१८१

श्रीकृष्ण उवाच-
शृणु त्वं राधिके गोपि! सश्रीकृष्णनरायणः ।
भाद्रकृष्णद्वितीयायामल्वीनरभुवं प्रभुः ॥१ ॥ गिरीशमुनिनाऽऽदिष्टस्थले निजविमानकम् ।
पश्यन् प्रजाः प्रतीक्षन्तीर्व्योम्नोऽवातारयन्मुदा ॥२ ॥ विमानानि तदाऽन्यानि चावतेरुस्ततोऽम्बरात् ।
अर्थश्रीराजधन्याः सन्निधावुद्यानभूस्तरे ॥३ ॥ गिरीशर्षिस्तथा राजाऽल्वीनरः सकुटुम्बकः ।
चकार स्वागतं वाद्यैः पूजनैर्हारचन्दनैः ॥४ ॥ विमानात् क्लृप्तसोपाननिःश्रेण्या बहिरङ्गणे ।
निःसरन्तं हरिं स्वर्णहारान् कण्ठेन्यधुर्जनाः ॥५ ॥ जयशब्दा वेत्रधारयशःशब्दास्तदाऽभवन् ।
सूतमागधबन्दीनां चारणानां यशोश्रितम् ॥६ ॥ श्लोकश्रवणमुत्कृष्टं वाणीजन्यं तदाऽभवत् ।
पुष्पाक्षतैश्च लाजाभिः स्वर्णमुद्रादिभिस्तथा ॥७ ॥ गोधूमैः पूजनं कृष्णस्याऽकुर्वन् जनतास्तदा ।
राजसौधे हरिं नीत्वा राजा सहकुटुम्बकम् ॥८ ॥ जलपानादि ताम्बूलं ददौ नेमे च पादयोः ।
पादप्रक्षालनं चक्रे राजा सुतसुतादियुक् ॥९ ॥ चरणामृतपानं च प्रचक्रे सकुटुम्बकः ।
दुग्धपानं ददौ तत्र सर्वेभ्यश्च ततः परम् ॥2.181.१ ०॥ शीघ्रं सैन्येन सहितो नगर्यां भ्रमणार्थकम् ।
यानं साश्वं सुवर्णोत्थमानिनाय हरेः कृते ॥११ ॥ व्यराजद् भगवाँस्तत्र पितृभ्यां सहितो मुदा ।
भ्रातरश्चान्यमुनयो ब्रह्मप्रियादयस्तदा ॥१२॥ यानेषु शिबिकायां च रथेषु हस्तियन्त्रके ।
निषेदुश्च तदा वाद्यान्यवाद्यन्त जयैः सह ॥१३ ॥ वाहिनी सर्वशोभाढ्या प्रययौ नगरं प्रति ।
अर्थश्र्याख्यनगर्यां सा राजमार्गगताऽभवत् ॥१४॥ अमात्यै राजपुरुषैः श्रेष्ठिभिः प्रजया तथा ।
वर्धितः पूजितः साक्षाद् दृष्टः स्पृष्टः प्रभुर्मुहुः ॥१५॥ वन्दितश्चोपदाभिश्च सुप्रसादित इत्यथ ।
सर्वां नगरीं परितो भ्रमित्वा भगवान् पुनः ॥१६॥ उद्याने राजसौधे च समागत्य निजासने ।
विश्रान्तिमाप च सस्नावन्येऽपि श्रान्तिमागताः ॥१७॥ विशश्रमुः स्वभवने ततश्च बुभुजुः सुखम् ।
पक्वान्नानि ह्यनेकानि बुभुजुः परमादरात् ॥१८॥ तदाऽऽश्चर्यमभूद् राधे! शृणु तत्कथयामि ते ।
क्रीतद्विपस्य वास्तव्यो ह्यर्थेष्टो राक्षसो महान् ॥१९॥ आगतो वै परीक्षार्थं लौकितुं तु हरेर्बलम् ।
प्रथमं तेन मिष्टान्ने मिष्टान्नसदृशीः शिलाः ॥2.181.२० ॥ घृताक्ता भोजने दत्ता परिवेषकरूपिणा ।
ज्ञातवाँस्तद्धरिः शीघ्रं शिलाः सर्वा हरीच्छया ॥२१ ॥ मिष्टान्नतामवापुर्वै हित्वा ताः शैलतां तदा ।
स त्वाश्चर्यं गतस्तत्र ततश्चक्रे परीक्षणम् ॥२२॥ अपरं तच्छृणु राधे शय्यारूपो बभूव ह ।
उपरि मञ्चके रम्यं गेन्दुकं स प्रदर्श्य वै ॥२३ ॥ गुप्तं चाधः शूलशय्यामकरोत् श्रीहरेः कृते ।
हरिस्तां शूलशय्यां चाऽध्यारुरोह कृतादरः ॥२४॥ शूलाः सुवर्णपुष्पाणि कैसराण्यभवँस्तदा ।
तत्राऽप्याश्चर्यमाप्यैव निर्गतो राक्षसस्ततः ॥२५॥ उपानहौ विषेणापि योजिते कृतवाँस्तदा ।
परीक्षणं तृतीयं स चक्रेऽथ भगवानपि ॥२६ ॥ उपानहौ परिधायाऽमृतरूपे विधाय वै ।
अचलत् सुखतस्तत्र सौधे च परितः प्रभुः ॥२७॥ अथापि च चतुर्थी स परीक्षां राक्षसोऽकरोत् ।
सभायामासनं दिव्यं सौवर्णं चाग्निमाव्यधात् ॥२८॥ हरिस्तत्र सभायां च गत्वाऽऽसनं तदाग्निकम् ।
स्पृष्ट्वा च शीतलं चक्रे सौवर्णं पुनरेव तत् ॥२९॥ तदाश्चर्यं परं प्राप्तो राक्षसो मानवर्जितः ।
मोक्षं स्वस्य निजं गेहमायातुं कृष्णमार्थयत् ॥2.181.३ ० ॥ हरिस्तथास्त्वितिप्राह राक्षसं मूर्ध्नि वै तदा ।
ददौ स्वचरणौ यावत् तावद् देवो बभूव ह ॥३ १ ॥ तुषितो नाम दिव्यः सः स्वर्गवासकरः सदा ।
पृष्टो जनैस्तदा सोऽपि वृत्तान्तमाह चात्मनः ॥३२॥ तुषितो नाम देवोऽहं पृथ्व्यामत्र यदृच्छया ।
भ्रमितुं त्वागतस्त्वत्र मया दृष्टाऽत्र सुन्दरी ॥३३ ॥ अर्थेष्टा नामतश्चात्र पुरा समुद्रसन्निधौ ।
प्रधर्षिता मया सा चाऽकस्माच्छापं ददौ च मे ॥३४॥ राक्षसो भव दुश्चेष्ट कन्याधर्षणतत्पर ।
अहं द्रागेव तु जातो राक्षसः क्रीतभूमिगः ॥३५॥ तव स्पर्शेन भगवन्नद्याऽहं शापवर्जितः ।
जातो देवः पुनः कृष्णनारायण जगत्प्रभो ॥३६ ॥ आज्ञा चेदहमेतस्यात् स्थलाद् यास्ये निजं गृहम् ।
हरिः प्राह प्रयाहि त्वं कुरूनुत्तरदिक्स्थितान् ॥३७॥ लालायनो मया पूर्वं सच्चिदानन्दभावनः ।
प्रेषितोऽस्ति मार्गयित्वा सूचनां मे प्रदेहि तम् ॥३८॥ गृहाण मन्त्रा देव त्वं ममाज्ञया प्रयाहि च ।
इत्युक्त्वा सम्प्रदायाऽस्मै मन्त्रान् अप्रेषयत् सुरम् ॥३९॥ व्योम्ना चोत्तरकेनाटान् देशान् सूचयितुं मुनिम् ।
हरिः स्वयं समायातः केतुमाले तु पश्चिमे ॥2.181.४०॥ मासान्तेऽत्राऽपि भगवानागमिष्यति निश्चयः ।
उवाच तं मुनिं गत्वा पालिपारसरस्तटे ॥४१॥ स्थितं पूर्वतटे शेषकाष्ठवनानदीयुते ।
जहर्षाऽतीव चाकर्ण्य निजनाथागमं मुनिः ॥४२॥ स्वागतं स मुनिश्चक्रे तुषितस्य तदा बहु ।
तुषितेन समं देशेष्वेवोत्तरे मुनिर्द्रुतम् ॥४३॥ जनेभ्यश्चाह कृष्णस्यागमनं चोत्सुकस्तदा ।
द्वौ तु बभ्रमतुः केनाटकेषु सर्वतोदिशि ॥४४॥ नाममन्त्रान् ददतुर्वै प्रजाभ्यश्चादरात् प्रभू ।
अथ श्रीभगवान् राधे !ऽल्वीनरस्याऽऽलये ततः ॥४५॥ रात्रौ सभां सुमहतीं प्रचक्रे तत्र माधवः ।
सम्मानितः पूजितश्चोपादिदेश प्रजाजनान् ॥४६॥ प्रजा वा राजवर्गो वा यतयो वा गृहस्थिताः ।
कुर्वन्तो योग्यकर्माणि समर्पयन्ति चेन्मयि ॥४७॥ बन्धनं न भवेत् तेषां कर्मणां च फलस्य च ।
अहं फलप्रदस्तेषां नैष्कर्म्यं तत्करोमि वै ॥४८॥ वित्तानि धर्मलब्धानि ये क्रतुषूत्सृजन्ति च ।
कृतात्मानः कर्मिणस्ते त्यागाश्रमिण एव ते ॥४९॥ न त्यागं त्यागमित्याहुरबन्धस्त्याग उच्यते ।
औदासीन्यं परिगृह्य वृक्षवासस्तु यो जनः ॥2.181.५० ॥ न करोति च वा किञ्चित् तामसो हि स उच्यते ।
यदीश्वरे भवेद्वासः स तु नैर्गुण्यमाप्नुयात् ॥५१ ॥ कुर्वन् कर्माणि सर्वाणि सुखेच्छया मुहुर्मुहुः ।
न देवं संस्मरेत् तत्र राजसानि तु तानि वै ॥५२॥ सुखार्थं कर्मणां त्यागो राजसः स मतो भवेत् ।
कुर्वन् कर्माणि सर्वाणि मयि कृष्णे परात्परे ॥५३॥ यश्चार्पयति सर्वस्वं सुखेच्छया फलेच्छया ।
सात्त्विकं तद् भवेत् कर्म त्यागोऽपि सात्त्विकः स तु ॥५४॥ फलेच्छावर्जितं कृत्वा मयि न्यस्यति यो जनः ।
तद्भवेन्निर्गुणं सर्वं मत्सम्बद्धं मदर्थकम् ॥५५॥ यथागुणं च यत्कर्म तथा गृही निबध्यते ।
अगुणं चेद् भवेत् कर्म मुच्यते न तु बध्यते ॥५६॥ एकतश्चाश्रमाश्चान्ये गृहस्थाश्रम एकतः ।
गृहधर्मी कृष्णधर्मी भवेत् स निर्गुणाश्रमी ॥५७॥ मयि त्यक्तं सर्वकर्म मदात्मकफलं ददेत् ।
शमो दमस्तथा धैर्यं सत्य शौचं तथाऽऽर्जवम् ॥५८॥ यज्ञो धृतिश्च धर्मश्च नाऽस्य पार्थक्यमाप्नुयुः ।
अभिमानकृतं कर्म मम स्मृतिविवर्जितम् ॥५९॥ यमद्वारा मृत्युपाशं कण्ठे कारयति द्रुतम् ।
तस्मान्मानं विहायैव कुर्वन्तु कर्म मत्परम् ॥2.181.६०॥ गार्हस्थ्येऽपि तु मोक्षार्थं करिष्यामि मयि धृतम् ।
असृजद्धि प्रजाः सर्वाः ब्रह्मा ममाऽऽज्ञया पुरा ॥६१ ॥ कर्मप्रवाहरक्षार्थं मम पूजार्थमित्यपि ।
विरुधश्चापि वृक्षाँश्च यज्ञार्थं च तथौषधीः ॥६२॥ रसान् फलानि पत्राणि यज्ञार्थानि हवींषि च ।
गार्हस्थ्यं पत्निकायुक्तं यज्ञं कर्तुं सदा मतम् ॥६३॥ युगलं देवदेवीनां पूजार्थं वै प्रशस्यते ।
तत्सम्प्राप्य गृहस्था ये धनधान्यरसान्विताः ॥६४॥ न यजन्ते यदि देवान् किल्बिषं भुञ्जते तु ते ।
ज्ञानयज्ञा विदुषां च सतामाराधना मखाः ॥६५॥ ऋषीणां स्वाध्याययज्ञा द्रव्ययज्ञास्तु भूभृताम् ।
अन्नयज्ञाः कृषीशानां ध्यानयज्ञास्तु योगिनाम् ॥६६॥ सेवायज्ञाः सेवकानां स्त्रीणां शुश्रूषणं क्रतुः ।
पुत्राणां पितृवाक्यानि ब्रह्म वै ब्रह्मचारिणाम् ॥६७॥ गृहस्थानां दानयज्ञास्तापसानां तपोमयाः ।
एवं यज्ञाश्च विविधा भवन्ति योग्यतावशाः ॥६८॥ सर्वेषान्तु हरेर्भक्तियज्ञाः सन्ति विबन्धनाः ।
तस्मात् कार्या यथायोग्यं यज्ञा मां वीक्ष्य तद्गतम् ॥६९॥ दास्ये मुक्तिं न सन्देहस्तुष्टो भूत्वा समर्पणैः ।
राजभिः खलु दातव्या अश्वा गजा गवादयः ॥2.181.७० ॥ दासा दास्योऽलङ्कृताश्च ग्रामा जनपदास्तथा ।
वाटिकाश्च गृहक्षेत्रोद्यानानि विविधानि च ॥७१ ॥ तत्फलं शाश्वतं प्रोक्तं राज्ञां तत्तु विशेषतः ।
अदातारोऽशरण्याश्च नृपाः किल्बिषभागिनः ॥७२॥ दोषाणामेव भोक्तारो न सुखानां कदाचन ।
अनिष्ट्वा तु महायज्ञैरकृत्वा तर्पणादिकम् ॥७३॥ तीर्थेष्वनभिसम्प्लुत्याऽनाराध्य परमेश्वरम् ।
यदि प्रयाति पन्थानं पुनरावर्तते स वै ॥७४॥ छिन्नाभ्रमिव वा गन्ता लयं याति विनश्यति ।
द्व्यक्षरं तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म चाऽमृतम् ॥७५॥ ममेति मृत्युरेवास्ति नममेति सदाऽमृतम् ।
तद्द्वयं सर्वदा चास्ते निजे मूर्ध्नि च वा हृदि ॥७६॥ तत्र चाघं परित्यज्य परं प्राप्यं तु देहिभिः ।
मार्गोऽयं सेवितः सद्भिर्भवद्भिः सेव्यतां सदा ॥७७॥ लब्ध्वा राज्यं सुकुटुम्बं धनानि सम्पदस्तथा ।
यजते न प्रभुं यज्ञे निष्फलं तस्य तत् खलु ॥७८॥ अनाराधितदेवस्य स्वार्थमात्रं प्रजीवतः ।
द्रव्यादौ ममभावस्य मृत्युः शिखां न मुञ्चति ॥७९॥ बाह्याभ्यन्तरवर्ती यो भूतानां नित्यसाक्षिकः ।
यैरिहाराधितो द्रव्यैस्तान् मृत्युः प्रविमुञ्चति ॥2.181.८०॥ अपि स्मृद्धं भोगपूर्णं मानसं तृष्णया स्थितम् ।
क्लीबं तन्मानसं प्रोक्तं ब्रह्मराज्यं न विन्दति ॥८१ ॥ न क्लीबो ब्रह्मवसुधां भुङ्क्ते भक्तिधनं न च ।
न तु क्लीबालये देवार्चनमाङ्गल्यमस्ति हि ॥८२॥ तस्मान्न क्लीबता कार्या परेशाराधने क्वचित् ।
वृद्धैः सदा हरिः सेव्यस्तानन्येऽनुसरन्ति हि ॥८३॥ वृद्धोन्मादादाश्रिताश्च स्युः सदोन्मादिनो यतः ।
तस्मादुन्मत्तता त्याज्या मायारागादिसम्भवा ॥८४॥ भजनीयः सदा कृष्णोऽनादिनारायणप्रभुः ।
यज्ञः कृतो यथा तद्वत् कर्तव्यः सर्वदा गृहे ॥८५॥ ब्रह्मयज्ञः सदा कार्यो मोक्षं दास्ये न संशयः ।
इत्युक्त्वा प्रददौ मन्त्रान् प्रजाभ्यश्च तदा प्रभुः ॥८६॥ राधिकेऽथ सभायास्तु परिहारोऽभवत्ततः ।
रात्रौ विश्रम्य भगवान् प्रातः कृतविधिस्ततः ॥८७॥ गन्तुमियेष वै शीघ्रं जिनवर्द्धिनृपार्थितः ।
इष्टलवर्षिणा चाप्यर्थित इष्टालिराष्ट्रकम् ॥८८॥ राजा पूजां भोजनादि चानयत् सकुटुम्बकः ।
अल्वीनरस्ततः कृष्णो जग्राह तस्य चेष्टकृत् ॥८९॥ अन्येऽपि जगृहुः सर्वे हरेः सार्थास्ततः परम् ।
राज्ञी तस्य पञ्चकन्यासहिताश्चार्चयद्धरिम् ॥2.181.९०॥ पञ्चापि कन्यकास्तत्र जगृहुः श्रीहरेः करम् ।
विवाहविधिना कृष्णो ददौ ताभ्यः करं निजम् ॥९ १ ॥ पूजां चाशीर्वचः प्राप्य गन्तुं सज्जोऽभवद्धरिः ।
पञ्चकन्या ब्रह्मप्रियादिभिः सह सुतत्पराः ॥९२॥ ययुः श्रीहरिणा सार्धं विमाने समुपाविशन् ।
विदायं प्राप्य भगवान् यानमध्यारुरोह च ॥९३॥ अन्येऽपि च तदा सर्वेऽरोहन् विमानकानि वै ।
तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ॥९४॥ प्रजाः सर्वा हरेकृष्ण हरेनारायणप्रभो ।
नामसङ्कीर्तनं चक्रुर्विमानानि तदाम्बरे ॥९५॥ इष्टलवप्रोक्तदिशां गतिं चक्रुर्जलोपरि ।
वार्धिखाडीं व्यत्यक्रामन् प्रापुः रामपुरीं ततः ॥९६॥ पश्चिमे खाडिकातीरे जिनवर्द्धिनृपः पुरा ।
अवाऽतरद् विमानाद् स्वात् स्वागतार्थं कुटुम्बवान् ॥९७॥ इष्टलवो महर्षिश्च प्रजाः सर्वास्तदा तटे ।
उद्यानसन्निधौ चासन् स्वागतार्थं प्रभोर्हरेः ॥९८॥ अश्रूयन्त विलोक्यैव विमानानि जयान्विताः ।
प्रजानादास्तूपनादाः सङ्कीर्तनरवास्तथा ॥९९॥ इत्येवं राधिके सर्वं राष्ट्रं स्वागततत्परम् ।
तत्राऽभूत् संहितं पृथ्वी जनवार्धिसमाऽभवत् ॥2.181.१० ०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरिर्भाद्रपदकृष्णद्वितीयायाम् अल्वीनरराज्यं गत्वाऽर्थश्रीनगरीं भ्रमित्वा भुक्त्वा राक्षसमुक्तिं कृत्वा तं तुषितदेवम् उत्तरान् कुरून् सम्प्रेषयित्वा सभायामुपदिश्य पूजां सङ्गृह्य विश्रम्य प्रातर्भोजनोत्तरं जिनवर्द्धिनृपराजधानीं प्रतिप्रतस्थे चेत्यादिनिरूपणनामैकाशीत्यधिकशततमोऽध्यायः ॥१८१ ॥