१८६

श्रीकृष्ण उवाच-
आकाशाद् भगवान् राधेऽपश्यत् प्रावरणां पुरीम् ।
राज्ञाऽऽदिष्टेन मार्गेणाऽवातारयद् विमानकम् ॥१ ॥ अन्यान्यपि विमानानि चावतेरुस्तदुत्तरम् ।
भूरिवाद्यान्यवाद्यन्ताऽजायन्त जयघोषणाः ॥२ ॥ जयनादाश्चाऽभवँश्च प्रजाहर्षा ममुर्न च ।
श्रीहरिं तु स्वयं राजाऽभिगत्वा स्वर्णहारकैः ॥३ ॥ पुष्पहारैर्गुच्छपुष्पाऽक्षताद्यैः समपूजयत् ।
राजभृत्याः श्रेष्ठिनश्च प्रजाः स्वागतमाचरन् ॥४ ॥ नमस्कारैर्जयध्वानैस्तथा सङ्कीर्तनैः शुभैः ।
उत्साहं दर्शयन्त्यश्च प्रजाः मानमदर्शयन् ॥५ ॥ श्रीहरेश्च चरणौ वार्भिः प्रक्षाल्याऽमृतमापपौ ।
राजा कुटुम्बसहितः प्रजास्तदमृतं पपुः ॥६ ॥ ईशानस्याऽर्हणं चक्रुस्तथाऽन्येषां यथायथम् ।
राज्ञी ब्रह्मप्रियादीनामर्हणां संव्यधात्तथा ॥७ ॥ शृङ्गारितेषु सैन्येषु हस्तियानेषु सर्वशः ।
आरोहयित्वा भगवान् गजयानं समारुहत्॥८ ॥ नगर्यां वाद्यगीतैश्च राजा कृष्णं महापथे ।
रथ्यायोगेषु सर्वेषु हरिं त्वभ्रामयन्मुदा ॥९ ॥ राजसौधे भृत्यसौधे प्रधानस्य गृहेऽपि च ।
प्रजालयेषु चान्येषु प्रजाः नीत्वाऽर्हणां व्यधुः ॥2.186.१० ॥ पावनीं नगरीं कृत्वा मध्याह्ने भगवान् निजम् ।
आवासं त्वाययौ स्नानं चक्रे विश्रान्तिमाप च ॥११ ॥ सर्वे श्रान्तास्ततो राजा भोजनानि शुभानि वै ।
कारयामास युक्तानि प्रमिष्टान्नानि भूरिशः ॥१ २॥ भगवान् बुभुजे चान्ये प्रचक्रुर्भोजन ततः ।
विश्रम्य तु क्षणं सायं सभां चक्रे प्रभुर्हरिः ॥१२ ॥ तत्रोपदेशं प्रददौ बालकृष्णः स्वयं यथा ।
पुण्यपापे तु पन्थानौ युज्येते देहिना सदा ॥१४॥ काले. पापं च वा पुण्यं दुःखं सुखं ददात्यपि ।
भवतां फलितं पुण्यं यदत्र तु ममाऽऽगमः ॥१५॥ मम योगो मम सेवा बहुपुण्यफलं त्विदम् ।
मन्त्रः फलति कालेन काले फलति चौषधम् ॥१६॥ काले वृष्टिश्च भवति वृक्षाः फलन्ति कालतः ।
चन्द्रः काले पूर्यते च पूर्यन्ते सरितोऽपि च ॥१७॥ प्राप्ते तु समये स्मृद्धिः स्वयमेवाभिगच्छति ।
बीजमुप्तं च समये कालागमे प्ररोहति ॥१८॥ काले जरा तथा काले रसहानिर्द्रुमेष्वपि ।
कालकृतो हि पर्यायः सर्वान् स्पृशति देहिनः ॥१९॥ विचार्यैवं स्वस्थकाले परमेशं श्रयेत् सुधीः ।
कालोऽयं मङ्गलतमो भवतां विद्यतेऽधुना ॥2.186.२०॥ योगोऽत्र भवतां जातो मम नारायणस्य वै ।
एतादृशं तु साक्षान्मां लब्ध्वा येऽन्यत्र संस्थिताः ॥२१ ॥ मुग्धा वाऽज्ञानसम्पन्नास्तेषां हानिः पदे पदे ।
परमेशं विहायैव तृष्णालोभसमुद्भवैः ॥२२॥ वेगैश्चान्यत्र विषये स्थितास्ते दुःखभागिनः ।
तृष्णार्तिप्रभवं दुःखं फलं तेषां न चेतरत् ॥२ ३ ॥ यद्वा लभ्येत चेद् दुःखोत्तरं सुखं क्षणस्थिरम् ।
सुखस्याऽनन्तरं दुःखं दुःखस्याऽनन्तरं सुखम् ॥२४॥ सुखमेव हि दुःखान्तं सुखान्तं दुःखमेव च ।
तस्मादेतत् द्वयं जह्याद् य इच्छेच्छाश्वतं सुखम् ॥२५॥ यन्निमित्तो भवेच्छोकस्तापो वा मूर्छनादिकम् ।
तत् (यजेद् बुद्धिमानत्र शाश्वतं सुखमर्जयेत् ॥२६॥ सर्वं सुखं दुःखनान्तरीयकं मायिकं न्विह ।
दुःखानां तु क्षयो नास्ति जायते ह्युत्तरोत्तरम् ॥२७॥ तस्मात् पर्यायभावेन चान्तर्भावेन सर्वदा ।
सुखमिश्रं समायाति दुःखं संसारिणः खलु ॥२८॥ विचार्यैवं क्षणं नष्टं बह्वायासं च तापकृत् ।
सुखसञ्ज्ञं ध्रुवसञ्ज्ञं शाश्वतं सुखमर्जयेत् ॥२९॥ सेवया तपसा भक्त्या धर्मेणैकान्तिकेन च ।
दानेन निग्रहेणाऽपि यान्ति सुखं हि शाश्वतम् ॥2.186.३ ० ॥ सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम् ।
तुष्टिः सुधाऽमृतं तुष्टिस्तुष्ट्या वै सिद्धिरुत्तमा ॥३ १ ॥ नारायणाश्रितो जीवो नारायणबलात् सदा ।
बिभेति न परात् क्वापि नाऽस्माद् बिभ्यति केचन ॥३ २॥ सर्वत्र मत्कृताह्लादो ब्रह्म सम्पद्यते तदा ।
यदा न भावं कुरुते कस्मिंश्चिदपि पापकम् ॥३ ३॥ मनसा कर्मणा वाचा ब्रह्म सम्पद्यते तदा ।
मानमोहौ हतौ येन हताः सङ्गा मृषा तथा ॥३४॥ ममाश्रयमुपेतश्च निर्वाणमुपयाति सः ।
मत्वा क्षयान्तनिचयान् पतनान्तसमुच्छ्रयान् ॥३ ५॥ वियोगान्तकसंयोगान् मरणान्तकजीवनम् ।
दुःखान्तकसुखं चापि विज्ञो मां समुपाश्रयेत् ॥३६॥ सुखं वा यदि वा दुःखं क्रमेणैवोपपद्यते ।
तटस्य चेतनामाशु हरत्येव च देहिनः ॥३७॥ सत्येवं चाभिजातोऽस्मि सिद्धोऽस्मि चास्मि वै महान् ।
इत्येवं सिच्यते चित्तं नष्टस्मृतिर्भवत्यपि ॥३८॥ नष्टस्मृतिः परस्वानामादानं साधु मन्यते ।
तमतिक्रान्तमर्यादं राजा शास्ति यमस्ततः ॥३ ९॥ तस्माद् विचार्य वीक्ष्यापि विज्ञो भैषज्यमाचरेत् ।
साधूनां शरणं यद्वा श्रीमन्नारायणस्य च ॥2.186.४०॥ अन्यथा दुःखसम्पत्तिर्विभ्रमोऽनिष्टवेदनम्।
त्रिकं समुपपद्येत चतुर्थं नाऽस्य विद्यते ॥४१ ॥ जरामृत्यू हि भूतानां खादितारौ यथा वृकौ ।
न कश्चित्तावतिक्रामेदपि ब्रह्माण्डभूपतिः ॥४२॥ उपस्थितस्य दुःखस्य परिहारो न विद्यते ।
सुखस्यापि तथा बोध्यं नैकान्तं तच्च विद्यते ॥४३॥ अर्था नाऽऽयान्ति संसारे वाञ्च्छिताः किन्तु चान्यथा ।
उपतिष्ठन्ति वर्तन्तेऽवर्जनीयाः सदाऽन्यथा ॥४४॥ अप्रियैः सह संयोगो वियोगः सुप्रियैः सह ।
अर्थाऽनर्थकरावेतौ सुखदुःखप्रदौ मतौ ॥४५॥ उत्पत्तिः पुष्टिरन्तश्च सर्वेष्वेते प्रतिष्ठिताः ।
गन्धरूपरसस्पर्शा काले सन्ति प्रयान्ति च ॥४६ ॥ आसनं शयनं यानं विमानं पानमञ्जनम् ।
भोजनं च समुत्थानं जायते च विनश्यति ॥८७॥ वैद्या अपि तु रुग्णास्ते बलिनः स्त्रीषु निर्बलाः ।
श्रीमन्तोऽपि तु षण्ढास्ते विचित्रः कर्मपर्ययः ॥४८॥ कुले जन्म महावीर्यमारोग्यं रूपमार्जवम् ।
सौभाग्यमुपभोगाद्या लभ्यन्ते बहुपुण्यतः ॥४९॥ तेषु सत्स्वपि भक्तिश्चेत् कृष्णे नास्तीति निष्फलाः ।
सन्ति पुत्रा दरिद्राणां बहवश्चाप्यनिच्छताम् ॥2.186.५०॥ नास्ति पुत्रः समृद्धानां विचित्रं कर्मचेष्टितम् ।
व्याधिस्तापश्च विदुषो बुभुक्षा निर्धने तथा ॥५ १ ॥ आपदस्तु धनाढ्यस्य ज्वरश्च नृपतेः सदा ।
निर्माणं यस्य यत्तस्माद् विचित्रं कर्म चेष्टितम् ॥५२॥ युवा धनी मृतो याति निर्धनः शतवर्षभाक् ।
अकिञ्चनाश्चिरञ्जीवाः स्मृद्धाश्चाल्पायुषस्तथा ॥५३ ॥ श्रीमत्सु भोगशक्तिर्न दरिद्रे जाठरोऽतिगः ।
सधने कार्यबुद्धिर्न विचित्रं कर्मचेष्टितम् ॥५४॥ एतद्विचार्य मतिमान् स्वात्मश्रेयः समाचरेत् ।
नौषधानि न वै मन्त्रा न होमा न पुनर्जपाः ॥५५॥ मानता मानवस्मृद्धिः प्राप्तमृत्युं न रक्षति ।
यथा पूरे तरुः काष्ठं समेयातां यदृच्छया ॥५६ ॥ समेत्य च व्यपेयातां तथा भूतसमागमः ।
स्त्रीराज्यसुतवन्तो ये येऽनाथाश्च परान्निनः ॥५७॥ ईश्वरा वा दरिद्रा वा कालस्तेषु समक्रियः ।
कृतविद्याश्च येऽन्धा वा यत्नवन्तो न यत्निनः ॥५८॥ भजमानाश्चाऽभजन्तः कालस्तेषु समक्रियः ।
अभुक्तं वा प्रभुक्तं वा रक्षितं नाऽदृतं च वा ॥५९ ॥ विप्रकृतं स्वीकृतं वा कालस्तेषु समक्रियः ।
मातापितृसहस्राणि पुत्रदारायुतानि च ॥2.186.६०॥ असङ्ख्यधनराज्यानि भुक्त्वा त्यक्तानि जन्मसु ।
पुनः प्राप्तानि संसारे कस्य ते कस्य वा वयम् ॥६ १ ॥ न चाऽस्य कश्चिद् भविता नाऽयं भवति कस्यचित् ।
मार्गे सङ्गतमेवेद् दारबन्धुसुहृन्मयम् ॥६२॥ क्वाऽऽसे क्व च गमिष्यामि कोऽहं किमत्र चास्थितः ।
कियान् कालो ध्रुवो मेऽस्ति विचारयेत् पुनः पुनः ॥६३ ॥ अनित्ये दुःखसंवासे बहिः सुखसमेऽशुभे ।
मार्गे सङ्गतमेवेदं माता भ्राता सुतः प्रिया ॥६४॥ जगन्मज्जति .नित्यं च गम्भीरे कालसागरे ।
जरामृप्युमहाग्राहे न कश्चिदवबुध्यते ॥६५॥ आयुर्वेदमधीयाना अपि व्याधिपराभवाः ।
पिबन्तोऽपि कषायाँश्च न मृत्युमतियान्ति ते ॥६६॥ रसायनपिबाश्चापि भवन्ति जरयाऽऽप्लुताः ।
तपस्विनोऽपि दातारो यज्ञिनोऽपि चिरंस्थिताः ॥६७॥ दिव्यदेहाश्चाम्बरस्था अपि जीर्यन्ति कालतः ।
न ह्यहानि निवर्तन्ते भूतानां यानि यान्ति वै ॥६८॥ कालाध्वानमनन्तं वै सर्वलोकनिषेवितम् ।
कृतस्थैर्योऽपि संयाति जनोऽवशोऽतिलालसः ॥६९॥ देहो जीवं च वा जीवो देहं चाभ्येति पान्थवत् ।
पान्थेन पान्था अभ्येत्य वियन्ति बान्धवादयः ॥2.186.७० ॥ नाऽत्राऽत्यन्तं सुसंवासो लभ्यते जातु केनचित् ।
अपि स्वेन शरीरेण तदाऽन्येन तु का कथा ॥७ १॥ क गताः कर्मिणः पूर्वे पितामहादयस्त्वतः ।
न पश्यामो वयं तांस्तु ते न पश्यन्ति नोऽपि च ॥७२॥ मायया तु पिशाचिन्या भक्षिताः पाचनं गताः ।
अगाधगर्ते संसुप्ता न निस्सरन्ति ते पुनः ॥७३॥ तस्माद् विचार्य कालं च कर्म मायां विडम्बिनीम् ।
देहं विश्वासहं चापि सङ्गतानां वियोजनम् ॥७४॥ स्वस्याऽस्थैर्यं कालभक्ष्यं चाकस्मिकं जगत्तथा ।
भजन्तु भगवन्तं मां रक्षकं कालपाशतः ॥७५॥ मद्योगे न पुनर्मृत्युर्न ग्रासः कालभोगिनः ।
न नाशः सुखसम्पत्तेर्धाम्नि मे भवतां भवेत् ॥७६॥ मच्छ्रयाश्च मन्मनसो मदर्पितेन्द्रियार्थकाः ।
मत्स्वरूपे स्थितप्रज्ञा यान्ति मे शाश्वतं सुखम् ॥७७॥ ज्ञानं चामृतमेवोक्तं यदि बोधफलं भवेत् ।
सेवा मे भोजनं तस्य यदि श्रद्धान्विता भवेत् ॥७८॥ प्राप्तिर्मे तृप्तिरेवाऽस्ति यदि माहात्म्यसंयुता ।
सर्वार्पणं मयि तस्य शाश्वतानन्ददायकम् ॥७९॥ एवं विचिन्त्य वै भक्ता नरा नार्योऽपि सर्वथा ।
कर्म सर्वविधं कृष्णे मय्यर्पयन्त्वहर्निशम् ॥2.186.८०॥ अहं नैर्गुण्यमेतस्मिन् प्रापय्य फलवर्जनाम् ।
मदात्मकफलावाप्तिं दास्ये चोद्धारसञ्ज्ञिताम् ॥८ १ ॥ इत्युक्त्वा भगवान् राधे विरराम ततो जनाः ।
पुपूजुः परया भक्त्या बालकृष्णं क्रमेण वै ॥८२॥ चन्दनेन कुसुमैश्चाऽक्षतैर्हारैः सुगन्धिभिः ।
पुष्पसारै रससारैरम्बरैर्बहुमूल्यकैः ॥८३॥ विभूषाभिः फलैर्बीजैर्मौक्तिकै रत्नहीरकैः ।
उपदाभिर्विविधाभिरर्चयित्वा ततो जनाः ॥८४॥ आरार्त्रिकं व्यदधुश्च नमः स्तुतिं व्यधुस्तथा ।
अथ राजा तथा राज्ञी तथा राजकुटुम्बकम् ॥८५॥ सभायास्तु समाप्तिं वै कृत्वा निजालये हरिम् ।
सन्निन्युभोजयामासुर्हरिं हरेः कुटुम्बिनः ॥८६॥ महर्षींश्च महीमानान् ब्रह्मप्रियास्तथाऽपरान् ।
भोजयामासुरत्यर्थं राजसेवापरायणाः ॥८७॥ ततो राज्ञी स्वयं कन्यामाह नैजां सुशोभनाम् ।
एकामेवाऽद्वितीयां तां कृष्णहस्तं गृहाण वै ॥८८॥ सापि चेच्छावती शीघ्रं कृष्णहस्तं समग्रहीत् ।
मालां सौवर्णजां रत्नखचितां श्रीहरेर्गले ॥८९॥ न्यधात् पुष्पमयीं चापि हरिस्तस्या गले ह्यपि ।
एवं विवाहविधिना राजकन्याऽऽप माधवम् ॥2.186.९०॥ तदुत्सवं तदा राजा चक्रेऽथ च ततः परम् ।
रात्रौ विश्रम्य भगवान् प्रातः प्रजाजनान् स्वयम् ॥९ १ ॥ श्रावयामास च मनुं नैजं वैष्णवताप्रदम् ।
कृताह्निकस्ततो गन्तुं मनो दधेऽथ भूपतिः ॥९२॥ दुग्धभोज्यैर्हरिं सर्वान् महीमानान् समन्ततः ।
भोजयामास विधिना विदायं च ददौ ततः ॥९३॥ यानवाहनसैन्यैश्च वाद्यघोषैर्जयस्वनैः ।
पुष्पाक्षतैर्हर्षणैश्च विदायं प्रददौ तदा ॥९४॥ विमानान्यभवन् व्योम्नि निषेदुः सर्वशो जनाः ।
हरिर्विमानमारुह्य गत्यर्थं च समैरयत् ॥९५॥ राहूनां चापगां क्रान्त्वा व्योम्नि विमानकानि वै ।
फेरुनसर्षिवासात्मप्रदेशान् प्रययुर्द्रुतम् ॥९६॥ परीशानो नृपश्चात्र फेरुनसो मुनिस्तथा ।
विमानं चाग्रतः कृत्वाऽवतेरतुर्भुवं द्रुतम् ॥९७॥ स्वागतार्थं हरेः राजा सैन्यं समैरयच्छुभम् ।
वाद्यघोषान् जयशब्दान् यन्त्रस्फोटानकारयत् ॥९८॥ प्रजा व्योम्नि विमानानि प्रतीक्षन्ते स्म सादरम् ।
लाजाक्षतकुसुमाद्यैर्युक्ता हर्षभरास्तदा ॥९९॥ अथ श्रीबालकृष्णो वै ददर्श शोभनाः स्थलीः ।
सेनानदीतटे रम्ये परीशां नगरीं शुभाम् ॥2.186.१० ०॥ शोभया नाकमधरं कुर्वाणां स्मृद्धिशालिनीम् ।
उद्यानैर्मिश्रितां सौधैः स्वर्णवणैर्विराजिताम् ॥१०१ ॥ विशालां देवतुल्यैश्च मानवैरधिवासिताम् ।
राधिके त्वत्समाभिश्च सुन्दरीभिर्विराजिताम् ॥१ ०२॥ राजदर्शितमार्गेण महोद्याने नृपालये ।
विमानं श्रीबालकृष्णः समवातारयच्छनैः ॥१ ०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जयकृष्णवराजर्षिराज्ये विमानादवतीर्य वरणानगरीं परिभ्रम्य पूजां प्रगृह्योपदेशं दत्वा रात्रौ भोजनं विश्रान्तिं लब्ध्वा प्रातश्चाह्निकं कृत्वा दुग्धपानाद्युत्तरम् षष्ठ्यां फेरुनसर्षिदेशान् परीशानराजराज्यं हरिर्जगामेत्यादिनिरूपणनामा षडशीत्यधिकशततमोऽध्यायः ॥१८६ ॥