१८०

श्रीकृष्ण उवाच-
ततः श्रीमद्धरिः स्वामी राधिके स्वविमानकम् ।
वल्गुरायर्षिणा सार्धं तीराणेन च भूभृता ॥१ ॥ प्रदर्शितेन मार्गेण समवातारयत् क्षितौ ।
ततश्चान्यविमानानि त्ववतेरुस्तु पृष्ठतः ॥२ ॥ जयशब्दास्तु तूर्याणां निनादाश्च तदाऽभवन् ।
हर्षशब्दाश्च नारीणां बालानां कलघोषणाः ॥३ ॥ प्रजानां स्वागतशब्दाश्चाभवम् परितस्तदा ।
पुष्पवर्षाऽक्षतवर्षा चान्दनी वृष्टिरित्यपि ॥४ ॥ अभूत्तदा विमानाद्वै यदा हरिर्बर्हिर्ययौ ।
अन्ये चापि महीमानाश्चावतेरुर्विमानतः ॥५ ॥ तीराणाख्यनृपस्तत्र नेमे चरणयोर्हरेः।
कुटुम्बं राजकीयं च नेमे चरणयोर्हरेः ॥६ ॥ प्रक्षाल्य चरणौ पानं व्यधुः सर्वे कुटुम्बिनः ।
हेमहारान् रत्नहारान् मौक्तिकमणिसञ्जितान् ॥७ ॥ हरेः कण्ठे न्यधुः सर्वे परब्रह्मपरात्मनः ।
स्वागतं पुष्पमालाभिर्जयशब्दैः प्रचक्रिरे ॥८ ॥ रेण्डियारसप्तवाह्ये रथे राजा हरिं तदा ।
श्वेते निषादयामास तथाऽन्यान् वाजिवाहने ॥९ ॥ राजसैन्यैः कृतमानः प्रधानैहरिपूजितः ।
छत्रचामरशोभाढ्यो रेजे श्रीकृष्णवल्लभः ॥2.180.१ ०॥ तीराणाख्यनगर्यां वै बहुमानपुरःसरम् ।
श्रीहरिं सार्थसहितं भ्रामयामास भूपतिः ॥११ ॥ पूजयामासुरत्यर्थं प्रजाः सर्वाः स्थले स्थले ।
आमध्याह्नं प्रदायैव दर्शनं च नृपालयम् ॥१२॥ देवसभासमं चेन्द्रसौधामं प्राप वै प्रभुः ।
विश्रान्तिं च क्षणं कृत्वा स्नानादिकमथाचरत् ॥१३ ॥ दुग्धपानादिकं सर्वानकारयदति नृपः ।
कृतपूजो हरिश्चापि भोजयित्वा कुटुम्बिनः ॥१४॥ महीमानान् ऋषीन् सर्वान् ब्रह्मप्रियाश्च सेवकान् ।
स्वयं च बुभुजे स्वामिकृष्णनारायणः प्रभुः ॥१५॥ राजाद्याश्च प्रसादं श्रीहरेरापुस्तदाशुभम् ।
आरामं कृतवन्तश्च सर्वे मध्याह्नकोत्तरम् ॥१६॥ राजा कुटुम्बसहितः कृष्णपादावमर्दयत् ।
देहसंवाहनं चक्रे सेवालाभमवाप ह ॥१७॥ अथ सायं सभास्थाने विशालाऽभूत् सभा तदा ।
लक्षशो मानवा यत्र निषेदुः सन्निधौ हरेः ॥१८॥ नार्यो नराश्च परितो निषेदुस्तस्थुरित्यपि ।
अथ राजा पुपूजैनं चोपदाभिः परेश्वरम् ॥१९॥ निषसादाऽऽसने राजा पप्रच्छ विनयान्वितः ।
कथं कृष्ण कृते राज्ये बन्धनं नोपसर्पति ॥2.180.२० ॥ भवत्प्राप्त्या बन्धनानि छिन्नानीति च वेद्म्यहम् ।
तथापि बद्धभावत्वाद् यथा न बन्धनं भवेत् ॥२१ ॥ तथा शाधि महाराज कुटुम्बं वद शान्तिदम् ।
श्रुत्वैवं भगवानाह सभायां सर्वशृण्वताम् ॥२२॥ भवसागरतीरस्य प्रापकं प्रवदामि ते ।
यथा न बन्धनं मध्ये कुत्रचित् स्यात् कदाचन ॥२३॥ प्राणस्याऽन्नमिदं सर्वं नात्मनस्तु कदाचन ।
स्थावरं जङ्गमं सर्वं प्राणस्यैवास्ति भोजनम् ॥२४॥ स्थिते प्राणे तु तत्त्वानामपेक्षा वर्ष्मणि स्थिता ।
प्राणो वै प्रकृतेः कार्यं गते प्राणे न तृष्णिका ॥२५॥ मत्वैवं तु बुधो भक्ष्ये भोग्ये वर्तेत निस्पृहः ।
लुब्धवन्नैव वर्तेत विरागस्य न बन्धनम् ॥२६॥ यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु ।
वृक्षं त्यजति तत्रैव भुक्त्वा मधु ततः परम् ॥२७॥ मलं त्यजति तत्पश्चाद् देहस्त्याज्यो भविष्यति ।
इत्येवं चानुसन्धाय वर्तते न स बध्यते ॥२८॥ यथा मार्गं महान्तं वै जनस्त्वाशाशताकुलः ।
पतन् फलं न विन्देत निराशः सम्प्रजायते ॥२९॥ स्मृत्वा सर्वं तथा विज्ञश्चलं मत्वा न बध्यते ।
आपत्काले यथा शक्तजनोऽपि याति मार्दवम् ॥2.180.३० ॥ तथा वर्तेत मायायां मार्दवेन न बध्यते ।
यथा च जरया व्याप्तः शनुहस्तगतोऽपि वा ॥३ १ ॥ भोग्याशां प्रजहात्येव तथावृत्तिर्न बध्यते ।
पर्वताश्च द्रुमाश्चापि नित्यसन्न्यासयोगिनः ॥३२॥ ममकारं परित्यज्य वर्तन्ते निष्परिग्रहाः ।
तथावृत्तिः राज्यकर्ता निर्लेपो नहि बध्यते ॥३३॥ औदकाः सृष्टयः सर्वा आत्मभरणतत्पराः ।
परिग्रहं न कुर्वन्ति तथावृत्तिर्न बध्यते ॥३४॥ शृणु चात्रेतिहासं त्वं तापसानां हितावहम् ।
पुरा गृहान् परित्यज्य द्विजाः केचन वैष्णवाः ॥३५॥ वनमभ्यागमन् धीरा ब्रह्मचर्यपरायणाः ।
यतितुल्या रूपवन्तो ह्यजातश्मश्रवोऽपि ह ॥३६॥ इन्द्रो दयापरो भूत्वाऽऽबभाषे पक्षिरूपधृक् ।
अहो भवन्तो बाल्याद्वै त्यागमार्गमुपाश्रिताः ॥३७॥ कथं गता न गार्हस्थ्ये को हेतुस्त्यजनेऽनघाः ।
श्रुत्वा तदृषयः प्राहुर्निस्पृहस्य तृणं जगत् ॥३८॥ गार्हस्थ्ये वा वने वापि तस्य बन्धो न विद्यते ।
वयं वै निस्पृहास्तस्माद्वनमार्गमुपाश्रिताः ॥३९॥ प्रक्षालनाद्धि पङ्केन पङ्काऽस्पर्शो हि चोत्तमः ।
पकस्पर्शो यस्य जातस्तस्याऽपेक्षा जलस्य वै ॥2.180.४०॥ जलात्मकेन ज्ञानेन प्रक्षालनं वरं मतम् ।
यद्वा चातपयोगेन शुष्कभावो वरो मतः ॥४१ ॥ कर्दमः कृकचीभूत्वा स्वयं वियोगमाश्रयेत् ।
आराधनं हरेश्चास्त्यातपरूपं विशोधकम् ॥४२॥ यद्वा च वायुना शुष्कभावोऽपि चोत्तमो मतः ।
गुरुं वायुं समाश्रित्याऽविद्याकर्दमनाशनम् ॥४३॥ तस्माद् गुरुं महान्तं वै सन्तं वा परमेश्वरम् ।
तद्विज्ञानं समाश्लिष्य मायां विनाशयेत् सुधीः ॥४४॥ कर्माऽपि सर्वमेवैतल्लौकिकं वैदिकं च वा ।
कुर्वन्नैष्कर्म्यभावेन सिद्धिं विन्दति मानवः ॥४५॥ सिद्धिक्षेत्रमिदं पुण्यं पक्षिन् कर्मफलप्रदम् ।
देववंशान् पितृवंशान् ब्रह्मवंशान् सतो जनान् ॥४६॥ अनुसृत्यैव यत्कर्म तत्कर्म फलदं नृणाम् ।
वयं वर्तामहे ब्रह्मवंशमाश्रित्य वैदिकम् ॥४७॥ गार्हस्थ्यं चेत् तपोयुक्तं युज्यते मोक्षदायकम् ।
किन्तु विघ्नगृहं तद्वै वयं शान्ता यतस्ततः ॥४८॥ नैर्बल्ये सति सारल्यं चात्ममार्गस्य संश्रयेत् ।
सबलानां महामार्गो गार्हस्थ्यं बहुतापिनाम् ॥४९॥ न वयं प्रभवो वोढुं गृहधर्मानतो यमान् ।
साधुधर्मान् संश्रिताः स्मो यत्र श्रेयो ध्रुवं भवेत् ॥2.180.५०॥ संशये निर्णये चाद्यं त्यक्त्वा निर्णयमाश्रयेत् ।
श्रुत्वैवं वचनं तेषामृषीणां पक्षिराट् स्वयम् ॥५१॥ जगाद तान् गृहधर्मान् कठिनान् परमोत्तमान् ।
जले निमज्जितश्चापि जलस्पर्शातिरेकवान् ॥५२॥ वह्नौ तु पतितश्चापि दाहभावातिरेकवान् ।
कामधर्मे स्थितश्चापि कामनांशविवर्जितः ॥५३॥ कश्चिदेव भवेल्लोके समर्थः पुण्यावानपि ।
तादृशः स्याद् गृहस्थश्चेल्लभते श्रेय उत्तमम् ॥५४॥ त्यागेन त्वात्ममात्रस्य कल्याणं लभते जनः ।
गृहधर्मैरसङ्ख्यानां कल्याणकृद्भवेज्जनः ॥५५॥ यथा सर्वास्तु सरितो विश्रान्तिं यान्ति वारिधौ ।
तथा सर्वाणि भूतानि विश्रमन्ते गृहिगृहे ॥५६॥ त्यागवन्तो महात्मानो निस्पृहा अपि योगिनः ।
गृहधर्मस्थितान् वृक्षान् सफलानाश्रयन्ति वै ॥५७॥ परोपकरणं तत्र गृहधर्मे प्रजायते ।
अतिथीनामाश्रयो वै पक्षिणां गृहधर्मवान् ॥५८॥ अर्जितं गृहधर्मैश्च नीत्या सत्येन युक्तया ।
विभज्यैव गृही भुङ्क्ते कुटुम्बाश्रितभिक्षुकान् ॥५९॥ नृपं चागन्तुकं चाप्यनाथं पिपीलिकादिकान् ।
स्मृत्वा तेभ्यो यथायोग्यं दत्वा भुङ्क्ते गृही सदा ॥2.180.६०॥ प्रातर्देवा हि तृप्यन्ति मध्याह्नेऽतिथिभिक्षुकाः ।
ततः परं च पितरश्चान्ते वै क्षुद्रजन्तवः ॥६१ ॥ गृहिणा रन्धितं चान्नं भुञ्जते सर्वदेहिनः ।
विघसाशी गृही तस्माद् दत्वा गृह्णाति नान्यथा ॥६२॥ घसं पापं स्वात्ममात्रोदरम्भरत्वमुच्यते ।
विगतं तु घसं पापं यत्राऽन्ये यान्ति तर्पणम् ॥६३॥ यज्ञो दानं तपो होमः स्वाध्यायश्चेश्वरार्पणम् ।
षडेतानि यत्र सन्ति विघसाशित्वमेव तत् ॥६४॥ श्रेष्ठं वै सर्वधर्मेभ्यो विघसाशित्वमुत्तमम् ।
पालयित्वा च तद्धर्मं श्रेयः परममर्जयेत् ॥६५॥ लोकोऽयं भोगदस्तेषां स्वर्गोऽपि चातिसौख्यकृत् ।
ततोऽपि च फलाधिक्ये परं श्रेयो भवेदपि ॥६६॥ सर्वार्पणविधानेन प्राप्तव्यं परमं पदम् ।
नेदृशं कर्मभूमौ वै श्रेष्ठं त्वन्यद् गृहाश्रमात् ॥६७॥ अहमिन्द्रोऽस्मि यतयः कर्मणाऽऽप्तः सुरेशताम् ।
सूर्यचन्द्रादयः सर्वेऽभवन् प्राग् विघसाशिनः ॥६८॥ वर्तन्ते त्वधुना स्वर्गे विघसाशिन एव ते ।
वैकुण्ठस्थो हरिः साक्षाद् विघसाशी विराजते ॥६९॥ गोलोकेऽपि तथा कृष्णो विघसाशी विराजते ।
चतुर्भुजो वासुदेवो विष्णुश्च विघसाशनः ॥2.180.७०॥ हरो ब्रह्मा वसिष्ठाद्या विघसाशिन एव ते ।
वर्तन्ते भोगमार्गस्था अपि द्वन्द्वविवर्जिताः ॥७ १ ॥ ईश्वरार्पणधर्माणो गमिष्यन्ति परं पदम् ।
एवं वै यतयो ब्रह्म गच्छन्ति विघसाशिनः ॥७२॥ सायं प्रातर्विभज्याऽन्नं कुटुम्बेऽतिथिभिक्षुके ।
परेशे च सुरे भूते पितरि स्वजनेऽपि च ॥७३॥ अनाथे चाश्रिते भृत्ये श्वादौ चानाथके तथा ।
नार्यां गवि च सम्प्राप्ते याचके च गुरावपि ॥७४॥ दासे दास्यां कर्मचारे प्रजायां भौतिकात्मसु ।
विभज्यान्नादिकं सर्वं यथायोग्यं तु धर्मतः ॥७५॥ अवशिष्टं समश्नन्ति ये ते स्युर्विघसाशिनः ।
ते लोकगुरवो भूत्वा जायन्ते शाश्वताशिनः ॥७६॥ त्रिदिवं च महद्राज्यं प्राप्य शाश्वतवार्षिकम् ।
ईश्वरार्पणपुण्येन प्रयान्त्यपुनरागमम् ॥७७॥ तस्माद् विघसभोक्तारो भवन्ति बन्धनोज्झिताः ।
गृहधर्मान् समाश्रित्य बहवस्तत्पदं ययुः ॥७८॥ तस्माद् भवन्तो बालाश्च भवन्तु विघसाशिनः ।
एतद् विदुस्तपो विप्राः सप्तर्षयस्तथा परे ॥७९॥ इत्युक्तास्ते धर्मयुक्तं वचः श्रुत्वा यतीश्वराः ।
त्यागाश्रमं विहायैव गार्हस्थ्यं समुपाश्रिताः ॥2.180.८०॥ चक्रुः सर्वार्पणं कृष्णे विघसाशा महर्षयः ।
आत्मनिवेदनधर्माश्रयाः सर्वे ततोऽभवन् ॥८ १॥ सस्त्रीपुत्रकुटुम्बाढ्याश्चान्ते ब्रह्म ययुः पुरा ।
तस्माद् राजन् गृहधर्मः कठिनोऽपि सुखावहः ॥८२॥ परोपकारपुण्याढ्यः सत्सेवाप्रापकः सदा ।
परमेश्वरसेवादेर्लाभदः श्रेष्ठको यतः ॥८३॥ विघसाशी भवान् नित्यं वर्तयतु सहाश्रितैः ।
सर्वेन्द्रियक्रियास्वेव कृष्णं ध्यायतु मां मुहुः ॥८४॥ बन्धनं ते न वै भावि मम योगात् कदाचन ।
मम योगात् सदा शान्तिस्तव राजन् भविष्यति ॥८५॥ रक्षाऽत्र प्रतिमां मे च कुरु सर्वार्पणं मयि ।
अनन्यभक्तं त्वां भूभृत् नयिष्ये ब्रह्मधाम ते ॥८६॥ ये ये ममार्पणधर्मपरायणा जना इह ।
तेषामहं समुद्धर्ता कर्मबन्धनसागरात् ॥८७॥ इत्युक्त्वा भगवाँस्तत्र विरराम प्रजास्तु ताः ।
पुपूजुः परमात्मानं मन्त्रान् जगृहुरादरात् ॥८८॥ विघसाशिव्रतवत्यो जाताः सर्वाश्च तद्दिनात् ।
इत्येवं राधिके सभां समाप्य भगवाँस्ततः ॥८९॥ स्नानसन्ध्यादिकं चक्रे ततश्च भोजनादिकम् ।
सर्वे ते महीमानाश्च भुक्तवन्तो विशश्रमुः ॥2.180.९० ॥ राजा कुटुम्बसहितं सिषेवे निद्रितं हरिम् ।
प्रातर्बुबोध निनदैर्वाद्यानां श्रीहरिस्ततः ॥९ १ ॥ कृत्वा नित्यविधिं सिंहासने चागत्य संस्थितः ।
तावद् राजादयः सर्वे त्वायन् पूजयितुं हरिम् ॥९२॥ बहुपदा अर्पिताश्च राज्ञा तीराणकेन वै ।
तस्य राज्ञ्यस्तथा कन्याः समाजग्मुः करेषु तु ॥९३ ॥ धृत्वा पूजनपात्राणि पुपूजुः परमेश्वरम् ।
राधिके! कन्यकाः षट् च जगृहुः श्रीहरेः करम् ॥९४॥ कुमारदानमासाद्य कृतकृत्यास्तदाऽभवन् ।
अथ विश्रान्तिमासाद्य कृत्वा वै भोजनादिकम् ॥९५॥ अल्वीनरनरेशेन प्रार्थितो गन्तुमुत्सुकः ।
गिरीशर्षिवन्दितश्च सज्जोऽभवद्धरिस्तदा ॥९६॥ तदा वाद्यान्यवाद्यन्ताऽगायन्त गीतिकास्तथा ।
जयशब्दान् प्रशृण्वानः प्राप्य सत्करणादिकम् ॥९७॥ हरिर्नैजं विमानं चाध्यारुरोह तथा परे ।
आरुरुहुर्व्योममार्गे विमानान्यभवँस्तदा ॥९८॥ माङ्गलिकनिनादैश्च यन्त्रशब्दादिभिस्तथा ।
वर्धितश्चाशिषा कृष्णनारायणस्तथा परे ॥९९॥ प्रतस्थिरेऽतिवेगेन विमानैः क्षणमात्रतः ।
गिरीशाख्यां भुवं प्राप्याऽब्धियुतं राष्ट्रमुत्तमम् ॥2.180.१ ००॥ प्रसन्नोऽभूद्धरिः शृण्वन् जयशब्दान् विलोकयन् ।
अल्वीनरः पुरो गत्वा स्वागतार्थमुपस्थितः ॥१०१ ॥ एति हरिर्महाराज इति प्रजाः समुत्सुकाः ।
द्रष्टुं स्वागतमाधातुं सज्जाश्चासन् भुवस्तले ॥१ ०२॥ विलोकयन्त्यश्चाकाशं कीर्तनं चक्रुरुत्सुकाः ।
राधिकेऽक्षतपुष्पादिधृतहस्ताः स्त्रियो नराः ॥१० ३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने तीराणनृपराज्यं गत्वा तीराणानगर्यां ससैन्यस्वागतरूपेण भ्रमित्वा भोजनादि कृत्वा सायं सभायां विघसाशित्वधर्मोपदेशेन निर्बन्धनतामुक्त्वा रात्रौ विश्रम्य प्रातः पूजां प्रगृह्य भुक्त्वा सज्जो भूत्वा हरिर्द्वितीयायाम् अल्वीनरराज्यमाजगामेत्यादिनिरूपणनामाऽशीत्यधिकशततमोऽध्यायः ॥१८० ॥