१७७

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चोच्चग्रहादिकं यथा हरिः ।
क्रथकायाऽऽह तद्वच्मि तथाऽन्यदौपयोगिकम् ॥१ ॥ मेषस्याऽर्को वृषस्येन्दुर्नक्रस्य मङ्गलस्तथा ।
कन्यायाश्च बुधः कर्कराशेर्गुरुस्तथा खलु ॥२ ॥ मीनस्य शक्रस्तुलायाः शनिश्चोच्चस्थिता हि ते ।
तुलायाश्च रविर्वृश्चिकस्य चन्द्रस्तथा खलु ॥३ ॥ कर्कस्य मङ्गलो मीनस्य च बुधस्तथा खलु ।
मकरस्य गुरुः कन्यायाः शुक्रो मेषगो शनिः ॥४ ॥ नीचस्थानगता एते बोध्या नैव सुखप्रदाः ।
राहोर्गृहं तु कन्याऽस्ति मिथुनं चोच्चकालयम् ॥५ ॥ धनुर्नीचं स्थानमेव बोध्यं तथा फलं ह्यपि ।
द्विः स्वभावे स्थिरे लग्ने त्यक्त्वाऽष्टमं च द्वादशम् ॥६ ॥ स्थानमन्येषु स्थानेषु भवन्ति चेत्। शुभग्रहाः ।
एकादशे च षष्ठे तु पापग्रहा भवन्ति चेत् ॥७ ॥ गृहसौधमन्दिराणामारम्भस्तत्र शोभनः ।
लग्ने गुरौ रवौ षष्ठे सप्तमे च बुधो यदि ॥८ ॥ चतुर्थे शुक्रकः शनिस्तृतीये चेत् तदा यदि ।
गृहाद्यारम्भणं कुर्यात् शतवर्षायुरेव तत्॥९ ॥ लग्ने शुक्रे तृतीयेऽर्के षष्ठे भौमे गुरुस्त्वपि ।
पञ्चमे चेत् गृहं कुर्यात् शतद्वयायुरेव तत् ॥2.177.१ ०॥ सूर्ये चैकादशे लग्ने शुक्रे दशमगे बुधे ।
तत्र कुर्याद् गृहाद्यं चेत् शतवर्षायुरेव तत् ॥१ १॥ गुरौ तुर्ये शनौ भौमे चैकादशेऽथ चन्द्रके ।
दशमे चेद् गृहं कुर्यादशीत्यायुर्भवेद्धि तत् ॥१२॥ शुक्रे उच्चे च वा लग्ने गुरौ लग्ने वा तुर्यके ।
उच्चे चैकादशे वा च शनौ सम्पत्प्रदं गृहम् ॥१ ३॥ लग्ने स्याच्चेत् कर्कचन्द्रो गुरुः स्यात् केन्द्रके यदि ।
अन्यग्रहा उच्चराशौ मित्रराशौ च वा यदि ॥१४॥ तद्योगे मन्दिरं जातं लक्ष्मीदं शाश्वतं भवेत् ।
मीनराशेर्लग्नके च शुक्रश्च वर्तते यदि ॥१५॥ कर्कगुरुश्चतुर्थे च भवने वर्तते यदि ।
तुलाशनिश्च वैकादशके भवनके भवेत् ॥१६॥ प्रारब्धं तु गृहं लक्ष्मीप्रदं चिरायुरेव तत् ।
सर्वे ग्रहा द्वादशे चाष्टमे स्थाने न शोभनाः ॥१७॥ केन्द्रत्रिकोणधनुर्गाः पापग्रहा न शोभनाः ।
लग्नचन्द्रो बुधयुक्तश्चापि नैव स शोभनः ॥१८॥ अष्टमस्थः चन्द्रमाः स शोभनो नैव नैव च ।
सर्वे ग्रहा भवेयुश्च नीचांशे तत्र निर्मितम् ॥१ ९॥ गृहं वै निर्धनं स्याच्च तत्र कार्यं न सर्वथा ।
कोऽप्येकश्च ग्रहः शत्रग्रहस्य नवमांशके ॥2.177.२०॥ स्थितोऽपि दशमे वा सप्तमे स्याच्चेत् तथा पुनः ।
लग्नेशो यदि वै निर्बलो भवेत् तत्र मन्दिरम् ॥२ १ ॥ कृतं वर्षान्तरे स्यात् तत्परहस्तगतं ध्रुवम् ।
लग्नस्वामी जन्मस्वामी राशिस्वामी च यो ग्रहः ॥२२॥ तथा चन्द्रो गुरुः शुक्रश्चैतेऽनस्तगता यदि ।
तथा स्वोच्चस्थले स्वक्षेत्रके स्वांशे भवन्ति चेत्॥२३॥ तदाऽऽरब्धं गृहं सौख्यश्रीप्रदं जायते सदा ।
अथ प्रतिष्ठासमये सूर्यश्चेल्लग्नकुण्डले ॥२४॥ त्रिषड्दशैकादशेषूपचयस्थानकेषु चेत्॥ भवेच्छ्रेष्ठस्तथैव स्याच्चन्द्रोऽप्युक्तस्थलेषु चेत्॥२५॥ धनुर्धर्मस्थानयुक्षु भवेच्छ्रेष्ठस्तथाविधः ।
भौमः शनिस्तृतीये चैकादशे षष्ठके शुभाः ॥२६॥ बुधो गुरुर्द्वादशाष्टभिन्नस्थानेषु वै शुभौ ।
एकद्वात्रचतुःपञ्चनवस्थानेषु चेत् कविः ॥२७॥ दशैकादशयोश्चापि वर्तते श्रेष्ठ एव सः ।
पापग्रहाः रविर्भौमः शनिश्च राहुकेतुकौ ॥२८॥ आद्येऽष्टमे पञ्चमे सप्तमे चेत् स्युस्तदा च ते ।
तथा शुभग्रहाः स्युरष्टमे शशी तथाऽऽद्यके ॥२९॥ षष्ठेऽष्टमे भवेत् कुण्डलीग्रहास्त्याज्यका इमे ।
सिंहलग्ने सूर्यदेवप्रतिष्ठा तु शुभा मता ॥2.177.३ ०॥ हरस्य मिथुने कन्यालग्ने विष्णोर्ममापि च ।
कुम्भे तु ब्रह्मणश्चरलग्ने क्षुद्रसुरस्य च ॥३ १॥ योगिनीनां तथा लग्ने चरे वै स्थापनं मतम् ।
लग्ने तु द्विस्वभावे देवीनां सुस्थापनं वरम् ॥३२॥ स्थिरे लग्ने सर्वदेवप्रतिष्ठा चोत्तमा मता ।
प्रतिष्ठाकुण्डले चाद्यभवने मृत्युदः शशी ॥३३॥ द्वितीये तु धनुःस्थाने धान्यवृद्धिप्रदः शशी ।
पराक्रमे तृतीये तु क्लेशदो वै भवेच्छशी ॥३४॥ पञ्चमस्थः शशी गोत्रसन्तानक्षयकारकः ।
शत्रुतो भयदः षष्ठे सप्तमे दुःखदः शशी ॥३५॥ अष्टमे मृत्युदो विघ्नप्रदश्च नवमे शशी ।
दशमे बलदश्चैकादशस्थो धनदः शशी ॥३६ ॥ द्वादशस्थो व्ययकारी बोध्यश्चन्द्रो हि कुण्डले ।
शुभोऽपि चन्द्रमाः पापग्रहात् चेत् सप्तमे स्थले ॥३७॥ अशुभः स्यात्तथा पापग्रहयुक्तोऽप्यशुद्धकः ।
तथा पापग्रहमध्येऽशुभः क्षीणोऽप्यशुद्धकः ॥३८॥ नीचगश्च शनुवर्गगश्चाप्यशोभनो भवेत् ।
यदि चन्द्रो गुरुदृष्ट्या युक्तश्चेत् शुभको भवेत् ॥३९॥ स्वकर्कराशिगः स्याद्वा उच्चगो वा शुभो भवेत् ।
शुभग्रहनवांशस्थः स्वाधिमित्रनवांशगः ॥2.177.४०॥ भवेद्वापि तदाऽशुभः शशी स्याच्छुभ एव सः ।
चन्द्राच्चाद्ये चतुर्थे सप्तमे च दशमे स्थले ॥४१ ॥ यदि क्रूरो ग्रहः स्यात् तत्क्रमात् योगास्त्विमेऽशुभाः ।
आपीडा चापि सम्पीडा भृग्वाद्या वर्तिता तथा ॥४२॥ तत्र कार्ये कृते स्वस्य बन्धोर्नार्याश्च कर्मणः ।
चतुर्ण्णां वै विनाशः स्यात् तत्र कार्यं न चारभेत् ॥४३ ॥ यत्र राशौ भवेच्चन्द्रस्तत्र क्रूरग्रहोऽपि चेत् ।
तदा युतिर्भवेद्दोषस्त्याज्यः शुभे तु कर्मणि ॥४४॥ बुधेन गुरुणा युक्ते चन्द्रे दोषो युतिर्न वै ।
अब्दाऽयनर्तुमासर्क्षपक्षदग्धाहसम्भवाः ॥४५॥ अन्धकाणादिलग्नोत्थाः सपापेन्दुनवांऽशजाः ।
दोषा नश्यन्ति गुरुज्ञशुक्रैः केन्द्रत्रिकोणगैः ॥४६ ॥ कुनवांऽशग्रहोद्भूताः षड्वर्गक्षणलग्नजाः ।
शशिन्येकादशे दोषाः सर्वे नश्यन्ति तद्बलात् ॥४७॥ लग्ने वर्गोत्तमे वेन्दौ रवौ चैकादशेऽथवा ।
केन्द्रे कोणे गुरुः स्याच्चेत् दोषा नश्यन्ति तद्बलात् ॥४८॥ त्यक्त्वा वै सप्तमं स्थानं केन्द्रे त्रिकोणके बुधः ।
शतदोषानपि हन्ति तेषु शुक्रः शतद्वयम् ॥४९॥ तेषु गुरुर्लक्षदोषान् हन्ति कार्यं शुभं भवेत् ।
लग्नेशो लग्नके स्याद्वा नवांशे वा भवेद् यदि ॥2.177.५०॥ एकादशे वा केन्द्रे वा सर्वदोषविनाशकृत् ।
लग्नबले चोत्तमे कुयोगा न दोषदाः क्वचित् ॥५१ ॥ शुक्लाद्यदिवसाद् गणयित्वा वै तिथिसङ्ख्यकाम् ।
रवेर्वाराद् वारसङ्ख्यामश्विन्या ऋक्षसङ्ख्यकाम् ॥५२॥ तदङ्कसङ्ख्याः सम्मिश्र्य भङ्क्तव्यास्तुर्यसङ्ख्यया ।
एकशेषे स्थिता पृथ्वी गृहारम्भे कलिप्रदा ॥५३॥ द्विःशेषे क्षितिरासीना शुभा त्रिःशेषकेऽपि च ।
शून्ये शेषे जाग्रती सा गृहारम्भे त्वनिष्टदा ॥५४॥ एवं विलोक्य सर्वं वै क्रथकाऽत्र सुमन्दिरम् ।
प्रकारय ममार्थं त्वं पूजासेवादिलब्धये ॥५५॥ इत्युक्त्वा विररामेशः परेशः कृष्णवल्लभः ।
क्रथकस्तद् वचो धृत्वा पुपूज परमेश्वरम् ॥५६॥ रोमायनस्तथा चान्ये पुपूजुश्च प्रजाजनाः ।
हरिं च नगरे तत्र भ्रामयामासुरुत्सुकाः ॥५७॥ यानवाहनवाद्याद्यैर्मङ्गलैः स्वागतादिभिः ।
उपदाभिरनन्ताभिरर्चयामासुरच्युतम् ॥५८॥ हरिः सर्वं ददौ तत्र रोमायनमहात्मने ।
प्रजाभ्यश्च ददौ प्रासादिकं राज्ञे कुटुम्बिने ॥५९॥ नगरीं पावनीं कृत्वा हर्म्याणि श्रेष्ठिनां तथा ।
आगत्य राजसौधं च भोजनं स उपाददे ॥2.177.६ ०॥ सर्वे ते भोजनं चक्रुस्ततो नृपस्य कन्यकाः ।
पञ्च दिव्यात्मवेत्त्र्यश्च हरेस्तु जगृहुः करम् ॥६ १॥ कुमारदानं मध्याह्ने ह्यभूत् ताश्च ततः परम् ।
कुमारेण समं राज्यान्निर्ययुर्हरिणा सह ॥६२॥ विमानेनर्षयः सर्वे लोमशाद्या हरिप्रियाः ।
ब्रह्मप्रियास्तथा सर्वे विदायं प्राप्य निर्ययुः ॥६ ३॥ प्रस्थापिताश्च राज्ञा ते राजमानपुरःसराः ।
कृपास्थलाद्रिनृपतिपृथुना प्रार्थितास्ततः ॥६४॥ पृथुना भूभृता साकं कृपास्थलर्षिणा तथा ।
प्रजाजनैर्युतः कृष्णनारायणो विहायसा ॥६५॥ मार्गेण दिव्ययानेन राजधानीं जरस्थलीम् ।
व्योम्ना विलोकयामासू राधिकेऽरण्यशोभिताम् ॥६६॥ कृतस्वागतशोभाढ्यां पृथापगातटस्थिताम् ।
वीक्ष्य प्रजा विमानं च चक्रुर्जयेतिघोषणाम् ॥६७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उच्चनीचग्रहफलं, प्रतिष्ठाने लग्नकुण्डलीस्थग्रहाणा फलं, चन्द्रफलम्, आपीडादियोगाः, युतिदोषः, लग्नबलं, पृथिवी
सुप्तेत्यादिपरीक्षा, ततो नगरीभ्रामणं पूजनं विदायं, पृथुराजधानीं जरस्थलीमागमनं चेत्यादिनिरूपणनामा सप्तसप्तत्यधिकशततमोऽध्यायः ॥१७७ ॥