१७१

श्रीकृष्ण उवाच-
राधिके तत्र नित्यं वै रात्रौ जनसमाजके ।
लक्ष्मीनारायणसंहिताकथा जायते शुभा ॥१ ॥ सनत्कुमारो भगवान् स्वयं वाचयति प्रभुः ।
श्वेतकृष्णायनव्यासः कथां विवेचयत्यपि ॥२ ॥ श्वेतव्यासस्य नाम्ना च श्वेतासनं तदुच्यते ।
स्थलं तीर्थस्वरूपं तज्ज्ञानविज्ञानदं सदा ॥३ ॥ यवक्रीतो महर्षिश्च गाङ्गेयो यत्र वै स्थले ।
क्षारस्य कवलं भुक्त्वा तपस्तेपे सुदारुणम् ॥४ ॥ क्षारकवलसञ्ज्ञं तत्पावनं तीर्थमुत्तमम् ।
तत्र स्थल्यां समभवत् प्रसिद्धं मोक्षदं सदा ॥५ ॥ तन्नाम्ना स प्रदेशोऽपि शतयोजनविस्तृतः ।
कृष्णवार्धिप्रपर्यन्तं निस्तारां यावदेव ह ॥६ ॥ यवक्रीतः प्रसिद्धोऽभूत् निष्ठापरातटाश्रयः ।
यवक्रीतो महर्षिः स वेदकर्मपरायणः ॥७ ॥ एकादश्यां तु मध्याह्ने बालकृष्णं जगाद ह ।
हरेऽभिजिन्मुहूर्तेऽत्र पूर्णाहुतीः प्रदेहि वै ॥८ ॥ लोमशस्तत्तथा श्रुत्वाऽनुमत्या श्रीहरेस्तथा ।
ददौ पूर्णाहुतीस्तत्र परब्रह्मात्मवह्नये ॥९ ॥ ताम्बूलफलपूगीफलाऽक्षतघृतकानि च ।
श्रीफलं च स्रुवे कृत्वा ददौ पूर्णाहुतीर्हरिः ॥2.171.१ ०॥ ओं समुद्रादितिमन्त्रान् पूर्णादर्वीतिबोधितान् ।
ऋषिभिर्वाच्यमानाँश्च श्रुत्वा पूर्णाहुतीर्ददौ ॥११ ॥ इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः
शतक्रतवे अद्भ्यश्च नमम ।
इदं त्रिदिवेभ्य ईशेभ्योऽवतारेभ्यः शक्तिभ्यः
परब्रह्मणे स्वाहा नमम ॥१२॥ इदं सप्ततलस्थेभ्यो भूस्थेभ्यश्चतुर्भ्यो
जडचेतनेभ्यः स्वाहा नमम ।
इदं सप्तस्वर्भ्यश्चाष्टावृतिस्थेभ्य
ईशानान्तेभ्यो धामिभ्यः स्वाहा नमम ॥१३॥ इदं च ब्रह्मणे स्वाहा स्वाहा च परब्रह्मणे ।
एकस्मै चाऽद्वितीयाय मह्यं स्वाहा च ओं नमम ॥१४॥ इत्युक्त्वा श्रीबालकृष्णो महापूर्णाहुतीर्ददौ ।
श्रीफलानि ह्यसङ्ख्यानि सहस्रघृतधारिकाः ॥१५॥ चन्दनानि समिधश्च मिष्टमहाहुतीर्ददौ ।
साक्षादनादिभगवान् प्रत्यक्षो वह्निमण्डले ॥१६॥ प्रत्यहात् सविशेषेण हसन् जग्राह चाहुतीः ।
सर्वकुण्डेषु च तद्वज्जग्राह युगलार्पिताः ॥१७॥ दक्षिणाश्च तदाऽसङ्ख्याः स्वर्णमयीर्ददौ प्रभुः ।
मणिमौक्तिकहीरादीन् रत्नानि विविधान्यपि ॥१८॥ एवं पूर्णाहुतीर्हुत्वा विप्रास्तु वेदपारगाः ।
आशीर्वादान् ददुस्तत्र यजमानाय मन्त्रकैः ॥१९॥ शान्तिघटोदकैर्विप्राः कुशदूर्वाऽऽम्रपल्लवैः ।
पुनन्त्वित्यादिभिश्चाभिषिञ्चाम इति वादिनः ॥2.171.२०॥ ततः शान्तिप्रवाचश्चोचिरे विप्राः समन्ततः ।
दक्षिणाश्च पुनः प्राप्ताः स्वस्तिवाचो जगुस्तदा ॥२ १ ॥ हुताशनादिदेवाँश्च निजस्थानविदायकम् ।
ददुर्विप्राः पूर्णताया वाचस्ततोऽवदन् सुखाः ॥२२॥ यज्ञप्रसादं सर्वेभ्यश्चरुजं पद्मरेखया ।
वृद्धिं यान्तं चाऽव्ययं च ददौ कृष्णनरायणः ॥२३॥ कोट्यब्जरूपधारी च ददौ सर्वत्र माधवः ।
विना चरुप्रसादं वै कश्चित्तदा न शिष्यते ॥२४॥ अन्तरीक्षेऽम्बरे व्योम्नि जले स्थले वने क्षितौ ।
गह्वरे प्रान्तके भागेऽरण्ये वृक्षे च पर्वते ॥२५॥ विमाने वाहने याने नौकायां शिखरेऽपि च ।
असङ्ख्यरूपधृक्कृष्णो ददौ चरुप्रसादकम् ॥२६॥ ततो वै भोजयामास सर्वान् वै महीमानकान् ।
प्राघूणिकान् महामुक्तान् मुक्तान् धामानि धामिनः ॥२७॥ ब्रह्मप्रियाश्च मुक्तानी राधारमादिकास्तथा ।
अवतारान् सर्वनारायणान् श्रीपरमेश्वरान् ॥२८॥ व्यूहान् प्रकृतिपालाँश्च कालपुरुषकेश्वरान् ।
वैराजान् भूमसञ्ज्ञाँश्च महाविष्णुगणाँस्तथा ॥२९॥ त्रिदेवानावरणेशान् तत्पत्नीदासिकास्तथा ।
भृत्याँश्च पार्षदाँश्चापि पार्षदानीः समन्ततः ॥2.171.३ ०॥ भोजयामास भगवान् ब्रह्मसृष्टीशसृष्टिजान् ।
ततः सिद्धानृषीन् साधून् पितॄन् सतीश्च योषितः ॥३ १ ॥ पञ्चस्वर्गस्थितान् सर्वान् देवान् देवीः कुटुम्बिनः ।
ब्रह्मचारिगणाँश्चापि दिक्पालान् लोकपालकान् ॥३२॥ त्रयस्त्रिंशद्देवताश्च भुवर्लोकनिवासिनः ।
भूलोकस्थान् चतुःखनिजीवान् जडाँश्च चेतनान् ॥३३ ॥ सप्तपातालसंस्थाँश्च भोजयामास माधवः ।
सुराऽसुरगणान् सर्वान् काश्यपेयाँश्च मानवान् ॥३४॥ ब्रह्मसृष्टान् स्थिरचरान् गुणकर्मतदाश्रितान् ।
तदाश्रयाँश्च भगवान् भोजयामास वै क्रतौ ॥३५॥ अद्याऽहं भगवानस्मि भोजयामि च निर्गुणम् ।
एकादशीदिने चापि फलवत् सर्वमेव मे ॥३६॥ मत्स्पृष्टं निर्गुणं सर्वं भुञ्जन्तु भावतोऽखिलाः ।
भोजनं वै व्रतं त्वद्य मदिच्छयैव जायताम् ॥३७॥ इत्येवं भगवानाह बालकृष्णस्तु राधिके ।
सर्वान् सम्भोज्य च ततः स्वयं पित्रा युतस्तथा ॥३८॥ भ्रातृभिश्च कुटुम्बेन सह भोजनमाददे ।
माता च मातरश्चान्या स्वसा सन्तोषिणी तथा ॥३९॥ ब्रह्मप्रियाश्च वै सर्वाः कुटुम्बं बुभुजे तदा ।
ताम्बूलं प्राप्य च सर्वे विश्रामं चक्रुरीश्वराः ॥2.171.४०॥ ततो वाद्यान्यवाद्यन्त ह्यगायन्त च गीतिकाः ।
अवभृथाप्लवनार्थं सर्वे वै यत्निनोऽभवन् ॥४१॥ निष्ठापराप्रपीठायाः सङ्गमेऽनन्तमानवाः ।
देवा मुक्ता ईश्वराश्चावताराः शक्तयोऽखिलाः ॥४२॥ सृष्टित्रयनिवासाश्चर्षयः सत्यश्च साधवः ।
प्रययुर्भगवान् सर्वेश्वरेश्वरेश्वरेश्वरः ॥४३॥ पद्भ्यां जगाम सहितो महर्षिभिश्च कीर्तितः ।
वेदमन्त्रैः स्तूर्यमानोऽवभृथार्थं नदीतटम् ॥४४॥ तस्थौ च सङ्गमे बालकृष्णनारायणः प्रभुः ।
सङ्कल्पं कारयामास लोमशस्तु पुरातनः ॥४५॥ चतुर्मुखाऽजब्रह्माण्डे सृष्ट्यारम्भे कृतान्तगे ।
प्रथमे पर्यये श्रीमत्काम्भरेये नरायणे ॥४६॥ वर्तमाने वत्सरे च चतुर्दशेऽत्र भूतले ।
सर्वाद्यनररूपेऽस्मिन्नवतारिणि वर्तति ॥४७॥ श्रावणे शुक्लपक्षीयैकादश्यां सूर्यवासरे ।
निष्ठापराप्रपीठासङ्गमे यज्ञान्तकं त्विदम् ॥४८॥ अवभृथात्मकं स्नानं सर्वपापविशोधकम् ।
अध्वरे नान्तरीयकाघानां क्षालनशक्तिकम् ॥४९॥ सर्वपुण्यप्रदं सर्वाऽज्ञातकल्मषवारकम् ।
सूक्ष्मजन्तुबीजकाष्ठकणपुष्पकलार्पणे ॥2.171.५० ॥ वह्नौ समर्पणे भूमेः शोधने मण्डपकृतौ ।
रसशालास्थले चूल्ल्यां कण्डन्यां जलकुम्भके ॥५१॥ पेषण्यां मार्जने चापि पत्रदलावभेदने ।
दुरीतं प्रत्यवायादि यत्किञ्चिज्जातमित्यपि ॥५२॥ तस्य नाशकरं स्नानं कृष्णनारायणः प्रभुः ।
यज्ञकर्मप्रपूर्त्यर्थं सुरप्रसन्नतार्थकम् ॥५३॥ परमाऽपूर्वपुष्ट्यर्थं त्ववभृथाप्लवात्मकम् ।
स्नानं सृष्टित्रयोपेतः करोम्यद्य च ओं नमः ॥५४॥ इति कृत्वा सुसङ्कल्पं भगवान् पुरुषोत्तमः ।
राधिके स जले मग्नोऽभवन्निर्गवै पुनः ॥५५॥ स्नानाङ्गं तर्पणं चक्रे स्मृत्वा सृष्टित्रयं तदा ।
शरीरे मर्दनं चक्रे तिलपिष्टेन वै तदा ॥५६॥ आमलकीफलचूर्णैस्तीर्थमृदा च भस्मना ।
यज्ञकुण्डीयकेनैव हरिद्राचूर्णकेन च ।
चन्दनेन च कस्तूर्या यवपिष्टादिना तथा ॥५७॥ पञ्चरङ्गैस्तथा चूर्णैः सर्वौषिधीभिरित्यम्पि ।
पञ्चगव्येन च तथा सुवर्णतीर्थवारिणा ॥५८॥ ब्रह्मकमण्डलुद्वाराऽभिषेधविधिना तदा ।
सम्मृद्य सर्वचूर्णानि चक्रे स्नानमवभृथम् ॥५९॥ यदा स्नातो महाराजस्तदा तत्र तु सागराः ।
ब्रह्मह्रदः सुधासिन्धुर्विरजा च महाजलम् ॥2.171.६०॥ नारा आपस्तथा नद्यो नदाः सरांसि दीर्घिकाः ।
व्योमवारि तथा मेघा जलं दिव्यं च पाण्डुरम् ॥६१ ॥ वारुणं च महातीर्थं महाभूतजलं तथा ।
साधिदैवानि सर्वाणि तीर्थानि तत्र चाययुः ॥६२॥ स्नपयामासुरत्यर्थं भगवन्तं हि धारया ।
मुक्ता धामान्यवतारा अवतारिण्य इत्यपि ॥६३ ॥ शक्तय ईश्वरा ईश्वराण्यो ब्रह्मप्रियास्तथा ।
पितरो देवदेवेशाः ऋषयः सिद्धसाधवः ॥६४॥ आश्रमाः सर्ववर्णाश्च नरा नार्यो नपुंसकाः ।
जरायूजाश्चाण्डजाश्चोद्भिज्जाः स्वेदजजातयः ॥६५॥ दैत्याश्च दानवा यक्षा राक्षसा वह्नयस्तथा ।
पार्थिवाश्च जलीयाश्च तैजसा वायुदेहिनः ॥६६ ॥ गगनीयास्तलवासाश्चेतनाश्च जडास्तथा ।
सर्वे सस्नुस्तत्र तीर्थेऽवभृथे पुण्यवारिधौ ॥६७॥ दिव्ययोगे दिव्यगुणे निर्गुणे दिव्यकारिणि ।
पुष्पचन्दनवृष्टिश्च तदा तत्राऽभवच्छुभा ॥६८॥ आकाशाद् देवगुरवः पावनान्यवदँस्तदा ।
पावयन्तु परब्रह्म ब्रह्माऽक्षरनिवासिनः ॥६९ ॥ धामधामस्थिता भक्ता भक्तेश्वराऽवतारिणः ।
अवताराः पार्षदाश्च पावयन्तु तथेश्वराः ॥2.171.७०॥ ईश्वराण्यो महासत्यः पावयन्तु सुरेश्वराः ।
यजमानं यजमानान् पावयन्तु महर्षयः ॥७१ ॥ स्वभावपावनं देवं महानारायणं सुराः ।
पावयन्तु च तीर्थानि चावभृथाऽऽगतानि वै ॥७२॥ गङ्गा चेरावती मेनकाङ्गी च ब्रह्मपुत्रिका ।
अङ्गशिक्षाङ्गिका हराङ्गहा आयूरिका तथा ॥७३॥ बीना यानेश्वरी चौबी सिन्धुश्चोरलिका तथा ।
वल्गुर्निष्ठापरा दीना दिनपाद्याः सरिद्वराः ॥७४॥ नारायणी नष्टजरा कर्माङ्गी जाम्बुजा नदी ।
मुरा च कारुलिङ्गा च परीना आमजानिका ॥७५॥ मिश्रसुरी महाकाञ्जी यूकासना सरिद्वरा ।
एताश्चान्या महानद्यः पावयन्तु मखेष्टिनः ॥७६ ॥ अश्वपट्टं पुष्करं मानसं नारायणंसरः ।
पम्पासरश्चेन्द्रद्युम्नसरो ब्रह्मसरोवरम् ॥७७॥ शम्भुलं च सरश्चिलंसरः कोलारकंसरः ।
माकमानसरो बालासरश्च माङ्गिरासरः ॥७८॥ लाभरुचिसरः सरः कुवनं ग्रागिरं सरः ।
आरसरस्तुरुसरो गैरानरसरस्तथा ॥७९॥ सुशीलं च सरो मीनकङूसरस्तथा शुभम् ।
बालकृष्णसरश्चापि द्विकलं च सरोवरम् ॥2.171.८०॥ युगलं च सरस्त्र्यङ्गिनरसरोवरं तथा ।
फुलमण्डसरश्चापि लुरासं च सरस्तथा ॥८ १ ॥ मशकेलसरश्चापि जयेशानसरस्तथा ।
उद्वशं च सरश्चापि योनिगं च सरस्तथा ॥८२॥ लेण्डुगं च सरश्चापि पायूशं च सरोवरम् ।
तूनायं च रुक्मवासम् आवालं च रुदन्फलम् ॥८२॥ विश्तुरीयसरश्चापि आलवार्तं सरस्तथा ।
इतिवर्त्तं सरः किम्वासरश्च तुङ्गयानिकम् ॥८४॥ माधुरं वाग्वियालं च सरो न्यासजयात्मकम् ।
शिरोवं चण्डसञ्ज्ञं च ग्रातवीरं सरस्तथा ॥८५॥ ग्रातश्लवसरश्चापि अर्थवासं सरस्तथा ।
विनिपारं सरश्चापि सुपरीयारकं तथा ॥८६॥ क्लिन्नवारिसरश्चापि इतीशं सरोवरम् ।
शोणभद्रनदश्चापि घर्घरानद इत्यपि ॥८७॥ सागराश्चापि सर्वेऽत्र पावयन्तु च देहिनः ।
पुनन्तु देवसरितः पुनन्तु तीर्थकोटयः ॥८८॥ मेरुर्मन्दरशैलश्च हिमाद्रिर्युरलस्तथा ।
कारुकर्मा पतत्कायो रैवताद्रिः पुनन्तु वः ॥८९॥ इत्येवं च शतक्रोशे सरित्सागरवारिषु ।
सस्नुः सर्वे च राजानो मखेषु यजमानकाः ॥2.171.९०॥ तत्र तत्रैकपुरुषो दिव्यस्तु सूर्यभास्वरः ।
नद्योस्तु सङ्गमात्तत्र समुत्पन्नो हरिर्यथा ॥९१ ॥ हस्ते सौवर्णपात्रे च दधन् चन्दनकाक्षतान् ।
पुष्पमालां च मुकुटं बालकृष्णं समाययौ ॥९२॥ पूजयामास विधिना चन्द्रकं प्रचकार सः ।
हरेर्भालेऽक्षताद्रैः कुङ्कुमचन्दनकर्दमैः ॥९३ ॥ ददौ तु मुकुटं कृष्णमस्तके मालिकां गले ।
चकार दण्डवत्तत्र बालकृष्णं जगाद ह ॥९४॥ सर्वेषां शृण्वतां मेघनादगम्भीरया गिरा ।
अवभृथोऽहं पुरुषो यमपुत्रोऽस्मि शाश्वतः ॥९५॥ सर्वेष्टिवैष्णवो यज्ञः पूर्णोऽयं पूर्णपुण्यदः ।
अहं पुष्टिं गतोऽस्म्यद्य सर्वतीर्थागमादिह ॥९६ ॥ अत्र स्नानं प्रतिवर्षं कुर्वाणानां तु शाश्वतम् ।
मोक्षपदं निश्चितं स्यान्नारायणकृपालवात् ॥९७।)।
सर्वे भवन्तु सुखिनः श्रिया द्रव्यैश्च सम्पदा ।
आरोग्येण कुटुम्बाद्यै रसैर्भोग्यैः प्रपूरिताः ॥९८॥ योगिनः क्षेमिणश्चापि भवन्तु सिद्धिधारिणः ।
नराः नार्यः समस्ताश्च येऽत्र मखे समागताः ॥९९॥ भुक्तिमुक्तिकृताह्लादा भवन्तु हरिसदृशाः ।
इत्युक्त्वा च जलं त्ववभृथौ पपौ हि राधिके ॥2.171.१० ०॥ तावज्जलात्समुत्पन्ना कुमारी चन्द्रभास्वरा ।
सुरूपा सर्वशोभाढ्या पुष्टा चम्पकशोभना ॥१०१ ॥ योग्या प्रसन्ना सुमुखी लक्ष्मीतुल्या सभूषणा ।
हस्ते पात्रं पूजनार्हद्रव्ययुक्तं च बिभ्रती ॥१० २॥ अक्षताद्यैः परमेशं बालकृष्णं पुपूज सा ।
तां दृष्ट्वा मुमुहुः सर्वे कोटिशो मानवा अपि ॥१०३ ।
देवा दैत्याः ऋषयश्च पितरो देहधारिणः ।
बालकृष्णं हरिं नत्वा पूजयित्वा जगाद सा ॥१ ०४॥ अहं तृप्तिः शाश्वती च हव्यपुत्री भवामि च ।
यज्ञेऽत्र सर्वहव्येभ्यो मम जन्माऽस्ति पुण्यवत् ॥१ ०५॥ कुमार्यहं सुसन्तुष्टा जाताऽस्मि च शुभाशिषा ।
युनज्मि वो भवन्तोऽत्र भवन्तु सुखिनः सदा ॥१०६ ॥ मम सौभाग्यदातारो भविष्यन्ति सुभागिनः ।
श्रीहरिस्तां तदा प्राह वरं याचस्व कन्यके ॥१ ०७॥ कन्या प्राह वरं देहि वरश्चावभृथो हि मे ।
श्रीहरिर्द्राक् विचार्यैव दानकाले ह्यवभृथम् ॥१ ०८॥ कुमारं तं समाहूय करे धृत्वा कुमारकम् ।
कन्यायै चार्थितवत्यै चार्थयन्तं कुमारिकाम् ॥१ ०९॥ ददौ कुमार्यै दानं च विधिना दानवित् प्रभुः ।
कुमारदानं प्रददौ कुमार्यै भगवान् प्रभुः ॥2.171.११० ॥ कुमारो रत्नहारं च कुमार्यै च समार्पयत् ।
एवं विवाहविधिना कुमारदानमाप्य सा ॥१११ ॥ कुमारी सौभाग्यवती कुमारः सुभगोऽभवत् ।
केतुमाले तदारभ्य कुमारदानमुत्तमम् ॥११ २॥ नारी प्रधानभूता च कुमारो नार्यधीनकः ।
नारीवर्चस्वमेवाऽपि नरस्य पारवश्यता ॥११३ ॥ अवभृथकृतं जातं नार्यै समर्पणं सदा ।
नारीराज्यं हि तत्सर्वं तन्माहात्म्येन विद्यते ॥१ १४॥ इत्येवं नरदानाख्यं सङ्गमे स्नानसङ्गमे ।
उत्सवे तत्र कृत्वैव निर्ययुश्च जलाद् बहिः ॥१ १५॥ सर्वे वै स्नानकर्तारस्तावत्तु दम्पतीद्वयम् ।
नृत्यं कुर्वत् प्रसन्नं च जलान्तरे व्यलीयत ॥११६ ॥ इत्येवं लोकयामासुर्महाश्चर्यं मखार्थिनः ।
ददौ दानानि च तदा कोटिशो मानवादयः ॥१ १७॥ कन्याभ्यः कोटिसङ्ख्याभ्यः कुमाराणां यथाकृतम् ।
कन्यकास्तु तदा प्राप्य कुमारान् वररूपिणः ॥१ १८॥ कोटिशस्तत्र सञ्जाताः सौभाग्यभाग्यशोभिताः ।
एवं कुमारदानं वै विवाहे तत्र चाद्यजम् ॥११ ९॥ अभवत् तत् सदा तत्र विद्यते शाश्वतो विधिः ।
कुमारैश्च समं पृथ्वीगृहगोस्वर्णदानकम् ॥2.171.१ २०॥ ददुर्वै पितरस्तेषां वधूटीभ्यो मुदान्विताः ।
एवं चावभृथं कृत्वा दत्वा दानानि कोटिशः ॥१२१ ॥ स्वं स्वं स्थानं ययुः सर्वे विशश्रमुश्च मन्दिरे ।
वादित्राणां निनादाश्च तदा शान्तिमुपागमन् ॥१२२॥ इत्येवं राधिके महाश्चर्यं यत्ते निवेदितम् ।
श्रवणात्पठनादस्य स्मरणाच्छ्रावणादपि ॥१२३ ॥ अवभृथफलं प्राप्य कुमारदानजं फलम् ।
लभेत् भुक्तिं तथा मुक्तिं सौभाग्यं शाश्वतं लभेत् ॥१२४॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रत्यक्षहरिर्महापूर्णाहुतीर्जग्राह, सर्वेषां भोजनानि, अवभृथस्नानं, अवभृथात्मककुमारप्राकट्यम्, तृप्तिरूपकुमारी
प्राकट्यम्, कुमार्यै वरं याचमानायै अवभृथाख्यस्य कुमारस्य दानम्, विवाहविधौ कुमारदानानि, महादानानि, स्वस्वस्थानेषु विश्रान्तिश्चेत्यादिनिरूपणनामैकसप्तत्यधिकशततमोऽध्यायः ॥१७१ ॥