांशौ द्वौ मतौ तदा ॥४३ ॥ सर्वं चार्धं फलत्येव बाह्यं वाऽन्तरमित्यपि ।
स्वकीयं वा च पारक्यं दैवं वाऽदैवमित्यपि ॥४४॥ स्वार्थं वाऽथ परार्थं वा चार्धं फलति सर्वथा ।
अर्धा पृथिवी फलति सस्येष्वर्धकणर्द्धिता ॥४५॥ यदा राजा त्यजत्येव त्र्यंशं धर्मं तदा भुवि ।
ऋतौ रसे जने वृक्षे कार्ये फले च पादता ॥४६ ॥ त्र्यंशे निष्फलता बोध्या चांऽशेऽपि निश्चयो नहि ।
एवं वै वर्तते राजा तदा तिष्यः प्रवर्तते ॥४७॥ प्रजा क्लिश्नात्ययोगेन तदाऽधर्मपरा जनाः ।
सर्वेषां मानवानां वै स्वधर्माच्च्यवते मनः ॥४८॥ कलावधर्मो बलवान् गृहे गृहे जने जने ।
भिक्षवो वर्णसर्वस्वा भृत्याश्च सार्ववर्णिकाः ॥४९॥ वर्णसाङ्कर्यभूयिष्ठं योगक्षेमौ न वै क्वचित् ।
सत्कर्माणि न विद्यन्ते कुतो वैदिकवार्तिका ॥2.194.५०॥ ऋतवश्चाऽसुखाः सर्वे भवन्त्यामयिनो जनाः ।
असत्ये विजयं मन्यमानास्तिष्ठन्ति सर्वदा ॥५१ ॥ ह्रसन्ति मानवानां तु रूपस्वरमनांस्यपि ।
व्याधयो नूतनास्तत्र म्रियन्ते चाल्पकालिनः ॥५२॥ विधवा विधुराः प्रायो भवन्ति बहवो जनाः ।
निन्द्या एव प्रजाः प्रायः सुखशान्तिविवर्जिताः ॥५३॥ पार्श्वे वर्षति पर्जन्यः पक्षेऽवग्रहकारकः ।
क्वचित्सस्यकणोत्थाणं क्वचिच्चाङ्कुरदग्धता ॥५४॥ रसाः क्षयं गताः स्युश्च यदा राज्ञि कलिर्भवेत् ।
प्रजारक्षाहनो भूपाः कलिकोशा भवन्ति वै ॥१५॥ राजा कृतस्य स्रष्टा वै त्रेताया द्वापरस्य च ।
कलेश्च स्रष्टा राजैव कारणं युगपर्यये ॥५६॥ कृतस्य करणाद् राजा स्वर्गमुत्तममश्नुते ।
त्रेतायाः करणाद् राजा त्र्यंशं स्वर्गं समश्नुते ॥५७॥ द्वापरस्याऽर्जनाद् राजाऽर्धं सुखं समविन्दति ।
कलेः प्रवर्तनात् क्लेशं राज्यनाशं च विन्दति ॥५८॥ एवं कलौ पापमेव भुङ्क्ते राजा हि राक्षसः ।
ततो यात्येव नरके वसत्येव चिरं समाः ॥५९॥ प्रजानां कल्मषं भुङ्क्ते दुःखं भुङ्क्तेऽप्यसीमकम् ।
पापं चाप्यपकीर्तिच भुङ्क्ते दुःखपरम्पराम् ॥2.194.६०॥ तस्मान्नीत्या सदा राज्ञा वर्तितव्यं कृतादिवत् ।
चरेद्धर्मानसम्मोहान् कुर्यात् स्नेहं विबन्धनात् ॥६ १ ॥ लभेदर्थं च निर्लोभाच्चरेत् कामं सदार्तवात् ।
ब्रूयात् प्रियं न कार्पण्यात् परक्रमेन्न कत्थनात् ॥६२॥ दद्यात् कुपात्रदो न स्यात् स्याद् गम्भीरो न निम्नगः ।
मिलेत् सर्वैरनार्यैश्च गृह्णीयान्नाप्यनीतितः ॥६३ ॥ अचारो न भवेत् क्वापि कार्यं कुर्यान्न पीडयेत् ।
अर्थं वदेन्न दुष्टेषु गुणान् वदेन्न चात्मनः ॥६४॥ आदद्यान्न दरिद्रेभ्यो नाश्रयं दुःसतश्चरेत् ।
अविमृश्य दण्डयेन्न रहस्यं न प्रकाशयेत् ॥६५॥ विसृजेन्न तु दुष्टेभ्यो विश्वसेन्नापकारिषु ।
ईर्ष्याशून्यो भवेच्चापि दारेष्वपि प्रजास्वपि ॥६६॥ स्त्रीः संसेवेत नात्यर्थं मृष्टं भुञ्जीत नाऽहितम् ।
मानयेत् पूज्यवर्गाश्च गुरून् सेवेत् भावतः ॥६७॥ देवान् प्रपूजयेद् भक्त्या श्रियं चेच्छेदनिन्दिताम् ।
दाक्ष्यं कुर्याद् यथापेक्षं मार्दवं कालविच्चरेत् ॥६८॥ सान्त्वयेत् हार्दलाभायाऽनुगृह्णीयात् समृद्धये ।
प्रहरेत् तत्त्वमाज्ञाय कृत्वा पश्चान्न शोचयेत् ॥६९॥ क्रोधं कुर्यान्नान्यथा वै मार्दवं गृह्णीयान्न च ।
सतः सेवेत सततं शान्तये मोक्षणाय च ॥2.194.७० ॥ समाध्यर्थं पण्डिताँश्च सेवेत सततं नृपः ।
एवं बुद्धिं प्रसेवेत प्रातरुत्थाय निर्जने ॥७१ ॥ सेवेत चान्तरात्मानं मां यथार्थप्रदर्शिने ।
चत्वारिंशद्गुणैः राजा देवत्वमिव राजताम् ॥७२॥ विकासयितुमर्हः स्यात् तस्मान्नीतियुतो भवेत् ।
मां सदा सर्वथा साक्ष्ये चान्तरे संस्मरेन्नृपः ॥७३॥ ततः सर्वं प्रकुर्वीत सत्ययुगप्रदोऽस्म्यहम् ।
असन्मार्गप्रवृत्तस्योद्धारकोऽहं भवामि च ॥७४॥ संशयपङ्कमग्नस्योन्नेताऽस्म्यहं जनार्दनः ।
अकार्यजालग्रथनागतस्याऽहं विमोचकः ॥७५॥ अपारङ्गमगन्तुश्च पारङ्गमक इत्यहम् ।
भवाम्येव सदा तस्मात् सेवनीयोऽहमाश्रयः ॥७६॥ राजाऽथवा प्रजा पुत्रः पुत्री वा कार्ययोगिनः ।
विस्तरेण तु धर्माणां न जात्वन्तमवाप्नुयुः ॥७७॥ तैः सदाऽनुष्ठेयकेऽर्थे सन्दिग्धे नान्तवर्तिनि ।
प्रष्टव्या धर्मनिष्ठाश्च श्रुतवन्तः सुरोत्तमाः ॥७८॥ प्रत्युत्थायोपसङ्गृह्य चरणावभिवाद्य च ।
निवेदनीयाः कार्यार्थे नारायणस्मृतेस्तथा ॥७९॥ गोपायितारं दातारं धर्मनित्यमतन्द्रितम् ।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥2.194.८०॥ मत्परं साधुसेवं च मदर्थकृतयत्नकम् ।
मयि न्यस्तसमस्तं च भूतान्यनुसरन्ति हि ॥८ १॥ तस्मान्निरुक्तसृत्या च भाव्यं राज्ञा प्रजाजनैः ।
तथा सौख्यं भवेदत्र परत्रापि गतिर्भवेत् ॥८२॥ राजा प्रजा भवेद् यो वा को वाऽप्यत्र तु देहवान् ।
देहदं मां भजेन्नित्यं स स्यात् सुखी न चेतरः ॥८३॥ धर्मा अर्थाश्च कामाश्च मोक्षे येन नियोजिताः ।
योजितः स भवत्येव नैसर्गान्मयि माधवे ॥८४॥ एवं सर्वे प्रकुर्वन्तु कार्याणि मन्मयानि ह ।
भुक्तिर्मुक्तिर्भवत्येव नात्र कार्या विचारणा ॥८५॥ इत्युक्त्वा भगवान् कृष्णो मन्त्रं ददौ तदा निजम् ।
विरराम ततः स्वामी सर्वमानसतृप्तिदः ॥८६॥ राज्ञी च राजकन्याश्च पुपूजुः परमेश्वरम् ।
पञ्चकन्यास्तदैवाऽस्य हस्तं जगृहुरादरात् ॥८७॥ कान्तं प्राप्य परानन्दं लेभिरे पञ्चगौरिकाः ।
राजा मुमुदेऽत्यर्थं च राज्ञी मेने कृतार्थताम् ॥८८॥ हरेः पूजा कृता लोकैः सभाविसर्जनं ह्यभूत् ।
हरिर्भोजनमासाद्य विश्रान्तिमाप चालये ॥८९॥ महीमानाः समस्ताश्च विश्रान्तिं लेभिरे भृशम् ।
रात्रिं निनाय भगवान् पालनादाय चर्षये ॥2.194.९०॥ दत्वोपदादिसामग्रीर्गन्तुं सज्जोऽभवत्तदा ।
राजा सैन्येन वाद्याद्यैर्विदायं प्रददौ महत् ॥९१ ॥ हरिं राजा पुष्पहारैः प्रातः कृताह्निकं तदा ।
दुग्धपानादिकं व्यधापयत्ततोऽतिपूजनम् ॥९२॥ चकाराऽऽरार्त्रिकं चापि पपौ पादामृतं ततः ।
हारालिराजितवक्षा हरिर्विमानगोऽभवत् ॥९३ ॥ महीमानाः समस्ताश्चारुरुहुर्व्योमगामिषु ।
विमानेषु ततो वाद्यान्यवाद्यन्त च भूरिशः ॥९४॥ जयनादैर्ययुस्तस्माद् रायगामलराष्ट्रकम् ।
रायगामलराजा च लातवायमुनिस्तथा ॥९५॥ कुटुम्बं राजकीयं च पुरो गत्वाऽतिशोभनम् ।
स्वागतं श्रीहरेश्चापि सैन्यशोभातिकारितम् ॥९६॥ चक्रुः सर्वे निनादैः कीर्तनैर्वाद्यैः सुमादिभिः ।
आकाशे चागतं कृष्णविमानं वीक्ष्य ते तदा ॥९७॥ जयनादान् प्रचक्रुश्च यन्त्रीध्वानानकारयन् ।
गोर्यः सर्वा गीतिनादान् मधुरानप्यगापयत् ॥९८॥ एवं सन्मानसौभाग्ये स्थले ह्युद्यानशोभिते ।
द्व्यूनासरित्तटे पुर्या रिगायाः सन्निधौ हरिः ॥९९॥ राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।
अन्यान्यपि विमानानि चावतेरुस्तदाम्बरात् ॥2.194.१० ०॥ राधिके जनताः कृष्णं व्यलोकयन् स्थिरदृशः ।
पुष्पैरवर्धयन् गीतिजयध्वानैरवर्धयन् ॥१०१ ॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वरसिंहनृपस्य वाशीलानगर्यां हरेर्भ्रमणं पूजनं युगोपदेशनं भोजनं विश्रमणं निद्रोत्तरं त्रयोदश्यां मध्याह्नपूर्वं रायगामलराष्ट्रगमनमित्यादिनिरूपणनामा
चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४ ॥